अथ प्रथमोऽध्यायः
मङ्गलाचरणं, पराशरं प्रति मैत्रेयस्य प्रश्नः, पराशरस्योत्तरदानं च
ओं नमो भगवते वासुदेवाय ॥
श्रीसूत उवाच
जितं ते पुण्डरीकाक्ष नमस् ते विश्वभावन ।
नमस् तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥१॥
श्रीबिन्दुमाधवं वन्दे परमानन्दविग्रहम् ।
वाचं विश्वेश्वरं गङ्गां पराशरमुखान् मुनीन् ॥१॥
श्रीमच्चित्सुखयोगिमुख्यरचितव्याख्यां निरीक्ष्य स्फुटं
तन्मार्गेण सुबोधसङ्ग्रहवतीम् आत्मप्रकाशाभिधाम् ।
श्रीमद्विष्णुपुराणसारविवृतिं कर्ता यतिः श्रीधर
स्वामी सद्गुरुपादपद्ममधुपः साधु स्वधीशुद्धये ॥२॥
श्रीमद्विष्णुपुराणस्य व्याख्यांस् तल्पातिविस्तराम् ।
प्राचाम् आलोक्य तद्व्याख्या मध्यमेयं विधीयते ॥३॥
अस्मिन् विवक्षितं यत् तु वस्तु तन्नमनात्मकम् ।
मुनिर् मन्त्रोपनिषदा कृतं बध्नाति मङ्गलम् ॥४॥
जितं त इति ।
तत्रांशे प्रथमेऽध्याये मैत्रेयेण पराशरे ।
प्रवृत्त्यर्थं पुराणस्य प्रश्ना द्वाविंशतिः कृताः ॥
इह खलु पुराणानाम् ईश्वरनिश्वसितस्वरूपत्वेन वेदमूलत्वेन इदानीन्तनानां व्यासवशिष्ठपराशरादीनां स्मृतिरूपत्वेन च प्रमाणत्वं प्रयोजनवत्त्वं च दुरपहृतम् एव । तद् व्याख्यानां च तत्तदर्थाभासनिरासतत्तदर्थप्रकाशकत्वपरत्वेन प्रयोजनवत्त्वं पुराणत्वादिविशेषेऽपि उपाख्यानलघुत्वेन जगज्जीवात्मपरमात्मनामैकात्म्य.पदार्थनाभ्यासवशाद् अत्रैव पुराणे मुमुक्षूणां प्रवृत्तिर् उचिततमेत्य् एतद् एव व्याख्यायते । तत्र च सर्गप्रतिसर्गवंशमन्वन्तरवंशानुचरितानां तदपवादेन मुक्तेश् च .पदार्थनम् । सदाचारभूगोलभरतोपाख्यानादिनिरूपणस्य साक्षात् .परमाया वा मुक्ताव् एवोपयोगो द्रष्टव्यः ।
पुण्डरीकाक्षेति । हृदयाख्यं पुण्डरीकम् अश्नुते व्याप्नोतीति तथा । यद् वा, पुण्डरीके इव अक्षिणी यस्येति । अत्र श्वेतत्वम् अविवक्षितं, लोहितत्वेनैव नयनोत्कर्षात् । शिवाराधनार्थं पुण्डरीकीकृतम् अक्षि येनेति वापुण्डरीकम् परं धाम अक्षम् अव्ययम् उच्यते इत्यादि श्लोकोक्तव्युत्पत्त्या पुण्डरीकीक्षेति सम्बोधनम् इति वा । ते इति सम्बन्धे षष्ठी । तव जितं जयोऽस्त्व् इत्यर्थः । यद् वा, ते त्वया जितं सर्वोत्कर्षेण स्थितम् इति । एतेन नमस्कार आक्षिप्तः ।
विश्वभावन विश्वोत्पादक । हृषीकाणाम् इन्द्रियाणाम् ईश तत् प्रवृत्तिहेतुत्वात् । प्राणस्य प्राणम् उतु चक्षुषश् चक्षुः श्रोत्रस्य श्रोत्रं मनसो ये मनो विदुः इति श्रुतेः ।
