अथैकादशोऽध्यायः
ध्रुवोपाख्यानम्
श्रीपराशर उवाच
प्रियव्रतोत्तानपादौ मनोः स्वायम्भुवस्य तु ।
द्वौ पुत्रौ तु महावीर्यौ धर्मज्ञौ कथितौ तव ॥१॥
तयोर् उत्तानपादस्य सुरुच्याम् उत्तमः सुतः ।
अभीष्टायाम् अभूद् ब्रह्मन् पितुर् अत्यन्तवल्लभः ॥२॥
सुनीतिर् नाम या राज्ञस् तस्यासीन् महिषी द्विज ।
स नातिप्रीतिमांस् तस्याम् अभूद् यस्या ध्रुवः सुतः ॥३॥
राजासनस्थितस्याङ्कं पितुर् भ्रातरम् आश्रितम् ।
दृष्टोत्तमं ध्रुवश् चक्रे तम् आरोढुं मनोरथम् ॥४॥
प्रत्यक्षं भूपतिस् तस्याः सुरुच्या नाभ्यनन्दत ।
प्रणयेनागतं पुत्रम् उत्सङ्गारोहणोत्सुकम् ॥५॥
सपत्नीतनयं दृष्ट्वा तम् अङ्कारोहणोत्सुकम् ।
स्वपुत्रं च तथारूढं सुरुचिर् वाक्यम् अब्रवीत् ॥६॥
क्रियते किं वृथा वत्स महान् एष मनोरथः ।
अन्यस्त्रीगर्भजातेन ह्यसम्भूत ममोदरे ॥७॥
उत्तमोत्तमम् अप्राप्यम् अविवेको हि वाञ्छसि ।
सत्यं सुतस् त्वम् अप्यस्य किन्तु न त्वं मया धृथः ॥८॥
एतद् राजासनं सर्वभूभृत्संश्रयकेतनम् ।
योग्यं ममैव पुत्रस्य किम् आत्मा क्लिश्यते त्वया ॥९॥
उच्चैर् मनोरथस् तेऽयं मत्पुत्रस्येव किं वृथा ।
सुनीत्याम् आत्मनो जन्म किं त्वया नावगम्यते ॥१०॥
श्रीपराशर उवाच
उत्सृज्य पितरं बालस् तच् छ्रुत्वा मातृभाषितम् ।
जगाम कुपितो मातुर् निजाया द्विज मन्दिरम् ॥११॥
तं दृष्ट्वा कुपितं पुत्रम् ईषत् प्रस्फुरिताधरम् ।
सुनीतिर् अङ्कम् आरोप्य मैत्रेयेदम् अभाषत ॥१२॥
वत्स कः कोपहेतुस् ते कश् च त्वां नाभिनन्दति ।
कोऽवजानाति पितरं वत्स यस् तेऽपराध्यति ॥१३॥
श्रीपराशर उवाच
इत्य् उक्तः सकलं मात्रे कथयामास तद् यथा ।
सुरुचिः प्राह भूपालप्रत्यक्षम् अतिगर्विता ॥१४॥
विनिःश्वस्येति कथिते तस्मिन् पुत्रेण दुर्मनाः ।
श्वासक्षामेक्षणा दीना सुनीतिर् वाक्यम् अब्रवीत् ॥१५॥
सुनीतिर् उवाच
सुरुचिः सत्यम् आहेदं मन्दभाग्योऽसि पुत्रक ।
न हि पुण्यवतां वत्स सपत्नैर् एवम् उच्यते ॥१६॥
नोद्वेगस् तात कर्तव्यः कृतं यद् भवता पुरा ।
तत् कोऽपहर्तुं शक्नोति दातुं कश् चाकृतं त्वया ॥१७॥
तत् त्वया नात्र कर्तव्यं दुःखं तद्वाक्यसम्भवम् ॥१८॥
राजासनं राजच्छत्रं वराश्ववरवारणाः ।
यस्य पुण्यानि तस्यैते मत्वैतच् छाम्य पुत्रक ॥१९॥
अन्यजन्मकृतैः पुण्यैः सुरुच्यां सुरुचिर् नृपः ।
