०७ ब्रह्म-योगः

[सातवाँ अध्याय]

विश्वास-टिप्पनी

तत्राष्टाङ्गयोगो वर्ण्यते । प्राप्यो विष्णुः ।
प्राप्तिश् च तस्मिन् लयः - अथवा तेनैक्यस्यानुभूतिः ।

भावनाः त्रिविधाः - ब्रह्म-भाव-भावना, कर्म-भाव-भावना, उभय-भाव-भावना । ब्रह्म-भावना-प्रधानाः सनन्दनादयः, कर्म-भावना-प्रधाना देवाः, उभय-भावना-युतः हिरण्यगर्भः ।

३ शक्तयः - विष्णुशक्तिः परा, क्षेत्रज्ञा ऽपरा, अविद्या कर्म-संज्ञा । क्षेत्रज्ञशक्तिर् आत्म-भेद-जननी भिन्न-वस्तुषु भिन्न-मात्रासु लक्ष्यते ।

तत्र धारणे विशेषः - चेतस आश्रया इति वर्ण्यन्ते । आश्रयभूतस्य विष्णो रूपद्वयम् -

  • विष्णोः परं रूपम् ब्रह्म - प्रत्यस्त-मित-भेदम्, सत्ता-मात्रम्, अगोचरं वचसाम्, आत्म-संवेद्यम्, अचिन्त्यं, त्रिभाव-भावनातीतं च । अमूर्तं च सद् इति योगि-ध्येयम् उच्यते (चिन्ता-ध्यानयोर् भेदः), तत् क्रियाशीलम्, शक्तीनाम् आधरश् च ।
  • मूर्तं तु चिन्त्यं विश्वरूपं सर्वदेवात्मकम्, भावना-त्रयात्मकम् ।

त्रि-भावनातीतं परं रूपं शुभाश्रय इत्य् उच्यते । अन्ये देवा अशुद्धाश्रया - व्य्-अपाश्रयाः - कर्मयोनित्वात् ।
मूर्तं रूपं चतुर्भुजस्याष्टभुजस्य वा विष्णोः धार्यं योगाङ्गत्वेन - “सर्वापाश्रय-निःस्पृहम्” इति ।

प्रथमं विश्वरूपप्रतीकम् इव विष्णु-रूपम्, तत आयुधहीनम्, तत आभरण-हीनम् - इति धारणम् उक्तम् ।
अन्ते प्रत्ययमात्रं ध्यानं, कल्पनाहीनः समाधिश् च । अष्टाङ्गयोग एवोक्तः ।

राज्य-त्याग-कारणम्

विषय

ब्रह्मयोगका निर्णय

मूलम् (वचनम्)

केशिध्वज उवाच

विश्वास-प्रस्तुतिः

न प्रार्थितं त्वया कस्माद्
अस्मद्-राज्यम् अकण्टकम् ।
राज्यलाभाद् विना नान्यत्
क्षत्रियाणाम् अतिप्रियम् ॥ १ ॥

मूलम्

न प्रार्थितं त्वया कस्मादस्मद्राज्यमकण्टकम् ।
राज्यलाभाद्विना नान्यत्क्षत्रियाणामतिप्रियम् ॥ १ ॥

अनुवाद (हिन्दी)

केशिध्वज बोले—क्षत्रियोंको तो राज्य-प्राप्तिसे अधिक प्रिय और कुछ भी नहीं होता, फिर तुमने मेरा निष्कण्टक राज्य क्यों नहीं माँगा? ॥ १ ॥

मूलम् (वचनम्)

खाण्डिक्य उवाच

विश्वास-प्रस्तुतिः

केशिध्वज निबोध त्वं
मया न प्रार्थितं यतः ।
राज्यम् एतदशेषं ते
यत्र गृध्नन्त्य् अपण्डिताः ॥ २ ॥

मूलम्

केशिध्वज निबोध त्वं मया न प्रार्थितं यतः ।
राज्यमेतदशेषं ते यत्र गृध्नन्त्यपण्डिताः ॥ २ ॥

अनुवाद (हिन्दी)

खाण्डिक्य बोले—हे केशिध्वज! मैंने जिस कारणसे तुम्हारा राज्य नहीं माँगा वह सुनो । इन राज्यादिकी आकांक्षा तो मूर्खोंको हुआ करती है ॥ २ ॥

विश्वास-प्रस्तुतिः

क्षत्रियाणाम् अयं धर्मो
यत् प्रजा-परिपालनम् ।
वधश् च धर्मयुद्धेन
स्व-राज्य-परिपन्थिनाम् ॥ ३ ॥

मूलम्

क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनम् ।
वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनाम् ॥ ३ ॥

अनुवाद (हिन्दी)

क्षत्रियोंका धर्म तो यही है कि प्रजाका पालन करें और अपने राज्यके विरोधियोंका धर्म-युद्धसे वध करें ॥ ३ ॥

विश्वास-प्रस्तुतिः

तत्राशक्तस्य मे दोषो
नैवास्त्य् अपहृते त्वया ।
बन्धायैव भवत्य् एषा
ह्य् अविद्या ऽप्य् अक्रमोज्झिता +++(धर्म-क्रिया)+++ ॥ ४ ॥+++(5)+++

मूलम्

तत्राशक्तस्य मे दोषो नैवास्त्यपहृते त्वया ।
बन्धायैव भवत्येषा ह्यविद्याप्यक्रमोज्झिता ॥ ४ ॥

अनुवाद (हिन्दी)

शक्तिहीन होनेके कारण यदि तुमने मेरा राज्य हरण कर लिया है,
तो [असमर्थतावश प्रजापालन न करनेपर भी] मुझे कोई दोष न होगा ।
[किन्तु राज्याधिकार होनेपर
यथावत् प्रजापालन न करनेसे
दोषका भागी होना पड़ता है]
क्योंकि यद्यपि यह (स्वकर्म) अविद्या ही है
तथापि नियमविरुद्ध त्याग करनेपर
यह बन्धनका कारण होती है ॥ ४ ॥

विश्वास-प्रस्तुतिः

जन्मोपभोग-लिप्सार्थम्
इयं राज्य-स्पृहा मम ।
अन्येषां दोष-जा सैव -
+++(तेषु)+++ धर्मं वै नानुरुध्यते ॥ ५ ॥

मूलम्

जन्मोपभोगलिप्सार्थमियं राज्यस्पृहा मम ।
अन्येषां दोषजा सैव धर्मं वै नानुरुध्यते ॥ ५ ॥

अनुवाद (हिन्दी)

यह राज्यकी चाह मुझे तो जन्मान्तरके [कर्मोंद्वारा प्राप्त] सुखभोगके लिये होती है;
और वही मन्त्री आदि अन्य जनोंको
राग एवं लोभ आदि दोषोंसे उत्पन्न होती है
केवल धर्मानुरोधसे नहीं ॥ ५ ॥

विश्वास-प्रस्तुतिः

न याच्ञा क्षत्र-बन्धूनां
धर्मायैतत्सतां मतम् ।
अतो न याचितं राज्यम्
+++(स्वधर्माद् बहिर् वर्तमानत्वाद्)+++ अविद्यान्तर्गतं तव ॥ ६ ॥

मूलम्

न याच्ञा क्षत्रबन्धूनां धर्मायैतत्सतां मतम् ।
अतो न याचितं राज्यमविद्यान्तर्गतं तव ॥ ६ ॥

अनुवाद (हिन्दी)

‘उत्तम क्षत्रियोंका [राज्यादिकी] याचना करना धर्म नहीं है’
यह महात्माओंका मत है ।
इसीलिये मैंने अविद्या (पालनादि कर्म)-के अन्तर्गत
तुम्हारा राज्य नहीं माँगा ॥ ६ ॥

विश्वास-प्रस्तुतिः

राज्ये गृध्नन्त्य् अविद्वांसो
ममत्वाहृत-चेतसः ।
अहं-मान-महा-पान-
मद-मत्ता न मादृशाः ॥ ७ ॥

मूलम्

राज्ये गृध्नन्त्यविद्वांसो ममत्वाहृतचेतसः ।
अहंमानमहापानमदमत्ता न मादृशाः ॥ ७ ॥

अनुवाद (हिन्दी)

जो लोग अहंकाररूपी मदिराका पान करके उन्मत्त हो रहे हैं तथा जिनका चित्त ममताग्रस्त हो रहा है वे मूढ़जन ही राज्यकी अभिलाषा करते हैं; मेरे-जैसे लोग राज्यकी इच्छा नहीं करते ॥ ७ ॥

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

प्रहृष्टस् “साध्व्” इति प्राह
ततः केशिध्वजो नृपः ।
खाण्डिक्य-जनकं प्रीत्या
“श्रूयतां वचनं मम” ॥ ८ ॥

मूलम्

प्रहृष्टस्साध्विति प्राह ततः केशिध्वजो नृपः ।
खाण्डिक्यजनकं प्रीत्या श्रूयतां वचनं मम ॥ ८ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—तब राजा केशिध्वजने प्रसन्न होकर खाण्डिक्य जनकको साधुवाद दिया
और प्रीतिपूर्वक कहा, मेरा वचन सुनो— ॥ ८ ॥

विश्वास-प्रस्तुतिः

अहं ह्य् अविद्यया मृत्युं
तर्तु-कामः करोमि वै ।
राज्यं यागांश् च विविधान‍्,
भोगैः पुण्य-क्षयं तथा ॥ ९ ॥

मूलम्

अहं ह्यविद्यया मृत्युं तर्तुकामः करोमि वै ।
राज्यं यागांश्च विविधान‍्भोगैः पुण्यक्षयं तथा ॥ ९ ॥

अनुवाद (हिन्दी)

