०७

अथ सप्तमोऽध्यायः
मानसप्रजासृष्टिः, रुद्रादीनां सृष्टिः, चतुर्विधप्रलयवर्णनं च

श्रीपराशर उवाच
ततोऽभिध्यायतस् तस्य जज्ञिरे मानसाः प्रजाः ।
तच्छरीरसमुत्पन्नैः कार्यैस् तैः करणैः सह ।
क्षेत्रज्ञाः समवर्तन्त गात्रेभ्यस् तस्य धीमतः ॥१॥
ते सर्वे समवर्तन्त ये मया प्राग् उदाहृताः ।
देवाद्याः स्थावरान्ताश् च त्रैगुण्यविषये स्थिताः ॥२॥
एति भावःभावानि सृष्टानि चराणि स्थावराणि च ॥३॥
यदास्य ताः प्रजाः सर्वा न व्यवर्धन्त धीमतः ।
अथान्यान् मानसान् पुत्रान् सदृशान् आत्मनोऽसृजत् ॥४॥
भृगुं पुलस्त्यं पुलहं क्रतुम् अङ्गिरसं तथा ।
मरीचिं दक्षम् अत्रिं च वसिष्ठं चैव मानसान् ॥५॥
नव ब्रह्माण इत्य् एते पुराणे निश्चयं गताः ॥६॥
ख्यातिं भूतिं च सम्भूतिं क्षमां प्रीतिं तथैव च ।
सन्नतिं च तथैवोर्जाम् अनसूयां तथैव च ॥७॥
प्रसूतिं च ततः सृष्ट्वा ददौ तेषां महात्मनाम् ।
पत्न्यो भवध्वम् इत्य् उक्त्वा तेषाम् एव तु दत्तवान् ॥८॥
सनन्दनादयो ये च पूर्वसृष्टासु वेधसा ।
न ते लोकेष्व् असज्जन्त निरपेक्षाः प्रजासु ते ॥९॥
सर्वे तेऽभ्यागतज्ञाना वीतरागा विमत्सराः ।
तेष्व् एवं निरपेक्षेषु लोकसृष्टौ महात्मनः ॥१०॥
ब्रह्मणोऽभून् महान् क्रोधस् त्रैलोक्यदहनक्षमः ।
तस्य कोर्धात् समुद्भूतज्वालामालातिदीपितम् ।
ब्रह्मणोऽभूत् तदा सर्वं त्रैलोक्यम् अखिलं मुने ॥११॥
भ्रकुटीकुटिलात् तस्य ललाटात् क्रोधदीपितात् ।
समुत्पन्नस् तदा रुद्रो मध्याह्नार्कसमप्रभः ॥१२॥
अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् ।
विभजात्मानम् इत्य् उक्त्वा तं ब्रह्मान्तर्दधे ततः ॥१३॥
तथोक्तोऽसौ द्विधा स्त्रीत्वं पुरुषत्वं तथाकरोत् ।
विभेदपुरुषत्वं च दशधा चैकधा पुनः ॥१४॥
सौम्यासौम्यैस् तदा शान्ताशान्तैः स्त्रीत्वं च स प्रभुः ।
विभेद बहुधा देवः स्वरूपैर् असितैः सितैः ॥१५॥
ततो ब्रह्मात्मसम्भूतं पूर्वं स्वायम्भुवं प्रभुः ।
आत्मानम् एव कृतवान् प्रजापाल्ये मनुं द्विज ॥१६॥
शतरूपां च तां नारीं तपोनिर्धूतकल्मषाम् ।
स्वायम्भुवो मनुर् देवः पत्नीत्वे जगृहे प्रभुः ॥१७॥
तस्मात् तु पुरुषाद् देवी शतरूपा व्यजायत ।
प्रियवर्तोत्तानपादौ प्रसूत्याकूतिसञ्ज्ञितम् ॥१८॥
कन्याद्वयं च धर्मज्ञ रूपौदार्यगुणान्वितम् ।
ददौ प्रसूतिं दक्षाय आकूतिं रुचये पुरा ॥१९॥
प्रजापतिः स जग्राह तयोर् जज्ञे सदक्षिणः ।
पुत्रो यज्ञो महाभाग दम्पत्योर् मिथुनं ततः ॥२०॥
यज्ञस्य दक्षिणायां तु पुत्रा द्वादश जज्ञिरे ।
यामा इति समाख्याता देवाः स्वायम्भुवे मनौ ॥२१॥
प्रसूत्यां च तथा दक्षश् चतस्रो विंशतिस् तथा ।
ससर्ज कन्यास् तासां च सम्यङ् नामानि मे शृणु ॥२२॥
श्रद्धा लक्ष्मीर् धृतिस् तुष्टिर् मेधा पुष्टिस् तथा क्रिया ।
बुद्धिर् लज्जा वपुः शान्तिः सिद्धिः कीर्तिस् त्रयोदशी ॥२३॥
पत्न्यर्थं प्रतिजग्राह धर्मो दाक्षायिणीः प्रभुः ।
ताभ्यः शिष्टा यवीयस्य एकादश सुलोचनाः ॥२४॥
ख्यातिः सत्यथ सम्भूतिः स्मृतिः प्रीतिः क्षमा तथा ।
सन्ततिश् चानसूया च ऊर्जा स्वाहा स्वधा तथा ॥२५॥
भृगुर् भवो मरीचिश् च तथा चैवाङ्गिरा मुनिः ।
पुलस्त्यः पुलहश् चैव क्रतुश् च र्षिवरस् तथा ॥२६॥
अत्रिर् वसिष्ठो वह्निश् च पितरश् च यथाक्रमम् ।
ख्यात्याद्या जगृहुः कन्या मुनयो मुनिसत्तम ॥२७॥
श्रद्धा कामं चला दर्पं नियमं धृतिर् आत्मजम् ।
सन्तोषं च तथा तुष्टिर् लोभं पुष्टिर् असूयत ॥२८॥
मेधा श्रुतं क्रिया दण्डं नयं विनयम् एव च ॥२९॥
बोधं बुद्धिस् तथा लज्जा विनयं वपुर् आत्मजम् ।
व्यवसायं प्रजज्ञे वै क्षेमं शान्तिर् असूयत ॥३०॥
सुखं सिद्धिर् यशः कीर्तिर् इत्य् एते धर्मसूनवः ।
कामाद् रतिः सुतं हर्षं धर्मपौत्रम् असूयत ॥३१॥
हिंसा भार्या त्व् अधर्मस्य ततो जज्ञे तथानृतम् ।
कन्या च निकृतिस् ताभ्याम् भयं नरकम् एव च ॥३२॥
माया च वेदना चैव मिथुनं त्व् इदम् एतयोः ।
तयोर् जज्ञेऽथ वै माया मृत्युं भूतापहारिणम् ॥३३॥
वेदना स्वसुतं चापि दुःखं जज्ञेऽथ रौरवात् ।
मृत्योर् व्याधिजराशोकतृष्णाक्रोधाश् च जज्ञिरे ॥३४॥
दुःखोत्तराः स्मृता ह्य् एते सर्वे चाधर्मलक्षणाः ।
नैषां पुत्रोऽस्ति वै भार्या ते सर्वे ह्य् ऊर्ध्वरेतसः ॥३५॥
रौद्राण्य् एतानि रूपाणि विष्णोर् मुनिवरात्मज ।
नित्यप्रलयहेतुत्वं जगतोऽस्य प्रयान्ति वै ॥३६॥
दक्षो मरीचिर् अत्रिश् च भृग्वाद्याश् च प्रजेश्वराः ।
जगत्यत्र महाभाग नित्यसर्गस्य हेतवः ॥३७॥
मनवो मनुपुत्राश् च भूपा वीर्यधराश् च ये ।
सन्मार्गनिरताः शूरास् ते सर्वे स्थितिकारिणः ॥३८॥

