०६

अथ षष्ठोऽध्यायः
चातुर्वर्ण्यसृष्टिः, चातुर्वर्णस्थाननिरूपणं च

श्रीमैत्रेय उवाच
अर्वाक् स्रोतास् तु कथितो भवता यस् तु मानुषः ।
ब्रह्मन् विस्तरतो ब्रूहि ब्रह्मा तम् असृजद् यथा ॥१॥
यथा च वर्णान् असृजद् यद् गुणांश् च प्रजापतिः ।
यच् च तेषां स्मृतं कर्म विप्रादीनां तद् उच्यताम् ॥२॥

श्रीपराशर उवाच
सत्याभिध्यायिनः पूर्वं सिसृक्षोर् ब्रह्मणो जगत् ।
अजायन्त द्विजश्रेष्ठ सत्त्वोद्रिक्ता मुखात् प्रजाः ॥३॥
वक्षसो रजसोद्रिक्तास् तथा वै ब्रह्मणोऽभवन् ।
रजसा तमसा चैव समुद्रिक्तास् तथोरुतः ॥४॥
पद्भ्याम् अन्याः प्रजा ब्रह्मा ससर्ज द्विजसत्तम ।
पादोरुवक्षःस्थलतो मुखतश् च समुद्गताः ॥५॥
ब्राह्मणाः क्षत्रिया वैश्याः शुद्राश् च द्विजसत्तम ।
पादोरुवक्षःस्थलतो मुखतश् च समुद्गताः ॥६॥
यज्ञनिष्पत्तये सर्वम् एतद् ब्रह्मा चकार वै ।
चातुर्वर्ण्यं महाभाग यज्ञसाधनम् उत्तमम् ॥७॥
यज्ञैर् आप्यायिता देवा वृष्ट्युत्सर्गेण वै प्रजाः ।
आप्याययन्ते धर्मज्ञ यज्ञाः कल्याणहेतवः ॥८॥
निष्पाद्यन्ते नरैस् तैस् तु स्वधर्माभिरतैः सदा ।
विशुद्धाचरणोपेतैः सद्भिः सन्मार्गगामिभिः ॥९॥
स्वर्गापवर्गौ मानुष्यात् प्राप्नुवन्ति नरा मुने ।
यच् चाभिरुचितं स्थानं तद्यान्ति मनुजा द्विज ॥१०॥
प्रजास् ता ब्रह्मणा सृष्टाश् चातुर्वर्ण्यव्यवस्थिताः ।
सम्यक्श्रद्धासमाचारप्रवणा मुनिसत्तम ॥११॥
यथेच्छावासनिरता सर्वबाधाविवर्जिताः ।
शुद्धान्तःकरणाः शुद्धाः कर्मानुष्ठाननिर्मलाः ॥१२॥
शुद्धे च तासां मनसि शुद्धेऽन्तःसंस्थिते हरौ ।
शुद्धज्ञानं प्रपश्यन्ति विष्ण्वाख्यं येन तत्पदम् ॥१३॥
ततः कालात्मको योऽसौ स चांशः कथितो हरेः ।
स पातयत्यघं घोरम् अल्पम् अल्पाल्पसारवत् ॥१४॥
अधर्मबीजम् उद्भूतं तमोलोभसमुद्भवम् ।
प्रजासु तासु मैत्रेय रागादिकम् असाधकम् ॥१५॥
ततः सा सहजा सिद्धिस् तासां नातीव जायते ।
रसोल्लासादयश् चान्या सिद्धयोऽष्टौ भवन्ति याः ॥१६॥
तासु क्षीणास्व् अशेषासु वर्धमाने च पातके ।
द्वन्द्वाभिभवदुःखार्तास् ता भवन्ति ततः प्रजाः ॥१७॥
ततो दुर्गाणि ताश् चक्रुर् धान्वं पार्वतम् औदकम् ।
कृत्रिमं च तथा दुर्गं पुरखर्वटकादिकम् ॥१८॥
गृहाणि च यथान्यायं तेषु चक्रुः पुरादिषु ।
शीतातपादिबाधानां प्रशमाय महामते ॥१९॥
प्रतीकारम् इमं कृत्वा शीतादेस् ताः प्रजाः पुनः ।
वार्तोपायं ततश् चक्रुर् हस्तसिद्धिं च कर्मजाम् ॥२०॥
व्रीहयश् च यवाश् चैव गोधूमाश् चाणवस् तिलाः ।