मैं अविद्याद्वारा मृत्युको पार करनेकी इच्छासे ही राज्य तथा विविध यज्ञोंका अनुष्ठान करता हूँ और नाना भोगोंद्वारा अपने पुण्योंका क्षय कर रहा हूँ ॥ ९ ॥

संसार-बीजम्

विश्वास-प्रस्तुतिः

तद् इदं ते मनो दिष्ट्या
विवेकैश्वर्यतां गतम् ।
तच् छ्रूयताम् अविद्यायास्
स्वरूपं कुलनन्दन ॥ १० ॥

मूलम्

तदिदं ते मनो दिष्ट्या विवेकैश्वर्यतां गतम् ।
तच्छ्रूयतामविद्यायास्स्वरूपं कुलनन्दन ॥ १० ॥

अनुवाद (हिन्दी)

हे कुलनन्दन! बड़े सौभाग्यकी बात है कि तुम्हारा मन विवेकसम्पन्न हुआ है अतः तुम अविद्याका स्वरूप सुनो ॥ १० ॥

विश्वास-प्रस्तुतिः

अनात्मन्य् आत्मबुद्धिर् या,
चास्वे स्वम् इति या मतिः ।
संसार-तरु-सम्भूति-
बीजम् एतद‍‍् द्विधा स्थितम् ॥ ११ ॥

मूलम्

अनात्मन्यात्मबुद्धिर्या चास्वे स्वमिति या मतिः ।
संसारतरुसम्भूतिबीजमेतद‍‍्द्विधा स्थितम् ॥ ११ ॥

अनुवाद (हिन्दी)

संसार-वृक्षकी बीजभूता यह अविद्या दो प्रकारकी है—अनात्मामें आत्मबुद्धि और जो अपना नहीं है उसे अपना मानना ॥ ११ ॥

विश्वास-प्रस्तुतिः

पञ्चभूतात्मके देहे
देही मोह-तमोवृतः ।
“अहं ममैतद्” इत्य् उच्चैः
कुरुते कु-मतिर् मतिम् ॥ १२ ॥

मूलम्

पञ्चभूतात्मके देहे देही मोहतमोवृतः ।
अहं ममैतदित्युच्चैः कुरुते कुमतिर्मतिम् ॥ १२ ॥

अनुवाद (हिन्दी)

यह कुमति जीव मोहरूपी अन्धकारसे आवृत होकर इस पंचभूतात्मक देहमें ‘मैं’ और ‘मेरापन’ का भाव करता है ॥ १२ ॥

विश्वास-प्रस्तुतिः

आकाश-वाय्व्-अग्नि-जल-
पृथिवीभ्यः पृथक् स्थिते ।
आत्मन्य्, आत्ममयं भावं
कः करोति कलेवरे ॥ १३ ॥

मूलम्

आकाशवाय्वग्निजलपृथिवीभ्यः पृथक्स्थिते ।
आत्मन्यात्ममयं भावं कः करोति कलेवरे ॥ १३ ॥

अनुवाद (हिन्दी)

जब कि आत्मा
आकाश, वायु, अग्नि, जल और पृथिवी आदिसे सर्वथा पृथक् है
तो कौन बुद्धिमान् व्यक्ति
शरीरमें आत्मबुद्धि करेगा? ॥ १३ ॥

विश्वास-प्रस्तुतिः

कलेवरोपभोग्यं हि
गृह-क्षेत्रादिकंकः
अ-देहे ह्य् आत्मनि प्राज्ञो
“ममेदम्” इति मन्यते ॥ १४ ॥

मूलम्

कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च कः ।
अदेहे ह्यात्मनि प्राज्ञो ममेदमिति मन्यते ॥ १४ ॥

अनुवाद (हिन्दी)

और आत्माके देहसे परे होनेपर भी देहके उपभोग्य गृह-क्षेत्रादिको कौन प्राज्ञ पुरुष ‘अपना’ मान सकता है ॥ १४ ॥

विश्वास-प्रस्तुतिः

इत्थं च पुत्र-पौत्रेषु
तद्-देहोत्पादितेषु कः
करोति पण्डितस् स्वाम्यम्
अनात्मनि कलेवरे ॥ १५ ॥

मूलम्

इत्थं च पुत्रपौत्रेषु तद्देहोत्पादितेषु कः ।
करोति पण्डितस्स्वाम्यमनात्मनि कलेवरे ॥ १५ ॥

अनुवाद (हिन्दी)

इस प्रकार इस शरीरके अनात्मा होनेसे इससे उत्पन्न हुए पुत्र-पौत्रादिमें भी कौन विद्वान् अपनापन करेगा ॥ १५ ॥

विश्वास-प्रस्तुतिः

सर्वं देहोपभोगाय
कुरुते कर्म मानवः ।
देहश् चान्यो यदा पुंसस्,
तदा बन्धाय तत् परम् ॥ १६ ॥

मूलम्

सर्वं देहोपभोगाय कुरुते कर्म मानवः ।
देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परम् ॥ १६ ॥

अनुवाद (हिन्दी)

मनुष्य सारे कर्म देहके ही उपभोगके लिये करता है;
किन्तु जब कि यह देह अपनेसे पृथक् है,
तो वे कर्म केवल बन्धन (देहोत्पत्ति)- के ही कारण होते हैं ॥ १६ ॥

विश्वास-प्रस्तुतिः

मृण्-मयं हि यथा गेहं
लिप्यते वै मृदम्भसा ।
पार्थिवोऽयं तथा देहो
मृद्+++(→अन्न)+++-अम्ब्व्-आलेपनस्थितः ॥ १७ ॥

मूलम्

मृण्मयं हि यथा गेहं लिप्यते वै मृदम्भसा ।
पार्थिवोऽयं तथा देहो मृदम्ब्वालेपनस्थितः ॥ १७ ॥

अनुवाद (हिन्दी)

जिस प्रकार मिट्टीके घरको
जल और मिट्टीसे लीपते-पोतते हैं
उसी प्रकार यह पार्थिव शरीर भी
मृत्तिका (मृण्मय अन्न) और जलकी सहायतासे ही स्थिर रहता है ॥ १७ ॥

विश्वास-प्रस्तुतिः

पञ्च-भूतात्मकैर् भोगैः
पञ्चभूतात्मकं वपुः ।
आप्यायते यदि, ततः
पुंसो भोगोऽत्र किं कृतः ॥ १८ ॥

मूलम्

पञ्चभूतात्मकैर्भोगैः पञ्चभूतात्मकं वपुः ।
आप्यायते यदि ततः पुंसो भोगोऽत्र किंकृतः ॥ १८ ॥

अनुवाद (हिन्दी)

यदि यह पंचभूतात्मक शरीर पांचभौतिक पदार्थोंसे पुष्ट होता है तो इसमें पुरुषने क्या भोग किया ॥ १८ ॥

विश्वास-प्रस्तुतिः

अनेक-जन्म-साहस्रीं
संसार-पदवीं व्रजन्
मोह-श्रमं प्रयातो ऽसौ
वासना-रेणु-कुण्ठितः ॥ १९ ॥

मूलम्

अनेकजन्मसाहस्रीं संसारपदवीं व्रजन् ।
मोहश्रमं प्रयातोऽसौ वासनारेणुकुण्ठितः ॥ १९ ॥

अनुवाद (हिन्दी)

यह जीव अनेक सहस्र जन्मोंतक सांसारिक भोगोंमें पड़े रहनेसे उन्हींकी वासनारूपी धूलिसे आच्छादित हो जानेके कारण केवल मोहरूपी श्रमको ही प्राप्त होता है ॥ १९ ॥

विश्वास-प्रस्तुतिः

प्रक्षाल्यते यदा सोऽस्य
रेणुर् ज्ञानोष्ण-वारिणा ।
तदा संसार-पान्थस्य
याति मोह-श्रमश् शमम् ॥ २० ॥

मूलम्

प्रक्षाल्यते यदा सोऽस्य रेणुर्ज्ञानोष्णवारिणा ।
तदा संसारपान्थस्य याति मोहश्रमश्शमम् ॥ २० ॥

अनुवाद (हिन्दी)

जिस समय ज्ञानरूपी गर्म जलसे उसकी वह धूलि धो दी जाती है तब इस संसार-पथके पथिकका मोहरूपी श्रम शान्त हो जाता है ॥ २० ॥

विश्वास-प्रस्तुतिः

मोह-श्रमे शमं याते
स्व-स्थान्तःकरणः पुमान् ।
अनन्यातिशयाबाधं
परं निर्वाणम् ऋच्छति ॥ २१ ॥

मूलम्

मोहश्रमे शमं याते स्वस्थान्तःकरणः पुमान् ।
अनन्यातिशयाबाधं परं निर्वाणमृच्छति ॥ २१ ॥

अनुवाद (हिन्दी)

मोह-श्रमके शान्त हो जानेपर पुरुष स्वस्थ-चित्त हो जाता है और निरतिशय एवं निर्बाध परम निर्वाण पद प्राप्त कर लेता है ॥ २१ ॥

विश्वास-प्रस्तुतिः

निर्वाणमय एवायम्
आत्मा ज्ञान-मयोऽमलः ।
दुःखाज्ञानमया धर्माः
प्रकृतेस् ते तु नात्मनः ॥ २२ ॥ +++(5)+++

मूलम्

निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः ।
दुःखाज्ञानमया धर्माः प्रकृतेस्ते तु नात्मनः ॥ २२ ॥

अनुवाद (हिन्दी)

यह ज्ञानमय निर्मल आत्मा निर्वाण-स्वरूप ही है, दुःख आदि जो अज्ञानमय धर्म हैं वे प्रकृतिके हैं, आत्माके नहीं ॥ २२ ॥

