अथाष्टमोऽध्यायः
लक्ष्म्युत्पत्तिकथनं
पराशर उवाच
कथितस् तामसः सर्गो ब्रह्मणस् ते महामुने ।
रुद्रसर्गं प्रवक्ष्यामि तन् मे निगदतः शृणु ॥१॥
दक्षजामातुर् धर्मस्य वंशोक्तौ तत्प्रतियोगितया बुद्धिस्थस्याधर्मस्य नित्यप्रलयहेतुं तामसं वंशम् उक्त्वा, इदानीं तदनुवादपूर्वकं प्रस्तुतं दक्षकन्याद्वयम् अनुवर्तयितुम् तत्कन्यापरिणेतुर् नीललोहितरुद्रस्य सर्गम् आहकथित इति । यद्यप् ख्यातिः सत्यथ सम्भूतिः इत्य् उपदेशक्रमेण ख्यातेर् अन्वयः । प्रथमं वक्तुं युक्तः, तथापि तत्कथा अतिविततत्वाद् अनन्तरं वक्ष्यते । यद् वा, पूर्वोक्तात् तामसाद् रुद्रसर्गाद् अन्योऽयं कुमारसर्गान्तर्भूतः सात्त्विको रुद्रसर्गः । तम् इमं शृणुष्व इति सम्बन्धः ॥१॥
कल्पादाव् आत्मनस् तुल्यं सुतं प्रध्यायतस् ततः ।
प्रादुरासीत् प्रभोर् अङ्के कुमारो नीललोहितः ॥२॥
रुदन् द्रवंश् च प्रादुरासीद् इति रुद्रनामनिरुक्तिः ।
एवम् उक्तास् तु रुरुदुर् द्रुद्रुवुश् च समन्ततः ।
रोदनाद् द्रवणाच् चैव रुद्रा नाम्नेति विश्रुताः ॥ इति वायूक्तेः ॥२॥
रुदन् वै सुस्वरं सोऽथ द्रवंश् च द्विजसत्तम ।
किं रोदिषीत तं ब्रह्मा रुदन्तं प्रत्युवाच ह ॥३॥
नाम देहीति तं सोऽथ प्रत्युवाच प्रजापतिम् ।
रुद्रस् त्वं देव नाम्नासि मा रोदीर् धैर्यम् आवह ॥४॥
हे देव ! त्वं रुद्रोऽसि रोदनाद् द्रवणाच् चेत्यर्थः ॥४॥
एवम् उक्तः पुनः सोऽथ सप्तकृत्वो रुरोद वै ।
ततोऽन्यानि ददौ तस्मै सप्त नामानि वै प्रभुः ।
स्थानानि चैषाम् अष्टानां पत्नीः पुत्रांस् च वै प्रभुः ॥५॥
परमेश्वरस्यापि सतो रोदनादि शिशुत्वनाट्यं लोकसङ्ग्रहाय पितृपारतन्त्र्यद्योतनार्थम् । अत एव आश्चर्यत्वाद् रोदनादेर् नामनिरुक्तहेतुत्वाद् रोदनादिनामोपाधिभेदाद् अष्टानाम् इत्य् उच्यते ॥५॥
भवं सर्वं महेशानं तथा पशुपतिं द्विज ।
भीमम् उग्रं महादेवम् उवाच स पितामहः ॥६॥
अन्यानि सप्त नामानि ददाव् इत्य् उक्तम् । तान्य् एवाहभवम् इति । तं भवादिनामानम् उवाचतस्य भवादिनामानि कृतवान् इत्यर्थः ॥६॥
चक्रे नामान्यथैतानि स्थानान्य् एषां चकार सः ।
सूर्यो जलं मही वह्निर् वायुर् आकाशम् एव च ।
दीक्षितो ब्राह्मणः सोम इत्य् एतास् तनवः क्रमात् ॥७॥
सुवर्चला तथवोमा सुकेशी चापरा शिवा ।
स्वाहा दिशस् तथा दीक्षा रोहिणी च यथाक्रमम् ॥८॥
तद् एवाहचक्रे नामानि । रुद्रभवादीनां सूर्यादीनि अष्ट स्थानानि । तान्य् एव अभिव्यक्तिस्थानत्वात् तनवो मूर्तय उच्यन्ते । दीक्षितो ब्राह्मण इति सधर्मानुष्ठातरि क्षेत्रज्ञे परमात्माभिव्यकेस् तन्मूर्तित्वम् ।
आत्मा तस्याष्टमी मूर्तिः शिवस्य परमात्मः ।
व्याईकेतरमूर्तीनां विश्वं तस्माच् छिवात्मकम् ॥
स्थाएष्व् एतेषु ये रुद्रं ध्यायन्ति प्रणमन्ति च ।
