०५

अथ पञ्चमोऽध्यायः
देवादीनां सृष्टिकथनं

श्रीमैत्रेय उवाच
यथा ससर्ज देवोऽसौ देवर्षिपितृदानवान् ।
मनुष्यतिर्यग्वृक्षादीन् भूव्योमसलिलौकसः ॥१॥
यद् गुणं यत्स्वभावं च यद्रूपं च जगद् द्विज ।
सर्गादौ सृष्टवान् ब्रह्मा तन् ममाचक्ष्व कृत्स्नशः ॥२॥

श्रीपराशर उवाच
मैत्रेय कथयाम्य् एतच् छृणुष्व सुसमाहितः ।
यथा ससर्ज देवोऽसौ देवादीन् अखिलान् विभुः ॥३॥
सृष्टिं चिन्तयतस् तस्य कल्पादिषु यथा पुरा ।
अबुद्धिपूर्वकः सर्गः प्रादुर्भूतस् तमोमयः ॥४॥
तमो मोहो महामोहस् तामिस्रो ह्यन्धसञ्ज्ञितः ।
अविद्या पञ्चपर्वैषा प्रादुर्भूता महात्मनः ॥५॥
पञ्चधाऽवस्थितः सर्गो ध्यायतोऽप्रतिबोधवान् ।
बहिर् अन्तोऽप्रकाशश् च संवृतात्मा नगात्मकः ॥६॥
मुख्या नगा यतः प्रोक्ता मुख्यसर्गस् ततस् त्व् अयम् ॥७॥
तं दृष्ट्वाऽसाधकं सर्गम् अन्यद् अपरं पुनः ॥८॥
तस्याभिध्यायतः सर्गस् तिर्यक् स्रोताभ्यवर्तत ।
यस्मात् तिर्यक् प्रवृत्तिः स तिर्यक् सोर्तास् ततः स्मृतः ॥९॥
पश्वादयस् ते विख्यातास् तमःप्राया ह्यवेदिनः ।
उत्पथग्राहिणश् चैव तेऽज्ञाने ज्ञानमानिनः ॥१०॥
अहङ्कृता अहम्माना अष्टाविंशद्वधात्मकः ।
अन्तःप्रकाशास् ते सर्वे आवृताश् च परस्परम् ॥११॥
तम् अप्यसाधकं मत्वा ध्यायतोऽन्यस् ततोऽभवत् ।
ऊर्ध्वस्रोतास् तृतीयस् तु सात्त्विकोर्ध्वम् अवर्तत ॥१२॥
ते सुखप्रीतिबहुला बहिर् अन्तस् त्वनावृताः ।
प्रकाशा बहिर् अन्तश् च ऊर्ध्वस्रोतोद्भवाः स्मृताः ॥१३॥
तुष्टात्मनस् तृतीयस् तु देवसर्गस् तु स स्मृतः ।
तस्मिन् सर्गेऽभवत् प्रीतिर् निष्पन्ने ब्रह्मणस् तदा ॥१४॥
ततोऽन्यं स तदा दधौ साधकं सर्गम् उत्तमम् ।
असाधकांस् तु तान् ज्ञात्वा मुख्यसर्गादिसम्भवात् ॥१५॥
तथाभिध्यायतस् तस्य सत्याभिध्यायिनस् ततः ।
प्रादुर्बभूव चाव्यक्ताद् अर्वाक् स्रोतास् तु साधकः ॥१६॥
यस्माद् अर्वाग् व्यवर्तन्त ततोऽर्वाक् स्रोतसस् तु ते ।
ते च प्रकाशबहुलास् तमोद्रिक्ता रजोऽधिकाः ॥१७॥
तस्मात् ते दुःखबहुला भूयो भूयश् च कारिणः ।
प्रकाशा बहिर् अन्तश् च मनुष्याः साधकास् तु ॥१८॥
इत्य् एते कथिताः सर्गाः षड् अत्र मुनिसत्तम ।
प्रथमो महतः सर्गो विज्ञेयो ब्रह्मणस् तु सः ॥१९॥
तन्मात्राणां द्वितीयश् च भूतसर्गो हि स स्मृतः ।
वैकारिकस् तृतीयस् तु सर्ग ऐन्द्रिक्यकः स्मृतः ॥२०॥
इत्य् एष प्राकृतः सर्गः सम्भूतो बुद्धिपूर्वकः ।
मुख्यसर्गश् चतुर्थस् तु मुख्या वै स्थावराः स्मृताः ॥२१॥
तिर्यक्स्रोतास् तु यः प्रोल्तस् तैर्यग्योन्यः स उच्यते ।
तदूर्ध्वस्रोतसां षष्ठो देवसर्गस् तु संस्मृतः ॥२२॥
ततोऽर्वाक् स्रोतसां सर्गः सप्तमः स तु मानुषः ॥२३॥
अष्टमोऽनुग्रहः सर्गः सात्त्विकस् तामसश् च सः ।
पञ्चैते वैकृताः सर्गाः प्राकृतास् तु त्रयः स्मृताः ॥२४॥
प्राकृतो वैकृतश् चैव कौमारो नवमः स्मृतः ।
इत्य् एते वै समाख्याता नव सर्गाः प्रजापतेः ॥२५॥
प्राकृता वैकृताश् चैव जगतो मूलहेतवः ।
सृजतो जगदीशस्य किम् अन्यच् छ्रोतुम् इच्छसि ॥२६॥