विश्वास-प्रस्तुतिः

+++(स्थाली-गत-)+++जलस्य नाग्नि-संसर्गः,
स्थाली-संगात् तथापि हि ।
+++(क्वथन-)+++शब्दोद्रेकादिकान् धर्मांस्
तत् करोति यथा नृप ॥ २३ ॥
तथात्मा प्रकृतेस् सङ्गाद्
अहम्-मानादि-दूषितः ।
भजते प्राकृतान् धर्मान्,
अन्यस् तेभ्यो हि सोऽव्ययः ॥ २४ ॥+++(5)+++

मूलम्

जलस्य नाग्निसंसर्गः स्थालीसंगात्तथापि हि ।
शब्दोद्रेकादिकान्धर्मांस्तत्करोति यथा नृप ॥ २३ ॥
तथात्मा प्रकृतेस्सङ्गादहम्मानादिदूषितः ।
भजते प्राकृतान्धर्मानन्यस्तेभ्यो हि सोऽव्ययः ॥ २४ ॥

अनुवाद (हिन्दी)

हे राजन्!
जिस प्रकार स्थाली (बटलोई)-के जलका अग्निसे संयोग नहीं होता
तथापि स्थालीके संसर्गसे ही
उसमें खौलनेके शब्द आदि धर्म प्रकट हो जाते हैं,
उसी प्रकार प्रकृतिके संसर्गसे ही आत्मा अहंकारादिसे दूषित होकर प्राकृत धर्मोंको स्वीकार करता है; वास्तवमें तो वह अव्ययात्मा उनसे सर्वथा पृथक् है ॥ २३-२४ ॥

विश्वास-प्रस्तुतिः

तद् एतत् कथितं बीजम्
अविद्याया मया तव ।
क्लेशानां च क्षयकरं
योगाद् अन्यन् न विद्यते ॥ २५ ॥

मूलम्

तदेतत्कथितं बीजमविद्याया मया तव ।
क्लेशानां च क्षयकरं योगादन्यन्न विद्यते ॥ २५ ॥

अनुवाद (हिन्दी)

इस प्रकार मैंने तुम्हें यह अविद्याका बीज बतलाया; इस अविद्यासे प्राप्त हुए क्लेशोंको नष्ट करनेवाला योगसे अतिरिक्त और कोई उपाय नहीं है ॥ २५ ॥

योगः

मूलम् (वचनम्)

खाण्डिक्य उवाच

विश्वास-प्रस्तुतिः

तं तु ब्रूहि महाभाग
योगं योगविद् उत्तम ।
+++(ननु)+++ विज्ञात-योग-शास्त्रार्थस्
त्वम् अस्यां निमि-सन्ततौ ॥ २६ ॥

मूलम्

तं तु ब्रूहि महाभाग योगं योगविदुत्तम ।
विज्ञातयोगशास्त्रार्थस्त्वमस्यां निमिसन्ततौ ॥ २६ ॥

अनुवाद (हिन्दी)

खाण्डिक्य बोले—हे योगवेत्ताओंमें श्रेष्ठ महाभाग केशिध्वज!
तुम निमिवंशमें योगशास्त्रके मर्मज्ञ हो, अतः उस योगका वर्णन करो ॥ २६ ॥

मूलम् (वचनम्)

केशिध्वज उवाच

विश्वास-प्रस्तुतिः

योग-स्वरूपं खाण्डिक्य
श्रूयतां गदतो मम ।
यत्र स्थितो न च्यवते
प्राप्य ब्रह्म-लयं मुनिः ॥ २७ ॥

मूलम्

योगस्वरूपं खाण्डिक्य श्रूयतां गदतो मम ।
यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥ २७ ॥

अनुवाद (हिन्दी)

केशिध्वज बोले—हे खाण्डिक्य! जिसमें स्थित होकर ब्रह्ममें लीन हुए मुनिजन फिर स्वरूपसे च्युत नहीं होते, मैं उस योगका वर्णन करता हूँ; श्रवण करो ॥ २७ ॥

विश्वास-प्रस्तुतिः

मन एव मनुष्याणां
कारणं बन्ध-मोक्षयोः
बन्धाय विषयासङ्गि
मुक्त्यै निर्विषयं मनः ॥ २८ ॥+++(5)+++

मूलम्

मन एव मनुष्याणां कारणं बन्धमोक्षयोः ।
बन्धाय विषयासङ्गि मुक्त्यै निर्विषयं मनः ॥ २८ ॥

अनुवाद (हिन्दी)

मनुष्यके बन्धन और मोक्षका कारण केवल मन ही है; विषयका संग करनेसे वह बन्धनकारी और विषयशून्य होनेसे मोक्षकारक होता है ॥ २८ ॥

विश्वास-प्रस्तुतिः

विषयेभ्यस् समाहृत्य
विज्ञानात्मा मनो मुनिः ।
चिन्तयेन् मुक्तये तेन
ब्रह्म-भूतं परेश्वरम् ॥ २९ ॥

मूलम्

विषयेभ्यस्समाहृत्य विज्ञानात्मा मनो मुनिः ।
चिन्तयेन्मुक्तये तेन ब्रह्मभूतं परेश्वरम् ॥ २९ ॥

अनुवाद (हिन्दी)

अतः विवेकज्ञानसम्पन्न मुनि अपने चित्तको विषयोंसे हटाकर मोक्षप्राप्तिके लिये ब्रह्मस्वरूप परमात्माका चिन्तन करे ॥ २९ ॥

विश्वास-प्रस्तुतिः

आत्म-भावं नयत्य् एनं
तद‍् ब्रह्म ध्यायिनं मुनिम् ।
+++(दशाभेदेन)+++ विकार्यम् आत्मनश् शक्त्या
लोहम् आकर्षको यथा ॥ ३० ॥+++(4)+++

मूलम्

आत्मभावं नयत्येनं तद‍्ब्रह्म ध्यायिनं मुनिम् ।
विकार्यमात्मनश्शक्त्या लोहमाकर्षको यथा ॥ ३० ॥

अनुवाद (हिन्दी)

जिस प्रकार अयस्कान्तमणि
अपनी शक्तिसे लोहेको खींचकर अपनेमें संयुक्त कर लेता है
उसी प्रकार ब्रह्मचिन्तन करनेवाले मुनिको
परमात्मा स्वभावसे ही स्वरूपमें लीन कर देता है ॥ ३० ॥

विश्वास-प्रस्तुतिः

आत्म-प्रयत्न-सापेक्षा
विशिष्टा या मनोगतिः
तस्या ब्रह्मणि संयोगो
योग इत्य् अभिधीयते ॥ ३१ ॥

मूलम्

आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ।
तस्या ब्रह्मणि संयोगो योग इत्यभिधीयते ॥ ३१ ॥

अनुवाद (हिन्दी)

आत्मज्ञानके प्रयत्नभूत यम, नियम आदिकी अपेक्षा रखनेवाली जो मनकी विशिष्ट गति है, उसका ब्रह्मके साथ संयोग होना ही ‘योग’ कहलाता है ॥ ३१ ॥

विश्वास-प्रस्तुतिः

एवम् अत्यन्त-वैशिष्ट्य-
युक्त-धर्मोपलक्षणः ।
यस्य योगस् स वै योगी
मुमुक्षुर् अभिधीयते ॥ ३२ ॥

मूलम्

एवमत्यन्तवैशिष्ट्ययुक्तधर्मोपलक्षणः ।
यस्य योगस्स वै योगी मुमुक्षुरभिधीयते ॥ ३२ ॥

अनुवाद (हिन्दी)

जिसका योग इस प्रकारके विशिष्ट धर्मसे युक्त होता है वह मुमुक्षु योगी कहा जाता है ॥ ३२ ॥

विश्वास-प्रस्तुतिः

योग-युक् प्रथमं योगी
युञ्जानो ह्य् अभिधीयते ।
विनिष्पन्न-समाधिस् तु
परं ब्रह्मोपलब्धिमान् ॥ ३३ ॥

मूलम्

योगयुक् प्रथमं योगी युञ्जानो ह्यभिधीयते ।
विनिष्पन्नसमाधिस्तु परं ब्रह्मोपलब्धिमान् ॥ ३३ ॥

अनुवाद (हिन्दी)

जब मुमुक्षु पहले-पहले योगाभ्यास आरम्भ करता है तो उसे ‘योगयुक्त योगी’ कहते हैं और जब उसे परब्रह्मकी प्राप्ति हो जाती है तो वह ‘विनिष्पन्नसमाधि’ कहलाता है ॥ ३३ ॥

विश्वास-प्रस्तुतिः

यद्य् अन्तराय-दोषेण
दूष्यते चास्य मानसम्
जन्मान्तरैर् अभ्यसतो
मुक्तिः पूर्वस्य +++(→युञ्जानस्य)+++ जायते ॥ ३४ ॥

मूलम्

यद्यन्तरायदोषेण दूष्यते चास्य मानसम् ।
जन्मान्तरैरभ्यसतो मुक्तिः पूर्वस्य जायते ॥ ३४ ॥

अनुवाद (हिन्दी)

यदि किसी विघ्नवश
उस योगयुक्त योगीका चित्त दूषित हो जाता है
तो जन्मान्तरमें भी उसी अभ्यासको करते रहनेसे
वह मुक्त हो जाता है ॥ ३४ ॥

विश्वास-प्रस्तुतिः

विनिष्पन्नसमाधिस् तु
मुक्तिं तत्रैव जन्मनि
प्राप्नोति योगी योगाग्नि-
दग्ध-कर्मचयो ऽचिरात् ॥ ३५ ॥

मूलम्

विनिष्पन्नसमाधिस्तु मुक्तिं तत्रैव जन्मनि ।
प्राप्नोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥ ३५ ॥

