तृतीयोऽध्यायः ।
ब्रह्मणः सर्गजनिकायाः शक्तेर् विवरणं, तस्यायुर् निरूपणं च
श्रीमैत्रेय उवाच
निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः ।
कथं सर्गादिकर्तादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यत ॥१॥
श्रीपराशर उवाच
शक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस् तास् तु सर्गाद्या भावशक्तयः ।
भवन्ति तपसां श्रेष्ठ पावकस्य यथोष्णता ॥२॥
तन् निबोध यथा सर्गे भगवान् सम्प्रवर्तते ।
नारायणाख्यो भगवान् ब्रह्मा लोकपितामहः ॥३॥
उत्पन्नः प्रोच्यते विद्वन् नित्यम् एवोपचारतः ॥४॥
निजेन तस्य मानेन आयुर् वर्षशतं स्मृतम् ।
तत्पराख्यं तदर्धं च परार्धम् अभिधीयते ॥५॥
कालस्वरूपं विष्णोश् च यम् मयोक्तं तवानघ ।
तेन तस्य निबोध त्वं परिमाणोपपादनम् ॥६॥
अन्येषां चैव जन्तूनां चराणाम् अचराश् च ये ।
भूभूभृत्सागरादीनाम् अशेषाणां च सत्तम ॥७॥
काष्ठा पञ्चदशाख्याता निमेषा मुनिसत्तम ।
काष्ठात्रिंशत् कला त्रिंशत् कला मौहूर्तिको विधिः ॥८॥
तावत्सङ्ख्यैर् अहोरात्रं मुहूर्तैर् मानुषं स्मृतम् ।
अहोरात्राणि तावन्ति मासः पक्षद्वयात्मकः ॥९॥
तैः षड्भिर् अयनं वर्षं द्वेऽयने दक्षिणोत्तरे ।
अयनं दक्षिणं रात्रिर् देवानाम् उत्तरं दिनम् ॥१०॥
दिव्यैर् वर्षसहस्रैस् तु कृतत्रेतादिसञ्ज्ञितम् ।
चतुर्युगं द्वादशभिस् तद्विभागं निबोध मे ॥११॥
चत्वारि त्रीणि द्वै चैकं कृतादिषु यथाक्रमम् ।
द्वियाब्दानां सहस्राणि युगेष्व् आहुः पुराविदः ॥१२॥
तत्प्रमाणैः शतैः सन्ध्या पूर्वा तत्राभिधीयते ।
सन्ध्यांशश् चैव तत्तुल्यो युगस्यानन्तरो हि सः ॥१३॥
सन्ध्यासन्ध्यांशयोर् अन्तर् यः कालो मुनिसत्तम ।
युगाख्यः स तु विज्ञेयः कृतत्रेतादिसञ्ज्ञितः ॥१४॥
कृतं त्रेता द्वापरश् च कलिश् चैव चतुर्युगम् ।
प्रोच्यते तत्सहस्रं च ब्रह्मणो दिवसं मुने ॥१५॥
ब्रह्मणो दिवसे ब्रह्मन् मनवस् तु चतुर्दश ।
भवन्ति परिमाणं च तेषां कालकृतं शृणु ॥१६॥
सप्तर्षयः सुराः शक्रो मनुस् तत्सूनवो नृपाः ।
एककाले हि सृज्यन्ते च पूर्ववत् ॥१७॥
चतुर्युगाणां सङ्ख्याता साधिका ह्य् एकसप्ततिः ।
मन्वन्तरं मनोः कालः सुरादीनां च सत्तम ॥१८॥
अष्टौ शत सहस्राणि दिव्यया सङ्ख्यया स्मृतम् ।
द्विपञ्चाशत् तथान्यानि सहस्राण्यधिकानि तु ॥१९॥
त्रिंशत्कोट्यस् तु सम्पूर्णाः सङ्ख्याताः सङ्ख्यया द्विज ।
सप्तषष्टिस् तथान्यानि नियुतानि महामुने ॥२०॥
विंशतिस् तु सहस्राणि कालोऽयम् अधिकं विना ।
मन्वन्तरस्य सङ्ख्येयं मानुषैर् वत्सरैर् द्विज ॥२१॥
चतुर्दशगुणो ह्य् एष कालो ब्राह्मम् अहः स्मृतम् ।
ब्राह्मो नैमित्तिको नाम तस्यान्ते प्रतिसञ्चरः ॥२२॥
तदा हि दह्यते सर्वं त्रैलोक्यं भूर्भुवादिकम् ।
जनं प्रयान्ति तापार्ता महर्लोकनिवासिनः ॥२३॥
एकार्णवे तु त्रैलोक्ये ब्रह्मा नारायणात्मकः ।
भोगिशय्यां गतः शेते त्रैलोक्यग्रासबृंहितः ॥२४॥
जनस्थैर्योगिभिर् देवश् चिन्त्यमानोऽब्जसम्भवः ।
तत्प्रमाणां हि तां रात्रिं तदन्ते सृजते पुनः ॥२५॥
एवं तु ब्रह्मणो वर्षम् एवं वर्षशतं च यत् ।
शतं हि तस्य वर्षाणां परमायुर् महात्मनः ॥२६॥
एकम् अस्य व्यतीतं तु परार्धं ब्रह्मणोऽनघ ।
तस्यान्तेऽभून् महाकल्पः पाद्म इत्यभिविश्रुतः ॥२७॥
द्वितीयस्य परार्धस्य वर्तमानस्य वै द्विज ।
वाराह इति कल्पोऽयं प्रथमः परिकीर्तितः ॥२८॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे तृतीयोऽध्यायः
॥३॥
ओ)०(ओ