तेषाम् अष्टतनुर् देवो ददाति परमं पदम् ॥ इति वायूक्तेः ।
सूर्यो जलं मही वायुर् वह्निर् इति क्रमो द्रष्टव्यः । तथा सति सुवर्चलादीनां पत्नीनां यथाक्रमम् सम्बन्धः । वायोः शिवा पत्नी । वह्नेः स्वाहेति सिध्यति । वक्ष्यमाणेऽपि पुत्रक्रमे वह्नेः स्कन्दः पुत्र इति उपपत्स्यते, अतो वह्निर् वायुर् इति पाठक्रमो न विवक्षितः ॥७८॥
सूर्यादीनां नरश्रेष्ठ रुद्राद्यैर् नामभिः सह ।
पत्न्यः स्मृता महाभाग तदपत्यानि मे शृणु ।
येषां सूतिप्रसूतैर् वा इदम् आपूरितं जगत् ॥९॥
सूतिप्रसूतैर्ः पुत्रैः पौत्रादिभिश् च ॥९॥
शनैश्चरस् तथा शुक्रो लोहिताङ्गो मनोजवः ।
स्कन्दः खर्गोऽथ सन्तानो बुधश् चानुक्रमात् सुताः ॥१०॥
एवम्प्रकारो रुद्रोऽसौ सतीं भार्याम् अविन्दत ।
दक्षकोपाच् च तत्याज सा सती स्वं कलेवरम् ॥११॥
उक्तस्य रुद्रसर्गस्य प्रस्तुतोपयोगम् आहएवम्प्रकार इति । सतीं नाम दक्षस्य कन्याम्, दक्षकोपात् पित्रा दक्षेण स्वयज्ञे रुद्रवर्जनोद्भूतात् । अतस् तस्याः सन्ततिर् नाभूद् इति भावः ॥११॥
हिमवद् दुहिता साभून् मेनायां द्विजसत्तम ।
उपयेमे पुनश् चोमाम् अनन्यां भगवान् भवः ॥१२॥
अनन्यां भवैकनिष्ठाम् ॥१२॥
देवौ धातृविधातारौ भृगोः ख्यातिर् असूयत ।
श्रियं च देवदेवस्य पत्नी नारायणस्य या ॥१३॥
श्रीः नारायणस्य पत्नी या तां श्रियं चासूयत ॥१३॥
मैत्रेय उवाच
क्षीराब्धौ श्रीः समुत्पन्ना श्रूयतेऽमृतमन्थने ।
भृगोः ख्यात्यां समुत्पन्नेत्य् एतद् आह कथं भवान् ॥१४॥
प्रश्नः स्पष्टार्थः ॥१४॥
पराशर उवाच
नित्यैव सा जगन्माता विष्णोः श्रीर् अनपायिनी ।
यथा सर्वगतो विष्णुस् तथैवेयं द्विजोत्तम ॥१५॥
उत्तरस्यायं भावःतस्या उत्पत्तिमत्त्वे भवेद् अयं विरोधः । नित्याया एव सर्वगतायाः सर्वात्मिकायाश् च विष्णुशक्तेस् तस्याः कार्यवशेन विष्णोर् इवाविर्भावमात्रम् । अतः पूर्वं भृगुसुतारूपेण आविर्भूताया दुर्वासःशापेन च तिरोभूतायाः पुनः क्षिराब्धाव् आविर्भावो न विरुध्यत इति । यद् एतद् आहनित्यैव इत्यादिना यावद् उत्तराध्यायसमाप्तिः ॥१५॥
अर्थो विष्णुर् इयं वाणी नीतिर् एषा नयो हरिः ।
बोधो विष्णुर् इयं बुद्धिर् धर्मोऽसौ तत्क्रिया त्व् इयम् ॥१६॥
लक्ष्मीनारायणयोः सर्वात्मकत्वं तथा तथोपासनार्थं प्रपञ्चयतिअर्थो विष्णुर् इत्यादिना यावद् अध्यायसमाप्तिः । वाणी अर्थाभिधायिका वाक् इयं श्रीः । नीतिर् दण्डनीतिर् एषा श्रीः, नयः समाद्युपायः । बोधः आत्मप्रकाशः, बुद्धिस् तदभिव्यञ्जिका धीवृत्तिः । धर्मोऽपूर्वं, सत्क्रिया यागादिः ॥१६॥
स्रष्टा विष्णुर् इयं सृष्टिः श्रीर् भूमिर् भूधरो हरिः ।
सन्तोषो भगवान् लक्षण्शरीरीस् तुष्टिर् मैत्रेय शाश्वती ॥१७॥
भूधरो गिरिर् भूपतिर् वा । यदृच्छालाभैर् अलं प्रत्ययः सन्तोषः । तथा निर्वृतिस् तुष्टिः ॥१७॥
