०२

द्वितीयोऽध्यायः
विष्णुस्तुतिः, सृष्टिप्रक्रिया च

श्रीमैत्रेय उवाच
निर्गुणस्याप्रमेयस्य शुद्धस्याप्यमलात्मनः ।
कथं सर्गादिकर्तृत्वं ब्रह्मणोऽभ्युपगम्यते ॥१॥

श्रीपराशर उवाच
शक्तयः सर्वभावानाम् अचिन्त्यज्ञानगोचराः ।
यतोऽतो ब्रह्मणस् तास् तु सर्गाद्या भावशक्तयः ।
भवन्ति तपतां श्रेष्ठ पावकस्य यथोष्णता ॥२॥
एकानेकस्वरूपाय स्थूलसूक्ष्मात्मने नमः ।
अव्यक्तव्यक्तरूपाय विष्णवे मुक्तिहेतवे ॥३॥
सर्गस्थितिविनाशानां जगतो यो जगन्मयः ।
मूलभूतो नमस् तस्मै विष्णवे परमात्मने ॥४॥
आधारभूतं विश्वस्याप्यणीयांसम् अणीयसाम् ।
प्रणम्य सर्वभूतस्थम् अच्युतं पुरुषोत्तमम् ॥५॥
ज्ञानस्वरूपम् अत्यन्तनिर्मलं परमार्थतः ।
तम् एवार्थस्वरूपेण भ्रान्तिदर्शनतः ॥६॥
विष्णुं ग्रसिष्णुं विश्वस्य स्थितौ सर्गे तथा प्रभुम् ।
प्रणम्य जग्गताम् ईशम् अजम् अक्षयम् अव्ययम् ॥७॥
कथयामि यथापूर्वं दक्षाद्यैर् मुनिसत्तमैः ।
पृष्टः प्रोवाच भगवान् अब्जयोनिः पितामहः ॥८॥
तैश् चोक्तं पुरुकुत्साय भूभुजे नर्मदातटे ।
सारस्वताय तेनापि मह्यं सारस्वतेन च ॥९॥
परः पराणां परमः परमात्मात्मसंस्थितः ।
रूपवर्णादिनिर्देशविशेषणविवर्जितः ॥१०॥
अपक्षयविनाशाभ्याम् परिणामर्धिजन्मभिः ।
वर्जितः शक्यते वक्तुं यः सदास्तीति केवलम् ॥११॥
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततः स वासुदेवेति विद्वद्भिः परिपठ्यते ॥१२॥
तद् ब्रह्म परमं नित्यम् अजम् अक्षयम् अव्ययम् ।
एकस्वरूपं तु सदा हेयाभावाच् च निर्मलम् ॥१३॥
तद् एव सर्वम् एवैतद् व्यक्ताव्यक्तस्वरूपवत् ।
तथा पुरुषरूपेण कालरूपेण च स्थितम् ॥१४॥
परस्य ब्रह्मणो रूपं पुरुषः प्रथमं द्विज ।
व्यक्ताव्यक्ते तथैवान्ये रूपे कालस् तथा परम् ॥१५॥
प्रधानपुरुषव्यक्तकालानां परमं हि यत् ।
पश्यन्ति सूरयः शुद्धं तद् विष्णोः परमं पदम् ॥१६॥
प्रधानपुरुषव्यक्तकालास् तु प्रविभागशः ।
रूपाणि स्थितिसर्गानव्यक्तिसद्भावहेतवः ॥१७॥
व्यक्तं विष्णुस् तथाव्यक्तं पुरुषः काल एव च ।
क्रीडतो बालकस्येव चेष्टां तस्य निशामय ॥१८॥
अव्यक्तं कारणं यत् तत् प्रधान ऋषिसत्तमैः ।
प्रोच्यते प्रकृतिः सूक्ष्मा नित्यं सदसदात्मकम् ॥१९॥
अक्षय्यं नान्यद् आधारम् अमेयम् अजरं ध्रुवम् ।
शब्दस्पर्शविहीनं तद्रूपादिभिर् असंहितम् ॥२०॥
त्रिगुणं तज्जगद्योनिर् अनादिप्रभवाप्ययम् ।
तेनाग्रे सर्वम् एवासीद् व्याप्तं वै प्रलयाद् अनु ॥२१॥
वेदवादविदो विद्वन् नियता ब्रह्मवादिनः ।
पठन्ति चैतम् एवार्थं प्रधानप्रतिपादकम् ॥२२॥

नाहं न रात्रिर् न नभो न भूमिर्
नासीत् तमोज्योतिर् अभूच् च नान्यत् ।
श्रोत्रादिबुद्ध्यानुपलभ्यम् एकं
प्राधानिकं ब्रह्म पुमांस् तदासीत् ॥२३॥