भार्येति प्रोच्यते चान्या मद्विधा पुण्यवर्जिता ॥२०॥
पुण्योपचयसम्पन्नस् तस्याः पुत्रस् तथोत्तमः ।
मम पुत्रस् तथा जातः स्वल्पपुण्यो ध्रुवो भवान् ॥२१॥
तथापि दुःखं न भवान् कर्तुम् अर्हति पुत्रक ।
यस्य यावत् स तेनैव स्वेन तुष्यति मानवः ॥२२॥
यदि ते दुःखम् अत्यर्थं सुरुच्या वचसाभवत् ।
तत्पुण्योपचये यत्नं कुरु सर्वफलप्रदे ॥२३॥
सुशीलो भव धर्मात्मा मैत्रः प्राणिहिते रतः ।
निम्नं यथापः प्रवणाः पात्रम् आयान्ति सम्पदः ॥२४॥
ध्रुव उवाच
अम्ब यत् त्वम् इदं प्रात्थ प्रशमाय वचो मम ।
नैतद् दुर्वचसा भिन्ने हृदये मम तिष्ठति ॥२५॥
सोऽहं तथा यतिष्यामि यथा सर्वोत्तमोत्तमम् ।
स्थानं प्राप्स्याम्यशेषाणां जगताम् अभिपूजितम् ॥२६॥
सुरुचिर् दयिता राज्ञस् तस्या जातोऽस्मि नोदरात् ।
प्रभावं पश्य मेऽम्ब त्वं वृद्धस्यापि तवोदरे ॥२७॥
उत्तमः स मम भ्राता यो गर्भेण धृतस् तया ।
स राजासनम् आप्नोतु पित्रा दत्तं तथास्तु तत् ॥२८॥
नान्यदत्तम् अभीप्सामि स्थानम् अम्ब स्वकर्मणा ।
इच्छामि तद् अहं स्थानं यन् न प्राप पिता मम ॥२९॥
श्रीपराशर उवाच
निर्जगाम गृहान् मातुर् इत्य् उक्त्वा मातरं ध्रुवः ।
पुराच् च निर्गम्य ततस् तद् बाह्योपवनं ययौ ॥३०॥
स ददर्श मुनींस् तत्र सप्त पूर्वागतान् ध्रुवः ।
कृष्णाजिनोत्तरीयेषु विष्टरेषु समास्थितान् ॥३१॥
स राजपुत्रस् तान् सर्वान् प्राणिपत्याभ्यभाषत ।
प्रश्रयावनतः सम्यग् अभिवाचनपूर्वकम् ॥३२॥
ध्रुव उवाच
उत्तानपादतनयं मां निबोधत सत्तमाः ।
जातं सुनीत्यां निर्वेदाद् युष्माकं प्राप्तम् अन्तिकम् ॥३३॥
ऋषय ऊचुः
चतुःपञ्चाब्दसम्भूतो बालस् त्वं नृपनन्दन ।
निर्वेदकारणं किञ्चित् तव नाद्यापि वर्तते ॥३४॥
न चिन्त्यं भवतः किञ्चिद् ध्रियते भूपतिः पिता
न चैवेष्टवियोगादि तव पश्याम बालक ॥३५॥
शरीरे न च ते व्याधिर् अस्माभिर् उपलक्ष्यते ।
निर्वेदः किन्निमित्तस् ते कथ्यतां यदि विद्यते ॥३६॥
श्रीपराशर उवाच
ततः स कथयामास सुरुच्या यद् उदाहृतम् ।
तन् निशम्य ततः प्रोचुर् मुनयस् ते परस्परम् ॥३७॥
अहो क्षात्रं परं तेजो बालस्यापि यद् अक्षमा ।
सपत्न्या मातुर् उक्तं यद् धृदयान् नापसर्पति ॥३८॥
भो भो क्षत्रियदायाद निर्वेदाद् यत् त्वयाधुना ।
कर्तुं व्यवसितं तन् नः कथ्यतां यदि रोचते ॥३९॥
