०९

अथ नवमोऽध्यायः
इन्द्रं प्रति दुर्वाससः शापः, ब्रह्मणः समीपे देवानां गमनं, समुद्रमन्थनं, इन्द्रस्य लक्ष्मीस्तुतिश् च

पराशर उवाच
इदं च शृणु मैत्रेय यत् पृष्टोऽहम् इह त्वया ।
श्रीसम्बद्धं मया ह्य् एतच् छ्रुतम् आसीन् मरीचितः ॥१॥

दुर्वासाः शङ्करस्यांशश् चचार पृथिवीम् इमाम् ।
स ददर्श स्रजं द्वियाम् ऋषिर् विद्याधरीकरे ॥२॥
सन्तानकानाम् अखिलं यस्या गन्धेन वासितम् ।
अतिसेव्यम् अभूद् ब्रह्मन् तद्वनं वनचारिणाम् ॥३॥
उन्मत्तव्रतधृग् विप्रस् तां दृष्ट्वा शोभनां स्रजम् ।
तां ययाचे वरारोहां विद्याधरवधूं ततः ॥४॥
याचिता तेन तन्वङ्गी मालां विद्याधराङ्गना ।
ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य च ॥५॥

ताम् आदायात्मनो मूर्ध्नि स्रजम् उन्मत्तरूपधृक् ।
कृत्वा स विप्रो मैत्रेय परिबभ्राम मेदिनीम् ॥६॥
स ददर्श समायान्तम् उन्मत्तैरावतास्थितम् ।
त्रैलोक्याधिपतिं देवं सह देवैः शचीपतिम् ॥७॥
ताम् आत्मनः स शिरसः स्रजम् उन्मत्तषट्पदाम् ।
आदायामरराजाय चिक्षेपोन्मत्तवन् मुनिः ॥८॥
गृहीत्वामरराजेन स्रग् ऐरावतमूर्धनि ।
न्यस्ता रराज कैलासशिखरे जाह्नवी यथा ॥९॥
मदान्धकारिताक्षोऽसौ गन्धाकृष्टेन वारणः ।
करेणाघ्राय चिक्षेप तां स्रजं धरणीतले ॥१०॥
ततश् चुक्रोध भगवान् दुर्वासा मुनिसत्तमः ।
मैत्रेय देवराजं तं क्रुद्धश् चैतद् उवाच ह ॥११॥
ऐश्वर्यमत्त दुष्तात्मन्न् अतिस्तब्धोऽसि वासव ।
श्रियो धाम स्रजं यस् त्वं मद्दत्तां नाभिनन्दसि ॥१२॥
प्रसाद इति नोक्तं ते प्रणिपादपुरःसरम् ।
हर्षोत्फुल्लकपोलेन न चापि शिरसा धृता ॥१३॥
मया दत्ताम् इमां मालां यस्मान् न बहु मन्यसे ।
त्रैलोक्यश्रीर् अतो मूढ विनाशम् उपयास्यति ॥१४॥
मां मन्यतेऽन्यैः सदृशं न्यूनं शक्र भवान् द्विजैः ।
अतोऽवमानम् अस्माकं मानिना भवता कृतम् ॥१५॥
मद्दत्ता भवता यस्मात् क्षिप्ता माला महीतले ।
तस्मात् प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति ॥१६॥
यस्य सञ्जातकोपस्य भयम् एति चराचरम् ।
तं त्वं माम् अतिगर्वेण देवराजावमन्यसे ॥१७॥

पराशर उवाच
महेन्द्रो वारणस्कान्धाद् अवतीर्य त्वरान्वितः ।
प्रसादयामास तदा दुर्वाससम् अकल्मषम् ॥१८॥
प्रसाद्यमानः स तदा प्रणिपातपुरःसरम् ।
प्रत्युवाच सहस्राक्षं दुर्वासा मुनिसत्तम ॥१९॥

दुर्वासा उवाच
नाहं कृपालुहृदयो न च मां भजते क्षमा ।
अन्ये ते मुनयः शक्र दुर्वाससम् अवेहि माम् ॥२०॥

