अथ दशमोऽध्यायः
भृगुसर्गादीनां पुनः कथनम्
श्रीमैत्रेय उवाच
कथितं मे त्वया सर्वं यत् पृष्ठोऽसि मया मुने ।
भृगुसर्गात् प्रभृत्य् एष सर्गो मे कथ्यतां पुनः ॥१॥
श्रीपराशर उवाच
भृगोः ख्यात्यां समुत्पन्ना लक्ष्मीर् विष्णुपरिग्रहः ।
तथा धातृविधातारौ ख्यात्यां जातौ सुतौ भृगोः ॥२॥
आयतिर् नियतिश् चैव मेरोः कन्ये महात्मनः ।
भार्ये धातृविधात्रोस् ते तयोर् जातौ सुताव् उभौ ॥३॥
प्राणश् चैव मृकण्डुश् च मार्कण्डेयो मृकण्डुतः ।
ततो वेदशिरा जज्ञे प्राणस्यापि सुतं शृणु ॥४॥
प्राणस्य द्युत्मान् पुत्रो राजवांश् च ततोऽभवत् ।
ततो वंशो महाभाग विस्तरं भार्गवो गतः ॥५॥
पत्नी मरीचेः सम्भूतिः पौर्णमासम् असूयत ।
विरजाः पर्वतश् चैव तस्य पुत्रौ महात्मनः ॥६॥
वंशसङ्कीर्तने पुत्रान् वदिष्येऽहं ततो द्विज ।
स्मृतिश् चाङ्गिरसः पत्नी प्रसूता कन्यकास् तथा ।
सिनीवाली कुहूश् चैव राका चानुमतिस् तथा ॥७॥
अनसूया तथैवात्रेर् जज्ञे निष्कल्मषान् सुतान् ।
सोमं दुर्वाससं चैव दत्तात्रेयं च योगिनम् ॥८॥
प्रीत्यां पुलस्त्यभार्यायां दत्तोलिस् तत्सुतोऽभवत् ।
पूर्वजन्मनि योऽगस्त्यः स्मृतः स्वायम्भुवेऽन्तरे ॥९॥
कर्दमश् चोर्वरीयांश् च सहिष्णुश् च सुतास् त्रयः ।
क्षमा तु सुषुवे भार्या पुलहस्य प्रजापतेः ॥१०॥
क्रेताश् च सन्ततिर् भार्या वालखिल्यान् असूयत ।
षष्टिपुत्रसहस्राणि मुनीनाम् ऊर्ध्वरेतसाम् ।
अङ्गुष्ठपर्वमात्राणां ज्वलद्भास्करतेजसाम् ॥११॥
ऊर्जायां तु वसिष्ठस्य सप्ताजायन्त वै सुताः ॥१२॥
रजो गोत्रोर्ध्वबाहुश् च सवनश् चानघस् तथा ।
सुतपाः शुक्र इत्य् एते सर्वे सप्तर्षयोऽमलाः ॥१३॥
योऽसाव् अग्न्यभिमानी स्यात् ब्रह्मणस् तनयोऽग्रजः ।
तस्मात् स्वाहा सुतान् लेभे त्रीन् उदारौजसो द्विज ॥१४॥
पावकं पवमानं तु शुचिं चापि जलाशिनम् ॥१५॥
तेषां तु सन्तताव् अन्ये चत्वारिंशच् च पञ्च च ।
कथ्यन्ते वह्नयश् चैते पितापुत्रत्रयं च यत् ॥१६॥
एवम् एकोनपञ्चाशद् वह्नयः परिकीर्तिताः ॥१७॥
पितरो ब्रह्मणा सृष्टा व्याख्याता ये मया द्विज ।
अग्निष्व् आत्ता बर्हिषदोऽनग्नयः साग्नयश् च ये ॥१८॥
तेभ्यः स्वधा सुते जज्ञे मेनां वै धारिणीं तथा ।
ते उभे ब्रह्मवादिन्यौ योगिन्याव् अप्य् उभे द्विज ॥१९॥
उत्तमज्ञानसम्पन्ने सर्वैः समुदितैर् गुणैः ॥२०॥
इत्य् एषा दक्षकन्यानां कथितापत्यसन्ततिः ।
श्रद्धावान् संस्मरन्न् एताम् अनपत्न्यो न जायते ॥२१॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे दशमोऽध्यायः
॥१०॥
ओ)०(ओ