महापुरुषेति जीवव्यवच्छेदाय महत्त्वं च, द्वा सुपर्णा सयुजा सखाया इत्यादि श्रुतेः । नित्यमुक्तस्वभावत्वाच् च । पुरि शरीरे शयनात् तु पुरुषत्वम् । विश्वोत्पादकत्वे हेतुः पूर्वजेति । सृष्टेः पूर्वम् एव स्वतः प्रादुर्भूतत्वेनानन्यथासिद्धत्वेन वान्येषां तदधीनत्वात् ।
नन्व् एकस्माद् एव नमस्कारान् मङ्गलसिद्धौ कृतं बहुभिर् नमस्कारैर् इति चन्, ने, अस्य शास्त्रस्यातिश्रेयःसाधनत्वेन बहुविघ्नसम्भावनया मङ्गलबाहुलस्यावश्यकत्वात् । अथवा पुण्डरीकाक्षेत्यादिपञ्चविशेषणैः,
भूतात्मा चेन्द्रियात्मा च प्रधानात्मा तथा भवान् ।
आत्मा च परमात्मा च त्वम् एकः पञ्चधा स्थितः ॥ इति पञ्चमांशोक्तः ।
पञ्चात्मा हरिर् ईरित इति । तत्र पुण्डरीकाक्षेति भूतात्मा, विश्वभावनेति प्रधानात्मा । हृषीकेशेति इन्द्रियात्मा, महापुरुषेति परमात्मा । पूर्वजेत्य् आत्माभिहितः ॥१॥
सदक्षरं ब्रह्म य ईश्वरं पुमान्
गुणोर्मिसृष्टिस्थितिकालसंलयः ।
प्रधानसौभाग्यादिजगत्परम्पर्सूः
स नोऽस्तु विष्णुर् मतिभूतिमुक्तिदः ॥२॥
प्रणम्य विष्णुं विश्वेशं ब्रह्मादीन् प्रणिपत्य च ।
गुरुं प्रणम्य वक्ष्यामि पुराणं वेदसम्मितम् ॥३॥
इतिहासपुराणज्ञं वेदवेदाङ्गपारगम् ।
धर्मशास्त्रादितत्त्वज्ञं वशिष्ठतनयात्मजम् ॥४॥
पराशरं मुनिवरं कृतपौर्वाह्निकक्रियम् ।
मैत्रेयः परिपप्रच्छ प्रणिपत्याभिवाद्य च ॥१॥
त्वत्तो हि वेदाध्ययनम् अधीतम् अखिलं गुरो ।
धर्मशास्त्राणि सर्वाणि तथाङ्गानि यथाक्रमम् ॥२॥
त्वत्प्रसादान् मुनिश्रेष्ठ माम् अन्ये नाकृतश्रमम् ।
वक्ष्यन्ति सर्वशास्त्रेषु प्रायशो येऽपि विद्विषः ॥३॥
सोऽहम् इच्छामि धर्मज्ञ श्रोतुं त्वत्तो यथा जगत् ।
बभूव भूयश् च यथा महाभाग भविष्यति ॥४॥
यन्मयं च जगद् ब्रह्मन् यतश् चैतच् चराचरम् ।
लीनम् आसीद् यथा यत्र लयम् एष्यति यत्र च ॥५॥
यत्प्रमाणानि भूतानि देवादीनां च सम्भवम् ।
समुद्रपर्वतानां च संस्थानं च यथा भुवः ॥६॥
सूर्यादीनां च संस्थानं प्रमाणं मुनिसत्तम ।
देवादीनां तथा वंशान् मनून् मन्वन्तराणि च ॥७॥
कल्पान् कल्पविभागांश् च चातुर्युगविकल्पितान् ।
कल्पान्तस्य स्वरूपं च युगधर्मांश् च कृत्स्नशः ॥८॥
देवर्षिपार्थिवानां च चरितं यन् महामुने ।
वेदशाखाप्रणयनं यथावद् व्यासकर्तृकम् ॥९॥
धर्मांश् च ब्राह्मणादीनां तथा चाश्रमवासिनाम् ।
श्रोतुम् इच्छाम्यहं सर्वं त्वत्तो वासिष्ठनन्दन ॥१०॥
