०८

[आठवाँ अध्याय]

विषय

शिष्यपरम्परा, माहात्म्य और उपसंहार

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

इत्येष कथितः सम्यक् तृतीयः प्रतिसञ्चरः ।
आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ॥ १ ॥

मूलम्

इत्येष कथितः सम्यक् तृतीयः प्रतिसञ्चरः ।
आत्यन्तिको विमुक्तिर्या लयो ब्रह्मणि शाश्वते ॥ १ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—हे मैत्रेय! इस प्रकार मैंने तुमसे तीसरे आत्यन्तिक प्रलयका वर्णन किया, जो सनातन ब्रह्ममें लयरूप मोक्ष ही है ॥ १ ॥

विश्वास-प्रस्तुतिः

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
वंशानुचरितं चैव भवतो गदितं मया ॥ २ ॥

मूलम्

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
वंशानुचरितं चैव भवतो गदितं मया ॥ २ ॥

अनुवाद (हिन्दी)

मैंने तुमसे संसारकी उत्पत्ति, प्रलय, वंश, मन्वन्तर तथा वंशोंके चरित्रोंका वर्णन किया ॥ २ ॥

विश्वास-प्रस्तुतिः

पुराणं वैष्णवं चैतत्सर्वकिल्बिषनाशनम् ।
विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥ ३ ॥
तुभ्यं यथावन्मैत्रेय प्रोक्तं शुश्रूषवेऽव्ययम् ।
यदन्यदपि वक्तव्यं तत्पृच्छाद्य वदामि ते ॥ ४ ॥

हे मैत्रेय! मैंने तुम्हें सुननेके लिये उत्सुक देखकर यह सम्पूर्ण शास्त्रोंमें श्रेष्ठ सर्वपापविनाशक और पुरुषार्थका प्रतिपादक वैष्णवपुराण सुना दिया । अब तुम्हें जो और कुछ पूछना हो पूछो । मैं उसका तुमसे वर्णन करूँगा ॥ ३-४ ॥

मूलम् (वचनम्)

श्रीमैत्रेय उवाच

विश्वास-प्रस्तुतिः

भगवन‍्कथितं सर्वं यत्पृष्टोऽसि मया मुने ।
श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ॥ ५ ॥

मूलम्

भगवन‍्कथितं सर्वं यत्पृष्टोऽसि मया मुने ।
श्रुतं चैतन्मया भक्त्या नान्यत्प्रष्टव्यमस्ति मे ॥ ५ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी बोले—भगवन्! मैंने आपसे जो कुछ पूछा था वह सभी आप कह चुके और मैंने भी उसे श्रद्धाभक्तिपूर्वक सुना, अब मुझे और कुछ भी पूछना नहीं है ॥ ५ ॥

विश्वास-प्रस्तुतिः

विच्छिन्नाः सर्वसन्देहा वैमल्यं मनसः कृतम् ।
त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः ॥ ६ ॥

मूलम्

विच्छिन्नाः सर्वसन्देहा वैमल्यं मनसः कृतम् ।
त्वत्प्रसादान्मया ज्ञाता उत्पत्तिस्थितिसंक्षयाः ॥ ६ ॥

अनुवाद (हिन्दी)

हे मुने! आपकी कृपासे मेरे समस्त सन्देह निवृत्त हो गये और मेरा चित्त निर्मल हो गया तथा मुझे संसारकी उत्पत्ति, स्थिति और प्रलयका ज्ञान हो गया ॥ ६ ॥

विश्वास-प्रस्तुतिः

ज्ञातश्चतुर्विधो राशिः शक्तिश्च त्रिविधा गुरो ।
विज्ञाता सा च कात्स्न्‍‍र्येन त्रिविधा भावभावना ॥ ७ ॥

मूलम्

ज्ञातश्चतुर्विधो राशिः शक्तिश्च त्रिविधा गुरो ।
विज्ञाता सा च कात्स्न्‍‍र्येन त्रिविधा भावभावना ॥ ७ ॥

अनुवाद (हिन्दी)

हे गुरो! मैं चार प्रकारकी राशि१ और तीन प्रकारकी शक्तियाँ२ जान गया तथा मुझे त्रिविध भाव-भावनाओंका३ भी सम्यक् बोध हो गया ॥ ७ ॥

पादटिप्पनी

१-देखिये—प्रथम अंश अध्याय २२ श्लोक २३—३३ ।
२-देखिये—षष्ठ अंश अध्याय ७ श्लोक ६१—६३ ।
३-देखिये—षष्ठ अंश अध्याय ७ श्लोक ४८—५१ ।

विश्वास-प्रस्तुतिः

त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विज ।
यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ॥ ८ ॥

मूलम्

त्वत्प्रसादान्मया ज्ञातं ज्ञेयमन्यैरलं द्विज ।
यदेतदखिलं विष्णोर्जगन्न व्यतिरिच्यते ॥ ८ ॥

अनुवाद (हिन्दी)

हे द्विज! आपकी कृपासे मैं, जो जानना चाहिये वह भली प्रकार जान गया कि यह सम्पूर्ण जगत् श्रीविष्णुभगवान् से भिन्न नहीं है, इसलिये अब मुझे अन्य बातोंके जाननेसे कोई लाभ नहीं ॥ ८ ॥

विश्वास-प्रस्तुतिः

कृतार्थोऽहमसन्देहस्त्वत्प्रसादान्महामुने ।
वर्णधर्मादयो धर्मा विदिता यदशेषतः ॥ ९ ॥
प्रवृत्तं च निवृत्तं च ज्ञातं कर्म मयाखिलम् ।
प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे ॥ १० ॥