श्रीमैत्रेय उवाच
येन नित्या स्थितिर् ब्रह्मन् नित्यसर्गस् तथेरितः ।
नित्याभावश् च तेषां वै स्वरूपं मम कथ्यताम् ॥३९॥

श्रीपराशर उवाच
सर्गस्थितिविनाशांश् चैव भगवान् मधुसूदनः ।
तैस् तै रूपैर् अचिन्त्यात्मा करोत्यव्याहतो विभुः ॥४०॥
नैमित्तिकः प्राकृतिकस् तथैवात्यन्तिको द्विज ।
नित्यश् च सर्वभूतानां प्रलयोऽयं चतुर्विधः ॥४१॥
ब्राह्मो नैमित्तिकस् तत्र शेतेऽयं जगतीपतिः ।
प्रयाति प्राकृते चैव ब्रह्माण्डं प्रकृतौ लयम् ॥४२॥
ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।
नित्यः सदैव भूतानां यो विनाशो दिवानिशम् ॥४३॥
प्रसूतिः प्रकृतेर् या तु सा सृष्टिः प्राकृता स्मृता ।
दैनन्दिनी तथा प्रोक्ता यान्तरप्रलयाद् अनु ॥४४॥
भूतान्यनुदिनं यत्र जायन्ते मुनिसत्तम ।
नित्यसर्गो हि स प्रोक्तः पुराणार्थविचक्षणैः ॥४५॥
एवं सर्वशरीरेषु भगवान् भूतभावनः ।
संस्थितः कुरुते विष्णुर् उत्पत्तिस्थितिसंयमान् ॥४६॥
सृष्टिस्थितिविनाशानां शक्तयः सर्वदेहिषु ।
वैष्णव्यः परिवर्तन्ते मैत्रेयाहर्निशं समाः ॥४७॥
गुणत्रयमयं ह्य् एतद् ब्रह्मन् शक्तित्रयं महत् ।
योऽतियाति स यात्य् एव परं नावर्तते पुनः ॥४८॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे सप्तमोऽध्यायः
॥७॥

ओ)०(ओ