ब्रह्मन् प्रसादप्रवर्णं कुरुष्व मयि मानसम् ।
येनाहम् एतज्जानीयां त्वत्प्रसादान् महामुने ॥११॥
श्रीपराशर उवाच
साधु मैत्रेय धर्मज्ञ स्मारितोऽस्मि पुरातनम् ।
पितुः पिता मे भगवान् वसिष्ठो यद् उवाच ह ॥१२॥
विश्वामित्रप्रयुक्तेन रक्षसा भक्षितः पुरा ।
श्रुतस् तातस् ततः क्रोधो मैत्रेयाभून् ममातुलः ॥१३॥
ततोऽहं रक्षसां सत्रं विनाशाय समारभम् ।
भस्मीभूताश् च शतशस् तस्मिन् सत्रे निशाचराः ॥१४॥
ततः सङ्क्षीयमाणेषु तेषु रक्षःस्व् अशेषतः ।
माम् उवाच महाभागो वसिष्ठो मत्पितामहः ॥१५॥
अलम् अत्यन्तकोपेन तात मनुम् इमं जहि ।
राक्षसा नापराध्यन्ति पितुस् ते विहितं हि तत् ॥१६॥
मूढानाम् एव भवति क्रोधो ज्ञानवतां कुतः ।
हन्यते तात कः केन यतः स्वकृतभुक् पुमान् ॥१७॥
सञ्चितस्यापि महता वत्स क्लेशेन मानवैः ।
यशसस् तपसश् चैव क्रोधो नाशकरः परः ॥१८॥
स्वर्गापवर्गव्यासेधकारणं परमर्षयः ।
वर्जयन्ति सदा क्रोधं तात मा तद्वशो भव ॥१९॥
अलं निशाचरैर् दग्धैर् दीनैर् अनपकारिभिः ।
सत्रं ते विरमत्व् एतत् क्षमासारा हि साधवः ॥२०॥
एवं तातेन तेनाहम् अनुनीतो महात्मना ।
उपसंहृतवान् सत्रं सद्यस् तद्वाक्यगौरवात् ॥२१॥
ततः प्रीतः स भगवान् वसिष्टो मुनिसत्तमः ।
सम्प्राप्तश् च तदा तत्र पुलस्त्यो ब्रह्मणः सुतः ॥२२॥
पितामहेन दत्तार्घ्यः कृतासनपरिग्रहः ।
माम् उवाच महाभागो मैत्रेय पुलहाग्रजः ॥२३॥
पुलस्त्य उवाच
वैरे महति यद्वाक्याद् गुरोर् अद्याश्रिता क्षमा ।
त्वया तस्मात् समस्तानि भवान् शास्त्राणि वेत्स्यति ॥२४॥
सन्ततेर् न ममोच्छेदः क्रुद्धेनापि यतः कृतः ।
त्वया तस्मान् महाभाग ददाम्यन्यं महावरम् ॥२५॥
पुराणसंहिताकर्ता भवान् वत्स भविष्यति ।
देवतापारमर्थ्यं च यथावद् वेत्स्यते भवान् ॥२६॥
प्रवृत्ते च निवृत्ते च कर्मण्यस् तमला मतिः ।
मत्प्रसादाद् असन्दिग्धा तव वत्स भविष्यति ॥२७॥
ततश् च प्राह भगवान् वसिष्ठो मे पितामहः ।
पुलस्त्येन यद् उक्तं ते सर्वम् एतद् भविष्यति ॥२८॥
इति पूर्वं वसिष्ठेन पुलस्त्येन च धीमता ।
यद् उक्तं तत्स्मृतिं याति त्वत्प्रश्नाद् अखिलं मम ॥२९॥
सोऽहं वदाम्यशेषं ते मैत्रेय परिपृच्छते ।
पुराणसंहितां सम्यक् तां निबोध यथातथम् ॥३०॥
विष्णोः सकाशाद् उद्भूतं जगत् तत्रैव च स्थितम् ।
स्थितिसंयमकर्तासौ जगतोऽस्य जगच् च सः ॥३१॥
इति श्रीविष्णुपुराणे प्रथमेंऽशे प्रथमोऽध्यायः ॥१॥
ओ)०(ओ