मूलम्

कृतार्थोऽहमसन्देहस्त्वत्प्रसादान्महामुने ।
वर्णधर्मादयो धर्मा विदिता यदशेषतः ॥ ९ ॥
प्रवृत्तं च निवृत्तं च ज्ञातं कर्म मयाखिलम् ।
प्रसीद विप्रप्रवर नान्यत्प्रष्टव्यमस्ति मे ॥ १० ॥

अनुवाद (हिन्दी)

हे महामुने! आपके प्रसादसे मैं निस्सन्देह कृतार्थ हो गया क्योंकि मैंने वर्ण-धर्म आदि सम्पूर्ण धर्म और प्रवृत्ति तथा निवृत्तिरूप समस्त कर्म जान लिये । हे विप्रवर! आप प्रसन्न रहें; अब मुझे और कुछ भी पूछना नहीं है ॥ ९-१० ॥

विश्वास-प्रस्तुतिः

यदस्य कथनायासैर्योजितोऽसि मया गुरो ।
तत्क्षम्यतां विशेषोऽस्ति न सतां पुत्रशिष्ययोः ॥ ११ ॥

मूलम्

यदस्य कथनायासैर्योजितोऽसि मया गुरो ।
तत्क्षम्यतां विशेषोऽस्ति न सतां पुत्रशिष्ययोः ॥ ११ ॥

अनुवाद (हिन्दी)

हे गुरो! मैंने आपको जो इस सम्पूर्ण पुराणके कथन करनेका कष्ट दिया है, उसके लिये आप मुझे क्षमा करें; साधुजनोंकी दृष्टिमें पुत्र और शिष्यमें कोई भेद नहीं होता ॥ ११ ॥

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

एतत्ते यन्मयाख्यातं पुराणं वेदसम्मतम् ।
श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ १२ ॥

मूलम्

एतत्ते यन्मयाख्यातं पुराणं वेदसम्मतम् ।
श्रुतेऽस्मिन्सर्वदोषोत्थः पापराशिः प्रणश्यति ॥ १२ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—हे मुने! मैंने तुमको जो यह वेदसम्मत पुराण सुनाया है इसके श्रवणमात्रसे सम्पूर्ण दोषोंसे उत्पन्न हुआ पापपुंज नष्ट हो जाता है ॥ १२ ॥

विश्वास-प्रस्तुतिः

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
वंशानुचरितं कृत्स्नं मयात्र तव कीर्तितम् ॥ १३ ॥

मूलम्

सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
वंशानुचरितं कृत्स्नं मयात्र तव कीर्तितम् ॥ १३ ॥

अनुवाद (हिन्दी)

इसमें मैंने तुमसे सृष्टिकी उत्पत्ति, प्रलय, वंश, मन्वन्तर और वंशोंके चरित—इन सभीका वर्णन किया है ॥ १३ ॥

विश्वास-प्रस्तुतिः

अत्र देवास्तथा दैत्या गन्धर्वोरगराक्षसाः ।
यक्षविद्याधरास्सिद्धाः कथ्यन्तेऽप्सरसस्तथा ॥ १४ ॥

मूलम्

अत्र देवास्तथा दैत्या गन्धर्वोरगराक्षसाः ।
यक्षविद्याधरास्सिद्धाः कथ्यन्तेऽप्सरसस्तथा ॥ १४ ॥

अनुवाद (हिन्दी)

इस ग्रन्थमें देवता, दैत्य, गन्धर्व, नाग, राक्षस, यक्ष, विद्याधर, सिद्ध और अप्सरागणका भी वर्णन किया गया है ॥ १४ ॥

विश्वास-प्रस्तुतिः

मुनयो भावितात्मानः कथ्यन्ते तपसान्विताः ।
चातुर्वर्ण्यं तथा पुंसां विशिष्टचरितानि च ॥ १५ ॥
पुण्याः प्रदेशा मेदिन्याः पुण्या नद्योऽथ सागराः ।
पर्वताश्च महापुण्याश्चरितानि च धीमताम् ॥ १६ ॥
वर्णधर्मादयो धर्मा वेदशास्त्राणि कृत्स्नशः ।
येषां संस्मरणात्सद्यः सर्वपापैः प्रमुच्यते ॥ १७ ॥

आत्माराम और तपोनिष्ठ मुनिजन चातुर्वर्ण्य-विभाग, महापुरुषोंके विशिष्ट चरित, पृथिवीके पवित्र क्षेत्र, पवित्र नदी और समुद्र, अत्यन्त पावन पर्वत, बुद्धिमान् पुरुषोंके चरित, वर्ण-धर्म आदि धर्म तथा वेद और शास्त्रोंका भी इसमें सम्यक‍‍्रूपसे निरूपण हुआ है, जिनके स्मरणमात्रसे मनुष्य समस्त पापोंसे मुक्त हो जाता है ॥ १५—१७ ॥

विश्वास-प्रस्तुतिः

उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययः ।
स सर्वभूतस्सर्वात्मा कथ्यते भगवान‍्हरिः ॥ १८ ॥

मूलम्

उत्पत्तिस्थितिनाशानां हेतुर्यो जगतोऽव्ययः ।
स सर्वभूतस्सर्वात्मा कथ्यते भगवान‍्हरिः ॥ १८ ॥

अनुवाद (हिन्दी)