अनुवाद (हिन्दी)

विनिष्पन्नसमाधि योगी तो योगाग्निसे कर्मसमूहके भस्म हो जानेके कारण उसी जन्ममें थोड़े ही समयमें मोक्ष प्राप्त कर लेता है ॥ ३५ ॥

विश्वास-प्रस्तुतिः

+++(यमान् - )+++ ब्रह्मचर्यम् अहिंसां च
सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो
योग्यतां स्वमनो नयन् ॥ ३६ ॥

मूलम्

ब्रह्मचर्यमहिंसां च सत्यास्तेयापरिग्रहान् ।
सेवेत योगी निष्कामो योग्यतां स्वमनो नयन् ॥ ३६ ॥

अनुवाद (हिन्दी)

योगीको चाहिये कि अपने चित्तको ब्रह्मचिन्तनके योग्य बनाता हुआ ब्रह्मचर्य, अहिंसा, सत्य, अस्तेय और अपरिग्रहका निष्कामभावसे सेवन करे ॥ ३६ ॥

विश्वास-प्रस्तुतिः

+++(नियमान् -)+++ स्वाध्याय-शौच-सन्तोष-
तपांसि नियतात्मवान् ।
कुर्वीत ब्रह्मणि तथा
परस्मिन् प्रवणं मनः ॥ ३७ ॥

मूलम्

स्वाध्यायशौचसन्तोषतपांसि नियतात्मवान् ।
कुर्वीत ब्रह्मणि तथा परस्मिन्प्रवणं मनः ॥ ३७ ॥

अनुवाद (हिन्दी)

तथा संयत चित्तसे स्वाध्याय, शौच, सन्तोष और तपका आचरण करे तथा मनको निरन्तर परब्रह्ममें लगाता रहे ॥ ३७ ॥

विश्वास-प्रस्तुतिः

एते यमात् स-नियमाः +++(यमाः)+++
पञ्च, पञ्च च कीर्तिताः ।
विशिष्ट-फल-दाः काम्या
निष्कामाणां विमुक्तिदाः ॥ ३८ ॥

मूलम्

एते यमात् सनियमाः पञ्च पञ्च च कीर्तिताः ।
विशिष्टफलदाः काम्या निष्कामाणां विमुक्तिदाः ॥ ३८ ॥

अनुवाद (हिन्दी)

ये पाँच-पाँच यम और नियम बतलाये गये हैं । इनका सकाम आचरण करनेसे पृथक्-पृथक् फल मिलते हैं और निष्कामभावसे सेवन करनेसे मोक्ष प्राप्त होता है ॥ ३८ ॥

विश्वास-प्रस्तुतिः

एकं+++(→एकतमं)+++ (भद्रासनादीनां)
समास्थाय, गुणैर् युतः ।
यमाख्यैर् नियमाख्यैश् च
युञ्जीत नियतो यतिः ॥ ३९ ॥

मूलम्

एकं भद्रासनादीनां समास्थाय गुणैर्युतः ।
यमाख्यैर्नियमाख्यैश्च युञ्जीत नियतो यतिः ॥ ३९ ॥

अनुवाद (हिन्दी)

यतिको चाहिये कि भद्रासनादि आसनोंमेंसे किसी एकका अवलम्बन कर यम-नियमादि गुणोंसे युक्त हो योगाभ्यास करे ॥ ३९ ॥

विश्वास-प्रस्तुतिः

प्राणाख्यम् अनिलं वश्यम्
अभ्यासात् कुरुते तु यत् ।
प्राणायामस् स विज्ञेयस्,
सबीजो ऽबीज एव च +++(द्वौ प्रभेदौ)+++ ॥ ४० ॥

मूलम्

प्राणाख्यमनिलं वश्यमभ्यासात्कुरुते तु यत् ।
प्राणायामस्स विज्ञेयस्सबीजोऽबीज एव च ॥ ४० ॥

अनुवाद (हिन्दी)

अभ्यासके द्वारा जो प्राणवायुको वशमें किया जाता है उसे ‘प्राणायाम’ समझना चाहिये । वह सबीज (ध्यान तथा मन्त्रपाठ आदि आलम्बनयुक्त) और निर्बीज (निरालम्ब) भेदसे दो प्रकारका है ॥ ४० ॥

विश्वास-प्रस्तुतिः

परस्परेणाभिभवं
प्राणापानौ यथानिलौ ।
कुरुतस् सद्-विधानेन
+++(प्राणायामेषु)+++ तृतीयस् संयमात् तयोः ॥ ४१ ॥

मूलम्

परस्परेणाभिभवं प्राणापानौ यथानिलौ ।
कुरुतस्सद्विधानेन तृतीयस्संयमात्तयोः ॥ ४१ ॥

अनुवाद (हिन्दी)

सद‍्गुरुके उपदेशसे
जब योगी प्राण और अपानवायुद्वारा एक-दूसरेका निरोध करता है
तो [क्रमशः रेचक और पूरक नामक] दो प्राणायाम होते हैं
और इन दोनोंका एक ही समय संयम करनेसे [कुम्भक नामक] तीसरा प्राणायाम होता है ॥ ४१ ॥

विश्वास-प्रस्तुतिः

तस्य चालम्बनवतः
स्थूलरूपं द्विजोत्तम ।
आलम्बनम् अनन्तस्य +++(इति)+++
योगिनो ऽभ्यसतः स्मृतम् ॥ ४२ ॥

मूलम्

तस्य चालम्बनवतः स्थूलरूपं द्विजोत्तम ।
आलम्बनमनन्तस्य योगिनोऽभ्यसतः स्मृतम् ॥ ४२ ॥

अनुवाद (हिन्दी)

हे द्विजोत्तम! जब योगी सबीज प्राणायामका अभ्यास आरम्भ करता है
तो उसका आलम्बन भगवान् अनन्तका हिरण्यगर्भ आदि स्थूलरूप होता है ॥ ४२ ॥

विश्वास-प्रस्तुतिः

शब्दादिष्व् अनुरक्तानि
निगृह्याक्षाणि योग-वित् ।
कुर्याच् चित्तानु-कारीणि
प्रत्याहार-परायणः ॥ ४३ ॥

मूलम्

शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ।
कुर्याच्चित्तानुकारीणि प्रत्याहारपरायणः ॥ ४३ ॥

अनुवाद (हिन्दी)

तदनन्तर वह प्रत्याहारका अभ्यास करते हुए शब्दादि विषयोंमें अनुरक्त हुई अपनी इन्द्रियोंको रोककर अपने चित्तकी अनुगामिनी बनाता है ॥ ४३ ॥

विश्वास-प्रस्तुतिः

वश्यता परमा तेन
जायते ऽतिचलात्मनाम् ।
इन्द्रियाणाम्, अवश्यैस् तैर्
न योगी योगसाधकः ॥ ४४ ॥

मूलम्

वश्यता परमा तेन जायतेऽतिचलात्मनाम् ।
इन्द्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥ ४४ ॥

अनुवाद (हिन्दी)

ऐसा करनेसे अत्यन्त चंचल इन्द्रियाँ उसके वशीभूत हो जाती हैं । इन्द्रियोंको वशमें किये बिना कोई योगी योग-साधन नहीं कर सकता ॥ ४४ ॥

विश्वास-प्रस्तुतिः

प्राणायामेन पवने +++(वशीकृते)+++,
प्रत्याहारेण चेन्द्रिये ।
वशीकृते, ततः कुर्यात्
स्थितं चेतश् शुभाश्रये ॥ ४५ ॥

मूलम्

प्राणायामेन पवने प्रत्याहारेण चेन्द्रिये ।
वशीकृते ततः कुर्यात्स्थितं चेतश्शुभाश्रये ॥ ४५ ॥

अनुवाद (हिन्दी)

इस प्रकार प्राणायामसे वायु और प्रत्याहारसे इन्द्रियोंको वशीभूत करके
चित्तको उसके शुभ आश्रयमें स्थित करे ॥ ४५ ॥

मूलम् (वचनम्)

खाण्डिक्य उवाच

शुभाश्रयः

विश्वास-प्रस्तुतिः

कथ्यतां मे महाभाग
चेतसो यश् शुभाश्रयः
यद् आधारम् अशेषं तद्
+धन्ति दोष-मलोद्भवम् ॥ ४६ ॥

मूलम्

कथ्यतां मे महाभाग चेतसो यश्शुभाश्रयः ।
यदाधारमशेषं तद्धन्ति दोषमलोद्भवम् ॥ ४६ ॥

अनुवाद (हिन्दी)

खाण्डिक्य बोले—हे महाभाग! यह बतलाइये कि जिसका आश्रय करनेसे चित्तके सम्पूर्ण दोष नष्ट हो जाते हैं वह चित्तका शुभाश्रय क्या है? ॥ ४६ ॥

मूलम् (वचनम्)

केशिध्वज उवाच

विश्वास-प्रस्तुतिः

आश्रयश् चेतसो ब्रह्म
द्विधा तच् च स्वभावतः ।
भूप मूर्त्तम् अमूर्त्तं
परं चापरम् एव च ॥ ४७ ॥

मूलम्

आश्रयश्चेतसो ब्रह्म द्विधा तच्च स्वभावतः ।
भूप मूर्त्तममूर्त्तं च परं चापरमेव च ॥ ४७ ॥

अनुवाद (हिन्दी)

केशिध्वज बोले—हे राजन्! चित्तका आश्रय ब्रह्म है जो कि मूर्त और अमूर्त अथवा अपर और पर-रूपसे स्वभावसे ही दो प्रकारका है ॥ ४७ ॥