अन्ये ते मुनयः ये दयालवः । अहं तु न तथा ॥२०॥

गौतमादिभिर् अन्यैस् त्वं गर्वम् आपादितो मुधा ।
अक्षान्तिसारसर्वस्वं दुर्वाससम् अवेहि माम् ॥२१॥
वसिष्ठाद्यैर् दयासारैः स्तोत्रं कुर्वद्भिर् उच्चकैः ।
गर्वं गतोऽसि उयेनैवं माम् अप्यद्यावमन्यसे ॥२२॥

उच्चैर् उच्चकैः स्तुवद्भिः । यद् वा, उच्चकैर् उन्नमितैः शिरोभिर् उच्चासनोपविष्टस्य एवं स्तोत्रं कुर्वद्भिर् इत्यर्थः ॥२२॥

ज्वलज्जटाकलापस्य भृकुटीकुटिलं मुखम् ।
निरीक्ष्य कस् त्रिभुवने मम यो न गतो भयम् ॥२३॥

एवं सति । ज्वलज्जटेति । मम मुखं निरीक्ष्य यो भयं न गतः, स कः ? न कोऽपीत्यर्थः ॥२३॥

नाहं क्षमिष्ये भुना किम् उक्तेन शतक्रतो ।
विडम्बनाम् इयां भूयः करोष्यनुनयात्मिकाम् ॥२४॥

विडम्बनाम् अवहासम् ॥२४॥

पराशर उवाच
इत्य् उक्त्वा प्रययौ विप्रो देवराजोऽपि तं पुनः ।
आरुह्यैरावतं ब्रह्मन् प्रयआव् अमरावतीम् ॥२५॥
ततः प्रभृति निःशक्तं सशक्रं भुवनत्रयम् ।
मैत्रेयासीद् अपध्वस्तं सङ्क्षीणौषधिवीरुधम् ॥२६॥
न यज्ञाः सम्प्रवर्तन्ते न तपस्यन्ति तापसाः ।
न च दानादिधर्मेषु मनश् चक्रे तदा जनः ॥२७॥
निःसत्त्वा सकला लोका लोभाद्युपहतेन्द्रियाः ।
स्वल्पेऽपि हि बभूवुस् ते साभिलाषा द्विजोत्तम ॥२८॥
यतः सत्त्वं ततो लक्ष्मीः सत्त्वं भूत्यनुसारि च ।
निःशक्ताणां कुतः सत्त्वं विना तेन गुणाः कुतः ॥२९॥
बलशौर्याद्यभावश् च पुरुषाणां गुणैर् विना ।
लङ्घनीयः समस्तस्य बलशौर्यविवर्जितः ॥३०॥
भवत्यपध्वस्तमतिर् लङ्घितः प्रथितः पुमान् ॥३१॥
एवम् अत्यन्तनिःशक्ते त्रैलोक्ये सत्त्ववर्जिते ।
देवान् प्रति बलोद्योगं चक्रुर् दैतेयदानवाः ॥३२॥
लोभाभिभूता निःशक्ता दैत्याः सत्त्वविवर्जिताः ।
श्रिया विहीनैर् निःसत्त्वैर् देवैश् चक्रुस् ततो रणम् ॥३३॥
विजितास् त्रिदशा दैत्यैर् इन्द्राद्याः शरणं ययुः ।
पितामहं महाभागं हुताशनपुरोगमाः ॥३४॥
यथावत् कथितो देवैर् ब्रह्मा प्राह ततः सुरान् ।
परावरेशं शरणं व्रजध्वम् असुरार्दनम् ॥३५॥
उत्पत्तिस्थितिनाशानाम् अहेतुं हेतुम् ईश्वरम् ।
प्रजापतिपतिं विष्णुम् अनन्तम् अपराजितम् ॥३६॥
प्रधानपुंसोर् अजयोः कारणकार्यभूतयोः ।
प्रणतार्तिहरं विष्णुं स वः श्रेयो विधास्यति ॥३७॥

श्रीपराशर उवाच
एवम् उक्त्वा सुरान् सर्वान् ब्रह्मा लोकपितामहः ।
क्षीरोदस्योत्तरं तीरं तैर् एव सहितो ययौ ॥३८॥
स गत्वा त्रिदशैः सर्वैः समवेतः पितामहः ।
तुष्टाव वाग्भिर् इष्टाभिः परावरपतिं हरिम् ॥३९॥