जो अव्ययात्मा भगवान् हरि संसारकी उत्पत्ति, स्थिति और प्रलयके एकमात्र कारण हैं उनका भी इसमें कीर्तन किया गया है ॥ १८ ॥

विश्वास-प्रस्तुतिः

अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान‍‍्विमुच्यते सद्यः सिंहत्रस्तैर्वृकैरिव ॥ १९ ॥

मूलम्

अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः ।
पुमान‍‍्विमुच्यते सद्यः सिंहत्रस्तैर्वृकैरिव ॥ १९ ॥

अनुवाद (हिन्दी)

जिनके नामका विवश होकर कीर्तन करनेसे ही मनुष्य सिंहसे डरे हुए गीदड़ोंके समान पापोंसे मुक्त हो जाता है ॥ १९ ॥

विश्वास-प्रस्तुतिः

यन्नामकीर्तनं भक्त्या विलायनमनुत्तमम् ।
मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ २० ॥

मूलम्

यन्नामकीर्तनं भक्त्या विलायनमनुत्तमम् ।
मैत्रेयाशेषपापानां धातूनामिव पावकः ॥ २० ॥

अनुवाद (हिन्दी)

हे मैत्रेय! जिनका भक्तिपूर्वक किया हुआ नाम-संकीर्तन सम्पूर्ण धातुओंको पिघलानेवाले अग्निके समान समस्त पापोंका सर्वोत्तम विलयन (लीन कर देनेवाला) है ॥ २० ॥

विश्वास-प्रस्तुतिः

कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यः सकृद्यत्र च संस्मृते ॥ २१ ॥

मूलम्

कलिकल्मषमत्युग्रं नरकार्तिप्रदं नृणाम् ।
प्रयाति विलयं सद्यः सकृद्यत्र च संस्मृते ॥ २१ ॥

अनुवाद (हिन्दी)

जिनका एक बार भी स्मरण करनेसे मनुष्योंको नरक-यातनाएँ देनेवाला अति उग्र कलि-कल्मष तुरन्त नष्ट हो जाता है ॥ २१ ॥

विश्वास-प्रस्तुतिः

हिरण्यगर्भदेवेन्द्ररुद्रादित्याश्विवायुभिः ।
पावकैर्वसुभिः साध्यैर्विश्वेदेवादिभिः सुरैः ॥ २२ ॥
यक्षरक्षोरगैः सिद्धैर्दैत्यगन्धर्वदानवैः ।
अप्सरोभिस्तथा तारानक्षत्रैः सकलैर्ग्रहैः ॥ २३ ॥
सप्तर्षिभिस्तथाधिष्ण्यैर्धिष्ण्याधिपतिभिस्तथा ।
ब्राह्मणाद्यैर्मनुष्यैश्च तथैव पशुभिर्मृगैः ॥ २४ ॥
सरीसृपैर्विहङ्गैश्च पलाशाद्यैर्महीरुहैः ।
वनाग्निसागरसरित्पातालैः सधरादिभिः ॥ २५ ॥
शब्दादिभिश्च सहितं ब्रह्माण्डमखिलं द्विज ।
मेरोरिवाणुर्यस्यैतद्यन्मयं च द्विजोत्तम ॥ २६ ॥
स सर्वः सर्ववित्सर्वस्वरूपो रूपवर्जितः ।
भगवान‍् कीर्तितो विष्णुरत्र पापप्रणाशनः ॥ २७ ॥

हे द्विजोत्तम! हिरण्यगर्भ, देवेन्द्र, रुद्र, आदित्य, अश्विनीकुमार, वायु, अग्नि, वसु, साध्य और विश्वेदेव आदि देवगण, यक्ष, राक्षस, उरग, सिद्ध, दैत्य, गन्धर्व, दानव, अप्सरा, तारा, नक्षत्र, समस्त ग्रह, सप्तर्षि, लोक, लोकपालगण, ब्राह्मणादि मनुष्य, पशु, मृग, सरीसृप, विहंग, पलाश आदि वृक्ष, वन, अग्नि, समुद्र, नदी, पाताल तथा पृथिवी आदि और शब्दादि विषयोंके सहित यह सम्पूर्ण ब्रह्माण्ड जिनके आगे सुमेरुके सामने एक रेणुके समान है तथा जो इसके उपादान-कारण हैं उन सर्व सर्वज्ञ सर्वस्वरूप रूपरहित और पापनाशक भगवान् विष्णुका इसमें कीर्तन किया गया है ॥ २२—२७ ॥

विश्वास-प्रस्तुतिः

यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् ।
मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम ॥ २८ ॥

मूलम्

यदश्वमेधावभृथे स्नातः प्राप्नोति वै फलम् ।
मानवस्तदवाप्नोति श्रुत्वैतन्मुनिसत्तम ॥ २८ ॥

अनुवाद (हिन्दी)

हे मुनिसत्तम! अश्वमेध-यज्ञमें अवभृथ (यज्ञान्त) स्नान करनेसे जो फल मिलता है वही फल मनुष्य इसको सुनकर प्राप्त कर लेता है ॥ २८ ॥

विश्वास-प्रस्तुतिः

प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्णवे ।
कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ॥ २९ ॥

मूलम्

प्रयागे पुष्करे चैव कुरुक्षेत्रे तथार्णवे ।
कृतोपवासः प्राप्नोति तदस्य श्रवणान्नरः ॥ २९ ॥

अनुवाद (हिन्दी)

प्रयाग, पुष्कर, कुरुक्षेत्र तथा समुद्रतटपर रहकर उपवास करनेसे जो फल मिलता है वही इस पुराणको सुननेसे प्राप्त हो जाता है ॥ २९ ॥