भावना-त्रयम्

विश्वास-प्रस्तुतिः

+++(संवित्-क्रियासु)+++ त्रिविधा भावना भूप
विश्वम् एतन् निबोधताम् ।
ब्रह्माख्या, कर्म-संज्ञा च,
तथा चैवोभयात्मिका ॥ ४८ ॥

मूलम्

त्रिविधा भावना भूप विश्वमेतन्निबोधताम् ।
ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥ ४८ ॥

अनुवाद (हिन्दी)

हे भूप! इस जगत‍्में ब्रह्म, कर्म और उभयात्मक नामसे तीन प्रकारकी भावनाएँ हैं ॥ ४८ ॥

विश्वास-प्रस्तुतिः

कर्म-भावात्मिका ह्य् एका
ब्रह्म-भावात्मिका परा ।
उभयात्मिका तथैवान्या
त्रिविधा भाव-भावना ॥ ४९ ॥

मूलम्

कर्मभावात्मिका ह्येका ब्रह्मभावात्मिका परा ।
उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥ ४९ ॥

अनुवाद (हिन्दी)

इनमें पहली कर्मभावना,
दूसरी ब्रह्मभावना
और तीसरी उभयात्मिका भावना कहलाती है ।
इस प्रकार ये त्रिविध भावनाएँ हैं ॥ ४९ ॥

विश्वास-प्रस्तुतिः

सनन्दनादयो ये तु
ब्रह्म-भावनया युताः ।
कर्म-भावनया चान्ये
देवाद्याः स्थावराश् चराः ॥ ५० ॥

मूलम्

सनन्दनादयो ये तु ब्रह्मभावनया युताः ।
कर्मभावनया चान्ये देवाद्याः स्थावराश्चराः ॥ ५० ॥

अनुवाद (हिन्दी)

सनन्दनादि मुनिजन ब्रह्मभावनासे युक्त हैं और देवताओंसे लेकर स्थावर-जंगमपर्यन्त समस्त प्राणी कर्मभावनायुक्त हैं ॥ ५० ॥

विश्वास-प्रस्तुतिः

हिरण्य-गर्भादिषु च
ब्रह्म-कर्मात्मिका द्विधा +++(सम्भूय)+++ ।
बोध++++(कर्म-)+++अधिकार-युक्तेषु
विद्यते भाव-भावना ॥ ५१ ॥

मूलम्

हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिका द्विधा ।
बोधाधिकारयुक्तेषु विद्यते भावभावना ॥ ५१ ॥

अनुवाद (हिन्दी)

तथा [स्वरूप-विषयक] बोध और [स्वर्गादि-विषयक] अधिकारसे युक्त
हिरण्यगर्भादिमें ब्रह्मकर्ममयी उभयात्मिका भावना है ॥ ५१ ॥

विश्वास-प्रस्तुतिः

अक्षीणेषु समस्तेषु
विशेष-ज्ञान-कर्मसु ।
विश्वम् एतत्, परं चान्यद्
भेद-भिन्न-दृशां नृणाम् ॥ ५२ ॥

मूलम्

अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ।
विश्वमेतत्परं चान्यद्भेदभिन्नदृशां नृणाम् ॥ ५२ ॥

अनुवाद (हिन्दी)

हे राजन्! जबतक विशेष ज्ञानके हेतु कर्म क्षीण नहीं होते तभीतक अहंकारादि भेदके कारण भिन्न दृष्टि रखनेवाले मनुष्योंको ब्रह्म और जगत‍्की भिन्नता प्रतीत होती है ॥ ५२ ॥

अभिन्न-रूपम्

विश्वास-प्रस्तुतिः

प्रत्यस्त-मित-भेदं यत्
सत्ता-मात्रम्, अगोचरम् ।
वचसाम्, आत्म-संवेद्यं
तज् ज्ञानं ब्रह्मसंज्ञितम् ॥ ५३ ॥

मूलम्

प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्मसंज्ञितम् ॥ ५३ ॥

अनुवाद (हिन्दी)

जिसमें सम्पूर्ण भेद शान्त हो जाते हैं,
जो सत्तामात्र, और वाणीका अविषय है, तथा स्वयं ही अनुभव करनेयोग्य है, वही ब्रह्मज्ञान कहलाता है ॥ ५३ ॥

विश्वास-प्रस्तुतिः

तच्च विष्णोः परं रूपम्
अरूपाख्यम् अनुत्तमम् ।
विश्व-स्वरूप-वैरूप्य-
लक्षणं परमात्मनः ॥ ५४ ॥

मूलम्

तच्च विष्णोः परं रूपमरूपाख्यमनुत्तमम् ।
विश्वस्वरूपवैरूप्यलक्षणं परमात्मनः ॥ ५४ ॥

अनुवाद (हिन्दी)

वही परमात्मा विष्णुका अरूप नामक परम रूप है, जो उनके विश्वरूपसे विलक्षण है ॥ ५४ ॥

चिन्त्यं विश्वरूपम्

विश्वास-प्रस्तुतिः

+++(यद्य् अपि ध्येयम् इत्य् अग्रे वक्ष्यते)+++
न तद् योग-युजा शक्यं
नृप चिन्तयितुं यतः ।
ततः स्थूलं हरे रूपं
चिन्तयेद् विश्व-गोचरम् ॥ ५५ ॥

मूलम्

न तद्योगयुजा शक्यं नृप चिन्तयितुं यतः ।
ततः स्थूलं हरे रूपं चिन्तयेद्विश्वगोचरम् ॥ ५५ ॥

अनुवाद (हिन्दी)

हे राजन्! योगाभ्यासी जन पहले-पहल उस रूपका चिन्तन नहीं कर सकते,
इसलिये उन्हें श्रीहरिके विश्वमय स्थूल रूपका ही चिन्तन करना चाहिये ॥ ५५ ॥

विश्वास-प्रस्तुतिः

हिरण्य-गर्भो भगवान‍्
वासुदेवः प्रजापतिः ।
मरुतो वसवो रुद्रा
भास्करास् तारका ग्रहाः ॥ ५६ ॥
गन्धर्व-यक्ष-दैत्याद्यास्
सकला देवयोनयः ।
मनुष्याः पशवश् शैलास्
समुद्रास् सरितो द्रुमाः ॥ ५७ ॥
भूप भूतान्य् अशेषाणि
भूतानां ये च हेतवः ।
प्रधानादि+++(=पुरुषादि)+++-विशेषान्तं
चेतनाचेतनात्मकम् ॥ ५८ ॥
एकपादं द्विपादं च
बहुपादम् अपादकम् ।
मूर्त्तम् एतद् +धरे रूपं
भावना-त्रितयात्मकम् ॥ ५९ ॥

मूलम्

हिरण्यगर्भो भगवान‍्वासुदेवः प्रजापतिः ।
मरुतो वसवो रुद्रा भास्करास्तारका ग्रहाः ॥ ५६ ॥
गन्धर्वयक्षदैत्याद्यास्सकला देवयोनयः ।
मनुष्याः पशवश्शैलास्समुद्रास्सरितो द्रुमाः ॥ ५७ ॥
भूप भूतान्यशेषाणि भूतानां ये च हेतवः ।
प्रधानादिविशेषान्तं चेतनाचेतनात्मकम् ॥ ५८ ॥
एकपादं द्विपादं च बहुपादमपादकम् ।
मूर्त्तमेतद्धरे रूपं भावनात्रितयात्मकम् ॥ ५९ ॥

अनुवाद (हिन्दी)

हिरण्यगर्भ, भगवान् वासुदेव, प्रजापति, मरुत् , वसु, रुद्र, सूर्य, तारे, ग्रहगण, गन्धर्व, यक्ष और दैत्य आदि समस्त देवयोनियाँ तथा मनुष्य, पशु, पर्वत, समुद्र, नदी, वृक्ष, सम्पूर्ण भूत एवं प्रधानसे लेकर विशेष (पंचतन्मात्रा) पर्यन्त उनके कारण तथा चेतन, अचेतन, एक, दो अथवा अनेक चरणोंवाले प्राणी और बिना चरणोंवाले जीव—ये सब भगवान् हरिके भावनात्रयात्मक मूर्तरूप हैं ॥ ५६—५९ ॥

शक्ति-त्रयम्

विश्वास-प्रस्तुतिः

एतत् सर्वम् इदं विश्वं,
जगद् एतच् चराचरम् ।
परब्रह्म-स्वरूपस्य
विष्णोश् शक्ति-समन्वितम् ॥ ६० ॥

मूलम्

एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् ।
परब्रह्मस्वरूपस्य विष्णोश्शक्तिसमन्वितम् ॥ ६० ॥

अनुवाद (हिन्दी)

यह सम्पूर्ण चराचर जगत्, परब्रह्मस्वरूप भगवान् विष्णुका, उनकी शक्तिसे सम्पन्न ‘विश्व’ नामक रूप है ॥ ६० ॥

विश्वास-प्रस्तुतिः

विष्णु-शक्तिः परा प्रोक्ता,
क्षेत्र-ज्ञाख्या तथाऽपरा ।
अविद्या कर्म-संज्ञान्या
तृतीया शक्तिर् इष्यते ॥ ६१ ॥

मूलम्

विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथाऽपरा ।
अविद्या कर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥ ६१ ॥

अनुवाद (हिन्दी)

विष्णुशक्ति परा है, क्षेत्रज्ञ नामक शक्ति अपरा है और कर्म नामकी तीसरी शक्ति अविद्या कहलाती है ॥ ६१ ॥

विश्वास-प्रस्तुतिः

यया क्षेत्र-ज्ञ-शक्तिस् सा
वेष्टिता नृप सर्वगा ।
संसार-तापान् अखिलान्
अवाप्नोत्य् अतिसन्ततान् ॥ ६२ ॥