ब्रह्मोवाच
नमाम सर्वं सर्वेशम् अनन्तम् अजम् अव्ययम् ।
लोकधामधराधारम् अप्रकाशम् अभेदिनम् ॥३९॥

नमाम इत्य् उत्तरश्लोकेऽपि सम्बन्धः । सर्वं सर्वस्वरूपं सर्वस्येश्वरं च । लोके ये धामधराः प्रभाववन्तस् तेषाम् आधारम् । इन्द्रादीनां प्रभावो यदाश्रय इत्यर्थः । अभेदिनं निर्भेदं, अप्रकाशं स्वव्यतिरिक्तप्रकाशशून्यम् इत्यर्थः ॥३९॥

नारायणमणीयांसम् अशेषाणाम् अणीयसाम् ।
समस्तानां गरिष्ठं यद् भूरादीनां गरीयसाम् ॥४०॥
यत्र सर्वं यतः सर्वम् उत्पन्नं सत्पुरःसरम् ।
सर्वभूतश् च यो देवः पराणाम् अपि यः परः ॥४१॥

यत्र सर्वम् इत्यादि यत् शब्दानां स आद्यः पुमान् प्रसीदतु इति तृतीयेन अन्वयः । पराणाम् अर्थादीनाम् अपि यः परः पुरुषः, तथा च श्रुतिः

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश् च परं मनः ।
मनसस् तु परा बुद्धिर् बुद्धेर् आत्मा महान् परः ।
महतः परम् अव्यक्तम् अव्यक्तात् पुरुषः परः ॥ इति ॥४१॥

परः परस्मात् पुरुषात् परमात्मस्वरूपधृक् ।
योगिभिश् चिन्त्यते योऽसौ मुक्तिहेतुर् मुमुक्षुभिः ॥४२॥

तस्मात् परस्मात् अव्यक्तप्रेरकात् कारणात्मनः पुरुषाद् अपि यः परमात्मैव स्वरूपधृक् मूर्तिधारी, अत एव योगिभिश् चिन्त्यते योऽसौ ॥४२॥

सत्त्वादयो न सन्तीशे यत्र च प्राकृता गुणाः ।
स शुद्धः सर्वशुद्धेभ्यः पुमान् आद्यः प्रसीदतु ॥४३॥

कलाकाष्ठानिमेषादिकालसूत्रस्य गोचरे ।
यस्य शक्तिर् न शुद्धस्य प्रसीदतु स मे हरिः ॥४४॥

कलाकाष्ठानिमेषादिकाल एव सूत्रवत् सूत्रं जगच्चेष्टा नियामकत्वात् तस्य गोचरे विषये यस्य शक्तिर् लक्ष्मीर् न वर्तते । स्वरूपाभिन्नत्वान् नित्यैव सा कालाधीना न भवतीत्यर्थः । अत एव तस्याः स्वरूपाभेदाच् छुद्धस्येत्य् उक्तम् ॥४४॥

प्रोच्यते परमेशो यो यः शुद्धोऽप्य् उपचारतः ।
प्रसीदतु स नो विष्णुर् आत्मा यः सर्वदेहिनाम् ॥४५॥

ननु यदि लक्ष्मीस् तत्स्वरूपाभिन्ना कथं तर्हि लक्ष्म्याः पतिर् उच्यते ? तत्राहप्रोच्यते इति । परा चासौ मा च लक्ष्मीः, तस्या ईशः परमेशो यः शुद्धः केवलोऽपि उपचारतो भेदविवक्षया प्रोच्यते । द्वितीयो यच्छब्दः प्रसिद्धौ ॥४५॥