प्रियङ्गवो ह्य् उदाराश् च कोरदूषाः सतीनकाः ॥२१॥
माषा मुद्गा मसूराश् च निष्पावाः सकुलत्थकाः ।
आढक्य च् चणकाश् चैव शणाः सप्तदश स्मृताः ॥२२॥
इत्य् एता ओषधीनां तु ग्राम्यानां जातयो मुने ।
ओषध्यो यज्ञियाश् चैव ग्राम्यारण्याश् चतुर्दश ॥२३॥
व्रीहयः सयवा माषा गोधूमाश् चाणवस् तिलाः ।
प्रियङ्गुसप्तमा ह्य् एते अष्टमास् तु कुलत्थकाः ॥२४॥
श्यामाकास् त्व् अथ नीवारा जर्तिला सगवेधुकाः ।
तथा वेणुयवाः प्रोक्तास् तथा मर्कटका मुने ॥२५॥
ग्राम्यारण्याः स्मृता ह्य् एता ओषध्यस् तु चतुर्दश ।
यज्ञनिष्पत्तये यज्ञस् तथासां हेतुर् उत्तमः ॥२६॥
एताश् च सह यज्ञेन प्रजानां कारणं परम् ।
परावरविदः प्राज्ञास् ततो यज्ञान् वितन्वते ॥२७॥
अहन्यहन्यनुष्ठानं यज्ञानां मुनिसत्तम ।
उपकारकरं पुंसां क्रियमाणाघशान्तिदम् ॥२८॥
येषां तु कालसृष्टोऽसौ पापबिन्दुर् महामुने ।
चेतःसु ववृधे चक्रुस् ते न यज्ञेषु मानसम् ॥२९॥
वेदवादांस् तथा वेदान् यज्ञकर्मादिकं च यत् ।
तत् सर्वं निन्दयामासुर् यज्ञव्यासेधकारिणः ॥३०॥
प्रवृत्तिमार्गव्युच्छित्तिकारिणो वेदनिन्दकाः ।
दुरात्मानो दुराचारा बभूवुः कुटिलाशयाः ॥३१॥
संसिद्धायां तु वार्तायां प्रजाः सृष्ट्वा प्रजापतिः ।
मर्यादां स्थापयामास यथास्थानं यथागुणम् ॥३२॥
वर्णानाम् आश्रमाणां च धर्मान् धर्मभृतां वर ।
लोकांश् च सर्ववर्णानां सम्यग् धर्मानुपालिनाम् ॥३३॥
प्राजापत्यं ब्राह्मणानां स्मृतं स्थानं क्रियावताम् ।
स्थानम् ऐन्द्रं क्षत्रियाणां सङ्ग्रामेष्व् अनिवर्तिनाम् ॥३४॥
वैश्यानां मारुतं स्थानं स्वधर्मम् अनुवर्तिनाम् ।
गान्धर्वं शूद्रजातीनां परिचर्यानुवर्तिनाम् ॥३५॥
अष्टाशीतिसहस्राणि मुनीनाम् ऊर्ध्वरेतसाम् ।
स्मृतं तेषां तु यत् स्थानं तद् एव गुरुवासिनाम् ॥३६॥
सप्तर्षीणां तु यत् स्थानं स्मृतं तद् वै वनौकसाम् ।
प्राजापत्यं गृहस्थानां न्यासिनां ब्रह्मसञ्ज्ञितम् ॥३७॥
योगिनाम् अमृतं स्थानं स्वात्मसन्तोषकारिणाम् ॥३८॥
एकान्तिनः सदा ब्रह्मध्यायिनो योगिनश् च ये ।
तेषां तु परमं स्थानं यत् तत् पश्यन्ति सूरयः ॥३९॥
गत्वा गत्वा निवर्तन्ते चन्द्रसूर्यादयो ग्रहाः ।
अद्यापि न निवर्तन्ते द्वादशाक्षरचिन्तकाः ॥४०॥
तामिस्रम् अन्धतामिस्रं महारौरवरौरवौ ।
असिपत्रवनं घोरं कालसूत्रम् अवीचिकम् ॥४१॥
विनिन्दकानां वेदस्य यज्ञव्याघातकारिणाम् ।
स्थानम् एतत् समाख्यातं स्वधर्मत्यागिनश् च ये ॥४२॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे षष्ठोऽध्यायः
॥६॥

ओ)०(ओ