इच्छा श्रीर् भगवान् कामो यज्ञोऽसौ दक्षिणा तु सा ।
आज्याहुतिर् असौ देवी पुरोडाशो जनार्दनः ॥१८॥
इच्छा धनादिस्पृहा । कामस् तद्भोगाभिलाषः ॥१८॥
पत्नीशाला मुने लक्ष्मीः प्राग्वंशो मधुसूदनः ।
चितिर् लक्ष्मीर् हरिर् यूप इध्मा श्रीर् भगवान् कुशः ॥१९॥
चितिर् इष्टिकाचयनाम् ॥१९॥
सामस्वरूपी भगवान् उद्गीतिः कमलालया ।
स्वाहा लक्ष्मीर् जगन्नाथो वासुदेवो हुताशनः ॥२०॥
सामस्वरूपी रथन्तरादिगानरूपः । उद्गीतिस् तद्गानव्यापारः । हुताशनो वासुदेवः । स्वाहा तु लक्ष्मीः ॥२०॥
शङ्करो भगवान् शौरिर् भूतिर् गौरी द्विजोत्तम ।
मैत्रेय केशवः सूर्यस् तत्प्रभा कमलालया ॥२१॥
विष्णुः पितृगणः पद्मा स्वधा शाश्वततुष्टिदा ।
द्यौः श्रीः सर्वात्मको विष्णुर् अवकाशोऽतिविस्तरः ॥२२॥
द्यौः श्रीः । अवकाशो विष्णुः ॥२२॥
शशाङ्कः श्रीधरः कान्तिः श्रीस् तस्थैवानपायिनी ।
धृतिर् लक्ष्मीर् जगच्चेष्टा वायुः सर्वत्रगो हरिः ॥२३॥
धृतिर् मेधादिधारणम्, जगच्चेष्टा च लक्ष्मीः । तत्कर्ता वायुर् हरिः ॥२३॥
जलधिर् द्विज गोविन्दस् तद्वेला श्रीर् महामते ।
लक्ष्मीस्वरूपम् इन्द्राणी देवेन्द्रो मधुसूदनः ॥२४॥
यमश् चक्रधरः साक्षाद् धूमोर्णा कमलालया ।
ऋद्धिः श्रीः श्रीधरो देवः स्वयम् एव धनेश्वरः ॥२५॥
धूमोर्णा यमस्य भार्या । धनेश्वरः कुवेरः । ऋद्धिस् तस्य पत्नी ॥२५॥
गौरी लक्ष्मीर् महाभागा केशवो वरुणः स्वयम् ।
श्रीर् देवसेना विप्रेन्द्र देवसेनापतिर् हरिः ॥२६॥
वरुणस्य भार्यापि गौरीसञ्ज्ञा ॥२६॥
अवष्टम्भो गदापाणिः शक्तिर् लक्ष्मीर् द्विजोत्तम ।
काष्ठा लक्ष्मीर् निमेषोऽसौ मुहूर्तोऽसौ कला तु सा ॥२७॥
अवष्टम्भः पुरुषकारः । शक्तिस् तत्सामर्थ्यम् ॥२७॥
ज्योत्स्ना लक्ष्मीः प्रदीपोऽसौ सर्वः सर्वेश्वरो हरिः ।
लताभूता जगन्माता श्रीर् विष्णुर् द्रुमसंस्थितः ॥२८॥
ज्योत्स्ना प्रभा, दीपो हरिः । हरेर् विशेषणं सर्वः सर्वेश्वरश् चेति । द्रुमरूपः संस्थितो लताया आश्रयः ॥२८॥
विभावरी श्रीर् दिवसो देवश् चक्रगदाधरः ।
वरप्रदो वरो विष्णुर् वधूः पद्मवनालया ॥२९॥
वधूर् जाया । वरः पतिः ॥२९॥
नवस्वरूपी भगवान् श्रीर् नदीरूपसंस्थितिः ।
ध्वजश् च पुण्डरीकाक्षः पताका कमलालया ॥३०॥
तृष्णा लक्ष्मीर् जगत्स्वामी लोभो नारायणः परः ।
रतिरागौ च धर्मज्ञ लक्ष्मीगोविन्द एव च ॥३१॥
इतस् ततः पुनर् उपादित्सा तृष्णा, तत्प्राप्यथार्थपर्याप्तिर् लोभः । रागः कामः । रतिस् तत्पत्नी ॥३१॥
किं चातिबहुनोक्तेन सङ्क्षेपेणेदम् उच्यते ।
देवतिर्यङ्मनुष्यादौ पुन्नाम्नि भगवान् हरिः ।
स्त्रीनाम्नि लक्ष्मीर् मैत्रेय नानयोर् विद्यते परम् ॥३२॥
अनयोर् आभ्याम् परम् अन्यन् न विद्यते ॥३२॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे अष्टमोऽध्यायः
॥८॥
ओ)०(ओ