यः कारणं च कार्यं च कारणस्यापि कारणम् ।
कार्यस्यापि च यः कार्यं प्रसीदतु स नो हरिः ॥४६॥
कार्यकार्यस्य यत् कार्यं यत् कार्यस्यापि यः स्वयम् ।
तत्कार्यकार्यभूतो यस् ततश् च प्रणताः स्म तम् ॥४८॥
कारणं कारणस्यापि तस्य कारणकारणम् ।
तत्कारणानां हेतुं तं प्रणताः स्म परेश्वरम् ॥४९॥
भोक्तारं भोग्यभूतं च स्रष्टारं सृज्यम् एव च ।
कार्यकर्तृस्वरूपं तं प्रणताः स्म परं पदम् ॥५०॥
विशुद्धबोधवन् नित्यम् अजम् अक्षयम् अव्ययम् ।
अव्यक्तम् अविकारं यत् तद् विष्णोः परमं पदम् ॥५१॥
न स्थूलं न च सूक्ष्मं यन् न विशेषणागोचरम् ।
तत् पदं परमं विष्णोः प्रणमामः सदामलम् ॥५२॥
यस्यायुतायुतांशांशे विश्वशक्तिर् इयं स्थिता ।
परब्रह्मस्वरूपं यत् प्रणमामस् तम् अव्ययम् ॥५३॥
यद् योगिनः सदोद्युक्ताः पुण्यपापक्षयेऽक्षयम् ।
पश्यन्ति प्रणवे चिन्त्यं तद् विष्णोः परमं पदम् ॥५४॥
यन् न देवा न मुनयो न चाहं न च शङ्करः ।
जानन्ति परम्मेशस्य तद् विष्णोः परमं पदम् ॥५५॥
शक्तयो यस्य देवस्य ब्रह्मविष्णुशिवात्मिकाः ।
भवन्त्यभूतपूर्वस्य तद् विष्णोः परमं पदम् ॥५६॥
सर्वेश सर्वभूतात्मन् सर्व सर्वाश्रयाच्युत ।
प्रसीद विष्णो भक्तानां व्रज नो दृष्टिगोचरम् ॥५७॥

श्रीपराशर उवाच
इत्य् उदीरितम् आकर्ण्य ब्रह्मणस् त्रिदशास् ततः ।
प्रणम्योचुः प्रसीदेति व्रज नो दृष्टिगोचरम् ॥५८॥
यन् नायं भगवान् ब्रह्मा जानाति परमं पदम् ।
तन्नताः स्म जगद्धाम तव सर्वगताच्युत ॥५९॥
इत्यन्ते वचसस् तेषां देवानां ब्रह्मणस् तथा ।
ऊचुर् देवर्षयः सर्वे बृहस्पतिपुरोगमाः ॥६०॥
आद्यो यज्ञपुमान् ईड्यः पूर्वेषां यश् च पूर्वजः ।
तन्नताः स्म जगत्स्रष्टुः स्रष्टारम् अविशेषणम् ॥६१॥
भगवन् भूतभव्येश यज्ञमूर्तिधराव्यय ।
प्रसीद प्रणतानां त्वं सर्वेषां देहि दर्शनम् ॥६२॥
एष ब्रह्मा सहास्माभिः सहरुद्रैस् त्रिलोचनः ।
सर्वादित्यैः समं पूषा पावकोऽयं सहाग्निभिः ॥६३॥
अश्विनौ वसवश् चेमे सर्वे चैते मरुद्गणाः ।
साध्या विश्वे तथा देवा देवेन्द्रश् चायम् ईश्वरः ॥६४॥
प्रणामप्रवणा नाथ दैत्यसैन्यैः पराजिताः ।
शरणं त्वाम् अनुप्राप्ताः समस्ता देवतागणाः ॥६५॥

श्रीपराशर उवाच
एवं संस्तूयमानस् तु भगवान् शङ्खचक्रधृक् ।
जगाम दर्शनं तेषां मैत्रेय परमेश्वरः ॥६६॥
तं दृष्ट्वा ते तदा देवाः शङ्खचक्रगदाधरम् ।
अपूर्वरूपसंस्थानं तेजसां राशिमूर्तिजम् ॥६७॥
प्रणम्य प्रणताः सर्वे सङ्क्षोभस्तिमितेक्षणाः ।
तुष्टुवुः पुण्डरीकाक्षं पितामहपुरोगमाः ॥६८॥

