चतुर्थोऽध्यायः
कल्पान्ते सर्गवर्णनं
श्रीमैत्रेय उवाच
ब्रह्मा नारायणाख्योऽसौ कल्पादौ भगवान् यथा ।
ससर्ज सर्वभूतानि तदाचक्ष्व महामुने ॥१॥
श्रीपराशर उवाच
प्रजाः ससर्ज भगवान् ब्रह्मा नारायणात्मकः ।
प्रजापतिपतिर् देवो यथा तन् मे निशामय ॥२॥
अतीतकल्पावसाने निशासुप्तोत्थितः प्रभुः ।
सत्त्वोद्रिक्तस् तथा ब्रह्मा शून्यं लोकम् अवैक्षत ॥३॥
नारायणः परोऽचिन्त्यः परेषाम् अपि स प्रभुः ।
ब्रह्मस्वरूपी भगवान् अनादिः सर्वसम्भवः ॥४॥
इमं चोदाहरन्त्यत्र श्लोकं नारायणं प्रति ।
ब्रह्मस्वरूपिणं देवं जगतः प्रभवाप्ययम् ॥५॥
आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥६॥
तोयान्तःस्थां महीं ज्ञात्वा जगत्य् एकार्णवीकृते ।
अनुमानात् तदुद्धारं कर्तुकामः प्रजापतिः ॥७॥
अकरोत् स्वतनूम् अन्यां कल्पादिषु यथा पुरा ।
मत्स्यकूर्मादिकां तद्वद् वाराहं वपुरास्थितः ॥८॥
वेदयज्ञमयं रूपम् अशेषजगतः स्थितौ ।
स्थितः स्थिरात्मा सर्वात्मा परमात्मा प्रजापतिः ॥९॥
जनलोकगतैः सिद्धैः सनकाद्यैर् अभिष्टुतः ।
प्रविवेश तदा तोयम् आत्माधारो धराधरः ॥१०॥
निरीक्ष्य तं तदा देवी पाटालतलम् आगतम् ।
तुष्टाव प्रणता भूत्वा भक्तिनम्रा वसुन्धरा ॥११॥
पृथिव्य् उवाच
नमस् ते पुण्डरीकाक्ष शङ्खचक्रगदाधर ।
माम् उद्धरास्माद् अद्य त्वं त्वत्तोऽहं पूर्वम् उत्थिता ॥१२॥
त्वयाहम् उद्धृता पूर्वं त्वन् मयाहं जनार्दन ।
तथान्यानि च भूतानि गगनादीन्यशेषतः ॥१३॥
नमस् ते परमात्मात्मन् पुरुषात्मन् नमोऽस्तु ते ।
प्रधानव्यक्तभूताय कालभूताय ते नमः ॥१४॥
त्वं कर्ता सर्वभूतानां त्वं पाता त्वं विनाशकृत् ।
सर्गादिषु प्रभो ब्रह्मविष्णुरुद्रात्मरूपधृक् ॥१५॥
सम्भक्ष्á सकलं जगत्य् एकार्णवीकृते ।
शेषे त्वम् एव गोविन्द चिन्त्यमानो मनीषिभिः ॥१६॥
भवतो यत् परं सत्त्वं तन् न जानन्ति कश्चन ।
अवतारेषु यद् रूपं तद् अर्चन्ति दिवौकसः ॥१७॥
त्वाम् आराध्य परं ब्रह्म याता मुक्तिं मुमुक्षवः ।
वासुदेवम् अनाराध्य को मोक्षं समवाप्स्यति ॥१८॥
यत् किञ्चित् मनसा ग्राह्यं यद् ग्राह्यं चक्षुरादिभिः ।
बुद्ध्या च यत् परिच्छेद्यं तद् रूपम् अखिलं तव ॥१९॥
त्वन्मयाहं त्वदाधारा त्वत्सृष्टा त्वत्समाश्रया ।
माधवीम् इति लोकोऽयम् अभिधत्ते ततो हि माम् ॥२०॥
जयाखिलज्ञानमय जय स्थूलमयाव्यय ।
जयानन्त जयाव्यक्त जय व्यक्तमय प्रभो ॥२१॥
परापरमात्मन् विश्वात्मन् जय यज्ञपतेऽनघ ।
त्वं यज्ञस् त्वं वषट्कारस् त्वम् ओङ्कारस् त्वम् अग्नयः ॥२२॥
त्वं वेदास् त्वं तदङ्गानि त्वं यज्ञपुरुषो हरे ।
सूर्यादयो ग्रहास् तारा नक्षत्राण्यखिलं जगत् ॥२३॥
मूर्तामूर्तम् अदृश्यं च दृश्यं च पुरुषोत्तम ।
यच् चोक्तं यच् च नैवोक्तं मयात्र परमेश्वर ।
तत् सर्वं त्वं नमस् तुभ्यं भूयो भूयो नमो नमः ॥२४॥
श्रीपराशर उवाच
एवं संस्तूयमानस् तु पृथिव्या धरणीधरः ।
सामस्वरध्वनिः श्रीमाञ् जगर्ज परिघर्घरम् ॥२५॥
ततः समुत्क्षिप्य धरां स्वदंष्ट्रया
महावराहः स्फुटपद्मलोचनः ।
रसातलाद् उत्पलपत्रसन्निभः
समुत्थितो नील इवाचलो महान् ॥२६॥
उत्तिष्ठता तेन मुखानिलाहतं
तत्सम्भवाम्भो जनलोकसंश्रयान् ।
प्रक्षालयामास हि तान् महाद्युतीन्
सनन्दनादीन् अपकल्मषान् मुनीन् ॥२७॥
प्रयान्ति तोयानि खुराग्रविक्षत