विश्वास-प्रस्तुतिः

यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः ।
महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ॥ ३० ॥

मूलम्

यदग्निहोत्रे सुहुते वर्षेणाप्नोति मानवः ।
महापुण्यफलं विप्र तदस्य श्रवणात्सकृत् ॥ ३० ॥

अनुवाद (हिन्दी)

एक वर्षतक नियमानुसार अग्निहोत्र करनेसे मनुष्यको जो महान् पुण्यफल मिलता है वही इसे एक बार सुननेसे हो जाता है ॥ ३० ॥

विश्वास-प्रस्तुतिः

यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।
मथुरायां हरिं दृष्ट्वा प्राप्नोति पुरुषः फलम् ॥ ३१ ॥
तदाप्नोत्यखिलं सम्यगध्यायं यः शृणोति वै ।
पुराणस्यास्य विप्रर्षे केशवार्पितमानसः ॥ ३२ ॥

ज्येष्ठ शुक्ला द्वादशीके दिन मथुरापुरीमें यमुना-स्नान करके कृष्णचन्द्रका दर्शन करनेसे जो फल मिलता है हे विप्रर्षे! वही भगवान् कृष्णमें चित्त लगाकर इस पुराणके एक अध्यायको सावधानतापूर्वक सुननेसे मिल जाता है ॥ ३१-३२ ॥

विश्वास-प्रस्तुतिः

यमुनासलिलस्नातः पुरुषो मुनिसत्तम ।
ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ॥ ३३ ॥
समभ्यर्च्याच्युतं सम्यङ् मथुरायां समाहितः ।
अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ ३४ ॥

मूलम्

यमुनासलिलस्नातः पुरुषो मुनिसत्तम ।
ज्येष्ठामूले सिते पक्षे द्वादश्यां समुपोषितः ॥ ३३ ॥
समभ्यर्च्याच्युतं सम्यङ् मथुरायां समाहितः ।
अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥ ३४ ॥

अनुवाद (हिन्दी)

हे मुनिश्रेष्ठ! ज्येष्ठ मासके शुक्लपक्षकी द्वादशीको मथुरापुरीमें उपवास करते हुए यमुना-स्नान करके समाहितचित्तसे श्रीअच्युतका भलीप्रकार पूजन करनेसे मनुष्यको अश्वमेध-यज्ञका सम्पूर्ण फल मिलता है ॥ ३३-३४ ॥

विश्वास-प्रस्तुतिः

आलोक्यर्द्धिमथान्येषामुन्नीतानां स्ववंशजैः ।
एतत्किलोचुरन्येषां पितरः सपितामहाः ॥ ३५ ॥

मूलम्

आलोक्यर्द्धिमथान्येषामुन्नीतानां स्ववंशजैः ।
एतत्किलोचुरन्येषां पितरः सपितामहाः ॥ ३५ ॥

अनुवाद (हिन्दी)

कहते हैं अपने वंशजोंद्वारा [यमुनातटपर पिण्डदान करनेसे] उन्नति लाभ किये हुए अन्य पितरोंकी समृद्धि देखकर दूसरे लोगोंके पितृ-पितामहोंने [अपने वंशजोंको लक्ष्य करके] इस प्रकार कहा था— ॥ ३५ ॥

विश्वास-प्रस्तुतिः

कच्चिदस्मत्कुलेजातः कालिन्दीसलिलाप्लुतः ।
अर्चयिष्यति गोविन्दं मथुरायामुपोषितः ॥ ३६ ॥
ज्येष्ठामूले सिते पक्षे येनैवं वयमप्युत ।
परामृद्धिमवाप्स्यामस्तारिताः स्वकुलोद्भवैः ॥ ३७ ॥
ज्येष्ठामूले सिते पक्षे समभ्यर्च्य जनार्दनम् ।
धन्यानां कुलजः पिण्डान‍्यमुनायां प्रदास्यति ॥ ३८ ॥

क्या हमारे कुलमें उत्पन्न हुआ कोई पुरुष ज्येष्ठ-मासके शुक्ल पक्षमें [द्वादशी तिथिको] मथुरामें उपवास करते हुए यमुनाजलमें स्नान करके श्रीगोविन्दका पूजन करेगा, जिससे हम भी अपने वंशजोंद्वारा उद्धार पाकर ऐसा परम ऐश्वर्य प्राप्त कर सकेंगे? जो बड़े भाग्यवान् होते हैं उन्हींके वंशधर ज्येष्ठमासीय शुक्लपक्षमें भगवान् का अर्चन करके यमुनामें पितृगणको पिण्डदान करते हैं ॥ ३६—३८ ॥

विश्वास-प्रस्तुतिः

तस्मिन्काले समभ्यर्च्य तत्र कृष्णं समाहितः ।
दत्त्वा पिण्डं पितृभ्यश्च यमुनासलिलाप्लुतः ॥ ३९ ॥
यदाप्नोति नरः पुण्यं तारयन्स्वपितामहान् ।
श्रुत्वाध्यायं तदाप्नोति पुराणस्यास्य भक्तितः ॥ ४० ॥

उस समय यमुनाजलमें स्नान करके सावधानतापूर्वक भली प्रकार भगवान् का पूजन करनेसे और पितृगणको पिण्ड देनेसे अपने पितामहोंको तारता हुआ पुरुष जिस पुण्यका भागी होता है वही पुण्य भक्तिपूर्वक इस पुराणका एक अध्याय सुननेसे प्राप्त हो जाता है । ॥ ३९-४० ॥