देवा ऊचुः
नमो नमोऽविशेषस् त्वं त्वं ब्रह्मा त्वं पिनाकधृक् ।
इन्द्रस् त्वम् अग्निः पवनो वरुणः सविता यमः ॥६९॥
वसवो मरुतः साध्या विश्वेदेवगणाः भवान् ।
योऽयं तवाग्रतो देव समीपं देवतागणः ।
स त्वम् एव जगत्स्रष्टा यतः सर्वगतो भवान् ॥७०॥
त्वं यज्ञस् त्वं वषाट्कारस् त्वम् ओङ्कारः प्रजापतिः ।
विद्या वेद्यं च सर्वात्मंस् त्वन्मयं चाखिलं जगत् ॥७१॥
त्वाम् आर्ताः शरणं विष्णो प्रयाता दैत्यनिर्जिताः ।
वयं प्रसीद सर्वात्मंस् तेजसाप्याययस्व नः ॥७२॥
तावद् आर्तिस् तथा वाञ्छा तावन् मोहस् तथासुखम् ।
यावन् न याति शरणं त्वाम् अशेषाधनाशनम् ॥७३॥
त्वं प्रसादं प्रसन्नात्मन् प्रपन्नानां कुरुष्व नः ।
तेजसां नाथ सर्वेषां स्वशक्त्याप्यायनं कुरु ॥७४॥

श्रीपराशर उवाच
एवं संस्तूयमानस् तु प्रणतैर् अमरैर् हरिः ।
प्रसन्नदृष्टिर् भगवान् इदम् आह स विश्वकृत् ॥७५॥
तेजसो भवतां देवाः करिष्याम्य् उपबृंहणम् ।
वदाम्यहं यत् क्रियतां भवद्भिस् तद् इदं सुराः ॥७६॥
आनीय सहिता दैत्यैः क्षिराब्धौ सकलौषधीः ।
प्रक्षिप्यात्रामृतार्थं ताः सकला दैत्यदानवैः ।
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ॥७७॥
मथ्यताम् अमृतं देवाः सहाये मय्यवस्थिते ॥७८॥
सामपूर्वं च दैतेयास् तत्र साहाय्यकर्मणि ।
सामान्यफलभोक्तारो यूयं वाच्या भविष्यथ ॥७९॥
मथ्यमाने च तत्राब्धौ यत् समुत्पत्स्यतेऽमृतम् ।
तत्पानाद् बलिनो यूयम् अमराश् च भविष्यथ ॥८०॥
तथा चाहं करिष्यामि ते यथा त्रिदशद्विषः ।
न प्राप्स्यन्त्यमृतं देवाः केवलं क्लेशभागिनः ॥८१॥