रसातलेऽधः कृतशब्दसन्तति ।
श्वासानिलास् ताः परितः प्रयान्ति
सिद्धा जने ये नियता वसन्ति ॥२८॥
उत्तिष्ठतस् तस्य जलार्द्रकुक्षेर्
महावराहस्य महीं विगृह्य ।
विधुन्वतो वेदमयं शरीरं
रोमान्तरस्था मुनयः स्तुवन्ति ॥२९॥
तं तुष्टुवुस् तोषपरीतचेतसो
लोके जने ये निवसन्ति योगिनः ।
सनन्दनाद्या ह्यतिनम्रकन्धरा
धराधरं धीरतरोद्धतेक्षणम् ॥३०॥
जयेश्वराणां परमेश केशव
प्रभो गदाशङ्खधरासिचक्रधृक् ।
प्रसूतिनाशस्थितिहेतुर् ईश्वरस्
त्वम् एव नान्यत् परमं च यत् पदम् ॥३१॥
पादेषु वेदास् तव यूपदंष्ट्र
दन्तेषुयज्ञाश् चितयश् च वक्त्रे ।
हुताशजिह्वोऽसि तनूरुहाणि
दर्भाः प्रभो यज्ञपुमांस् त्वम् एव ॥३२॥
विलोचने रात्र्यहनी महात्मन्
सर्वाश्रयं ब्रह्म परं शिरस् ते ।
सूक्तान्यशेषाणि सटाकलापो
घ्राणं समस्तानि हवींषि देव ॥३३॥
स्रुक्तुण्ड सामस्वरधीरनाद
प्राग्वंशकायाखिलसत्रसन्धे ।
पूर्तेष्टधर्मचरणारविन्दोऽसि देव
सनातनात्मन् भगवन् प्रसीद ॥३४॥
पदक्रमाक्रान्तभुवं भवन्तम्
आदिस्थितं चाक्षर विश्वमूर्ते ।
विश्वस्य विद्मः परमेश्वरोऽसि
प्रसीद नाथोऽसि परावरस्य ॥३५॥
दंष्ट्राग्रविन्यस्तम् अशेषम् एतद्
भूमण्डलं नाथ विभाव्यते ते ।
विगाहतः पद्मवनं विलग्नं
सरोजिनीपत्रम् इवोढपङ्कम् ॥३६॥
द्यावापृथिव्योर् अतुलप्रभाव
यदन्तरं तद् वपुषा तवैव ।
व्याप्तं जगद् व्याप्तिसमर्थदीप्ते
हिताय विश्वस्य विभो भव त्वम् ॥३७॥
परमार्थस् त्वम् एवैको नान्योऽस्ति जगतः पते ।
तवैष महिमा येन व्याप्तम् एतच् चराचरम् ॥३८॥
यद् एतद् दृश्यते मूर्तम् एतज्ज्ञानात्मनस् तव ।
भ्रान्तिज्ञानेन पश्यन्ति जगद्रूपम् अयोगिनः ॥३९]।
ज्ञानस्वरूपम् अखिलं जगद् एतद् अबुद्धयः ।
अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसम्प्लवे ॥४०॥
ये तु ज्ञानविदः शुद्ध चेतसस् तेऽखिलं जगत् ।
ज्ञानात्मकं प्रपश्यन्ति त्वद्रूपं परमेश्वर ॥४१॥
प्रसीद सर्व सर्वात्मन् वासाय जगताम् इमाम् ।
उद्धरोर्वीम् अमेयात्मन् छिन्नो देह्यब्जलोचन ॥४२॥
सत्त्वोद्रिक्तोऽसि भगवन् गोविन्द पृथिवीम् इमाम् ।
समुद्धर भवायेश शं नो देह्यब्जलोचन ॥४३॥
सर्गप्रवृत्तिर् भवतो जगताम् उपकारिणी ।
भवत्व् एषा नमस् तेऽस्तु शं नो देह्यब्जलोचन ॥४४॥
श्रीपराशर उवाच
एवं संस्तूयमानस् तु परमात्मा महीधरः ।
उज्जहार क्षितिं क्षिप्रं न्यस्तवांश् च महाम्भसि ॥४५॥
तस्योपरि जलौघस्य महती नौर् इव स्थिता ।
विततत्वात् तु देहस्य न मही याति सम्प्लवम् ॥४६॥
ततः क्षितिं समां कृत्वा पृथिव्यां सोऽचिनोद् गिरीन् ।
यथाविभागं भगवान् अनादिः परमेश्वरः ॥४७॥
प्राक्सर्गदग्धान् अखिलान् पर्वतान् पृथिवीतले ।
अमोघेन प्रब्रह्मा ससर्जामोघवाञ्छितः ॥४८॥
भूविभागं ततः कृत्वा सप्तद्वीपान् यथातथम् ।
भूराद्यांश् चतुरो लोकान् पूर्ववत् समकल्पयत् ॥४९॥
ब्रह्मरूपधरो देवस् ततोऽसौ रजसा वृतः ।
चकार सृष्टिं भगवांश् चतुर्वक्त्रधरो हरिः ॥५०॥
निमित्तमात्रम् एवासौ सृष्टानां सर्गकर्मणि ।
प्रधानकारणीभूता यतो वै सृज्यशक्तयः ॥५१॥
निमित्तमात्रं मुक्त्वैवं नान्यत् किञ्चिद् अपेक्षते ।
नीयते तपतां श्रेष्ठ स्वशक्त्या वस्तु वस्तुताम् ॥५२॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे चतुर्थोऽध्यायः
॥४॥
ओ)०(ओ