श्रीमैत्रेय उवाच
सङ्क्षेपात् कथितः सर्गो देवादीनां मुने त्वया ।
विस्ताराच् छ्रोतुम् इच्छामि त्वत्तो मुनिवरोत्तम ॥२७॥

श्रीपराशर उवाच
कर्मभिर् भाविताः पूर्वैः कुशलाकुशलैस् तु ताः ।
ख्यात्या तया ह्यनिर्मुक्ताः संहारे ह्य् उपसंहृताः ॥२८॥
स्थावरान्ताः सुराद्यास् तु प्रजा ब्रह्मंश् चतुर्विधाः ।
ब्रह्मणः कुर्वतः सृष्टिं जज्ञिरे मानसास् तु ताः ॥२९॥
ततो देवासुरपित्ṝन् मनुष्यांश् च चतुष्टयम् ।
सिसृक्षुर् अम्भोआंस्य् एतानि स्वम् आत्मानम् अयूयुजत् ॥३०॥
युक्तात्मनस् तमोमात्रा ह्य् उद्रिक्ताभूत् प्रजापतेः ।
सिसृक्षोर् जघनात् पूर्वम् असुरा जज्ञिरे ततः ॥३१॥
उत्ससर्ज ततस् तां तु तमोमात्रात्मिकां तनुम् ।
सा तु त्यक्ता तनुस् तेन मैत्रेयाभूद् विभावरी ॥३२॥
सिसृक्षुर् अन्यदेहस्थः प्रीतिम् आप ततः सुराः ।
सत्त्वोद्रिक्ताः समुद्भूता मुखतो ब्रह्मणो द्विज ॥३३॥
त्यक्ता सापि तनुस् तेन सत्त्वप्रायम् अभूद् दिनम् ।
ततो हि बलिनो रात्राव् असुरा देवता दिवा ॥३४॥
सत्त्वमात्रात्मिकाम् एव ततोऽन्यां जगृहे तनुम् ।
पितृवन् मन्यमानस्य पितरस् तस्य जज्ञिरे ॥३५॥
उत्ससर्ज ततस् तां तु पित्ṝन् सृष्ट्वापि स प्रभुः ।
सा चोत्सृष्ट् ;अभवत् सन्ध्या दिननक्तान्तरस्थिता ॥३६॥
रजोमात्रात्मिकाम् अन्यां जगृहे स तनुं ततः ।
रजोमात्रोत्कटा जाता मनुष्या द्विजसत्तम ॥३७॥
ताम् अप्य् आशु स तत्याज तनुं सद्यः प्रजापतिः ।
ज्योत्स्ना समभवत् सापि प्राक् सन्ध्या याभिधीयते ॥३८॥
ज्योत्स्नागमे तु बलिनो मनुष्याः पितरस् तथा ।
मैत्रेय सन्ध्यासमये तस्माद् एते भवन्ति वै ॥३९॥
ज्योत्स्ना रात्र्यहनी सन्ध्या चत्वार्य् एतानि वै प्रभोः ।
ब्रह्मणस् तु शरीराणि त्रिगुणोपाश्रयाणि तु ॥४०॥
रजोमात्रात्मिकाम् एव ततोऽन्यां जगृहे तनुम् ।
ततः क्षुद् ब्रह्मणो जाता जज्ञे कामस् तया ततः ॥४१॥
क्षुत्क्षामानन्धकारेऽथ सोऽसृजद् भगवांस् ततः ।
विरूपाः श्मश्रुला जातास् तेऽभ्यधावंस् ततः प्रभुम् ॥४२॥
मैवं भो रक्ष्यताम् एष यैर् उक्तं राक्षसास् तु ते ।
ऊचुः खादाम इत्यन्ये ये ते यक्षास् तु जक्षणात् ॥४३॥
अप्रियेण तु तान् दृष्ट्वा केशाः शीर्यन्त वेधसः ।
हीनाश् च शिरसो भूयः समारोहन्त तच्छिरः ॥४४॥
सर्पात् तेऽभवन् सर्पा हीनत्वाद् अहयः स्मृताः ।
ततः क्रुद्धो जगत्स्रष्टा क्रोधात्मनो विनिर्ममे ।
वर्णेन कपिशेनोग्रभूतास् ते पिशिताशनाः ॥४५॥
गायतोऽङ्गात् समुत्पन्ना गन्धर्वास् तस्य तत्क्षणात् ।
पिबन्तो जज्ञिरे वाचं गन्धर्वास् तेन ते द्विज ॥४६॥