मूलम्

यया क्षेत्रज्ञशक्तिस्सा वेष्टिता नृप सर्वगा ।
संसारतापानखिलानवाप्नोत्यतिसन्ततान् ॥ ६२ ॥

अनुवाद (हिन्दी)

हे राजन्! इस अविद्या-शक्तिसे आवृत होकर वह सर्वगामिनी क्षेत्रज्ञ-शक्ति सब प्रकारके अति विस्तृत सांसारिक कष्ट भोगा करती है ॥ ६२ ॥

विश्वास-प्रस्तुतिः

तया तिरोहितत्वाच् च
शक्तिः क्षेत्र-ज्ञ-संज्ञिता ।
सर्व-भूतेषु भूपाल
तारतम्येन लक्ष्यते ॥ ६३ ॥

मूलम्

तया तिरोहितत्वाच्च शक्तिः क्षेत्रज्ञसंज्ञिता ।
सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥ ६३ ॥

अनुवाद (हिन्दी)

हे भूपाल! अविद्या-शक्तिसे तिरोहित रहनेके कारण ही क्षेत्रज्ञ-शक्ति सम्पूर्ण प्राणियोंमें तारतम्यसे दिखलायी देती है ॥ ६३ ॥

विश्वास-प्रस्तुतिः

अ-प्राणवत्सु स्वल्पा सा
स्थावरेषु ततोऽधिका ।
सरी-सृपेषु तेभ्योऽपि
ह्यतिशक्त्या पतत्त्रिषु ॥ ६४ ॥+++(5)+++

मूलम्

अप्राणवत्सु स्वल्पा सा स्थावरेषु ततोऽधिका ।
सरीसृपेषु तेभ्योऽपि ह्यतिशक्त्या पतत्त्रिषु ॥ ६४ ॥

अनुवाद (हिन्दी)

वह सबसे कम जड पदार्थोंमें है, उनसे अधिक वृक्ष-पर्वतादि स्थावरोंमें, स्थावरोंसे अधिक सरीसृपादिमें और उनसे अधिक पक्षियोंमें है ॥ ६४ ॥

विश्वास-प्रस्तुतिः

पतत्त्रिभ्यो मृगास् तेभ्यस्
तच्-छक्त्या पशवोऽधिकाः ।
पशुभ्यो मनुजाश् चाति
शक्त्या +++(परम-)+++पुंसः प्रभाविताः ॥ ६५ ॥

मूलम्

पतत्त्रिभ्यो मृगास्तेभ्यस्तच्छक्त्या पशवोऽधिकाः ।
पशुभ्यो मनु जाश्चातिशक्त्या पुंसः प्रभाविताः ॥ ६५ ॥

अनुवाद (हिन्दी)

पक्षियोंसे मृगोंमें और मृगोंसे पशुओंमें वह शक्ति अधिक है तथा पशुओंकी अपेक्षा मनुष्य भगवान् की उस (क्षेत्रज्ञ) शक्तिसे अधिक प्रभावित हैं ॥ ६५ ॥

विश्वास-प्रस्तुतिः

तेभ्योऽपि नाग-गन्धर्व-
यक्षाद्या देवता नृप ॥ ६६ ॥
शक्रस् समस्त-देवेभ्यस्
ततश् चाति प्रजापतिः ।
हिरण्य-गर्भोऽपि ततः,
+++(परम-)+++पुंसः शक्त्य्-उपलक्षितः ॥ ६७ ॥

मूलम्

तेभ्योऽपि नागगन्धर्वयक्षाद्या देवता नृप ॥ ६६ ॥
शक्रस्समस्तदेवेभ्यस्ततश्चाति प्रजापतिः ।
हिरण्यगर्भोऽपि ततः पुंसः शक्त्युपलक्षितः ॥ ६७ ॥

अनुवाद (हिन्दी)

मनुष्योंसे नाग, गन्धर्व और यक्ष आदि समस्त देवगणोंमें, देवताओंसे इन्द्रमें, इन्द्रसे प्रजापतिमें और प्रजापतिसे हिरण्यगर्भमें उस शक्तिका विशेष प्रकाश है ॥ ६६-६७ ॥

विश्वास-प्रस्तुतिः

एतान्य् अशेष-रूपाणि
तस्य रूपाणि पार्थिव ।
यतस् तच्-छक्ति-योगेन
युक्तानि, नभसा यथा ॥ ६८ ॥

मूलम्

एतान्यशेषरूपाणि तस्य रूपाणि पार्थिव ।
यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥ ६८ ॥

अनुवाद (हिन्दी)

हे राजन्! ये सम्पूर्ण रूप उस परमेश्वरके ही शरीर हैं, क्योंकि ये सब आकाशके समान उनकी शक्तिसे व्याप्त हैं ॥ ६८ ॥

अमूर्त-रूपं ध्येयम्

विश्वास-प्रस्तुतिः

द्वितीयं विष्णु-संज्ञस्य
+++(पूर्वोक्तरीत्या ऽचिन्त्यम् अपि)+++ योगि-ध्येयं महामते ।
अमूर्त्तं ब्रह्मणो रूपं
यत् सद् इत्य् उच्यते बुधैः ॥ ६९ ॥

मूलम्

द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते ।
अमूर्त्तं ब्रह्मणो रूपं यत्सदित्युच्यते बुधैः ॥ ६९ ॥

अनुवाद (हिन्दी)

हे महामते! विष्णु नामक ब्रह्मका दूसरा अमूर्त (आकारहीन) रूप है,
जिसका योगिजन ध्यान करते हैं और जिसे बुधजन ‘सत्’ कहकर पुकारते हैं ॥ ६९ ॥

विश्वास-प्रस्तुतिः

समस्ताः शक्तयश् चैता
नृप यत्र प्रतिष्ठिताः
तद् विश्व-रूप-वैरूप्यं
रूपम् अन्यद् +धरेर् महत् ॥ ७० ॥

मूलम्

समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ।
तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ॥ ७० ॥

अनुवाद (हिन्दी)

हे नृप! जिसमें कि ये सम्पूर्ण शक्तियाँ प्रतिष्ठित हैं
वही भगवान् का विश्वरूपसे विलक्षण द्वितीय रूप है ॥ ७० ॥

क्रियाशीलता

विश्वास-प्रस्तुतिः

+++(यद्य् अपि पूर्वं सत्ता-मात्रम् उक्तम्,)+++
समस्त-शक्ति-रूपाणि
तत् करोति जनेश्वर ।
देव-तिर्यङ्-मनुष्यादि-
चेष्टावन्ति स्व-लीलया ॥ ७१ ॥

मूलम्

समस्तशक्तिरूपाणि तत्करोति जनेश्वर ।
देवतिर्यङ्मनुष्यादिचेष्टावन्ति स्वलीलया ॥ ७१ ॥

अनुवाद (हिन्दी)

हे नरेश! भगवान् का वही रूप अपनी लीलासे देव,
तिर्यक् और मनुष्यादिकी चेष्टाओंसे युक्त
सर्वशक्तिमय रूप धारण करता है ॥ ७१ ॥

विश्वास-प्रस्तुतिः

जगताम् उपकाराय
सा कर्म-निमित्तजा
चेष्टा तस्याप्रमेयस्य
व्यापिन्य् अव्याहतात्मिका ॥ ७२ ॥

मूलम्

जगतामुपकाराय न सा कर्मनिमित्तजा ।
चेष्टा तस्याप्रमेयस्य व्यापिन्यव्याहतात्मिका ॥ ७२ ॥

अनुवाद (हिन्दी)

इन रूपोंमें अप्रमेय भगवान् की जो व्यापक एवं अव्याहत चेष्टा होती है
वह संसारके उपकारके लिये ही होती है, कर्मजन्य नहीं होती ॥ ७२ ॥

चिन्तन-फलम्

विश्वास-प्रस्तुतिः

तद् रूपं विश्वरूपस्य
तस्य योग-युजा नृप ।
+++(अमूर्तम् अपि वक्ष्यमाण-रीत्या मूर्त-धारणेन)+++
चिन्त्यम् आत्म-विशुद्ध्य्-अर्थं
सर्व-किल्बिष-नाशनम् ॥ ७३ ॥

मूलम्

तद्रूपं विश्वरूपस्य तस्य योगयुजा नृप ।
चिन्त्यमात्मविशुद्ध्यर्थं सर्वकिल्बिषनाशनम् ॥ ७३ ॥

अनुवाद (हिन्दी)

हे राजन्! योगाभ्यासीको आत्म-शुद्धिके लिये भगवान् विश्वरूपके उस सर्वपापनाशक रूपका ही चिन्तन करना चाहिये ॥ ७३ ॥

विश्वास-प्रस्तुतिः

यथाग्निर् उद्धत-शिखः
कक्षं दहति सानिलः ।
तथा चित्त-स्थितो विष्णुर्
योगिनां सर्व-किल्बिषम् ॥ ७४ ॥

मूलम्

यथाग्निरुद्धतशिखः कक्षं दहति सानिलः ।
तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥ ७४ ॥

अनुवाद (हिन्दी)

जिस प्रकार वायुसहित अग्नि ऊँची ज्वालाओंसे युक्त होकर शुष्क तृणसमूहको जला डालता है उसी प्रकार चित्तमें स्थित हुए भगवान् विष्णु योगियोंके समस्त पाप नष्ट कर देते हैं ॥ ७४ ॥

विश्वास-प्रस्तुतिः

तस्मात् समस्त-शक्तीनाम्
आधारे +++(विष्णौ)+++ तत्र चेतसः ।
कुर्वीत संस्थितिं, सा तु
विज्ञेया शुद्ध-धारणा ॥ ७५ ॥

मूलम्

तस्मात्समस्तशक्तीनामाधारे तत्र चेतसः ।
कुर्वीत संस्थितिं सा तु विज्ञेया शुद्धधारणा ॥ ७५ ॥