पराशर उवाच
इत्य् उक्त्वा देवदेवेन सर्व एव ततः सुराः ।
सन्धानम् असुरैः कृत्वा यत्नवन्तोऽमृतेऽभवन् ॥८२॥
नानौषधीः समानीय देवदैतेयदानवाः ।
क्षिप्त्वा क्षीराब्धिपयसि शरदभ्रामलत्विषि ॥८३॥
मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा च वासुकिम् ।
ततो मथितुम् आरब्धा मैत्रेय तरसामृतम् ॥८४॥
विबुधाः सहिताः सर्वे यतः पुच्छं ततः कृताः ।
कृष्णेन वासुकेर् दैत्याः पूर्वकाये निवेशिताः ॥८५॥
ते तस्य मुखनिश्वासवह्नितापहतत्विषः ।
निस्तेजसोऽसुराः सर्वे बभूवुर् अमितौजसः ॥८६॥
तेनैव मुखनिश्वासवायुनास्तबलाहकैः ।
पुच्छप्रदेशे वर्षद्भिस् तदा चाप्यायिताः सुराः ॥८७॥
क्षीरोदमध्ये भगवान् कूर्मरूपी स्वयं हरिः ।
मन्थनाद्रेर् अधिष्ठानं भ्रमतोऽभून् महामुने ॥८८॥
रूपेणान्येन देवानां मध्ये चक्रगदाधरः ।
चकर्ष नागराजानं दैत्यमध्येऽपरेण च ॥८९॥
उपर्याक्रान्तवाञ् छैलं बृहद्रूपेण केशवः ।
तथापरेण मैत्रेय यन् न दृष्टं सुरासुरैः ॥९०॥
तेजसा नागराजानं तथाप्यायितवान् हरिः ।
अन्येन तेजसा देवानुपबृंहितवान् प्रभुः ॥९१॥
मथ्यमाने ततस् तस्मिन् क्षीराब्धौ देवदानवैः ।
हविर् धामाभवत् पूर्वं सुरभिः सुरपूजिता ॥९२॥
जग्मुर् मुदं ततो देवा दानवाश् च महामुने ।
व्याक्षिप्तचेतसश् चैव बभूवुः स्तिमितेक्षणाः ॥९३॥
किम् एतद् इति सिद्धानां दिवि चिन्तयतां ततः ।
बभूव वारुणी देवी मदाघूर्णितलोचना ॥९४॥
कृतावर्तात् ततस् तस्मात् क्षीरोदाद् वासयञ् जगत् ।
गन्धेन पारिजातोऽभूद् देवस्त्रीनन्दनस् तरुः ॥९५॥
रूपौदार्यगुणोपेतस् तथा चाप्सरसां गणः ।
क्षीरोदधेः समुत्पन्नो मैत्रेय परमाद्भुतः ॥९६॥
ततः शीतांशुर् अभवज् जगृहे तं महेश्वरः ।
जगृहुश् च विषं नागाः क्षीरोदाब्धिसमुत्थितम् ॥९७॥
ततो धन्वन्तरिर् देवः श्वेताम्बरधरः स्वयम् ।
बिभ्रत्कमण्डलुं पूर्णम् अमृतस्य समुत्थितः ॥९८॥
ततः स्वस्थमनस्कास् ते सर्वे दैतेयदानवाः ।
बभूवुर् मुदिताः सर्वे मैत्रेय मुनिभिः सह ॥९९॥
ततः स्फुरत्कान्तिमती विकासिकमले स्थिता ।
श्रीर् देवी पयसस् तस्माद् उद्भूता धृतपङ्कजा ॥१००॥
तां तुष्टुवुर् मुदा युक्ताः श्रीसूक्तेन महर्षयः ॥१०१॥
विश्वावसुमुखास् तस्या गन्धर्वाः पुरतो जगुः ।
घृताचीप्रमुखास् तत्र ननृतुश् चापसरोगणाः ॥१०२॥
गङ्गाद्याः सरितस् तोयैः स्नानार्थम् उपतस्थिरे ।
दिग्गजा हेमपात्रस्थम् आदाय विमलं जलम् ।
स्नापयाञ्चक्रिरे देवीं सर्वलोकमहेश्वरीम् ॥१०३॥
क्षीरोदो रूपधृक् तस्यै मालाम् अम्लानपङ्कजाम् ।
ददौ विभूषणान्यङ्गे विश्वकर्मा चकार ह ॥१०४॥
दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता ।
पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः ॥१०५॥
तया विलोकिता देवा हरिवक्षःस्थलस्थया ।
लक्ष्म्या मैत्रेय सहसा परां निर्वृतिम् आगता ॥१०६॥
उद्वेगं परमं जग्मुर् दैत्या विष्णुपराङ्मुखाः ।
त्यक्ता लक्ष्म्या महाभाग विप्रत्चित्तिपुरोगमाः ॥१०७॥
ततस् ते जगृहुर् दैत्या धन्वन्तरिकरस्थितम् ।
कमण्डलुं महावीर्या यत्रास्तेऽमृतम् उत्तमम् ॥१०८॥
मायया मोह्á तान् विष्णुः स्त्रीरूपसंस्थितः ।
दानवेभ्यस् तद् आदाय देवेभ्यः प्रददौ प्रभुः ॥१०९॥
ततः पपुः सुरगणाः शराद्यास् तदामृतम् ।
उद्यतायुधनिस्त्रिंशा दैत्यास् तांश् च समभ्ययुः ॥११०॥
पीतेऽमृते च बलिभिर् देवैर् दैत्यचमूस् तदा ।
बध्यमाना दिशो भेजे पाटलं च विवेश वै ॥१११॥
ततो देवा मुदा युक्ताः शङ्खचक्रगदाभृतम् ।
प्रणिपत्य यथापूर्वम् आशासत् तत् त्रिविष्टपम् ॥११२॥
ततः प्रसन्नभाः सूर्यः प्रययौ स्वेन वर्त्मना ।
ज्योतींषि च यथामार्गं प्रययुर् मुनिसत्तम ॥११३॥
जज्वाल भगवांश् चोच्चैश् चारुदीप्तिर् विभावसुः ।
धर्मे च सर्वभूतानां तदा मतिर् अजायत ॥११४॥
त्रैलोक्यं च श्रिया जुष्टं बभूव द्विजसत्तम ।
शक्रश् च त्रिदशश्रेष्ठः पुनः श्रीमान् अजायत ॥११५॥
सिंहासनगतः शक्रः सम्प्राप्य त्रिदिवं पुनः ।
देवराज्ये स्थितो देवीं तुष्टावाब्जकरां ततः ॥११६॥**