एतानि सृष्ट्वा भगवान् ब्रह्मा तच्छक्तिचोदितः ।
ततः स्वच्छन्दतोऽन्यानि वयांसि वयसोऽसृजत् ॥४७॥
अवयो वक्षसश् चक्रे मुखतोऽजाः स सृष्टवान् ।
सृष्टवान् उदराद् गाश् च पार्श्वाभ्याम् च प्रजापतिः ॥४८॥
पद्भ्यां चाश्वान् समातङ्गान् रासभान् गवयान् मृगान् ।
उष्ट्रान् अश्वतरांश् चैव न्यङ्कून् अन्याश् च जातयः ॥४९॥
ओषध्यः फलमूलिन्यो रोमभ्यस् तस्य जज्ञिरे ।
त्रेतायुगमुखे कल्पस्यादौ द्विजोत्तम ।
सृष्ट्वा पश्वोषधीः सम्यग् युयोज स तदाध्वरे ॥५०॥
गौरजः पुरुषो मेषश् चाश्वाश्वतरगर्दभाः ।
एतान् ग्राम्यान् पशून् आहुर् आरण्यांश् च निबोध मे ॥५१॥
श्वापदा द्विखुरा हस्ती वानराः पक्षिपञ्चमाः ।
औदकाः पशवः षष्ठाः सप्तमास् तु सरीसृपाः ॥५२॥
गायत्रं च ऋचश् चैव त्रिवृत् सोमं रथन्तरम् ।
अग्निष्टोमं च यज्ञानां निर्ममे प्रथमान् मुखात् ॥५३॥
यजूंषि त्रैष्टुभं छन्दः स्तोमं पञ्चदशं तथा ।
बृहत्साम तथोक्थं च दक्षिणाद् असृजन् मुखात् ॥५४॥
सामानि जगतीच्छन्दः स्तोमं सप्तदशं तथा ।
वैरूपम् अतिरात्रं च पश्चिमाद् असृजन् मुखात् ॥५५॥
एकविञ्चम् अथर्वाणाम् आप्तोर् यामाणम् एव च ।
अनुष्टुभं च वैराजम् उत्तराद् असृजन् मुखात् ॥५६॥
उच्चावचानि भूतानि गात्रेभ्यस् तस्य जज्ञिरे ।
देवासुरपित्ṝन् सृष्ट्वा मनुष्यांश् च प्रजापतिः ॥५७॥
ततः पुनः ससर्जादौ साङ्कल्पस्य पितामहः ।
यक्षान् पिशाचान् गन्धर्वान् तथैवाप्सरसां गणान् ॥५८॥
नरकिन्नररक्षांसि वयःपशुमृगोरगान् ।
अव्ययं च व्ययं चैव यद् इदं स्थाणुजङ्गमम् ॥५९॥
तत् ससर्ज तदा ब्रह्मा भगवान् आदिकृत् प्रभुः ।
तेषां ये यानि कर्माणि प्राक् सृष्ट्यां प्रतिपेदिरे ॥६०॥
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्माव् ऋतानृते ।
तद्भाविताः प्रपद्यन्ते तस्मात् तत् तस्य रोचते ॥६१॥
इन्द्रियथार्थएषु भूतेषु शरीरेषु च स प्रभुः ।
नानात्वं विनियोगं च धातैवं व्यसृजत् स्वयम् ॥६२॥
नाम रूपं च भूतानां कृत्यानां च प्रपञ्चनम् ।
वेदशब्देभ्य एवादौ देवादीनां चकार सः ॥६३॥
ऋषीणां नामधेयानि यथा वेदश्रुतानि वै ।
तथा विनियोगयोग्यानि ह्यन्येषाम् अपि सोऽकरोत् ॥६४॥
यथ र्तुष्व् ऋतुलिङ्गानि नानारूपाणि पर्यये ।
दृश्यन्ते तानि तान्य् एव तत्र भावा युगादिषु ॥६५॥
करोत्य् एवंविधां सृष्टिं कल्पादौ स पुनः पुनः ।
सिसृक्षाशक्तियुक्तोऽसौ सृज्यशक्तिप्रचोदितः ॥६६॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे पञ्चमोऽध्यायः
॥५॥

ओ)०(ओ