विश्वास-प्रस्तुतिः

एतत्संसारभीरूणां परित्राणमनुत्तमम् ।
श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ ४१ ॥

मूलम्

एतत्संसारभीरूणां परित्राणमनुत्तमम् ।
श्राव्याणां परमं श्राव्यं पवित्राणामनुत्तमम् ॥ ४१ ॥

अनुवाद (हिन्दी)

यह पुराण संसारसे भयभीत हुए पुरुषोंका अति उत्तम रक्षक, अत्यन्त श्रवणयोग्य तथा पवित्रोंमें परम उत्तम है ॥ ४१ ॥

विश्वास-प्रस्तुतिः

दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम् ।
मङ्गलं मङ्गलानां च पुत्रसम्पत्प्रदायकम् ॥ ४२ ॥

मूलम्

दुःस्वप्ननाशनं नॄणां सर्वदुष्टनिबर्हणम् ।
मङ्गलं मङ्गलानां च पुत्रसम्पत्प्रदायकम् ॥ ४२ ॥

अनुवाद (हिन्दी)

यह मनुष्योंके दुःस्वप्नोंको नष्ट करनेवाला, सम्पूर्ण दोषोंको दूर करनेवाला, मांगलिक वस्तुओंमें परम मांगलिक और सन्तान तथा सम्पत्तिका देनेवाला है ॥ ४२ ॥

विश्वास-प्रस्तुतिः

इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः ।
ऋभुः प्रियव्रतायाह स च भागुरयेऽब्रवीत् ॥ ४३ ॥

मूलम्

इदमार्षं पुरा प्राह ऋभवे कमलोद्भवः ।
ऋभुः प्रियव्रतायाह स च भागुरयेऽब्रवीत् ॥ ४३ ॥

अनुवाद (हिन्दी)

इस आर्षपुराणको सबसे पहले भगवान् ब्रह्माजीने ऋभुको सुनाया था । ऋभुने प्रियव्रतको सुनाया और प्रियव्रतने भागुरिसे कहा ॥ ४३ ॥

विश्वास-प्रस्तुतिः

भागुरिः स्तम्भमित्राय दधीचाय स चोक्तवान् ।
सारस्वताय तेनोक्तं भृगुस्सारस्वतेन च ॥ ४४ ॥

मूलम्

भागुरिः स्तम्भमित्राय दधीचाय स चोक्तवान् ।
सारस्वताय तेनोक्तं भृगुस्सारस्वतेन च ॥ ४४ ॥

अनुवाद (हिन्दी)

फिर इसे भागुरिने स्तम्भमित्रको, स्तम्भमित्रने दधीचिको, दधीचिने सारस्वतको और सारस्वतने भृगुको सुनाया ॥ ४४ ॥

विश्वास-प्रस्तुतिः

भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् ।
नर्मदा धृतराष्ट्राय नागायापूरणाय* च ॥ ४५ ॥

मूलम्

भृगुणा पुरुकुत्साय नर्मदायै स चोक्तवान् ।
नर्मदा धृतराष्ट्राय नागायापूरणाय* च ॥ ४५ ॥

अनुवाद (हिन्दी)

तथा भृगुने पुरुकुत्ससे, पुरुकुत्सने नर्मदासे और नर्मदाने धृतराष्ट्र एवं पूरणनागसे कहा ॥ ४५ ॥

पादटिप्पनी
  • नागाया (आर्ष दीर्घ) ।
विश्वास-प्रस्तुतिः

ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज ।
वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ॥ ४६ ॥
कम्बलाय च तेनोक्तमेलापुत्राय तेन वै ॥ ४७ ॥

मूलम्

ताभ्यां च नागराजाय प्रोक्तं वासुकये द्विज ।
वासुकिः प्राह वत्साय वत्सश्चाश्वतराय वै ॥ ४६ ॥
कम्बलाय च तेनोक्तमेलापुत्राय तेन वै ॥ ४७ ॥

अनुवाद (हिन्दी)

हे द्विज! इन दोनोंने यह पुराण नागराज वासुकिको सुनाया । वासुकिने वत्सको, वत्सने अश्वतरको, अश्वतरने कम्बलको और कम्बलने एलापुत्रको सुनाया ॥ ४६-४७ ॥

विश्वास-प्रस्तुतिः

पातालं समनुप्राप्तस्ततो वेदशिरा मुनिः ।
प्राप्तवानेतदखिलं स च प्रमतये ददौ ॥ ४८ ॥

मूलम्

पातालं समनुप्राप्तस्ततो वेदशिरा मुनिः ।
प्राप्तवानेतदखिलं स च प्रमतये ददौ ॥ ४८ ॥

अनुवाद (हिन्दी)

इसी समय मुनिवर वेदशिरा पाताललोकमें पहुँचे, उन्होंने यह समस्त पुराण प्राप्त किया और फिर प्रमतिको सुनाया ॥ ४८ ॥

विश्वास-प्रस्तुतिः

दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते ।
जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ॥ ४९ ॥

मूलम्

दत्तं प्रमतिना चैतज्जातुकर्णाय धीमते ।
जातुकर्णेन चैवोक्तमन्येषां पुण्यकर्मणाम् ॥ ४९ ॥

अनुवाद (हिन्दी)

प्रमतिने उसे परम बुद्धिमान् जातुकर्णको दिया तथा जातुकर्णने अन्यान्य पुण्यशील महात्माओंको सुनाया ॥ ४९ ॥