इन्द्र उवाच
नमस्ये सर्वभूतानां जननीम् अब्जसम्भवाम् ।
श्रियम् उन्निद्रपद्माक्षीं विष्णुवक्षःस्थलस्थिताम् ॥११६॥

नमस्ये नमामि सर्वभूतानां जननीं त्वाम् ॥११६॥

त्वं सिद्धिस् त्वं स्वधा स्वाहा सुधा त्वं लोकपावनी ।
सन्ध्या रात्रिः प्रभा भूतिर् मेधा श्रद्धा सरस्वती ॥११७॥

त्वं सिद्धिर् अणिमादिः । प्रभा दिवसः ॥११७॥

यज्ञविद्या महाविद्या गुह्यविद्या च शोभते ।
आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी ॥११८॥

यज्ञविद्या कर्मविद्या । महाविद्या विश्वरूपोपासना । गुह्यविद्या तद्वाचकद्वादशाक्षरादिरहस्यमन्त्रविद्या । आत्मविद्या ब्रह्मविद्या । एवं कर्मविद्यादिरूपेण विमुक्तिफलदायिनी त्वम् एव ॥११८॥

आन्वीक्षिकी त्रयी वार्ता दण्डनीतिस् त्वम् एव च ।
सौम्यासौम्यैर् जगद्रूपैस् त्वयैतद् देवि पूरितम् ॥११९॥

किं च, आन्विक्षिकी तर्कविद्या त्वम् एव । त्रयी वेदत्रयं वार्ता शिल्पशास्त्रायुर्वेदादिः । दण्डनीतिः सामाद्युपायप्रतिपादकराजनीतिः । एवम् अन्यैर् अपि सौम्यासौम्यै रूपैस् त्वदीयैः एतज् जगत् पूरितम् ॥११९॥

का त्व् अन्या त्वाम् ऋते देवि सर्वयज्ञमयं वपुः ।
अध्यास्ते देवदेवस्य योगिचिन्त्यं गदाभृतः ॥१२०॥

अतस् तव सौभाग्यम् अत्याश्चर्यम् इत्य् आहका त्व् इति । का पुनस् त्वदन्या यदाभृतो वपुर् अध्यास्ते तद् वक्षसि वसतीत्यर्थः ॥१२०॥

त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायम् अभवत् त्वयेदानीं समेधितम् ॥१२१॥

अतस् तदुपेक्षानुकम्पयोर् ईदृशं फलं दृष्टम् इत्य् आहत्वयेति । समेधितं संवर्धितम् ॥१२१॥

दाराः पुत्रास् तथागारं सुहृद्धान्यधनादिकम् ।
भवत्य् एतन् महाभागे नित्यं त्वद्वीक्षणान् नृणाम् ॥१२२॥

तच् चैतत् चित्रम् इत्य् आहदारा इति त्रिभिः ॥१२२॥

शरीरारोग्यम् ऐश्वर्यम् अरिपक्षक्षयः सुखम् ।
देवि त्वद्दृष्टिदृष्टानां पुरुषाणां च दुर्लभम् ॥१२३॥
त्वं माता सर्वलोकानां देवदेवो हरिः पिता ।
त्वयैतद् विष्णुना चाम्ब जगद् व्याप्तं चराचरम् ॥१२४॥
मा नः कोशं तथा गोष्ठं मा गृहं मा परिच्छदम् ।
मा शरीरं कलत्रं च त्यजेथाः सर्वपापनि ॥१२५॥
मा पुत्रान् मा सुहृद्वर्गं मा पशून् मा विभूषणम् ।
त्यजेथा मम देवस्य विष्णोर् वक्षःस्थलालये ॥१२६॥
सत्त्वेन सत्यशौचाभ्यां तथा शीलादिभिर् गुणैः ।
त्यज्यन्ते ते नराः सद्यः सन्त्यक्ता ये त्वयामले ॥१२७॥
त्वयावलोकिताः सद्यः शीलाद्यैर् अखिलैर् गुणैः ।
कुलैश्वर्यैश् च युज्यन्ते पुरुषा निर्गुणा अपि ॥१२८॥
स श्लाघ्यः सगुणी धन्य सकुलीनः स बुद्धिमान् ।
स शूरः स च विक्रान्तो यस् त्वया देवि वीक्षितः ॥१२९॥
सद्यो वैगुण्यम् आयान्ति शीलाद्याः सकला गुणाः ।
पराङ्मुखी जगद्धात्री यस्य त्वं विष्णुवल्लभे ॥१३०॥
न ते वर्णयितुं शक्ता गुणान् जिह्वापि वेधसः ।
प्रसीद देवि पद्माक्षि मास्मांस् त्याक्षीः कदाचन ॥१३१॥