विष्णोः स्वरूपात् परतो हि तेऽन्ये
रूपं प्रधानं पुरुषश् च विप्र ।
तस्यैव तेन्ऽन्येन धृते वियुक्ते
रूपान्तरं तद् द्विज कालसञ्ज्ञम् ॥२४॥

प्रकृतौ संस्थितं व्यक्तम् अतीतप्रलये तु यत् ।
तस्मात् प्राकृतसञ्ज्ञोऽयम् उच्यते प्रतिसञ्चरः ॥२५॥
अनादिर् भगवान् कालो नान्तोऽस्य द्विज विद्यते ।
अव्युच्छिन्नास् ततस् त्व् एते सर्गस्थित्यन्तसंयमाः ॥२६॥
गुणसाम्ये ततस् तस्मिन् पृथक् पुंसि व्यवस्थिते ।
कालस्वरूपं तद् विष्णोर् मैत्रेय परिवर्तते ॥२७॥
ततस् तु तत्परं ब्रह्म परमात्मा जगन्मयः ।
सर्वगः सर्वभूतेशः सर्वात्मा परमेश्वरः ॥२८॥
प्रधानपुरुषौ चापि प्रविश्यात्मेच्छया हरिः ।
क्षोभयामास सम्प्राप्ते सर्गकाले व्ययाव्ययौ ॥२९॥
यथा सन्निधिमात्रेण गन्धः क्षोभाय जायते ।
मनसो नोपकर्तृत्वात् तथासौ परमेश्वरः ॥३०॥
स एव क्षोभको ब्रह्मन् क्षोभ्यश् च पुरुषोत्तमः ।
स सङ्कोचविकासाभ्यां प्रधानत्वेऽपि च स्थितः ॥३१॥
विकासाणुस्वरूपैश् च ब्रह्मरूपादिभिस् तथा ।
व्यक्तस्वरूपश् च तथा विष्णुः सर्वेश्वरेश्वरः ॥३२॥
गुणसाम्यात् ततस् तस्मात् क्षेत्रज्ञाधिष्टितान् मुने ।
गुणव्यञ्जनसम्भूतिः सर्गकाले द्विजोत्तम ॥३३॥
प्रधानतत्त्वम् उद्भूतं महान्तं तत् समावृणोत् ।
सात्त्विकी राजसश् चैव तामसश् च त्रिधा महान् ॥३४॥
प्रधानतेनएन समं त्वचा बीजम् इवावृतम् ।
वैकारिकस् तैजसश् च भूतादिश् चैव तामसः ॥३५॥
त्रिविधोऽयम् अहङ्कारो महत्तेनआद् अजायत ।
भूतेन्द्रियाणां हेतुः स त्रिगुणत्वान् महामुने ।
यथा प्रधानेन महान् महता स तथावृतः ॥३६॥
भूतादिस् तु विकुर्वाणः शब्दतन्मात्रकं ततः ।
ससर्ज शब्दतन्मात्राद् आकाशं शब्दलक्षणम् ॥३७॥
शब्दमात्रं तथाकाशं भूतादिः स समावृणोत् ।
आकाशस् तु विकुर्वाणः स्पर्शमात्रं ससर्ज ह ॥३८॥
बलवान् अभवद् वायुस् तस्य स्पर्शो गुणो मतः ।
आकाशं स्पर्शमात्रं तु स्पर्शमात्रं समावृणोत् ॥३९॥
ततो वायुर् विकुर्वाणो रूपमात्रं ससर्ज ह ।
ज्योतिर् उत्पद्यते वायोस् तद्रूपगुणम् उच्यते ॥४०॥
स्पर्शमात्रं तु वै वायू रूपमात्रं समावृणोत् ।
ज्योतिश् चापि विकुर्वाणं रसमात्रं ससर्ज ह ॥४१॥
सम्भवन्ति ततोऽम्भांसि रसाधाराणि तानि च ।
रसमात्राणि चाम्भांसि रूपमात्रं समावृणोत् ॥४२॥
विकुर्वाणानि चाम्भांसि गन्धमात्रं ससर्जिरे ।
सङ्घातो जायते तस्मात् तस्य गन्धो गुणो मतः ॥४३॥
तस्मिंस् तस्मिंस् तु तन्मात्रं तेन तन्मात्रता स्मृता ॥४४॥
तन्मात्राण्यविशेषाणि अविशेषास् ततो हि ते ॥४५॥
न शान्ता नापि घोरास् ते न मूढाश् चाविशेषिणः ।
भूततन्मात्रसर्गोऽयम् अहङ्कारात् तु तामसात् ॥४६॥
तैजसानीन्द्रियाण्य् आहुर् देवा वैकारिका दश ।
एकादशं मनश् चात्र देवा वैकारिकाः स्मृताः ॥४७॥