यच् च कार्यं तवास्माभिः साहाय्यम् अमितद्युते ।
तद् उच्यतां विवक्षुस् त्वम् अस्माभिर् उपलक्ष्यसे ॥४०॥
ध्रुव उवाच
नाहम् अर्थम् अभीप्सामि न राज्यं द्विजसत्तमाः ।
तत् स्थानम् एकम् इच्छामि भुक्तं नान्येन यत् पुरा ॥४१॥
एतन् मे क्रियतां सम्यक् कथ्यतां प्राप्यते यथा ।
स्थानम् अग्र्यं समस्तेभ्यः स्थानेभ्यो मुनिसत्तमाः ॥४२॥
मरीचिर् उवाच
अनाराधितगोविन्दैर् नरैः स्थानं नृपात्मज ।
न हि सम्प्राप्यते श्रेष्ठं तस्माद् आराधयाच्युतम् ॥४३॥
अत्रिर् उवाच
परः पराणां पुरुषो यस्य तुष्टो जनार्दनः ।
स प्राप्नोत्यक्षयं स्थानम् एतत् सत्यं मयोदितम् ॥४४॥
अङ्गिरा उवाच
यस्यान्तः सर्वम् एवेदम् अच्युतस्याव्ययात्मनः ।
तम् आराधय गोविन्दं स्थानम् अग्र्यं यदीच्छसि ॥४५॥
पुलस्त्य उवाच
परं ब्रह्म परं धाम योऽसौ ब्रह्म तथा परम् ।
तम् आराध्य हरिं याति मुक्तिम् अप्यतिदुर्लभाम् ॥४६॥
पुलह उवाच
ऐन्द्रम् इन्द्रः परं स्थानं यम् आराध्य जगत्पतिम् ।
प्राप यज्ञपतिं विष्णुं तम् आराधय सुव्रत ॥४७॥
क्रतुर् उवाच
यो यज्ञपुरुषो यज्ञे योगे च परमः पुमान् ।
तस्मिंस् तुष्टे यद् अप्राप्यं किं तद् अस्ति जनार्दने ॥४८॥
वसिष्ठ उवाच
प्राप्नोष्य् आराधिते विष्णौ मनसा यद् यद् इच्छसि ।
त्रैलोक्यान्तर्गतं स्थानं किम् उ वस्तोत्तमोत्तमम् ॥४९॥
ध्रुव उवाच
आराध्यः कथितो देवो भवद्भिर् प्रणतस्य मे ।
मया तत्परितोषाय यज् जप्तव्यं तद् उच्यताम् ॥५०॥
यथा चाराधनं तस्य मया कार्यं महात्मनः ।
प्रसादसुमुखास् तन् मे कथयन्तु महर्षयः ॥५१॥
ऋषय ऊचुः
राजपुत्र यथा विष्णोत्तम्र् आराधनपरैर् नरैः ।
कार्यम् आराधनं तन् नो यथावच् छ्रोतुम् अर्हसि ॥५२॥
बाह्यथार्थआद् अखिलाच् चित्तं त्याजयेत् प्रथमं नरः ।
तस्मिन्न् एव जगद्धाम्नि ततः कुर्वीत निश्चलम् ॥५३॥
एवम् एकाग्रचित्तेन तन्मयेन धृतात्मना ।
जप्तव्यं यन् निबोधैतत् तन् नः पार्थिवनन्दन ॥५४॥
हिरण्यगर्भपुरुषप्रधानाव्यक्तरूपिणे ।
ओं नमो वासुदेवाय शुद्धज्ञानस्वरूपिणे ॥५५॥
एतज् जजाप भगवान् जप्यं स्वायम्भुवो मनुः ।
पितामहस् तव पुरा तस्य तुष्टो जनार्दनः ॥५६॥
ददौ यथाभिलषितां सिद्धिं त्रैलोक्यदुर्लभाम् ।
तथा त्वम् अपि गोविन्दं तोषयैतत् सदा जपन् ॥५७॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे एकादशोऽध्यायः
॥११॥
ओ)०(ओ