विश्वास-प्रस्तुतिः

पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् ।
मयापि तुभ्यं मैत्रेय यथावत्कथितं त्विदम् ॥ ५० ॥
त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि ॥ ५१ ॥

मूलम्

पुलस्त्यवरदानेन ममाप्येतत्स्मृतिं गतम् ।
मयापि तुभ्यं मैत्रेय यथावत्कथितं त्विदम् ॥ ५० ॥
त्वमप्येतच्छिनीकाय कलेरन्ते वदिष्यसि ॥ ५१ ॥

अनुवाद (हिन्दी)

[पूर्व-जन्ममें सारस्वतके मुखसे सुना हुआ यह पुराण] पुलस्त्यजीके वरदानसे मुझे भी स्मरण रह गया । सो मैंने ज्यों-का-त्यों तुम्हें सुना दिया । अब तुम भी कलियुगके अन्तमें इसे शिनीकको सुनाओगे ॥ ५०-५१ ॥

विश्वास-प्रस्तुतिः

इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् ।
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ५२ ॥

मूलम्

इत्येतत्परमं गुह्यं कलिकल्मषनाशनम् ।
यः शृणोति नरो भक्त्या सर्वपापैः प्रमुच्यते ॥ ५२ ॥

अनुवाद (हिन्दी)

जो पुरुष इस अति गुह्य और कलि-कल्मष-नाशक पुराणको भक्तिपूर्वक सुनता है वह सब पापोंसे मुक्त हो जाता है ॥ ५२ ॥

विश्वास-प्रस्तुतिः

समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः ।
कृता तेन भवेदेतद्यः शृणोति दिने दिने ॥ ५३ ॥

मूलम्

समस्ततीर्थस्नानानि समस्तामरसंस्तुतिः ।
कृता तेन भवेदेतद्यः शृणोति दिने दिने ॥ ५३ ॥

अनुवाद (हिन्दी)

जो मनुष्य इसका प्रतिदिन श्रवण करता है उसने तो मानो सभी तीर्थोंमें स्नान कर लिया और सभी देवताओंकी स्तुति कर ली ॥ ५३ ॥

विश्वास-प्रस्तुतिः

कपिलादानजनितं पुण्यमत्यन्तदुर्लभम् ।
श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ॥ ५४ ॥

मूलम्

कपिलादानजनितं पुण्यमत्यन्तदुर्लभम् ।
श्रुत्वैतस्य दशाध्यायानवाप्नोति न संशयः ॥ ५४ ॥

अनुवाद (हिन्दी)

इसके दस अध्यायोंका श्रवण करनेसे निःसन्देह कपिला गौके दानका अति दुर्लभ पुण्य-फल प्राप्त होता है ॥ ५४ ॥

विश्वास-प्रस्तुतिः

यस्त्वेतत्सकलं शृणोति पुरुषः
कृत्वा मनस्यच्युतं
सर्वं सर्वमयं समस्तजगता-
माधारमात्माश्रयम् ।
ज्ञानज्ञेयमनादिमन्तरहितं
सर्वामराणां हितं
स प्राप्नोति न संशयोऽस्त्यविकलं
यद्वाजिमेधे फलम् ॥ ५५ ॥

मूलम्

यस्त्वेतत्सकलं शृणोति पुरुषः
कृत्वा मनस्यच्युतं
सर्वं सर्वमयं समस्तजगता-
माधारमात्माश्रयम् ।
ज्ञानज्ञेयमनादिमन्तरहितं
सर्वामराणां हितं
स प्राप्नोति न संशयोऽस्त्यविकलं
यद्वाजिमेधे फलम् ॥ ५५ ॥

अनुवाद (हिन्दी)

जो पुरुष सम्पूर्ण जगत‍्के आधार, आत्माके अवलम्ब, सर्वस्वरूप, सर्वमय ज्ञान और ज्ञेयरूप आदि-अन्तरहित तथा समस्त देवताओंके हितकारक श्रीविष्णुभगवान् का चित्तमें ध्यान कर इस सम्पूर्ण पुराणको सुनता है उसे निःसन्देह अश्वमेध-यज्ञका समग्र फल प्राप्त होता है ॥ ५५ ॥

विश्वास-प्रस्तुतिः

यत्रादौ भगवांश्चराचरगुरु-
र्मध्ये तथान्ते च सः
ब्रह्मज्ञानमयोऽच्युतोऽखिलजग-
न्मध्यान्तसर्गप्रभुः ।
तत्सर्वं पुरुषः पवित्रममलं
शृण्वन्पठन्वाचय-
न्प्राप्नोत्यस्ति न तत्फलं त्रिभुवने-
ष्वेकान्तसिद्धिर्हरिः ॥ ५६ ॥

मूलम्

यत्रादौ भगवांश्चराचरगुरु-
र्मध्ये तथान्ते च सः
ब्रह्मज्ञानमयोऽच्युतोऽखिलजग-
न्मध्यान्तसर्गप्रभुः ।
तत्सर्वं पुरुषः पवित्रममलं
शृण्वन्पठन्वाचय-
न्प्राप्नोत्यस्ति न तत्फलं त्रिभुवने-
ष्वेकान्तसिद्धिर्हरिः ॥ ५६ ॥

अनुवाद (हिन्दी)