त्वक् चक्षुर् नासिका जिह्वा श्रोत्रम् अत्र च पञ्चमम् ।
शब्दादीनाम् अवाप्त्यर्थं बुद्धियुक्तानि वै द्विज ॥४८॥
पायूपस्थौ करौ पादौ वाक् च मैत्रेय पञ्चमी ।
विसर्गशिल्पगत्युक्तिः कर्म तेषां च कथ्यते ॥४९॥
आकाशवायुतेजांसि सलिलं पृथिवी तथा ।
शब्दादिभिर् गुणैर् ब्रह्मन् संयुक्तान्य् उत्तरोत्तरैः ॥५०॥
शान्ता घोराश् च मूढाश् च विशेषास् तेन ते स्मृताः ॥५१॥
नानावीर्याः पृथग्भूतास् ततस् ते संहतिं विना ।
नाशक्नुवन् प्रजाः स्रष्टुम् असमागम्य कृत्स्नशः ॥५२॥
समेत्यान्योन्यसंयोगं परस्परसमाश्रयाः ।
एकसङ्घातलक्ष्याश् च सम्प्राप्यैक्यम् अशेषतः ॥५३॥
पुरुषाधिष्ठितत्वाच् च प्रधानानुग्रहेण च ।
महदाद्या विशेषान्ता ह्यण्डम् उत्पादयन्ति ते ॥५४॥
तत्क्रमेण विवृद्धं सज्जलबुद्बुदवत् समम् ।
भूतेभ्योऽण्डं महाबुद्धे महत्तदुदकेशयम् ।
प्राकृतं ब्रह्मरूपस्य विष्णोः स्थानम् अनुत्तमम् ॥५५॥
अत्राव्यक्तस्वरूपोऽसौ व्यक्तरूपो जगत्पतिः ।
विष्णुर् ब्रह्मस्वरूपेण स्वयम् एव व्यवस्थितः ॥५६॥
मेरुर् उल्बमभूतस्य जरायुश् च महीधराः ।
गर्भोदकं समुद्राश् च तस्यासन् सुमात्मनः ॥५७॥
साद्रिद्वीपसमुद्राश् च सज्योतिर् लोकसङ्ग्रहः ।
तस्मिन्न् अण्डेऽभवद् विप्र सद् एवासुरमानुषः ॥५८॥
वारिवह्न्यनिलाकाशैस् ततो भूतादिना बहिः ।
वृतं दशगुणैर् अण्डं भूतादिर् महता तथा ॥५९॥
अव्यक्तेनावृतो ब्रह्मंस् तैः सर्वैः सहितो महान् ।
एभिर् आवरणैर् अण्डं सप्तभिः प्राकृतैर् वृतम् ।
नारिकेलफलस्यान्तर्बीजं बाह्यदलैर् इव ॥६०॥
जुषन् रजो गुणं तत्र स्वयं विश्वेश्वरो हरिः ।
ब्रह्मा भूत्वास्य जगतो विसृष्टौ सम्प्रवर्तते ॥६१॥
सृष्टं च पात्यनुयुगं यावत् कल्पविकल्पना ।
सत्त्वभृद् भगवान् विष्णुर् अप्रमेयपराक्रमः ॥६२॥
तमोद्रेकी च कल्पान्ते रुद्ररूपी जनार्दनः ।
मैत्रेयाखिलभूतानि भक्षयत्यतिदारुणः ॥६३॥
भक्ष्á च भूतानि जगत्य् एकार्णवीकृते ।
नागपर्यङ्कशयने शेते च परमेश्वरः ॥६४॥
प्रबुद्धश् च पुनः सृष्टिं करोइत् ब्रह्मरूपधृक् ॥६५॥
सृष्टिस्थित्यन्तकरणीं ब्रह्मविष्णुशिवात्मिकाम् ।
स सञ्ज्ञां याति भगवान् एक एव जनार्दनः ॥६६॥
स्रष्टा सृजति चात्मानं विष्णुः पाल्यं च पाति च ।
उपसंह्रियते चान्ते संहर्ता च स्वयं प्रभुः ॥६७॥
पृथिव्यापस् तथा तेजो वायुर् आकाश एव च ।
सर्वेन्द्रियान्तःकरणं पुरुषाख्यं हि यज् जगत् ॥६८॥
स एव सर्वभूतात्मा विश्वरूपो यतोऽव्ययः ।
सर्गादिकं तु तस्यैव भूतस्थम् उपकारकम् ॥६९॥

स एव सृज्यः स च सर्गकर्ता
स एव पात्यत्ति च पाल्यते च ।
ब्रह्माद्यवस्थाभिर् अशेषमूर्तिर्
विष्णुर् वरिष्ठो वरदो वरेण्यः ॥७०॥

इति श्रीविष्णुपुराणे प्रथमेंऽशे द्वितीयोऽध्यायः
॥२॥

ओ)०(ओ