अनुवाद (हिन्दी)

इसलिये सम्पूर्ण शक्तियोंके आधार भगवान् विष्णुमें चित्तको स्थिर करे, यही शुद्ध धारणा है ॥ ७५ ॥

विश्वास-प्रस्तुतिः

शुभाश्रयः स चित्तस्य
सर्वगस्याचलात्मनः ।
त्रि-भाव-भावनातीतो
मुक्तये योगिनो नृप ॥ ७६ ॥

मूलम्

शुभाश्रयः स चित्तस्य सर्वगस्याचलात्मनः ।
त्रिभावभावनातीतो मुक्तये योगिनो नृप ॥ ७६ ॥

अनुवाद (हिन्दी)

हे राजन्! तीनों भावनाओंसे अतीत भगवान् विष्णु ही योगिजनोंकी मुक्तिके लिये उनके [स्वतः] चंचल तथा [किसी अनूठे विषयमें] स्थिर रहनेवाले चित्तके शुभ आश्रय हैं ॥ ७६ ॥

विश्वास-प्रस्तुतिः

अन्ये तु पुरुष-व्याघ्र
चेतसो ये व्यपाश्रयाः ।
अ-शुद्धास् ते, समस्तास् तु
देवाद्याः कर्म-योनयः ॥ ७७ ॥+++(4)+++

मूलम्

अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः ।
अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥ ७७ ॥

अनुवाद (हिन्दी)

हे पुरुषसिंह! इसके अतिरिक्त मनके आश्रयभूत जो अन्य देवता आदि कर्मयोनियाँ हैं, वे सब अशुद्ध हैं ॥ ७७ ॥

धारणा

विश्वास-प्रस्तुतिः

मूर्त्तं भगवतो +++(विश्वरूप-सङ्क्षेप-)+++ रूपं
+++(अ-कर्म-योनित्वात्)+++ सर्वापाश्रय-निःस्पृहम् ।
एषा वै धारणा प्रोक्ता
यच् चित्तं तत्र धार्यते ॥ ७८ ॥

मूलम्

मूर्त्तं भगवतो रूपं सर्वापाश्रयनिःस्पृहम् ।
एषा वै धारणा प्रोक्ता यच्चित्तं तत्र धार्यते ॥ ७८ ॥

अनुवाद (हिन्दी)

भगवान् का यह मूर्तरूप चित्तको अन्य आलम्बनोंसे निःस्पृह कर देता है । इस प्रकार चित्तका भगवान् में स्थिर करना ही धारणा कहलाती है ॥ ७८ ॥

सानुबन्ध-रूपम्

विश्वास-प्रस्तुतिः

यच् च मूर्त्तं हरे रूपं
यादृक् चिन्त्यं नराधिप ।
तच् छ्रूयताम्, अनाधारा
धारणा नोपपद्यते ॥ ७९ ॥

मूलम्

यच्च मूर्त्तं हरे रूपं यादृक्चिन्त्यं नराधिप ।
तच्छ्रूयतामनाधारा धारणा नोपपद्यते ॥ ७९ ॥

अनुवाद (हिन्दी)

हे नरेन्द्र! धारणा बिना किसी आधारके नहीं हो सकती; इसलिये भगवान् के जिस मूर्तरूपका जिस प्रकार ध्यान करना चाहिये, वह सुनो ॥ ७९ ॥

विश्वास-प्रस्तुतिः

प्रसन्न-वदनं चारु-
पद्म-पत्रोपमेक्षणम् ।
सुकपोलं सुविस्तीर्ण-
ललाट-फलकोज्ज्वलम् ॥ ८० ॥
समकर्णान्त-विन्यस्त-
चारु-कुण्डल-भूषणम् ।
कम्बु-ग्रीवं सुविस्तीर्ण-
श्रीवत्साङ्कित-वक्षसम् ॥ ८१ ॥
वलि-त्रि-भङ्गिना मग्न-
नाभिना ह्य् उदरेण च ।
प्रलम्बाष्ट-भुजं विष्णुम्
अथवापि चतुर्भुजम् ॥ ८२ ॥
समस्थितोरु-जङ्घं च
सुस्थिताङ्घ्रि-वराम्बुजम् ।
चिन्तयेद‍् ब्रह्मभूतं तं
पीत-निर्मल-वाससम् ॥ ८३ ॥

मूलम्

प्रसन्नवदनं चारुपद्मपत्रोपमेक्षणम् ।
सुकपोलं सुविस्तीर्णललाटफलकोज्ज्वलम् ॥ ८० ॥
समकर्णान्तविन्यस्तचारुकुण्डलभूषणम् ।
कम्बुग्रीवं सुविस्तीर्णश्रीवत्साङ्कितवक्षसम् ॥ ८१ ॥
वलित्रिभङ्गिना मग्ननाभिना ह्युदरेण च ।
प्रलम्बाष्टभुजं विष्णुमथवापि चतुर्भुजम् ॥ ८२ ॥
समस्थितोरुजङ्घं च सुस्थिताङ्घ्रिवराम्बुजम् ।
चिन्तयेद‍्ब्रह्मभूतं तं पीतनिर्मलवाससम् ॥ ८३ ॥

अनुवाद (हिन्दी)

जो प्रसन्नवदन और कमलदलके समान सुन्दर नेत्रोंवाले हैं, सुन्दर कपोल और विशाल भालसे अत्यन्त सुशोभित हैं तथा अपने सुन्दर कानोंमें मनोहर कुण्डल पहने हुए हैं, जिनकी ग्रीवा शंखके समान और विशाल वक्षःस्थल श्रीवत्सचिह्नसे सुशोभित है, जो तरंगाकार त्रिवली तथा नीची नाभिवाले उदरसे सुशोभित हैं, जिनके लम्बी-लम्बी आठ अथवा चार भुजाएँ हैं तथा जिनके जंघा एवं ऊरु समानभावसे स्थित हैं और मनोहर चरणारविन्द सुघरतासे विराजमान हैं उन निर्मल पीताम्बरधारी ब्रह्मस्वरूप भगवान् विष्णुका चिन्तन करे ॥ ८०—८३ ॥

विश्वास-प्रस्तुतिः

किरीट-हार-केयूर-
कटकादि-विभूषितम् ॥ ८४ ॥
शार्ङ्ग-शङ्ख-गदा-खड्ग-
चक्राक्ष-वलयान्वितम् ।
वरदाभय-हस्तं च
मुद्रिका-रत्न-भूषितम् ॥ ८५ ॥
चिन्तयेत् तन्मयो योगी
समाधायात्म-मानसम् ।
तावद् यावद् दृढी-भूता
तत्रैव नृप धारणा ॥ ८६ ॥

मूलम्

किरीटहारकेयूरकटकादिविभूषितम् ॥ ८४ ॥
शार्ङ्गशङ्खगदाखड्गचक्राक्षवलयान्वितम् ।
वरदाभयहस्तं च मुद्रिकारत्नभूषितम् ॥ ८५ ॥
चिन्तयेत्तन्मयो योगी समाधायात्ममानसम् ।
तावद्यावद्दृढीभूता तत्रैव नृप धारणा ॥ ८६ ॥

अनुवाद (हिन्दी)

हे राजन्! किरीट, हार, केयूर और कटक आदि आभूषणोंसे विभूषित, शार्ङ्गधनुष, शंख, गदा, खड्ग, चक्र तथा अक्षमालासे युक्त वरद और अभययुक्त हाथोंवाले* [तथा अँगुलियोंमें धारण की हुई] रत्नमयी मुद्रिकासे शोभायमान भगवान् के दिव्य रूपका योगीको अपना चित्त एकाग्र करके तन्मयभावसे तबतक चिन्तनकरना चाहिये जबतक यह धारणा दृढ़ न हो जाय ॥ ८४—८६ ॥

पादटिप्पनी
  • चतुर्भुज-मूर्तिके ध्यानमें चारों हाथोंमें क्रमशः शंख, चक्र, गदा और पद्मकी भावना करे तथा अष्टभुजरूपका ध्यान करते समय छः हाथोंमें तो शार्ङ्ग आदि छः आयुधोंकी भावना करे तथा शेष दोमें पद्म और बाण अथवा वरद और अभय-मुद्राका चिन्तन करे ।
विश्वास-प्रस्तुतिः

व्रजतस् तिष्ठतो ऽन्यद् वा
स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चित्तात्
+++(धारणां)+++ सिद्धां मन्येत तां तदा ॥ ८७ ॥

मूलम्

व्रजतस्तिष्ठतोऽन्यद्वा स्वेच्छया कर्म कुर्वतः ।
नापयाति यदा चित्तात्सिद्धां मन्येत तां तदा ॥ ८७ ॥

अनुवाद (हिन्दी)

जब चलते-फिरते, उठते-बैठते अथवा स्वेच्छानुकूल कोई और कर्म करते हुए भी ध्येय मूर्ति अपने चित्तसे दूर न हो तो इसे सिद्ध हुई माननी चाहिये ॥ ८७ ॥

आयुधरहितम्

विश्वास-प्रस्तुतिः

ततः शङ्ख-गदा-चक्र-
शार्ङ्गादि-रहितं बुधः ।
चिन्तयेद् भगवद्-रूपं
प्रशान्तं साक्ष-सूत्रकम् ॥ ८८ ॥

मूलम्

ततः शङ्खगदाचक्रशार्ङ्गादिरहितं बुधः ।
चिन्तयेद्भगवद्रूपं प्रशान्तं साक्षसूत्रकम् ॥ ८८ ॥

अनुवाद (हिन्दी)