जिसके आदि, मध्य और अन्तमें अखिल जगत‍्की सृष्टि, स्थिति तथा संहारमें समर्थ ब्रह्मज्ञानमय चराचरगुरु भगवान् अच्युतका ही कीर्तन हुआ है उस परम श्रेष्ठ और अमल पुराणको सुनने, पढ़ने और धारण करनेसे जो फल प्राप्त होता है वह सम्पूर्ण त्रिलोकीमें और कहीं प्राप्त नहीं हो सकता, क्योंकि एकान्त मुक्तिरूप सिद्धिको देनेवाले भगवान् विष्णु ही इसके प्राप्तव्य फल हैं ॥ ५६ ॥

विश्वास-प्रस्तुतिः

यस्मिन्न्यस्तमतिर्न याति नरकं
स्वर्गोऽपि यच्चिन्तने
विघ्नो यत्र निवेशितात्ममनसो
ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यः स्थितोऽमलधियां
पुंसां ददात्यव्ययः
किं चित्रं यदघं प्रयाति विलयं
तत्राच्युते कीर्तिते ॥ ५७ ॥

मूलम्

यस्मिन्न्यस्तमतिर्न याति नरकं
स्वर्गोऽपि यच्चिन्तने
विघ्नो यत्र निवेशितात्ममनसो
ब्राह्मोऽपि लोकोऽल्पकः ।
मुक्तिं चेतसि यः स्थितोऽमलधियां
पुंसां ददात्यव्ययः
किं चित्रं यदघं प्रयाति विलयं
तत्राच्युते कीर्तिते ॥ ५७ ॥

अनुवाद (हिन्दी)

जिनमें चित्त लगानेवाला कभी नरकमें नहीं जा सकता, जिनके स्मरणमें स्वर्ग भी विघ्नरूप है, जिनमें चित्त लग जानेपर ब्रह्मलोक भी अति तुच्छ प्रतीत होता है तथा जो अव्यय प्रभु निर्मलचित्त पुरुषोंके हृदयमें स्थित होकर उन्हें मोक्ष देते हैं उन्हीं अच्युतका कीर्तन करनेसे यदि पाप विलीन हो जाते हैं तो इसमें आश्चर्य ही क्या है? ॥ ५७ ॥

विश्वास-प्रस्तुतिः

यज्ञैर्यज्ञविदो यजन्ति सततं
यज्ञेश्वरं कर्मिणो
यं वै ब्रह्ममयं परावरमयं
ध्यायन्ति च ज्ञानिनः ।
यं सञ्चिन्त्य न जायते न म्रियते
नो वर्द्धते हीयते
नैवासन्न च सद्भवत्यति ततः
किं वा हरेः श्रूयताम् ॥ ५८ ॥

मूलम्

यज्ञैर्यज्ञविदो यजन्ति सततं
यज्ञेश्वरं कर्मिणो
यं वै ब्रह्ममयं परावरमयं
ध्यायन्ति च ज्ञानिनः ।
यं सञ्चिन्त्य न जायते न म्रियते
नो वर्द्धते हीयते
नैवासन्न च सद्भवत्यति ततः
किं वा हरेः श्रूयताम् ॥ ५८ ॥

अनुवाद (हिन्दी)

यज्ञवेत्ता कर्मनिष्ठ लोग यज्ञोंद्वारा जिनका यज्ञेश्वररूपसे यजन करते हैं, ज्ञानीजन जिनका परावरमय ब्रह्मस्वरूपसे ध्यान करते हैं, जिनका स्मरण करनेसे पुरुष न जन्मता है, न मरता है, न बढ़ता है और न क्षीण ही होता है तथा जो न सत् (कारण) हैं और न असत् (कार्य) ही हैं उन श्रीहरिके अतिरिक्त और क्या सुना जाय? ॥ ५८ ॥

विश्वास-प्रस्तुतिः

कव्यं यः पितृरूपधृग्विधिहुतं
हव्यं च भुङ्‍क्ते विभु-
र्देवत्वे भगवाननादिनिधनः
स्वाहास्वधासंज्ञिते ।
यस्मिन्ब्रह्मणि सर्वशक्तिनिलये
मानानि नो मानिनां
निष्ठायै प्रभवन्ति हन्ति कलुषं
श्रोत्रं स यातो हरिः ॥ ५९ ॥

मूलम्

कव्यं यः पितृरूपधृग्विधिहुतं
हव्यं च भुङ्‍क्ते विभु-
र्देवत्वे भगवाननादिनिधनः
स्वाहास्वधासंज्ञिते ।
यस्मिन्ब्रह्मणि सर्वशक्तिनिलये
मानानि नो मानिनां
निष्ठायै प्रभवन्ति हन्ति कलुषं
श्रोत्रं स यातो हरिः ॥ ५९ ॥

अनुवाद (हिन्दी)

जो अनादिनिधन भगवान् विभु पितृरूप धारणकर स्वधासंज्ञक कव्यको और देवता होकर अग्निमें विधिपूर्वक हवन किये हुए स्वाहा नामक हव्यको ग्रहण करते हैं तथा जिन समस्त शक्तियोंके आश्रयभूत भगवान् के विषयमें बड़े-बड़े प्रमाणकुशल पुरुषोंके प्रमाण भी इयत्ता करनेमें समर्थ नहीं होते वे श्रीहरि श्रवण-पथमें जाते ही समस्त पापोंको नष्ट कर देते हैं ॥ ५९ ॥

विश्वास-प्रस्तुतिः

नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति
वृद्धिर्न यस्य परिणामविवर्जितस्य ।
नापक्षयं च समुपैत्यविकारि वस्तु
यस्तं नतोऽस्मि पुरुषोत्तममीशमीड्यम् ॥ ६० ॥