पराशर उवाच
एवं श्रीः संस्तुता सम्यक् प्राह देवी शतक्रतुम् ।
शृण्वतां सर्वदेवानां सर्वभूतस्थिता द्विज ॥१३२॥

श्रीर् उवाच
परितुष्टास्मि देवेश स्तोत्रेणानेन ते हरे ।
वरं वृणीष्व यस् त्व् इष्टो वरदाहं तवागता ॥१३३॥

इन्द्र उवाच
वरदा यदि मे देवि वरार्हो यदि वाप्यहम् ।
त्रैलोक्यं न त्वया त्याज्यम् एष मेऽस्तु वरः परः ॥१३४॥
स्तोत्रेण यस् तथैतेन त्वां स्तोष्यत्यब्धिसम्भवे ।
स त्वया न परित्याज्यो द्वितीयोऽस्तु वरो मम ॥१३५॥

श्रीर् उवाच
त्रैलोक्यं त्रिदशश्रेष्ठ न सन्त्यक्ष्यामि वासव ।
दत्तो वरो मया यस् ते स्तोत्राराधनतुष्टया ॥१३६॥
यश् च सायं तथा प्रातः स्तोत्रेणानेन मानवः ।
मां स्तोष्यति स तस्याहं भविष्यामि पराङ्मुखी ॥१३७॥

पराशर उवाच
एवं वरं ददौ देवी देवराजाय वै पुरा ।
मैत्रेय श्रीर् महाभागा स्तोत्राराधनतोषिता ॥१३८॥
भृगोः ख्यात्यां समुत्पन्ना श्रीः पूर्वम् उदधेः पुनः ।
देवदानवयत्नेन प्रसूतामृतमन्थने ॥१३९॥
एवं यथा जगत्स्वामी देवदेवो जनार्दनः ।
अवतारं करोत्य् एष तथा श्रीस् तत्सहायिनी ॥१४०॥
पुनश् च पद्माद् उद्भूता आदित्योऽभूद् यदा हरिः ।
यदा तु भार्गवो रामस् तदाभूद् धरणी त्व् इयम् ॥१४१॥
राघवत्वेऽभवत् सीता रुक्मिणी कृष्णजन्मनि ।
अन्येषु चावतारेषु विष्णोर् एषा सहायिनी ॥१४२॥
देवत्वे देवदेहेयं मानुषत्वे च मानुषी ।
विष्णोर् देहानुरूपां वै करोत्य् एषात्मनस् तनुम् ॥१४३॥
यश् चैउतच् छृण्याज् जन्म लक्ष्म्या यश् च पठेन् नरः ।
श्रियो न विच्युतिस् तस्य गृहे यावत् कुलत्रयम् ॥१४४॥
पाथ्यते येषु चैवैष गृहेषु श्रीस्तवो मुने ।
अलक्ष्मीः कलहाधारा न तेष्व् आस्ते कदाचन ॥१४५॥
एतत् ते कथितं ब्रह्मन् यन् मां त्वं परिपृच्छसि ।
क्षीराब्धौ श्रीर् यथा जाता पूर्वं भृगुसुता सती ॥१४६॥

इति सकलविभूत्यवाप्तिहेतुः
स्तुतिर् इयम् इन्द्रमुखोद्गता हि लक्ष्म्याः ।
अनुदिनम् इह पठ्यते नृभिर् यैर्
वसति न तेषु कदाचिद् अप्यलक्ष्मीः ॥१४७॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे नवमोऽध्यायः
॥९॥

ओ)०(ओ