मूलम्

नान्तोऽस्ति यस्य न च यस्य समुद्भवोऽस्ति
वृद्धिर्न यस्य परिणामविवर्जितस्य ।
नापक्षयं च समुपैत्यविकारि वस्तु
यस्तं नतोऽस्मि पुरुषोत्तममीशमीड्यम् ॥ ६० ॥

अनुवाद (हिन्दी)

जिन परिणामहीन प्रभुका आदि, अन्त, वृद्धि और क्षय कुछ भी नहीं होता, जो नित्य निर्विकार पदार्थ हैं उन स्तवनीय प्रभु पुरुषोत्तमको मैं नमस्कार करता हूँ ॥ ६० ॥

विश्वास-प्रस्तुतिः

तस्यैव योऽनु गुणभुग्बहुधैक एव
शुद्धोऽप्यशुद्ध इव भाति हि मूर्तिभेदैः ।
ज्ञानान्वितः सकलसत्त्वविभूतिकर्ता
तस्मै नमोऽस्तु पुरुषाय सदाव्ययाय ॥ ६१ ॥

मूलम्

तस्यैव योऽनु गुणभुग्बहुधैक एव
शुद्धोऽप्यशुद्ध इव भाति हि मूर्तिभेदैः ।
ज्ञानान्वितः सकलसत्त्वविभूतिकर्ता
तस्मै नमोऽस्तु पुरुषाय सदाव्ययाय ॥ ६१ ॥

अनुवाद (हिन्दी)

जो उन्हींके समान गुणोंको भोगनेवाला है, एक होकर भी अनेक रूप है तथा शुद्ध होकर भी विभिन्न रूपोंके कारण अशुद्ध-(विकारवान्)-सा प्रतीत होता है और जो ज्ञानस्वरूप एवं समस्त भूत तथा विभूतियोंका कर्ता है उस नित्य अव्यय पुरुषको नमस्कार है ॥ ६१ ॥

विश्वास-प्रस्तुतिः

ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो
भोगप्रदानपटवे त्रिगुणात्मकाय ।
अव्याकृताय भवभावनकारणाय
वन्दे स्वरूपभवनाय सदाजराय ॥ ६२ ॥

मूलम्

ज्ञानप्रवृत्तिनियमैक्यमयाय पुंसो
भोगप्रदानपटवे त्रिगुणात्मकाय ।
अव्याकृताय भवभावनकारणाय
वन्दे स्वरूपभवनाय सदाजराय ॥ ६२ ॥

अनुवाद (हिन्दी)

जो ज्ञान (सत्त्व), प्रवृत्ति (रज) और नियमन (तम)-की एकतारूप है, पुरुषको भोग प्रदान करनेमें कुशल है, त्रिगुणात्मक तथा अव्याकृत है, संसारकी उत्पत्तिका कारण है, उस स्वतःसिद्ध तथा जराशून्य प्रभुको सर्वदा नमस्कार करता हूँ ॥ ६२ ॥

विश्वास-प्रस्तुतिः

व्योमानिलाग्निजलभूरचनामयाय
शब्दादिभोग्यविषयोपनयक्षमाय ।
पुंसः समस्तकरणैरुपकारकाय
व्यक्ताय सूक्ष्मबृहदात्मवते नतोऽस्मि ॥ ६३ ॥

मूलम्

व्योमानिलाग्निजलभूरचनामयाय
शब्दादिभोग्यविषयोपनयक्षमाय ।
पुंसः समस्तकरणैरुपकारकाय
व्यक्ताय सूक्ष्मबृहदात्मवते नतोऽस्मि ॥ ६३ ॥

अनुवाद (हिन्दी)

जो आकाश, वायु, अग्नि, जल और पृथिवीरूप है, शब्दादि भोग्य विषयोंकी प्राप्ति करानेमें समर्थ है और पुरुषका उसकी समस्त इन्द्रियोंद्वारा उपकार करता है उस सूक्ष्म और विराट्‍रूप व्यक्त परमात्माको नमस्कार करता हूँ ॥ ६३ ॥

विश्वास-प्रस्तुतिः

इति विविधमजस्य यस्य रूपं
प्रकृतिपरात्ममयं सनातनस्य ।
प्रदिशतु भगवानशेषपुंसां
हरिरपजन्मजरादिकां स सिद्धिम् ॥ ६४ ॥

मूलम्

इति विविधमजस्य यस्य रूपं
प्रकृतिपरात्ममयं सनातनस्य ।
प्रदिशतु भगवानशेषपुंसां
हरिरपजन्मजरादिकां स सिद्धिम् ॥ ६४ ॥

अनुवाद (हिन्दी)

इस प्रकार जिन नित्य सनातन परमात्माके प्रकृति-पुरुषमय ऐसे अनेक रूप हैं वे भगवान् हरि समस्त पुरुषोंको जन्म और जरा आदिसे रहित (मुक्तिरूप) सिद्धि प्रदान करें ॥ ६४ ॥

मूलम् (समाप्तिः)

इति श्रीविष्णुपुराणे षष्ठेंऽशे अष्टमोऽध्यायः ॥ ८ ॥
इति श्रीपराशरमुनिविरचिते श्रीविष्णुपरत्वनिर्णायके श्रीमति विष्णुमहापुराणे षष्ठोंऽशः समाप्तः ।
इति श्रीविष्णुमहापुराणं सम्पूर्णम्

मूलम् (वचनम्)

॥ श्रीविष्ण्वर्पणमस्तु ॥