इसके दृढ़ होनेपर बुद्धिमान् व्यक्ति शंख, चक्र, गदा और शार्ङ्ग आदिसे रहित
भगवान् के स्फटिकाक्षमाला और यज्ञोपवीतधारी शान्त स्वरूपका
चिन्तन करे ॥ ८८ ॥

भूषण-रहितम्

विश्वास-प्रस्तुतिः

सा यदा धारणा तद्-वद्
अवस्थानवती ततः
किरीट-केयूर-मुखैर्
भूषणै रहितं स्मरेत् ॥ ८९ ॥

मूलम्

सा यदा धारणा तद्वदवस्थानवती ततः ।
किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥ ८९ ॥

अनुवाद (हिन्दी)

जब यह धारणा भी पूर्ववत् स्थिर हो जाय तो भगवान् के किरीट, केयूरादि आभूषणोंसे रहित रूपका स्मरण करे ॥ ८९ ॥

विश्वास-प्रस्तुतिः

तद् एकावयवं देवं
चेतसा हि पुनर् बुधः ।
कुर्यात्, ततो ऽवयविनि
प्रणिधान-परो भवेत् ॥ ९० ॥

मूलम्

तदेकावयवं देवं चेतसा हि पुनर्बुधः ।
कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥ ९० ॥

अनुवाद (हिन्दी)

तदनन्तर विज्ञ पुरुष अपने चित्तमें एक (प्रधान) अवयव-विशिष्ट भगवान् का हृदयसे चिन्तन करे और फिर सम्पूर्ण अवयवोंको छोड़कर केवल अवयवीका ध्यान करे ॥ ९० ॥

ध्यानम्

विश्वास-प्रस्तुतिः

तद्-रूप-प्रत्यया चैका
सन्ततिश् चान्य-निःस्पृहा ।
तद् ध्यानं, प्रथमैर् अङ्गैः +++(←यम-नियम-आसन-प्राणायाम-प्रत्याहार-धारणैः)+++
षड‍‍्भिर् निष्पाद्यते नृप ॥ ९१ ॥

मूलम्

तद्रूपप्रत्यया चैका सन्ततिश्चान्यनिःस्पृहा ।
तद्ध्यानं प्रथमैरङ्गैः षड‍‍्भिर्निष्पाद्यते नृप ॥ ९१ ॥

अनुवाद (हिन्दी)

हे राजन्! जिसमें परमेश्वरके रूपकी ही प्रतीति होती है,
ऐसी जो विषयान्तरकी स्पृहासे रहित
एक अनवरत धारा है
उसे ही ध्यान कहते हैं;
यह अपनेसे पूर्व यम-नियमादि छः अंगोंसे निष्पन्न होता है ॥ ९१ ॥

समाधिः

विश्वास-प्रस्तुतिः

तस्यैव कल्पनाहीनं
स्व-रूप-ग्रहणं हि यत् ।
मनसा ध्यान-निष्पाद्यं
समाधिः सो ऽभिधीयते ॥ ९२ ॥

मूलम्

तस्यैव कल्पनाहीनं स्वरूपग्रहणं हि यत् ।
मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥ ९२ ॥

अनुवाद (हिन्दी)

उस ध्येय पदार्थका ही जो मनके द्वारा ध्यानसे सिद्ध होनेयोग्य कल्पनाहीन (ध्याता, ध्येय और ध्यानके भेदसे रहित) स्वरूप ग्रहण किया जाता है उसे ही समाधि कहते हैं ॥ ९२ ॥

विश्वास-प्रस्तुतिः

विज्ञानं प्रापकं प्राप्ये
परे ब्रह्मणि पार्थिव ।
प्रापणीयस् तथैवात्मा
प्रक्षीणाशेष-भावनः ॥ ९३ ॥

मूलम्

विज्ञानं प्रापकं प्राप्ये परे ब्रह्मणि पार्थिव ।
प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥ ९३ ॥

अनुवाद (हिन्दी)

हे राजन्! [समाधिसे होनेवाला भगवत्साक्षात्काररूप] विज्ञान ही प्राप्तव्य परब्रह्मतक पहुँचानेवाला है तथा सम्पूर्ण भावनाओंसे रहित एकमात्र आत्मा ही प्रापणीय (वहाँतक पहुँचनेवाला) है ॥ ९३ ॥

विश्वास-प्रस्तुतिः

क्षेत्रज्ञः करणी, ज्ञानं
करणं तस्य, तेन तत् +++(→ज्ञानं)+++ ।
निष्पाद्य मुक्तिकार्यं वै
कृतकृत्यो निवर्तते ॥ ९४ ॥

मूलम्

क्षेत्रज्ञः करणी ज्ञानं करणं तस्य तेन तत् ।
निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते ॥ ९४ ॥

अनुवाद (हिन्दी)

मुक्ति-लाभमें क्षेत्रज्ञ कर्ता है
और ज्ञान करण है;
[ज्ञानरूपी करणके द्वारा क्षेत्रज्ञके] मुक्तिरूपी कार्यको सिद्ध करके
वह विज्ञान कृतकृत्य होकर निवृत्त हो जाता है ॥ ९४ ॥

विश्वास-प्रस्तुतिः

तद्-भाव-भावम् आपन्नस्,
ततोऽसौ परमात्मना
भवत्य् अभेदी, भेदश् च
तस्याज्ञान-कृतो भवेत् ॥ ९५ ॥

मूलम्

तद्भावभावमापन्नस्ततोऽसौ परमात्मना ।
भवत्यभेदी भेदश्च तस्याज्ञानकृतो भवेत् ॥ ९५ ॥

अनुवाद (हिन्दी)

उस समय यह भगवद्-भावसे भरकर
परमात्मासे अभिन्न हो जाता है ।
इसका भेद-ज्ञान तो अज्ञानजन्य ही है ॥ ९५ ॥

विश्वास-प्रस्तुतिः

विभेद-जनके ऽज्ञाने
नाशम् आत्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदम्
असन्तं कः करिष्यति ॥ ९६ ॥

मूलम्

विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ ९६ ॥

अनुवाद (हिन्दी)

भेद उत्पन्न करनेवाले अज्ञानके सर्वथा नष्ट हो जानेपर ब्रह्म और आत्मामें असत् (अविद्यमान) भेद कौन कर सकता है? ॥ ९६ ॥

उपसंहारः

विश्वास-प्रस्तुतिः

इत्युक्तस् ते मया योगः
खाण्डिक्य परिपृच्छतः ।
संक्षेप-विस्तराभ्यां तु
किमन्यत् क्रियतां तव ॥ ९७ ॥

मूलम्

इत्युक्तस्ते मया योगः खाण्डिक्य परिपृच्छतः ।
संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥ ९७ ॥

अनुवाद (हिन्दी)

हे खाण्डिक्य! इस प्रकार तुम्हारे पूछनेके अनुसार मैंने संक्षेप और विस्तारसे योगका वर्णन किया; अब मैं तुम्हारा और क्या कार्य करूँ? ॥ ९७ ॥

मूलम् (वचनम्)

खाण्डिक्य उवाच

विश्वास-प्रस्तुतिः

कथिते योगसद्भावे
सर्वम् एव कृतं मम ।
तवोपदेशेनाशेषो
नष्टश् चित्तमलो यतः ॥ ९८ ॥

मूलम्

कथिते योगसद्भावे सर्वमेव कृतं मम ।
तवोपदेशेनाशेषो नष्टश्चित्तमलो यतः ॥ ९८ ॥

अनुवाद (हिन्दी)

खाण्डिक्य बोले—आपने इस महायोगका वर्णन करके मेरा सभी कार्य कर दिया, क्योंकि आपके उपदेशसे मेरे चित्तका सम्पूर्ण मल नष्ट हो गया है ॥ ९८ ॥

खाण्डिक्य-मुक्तिः

विश्वास-प्रस्तुतिः

ममेति यन् मया चोक्तम्
असद्, एतन् न चान्यथा ।
नरेन्द्र गदितुं शक्यम्
अपि विज्ञेय-वेदिभिः ॥ ९९ ॥

मूलम्

ममेति यन्मया चोक्तमसदेतन्न चान्यथा ।
नरेन्द्र गदितुं शक्यमपि विज्ञेयवेदिभिः ॥ ९९ ॥

अनुवाद (हिन्दी)

हे राजन्! मैंने जो ‘मेरा’ कहा यह भी असत्य ही है, अन्यथा ज्ञेय वस्तुको जाननेवाले तो यह भी नहीं कह सकते ॥ ९९ ॥

विश्वास-प्रस्तुतिः

अहं, ममेत्य् अविद्येयं,
व्यवहारस् तथा ऽनयोः ।
परमार्थस् त्व् असंलापो,
गोचरे वचसां न यः ॥ १०० ॥+++(4)+++

मूलम्

अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ।
परमार्थस्त्वसंलापो गोचरे वचसां न यः ॥ १०० ॥

अनुवाद (हिन्दी)

‘मैं’ और ‘मेरा’ ऐसी बुद्धि और इनका व्यवहार भी अविद्या ही है, परमार्थ तो कहने-सुननेकी बात नहीं है क्योंकि वह वाणीका अविषय है ॥ १०० ॥

विश्वास-प्रस्तुतिः

तद‍् गच्छ, श्रेयसे सर्वं
ममैतद् भवता कृतम्
यद् विमुक्ति-प्रदो योगः
प्रोक्तः केशिध्वजाव्ययः ॥ १०१ ॥

मूलम्

तद‍्गच्छ श्रेयसे सर्वं ममैतद्भवता कृतम् ।
यद्विमुक्तिप्रदो योगः प्रोक्तः केशिध्वजाव्ययः ॥ १०१ ॥

अनुवाद (हिन्दी)

हे केशिध्वज! आपने इस मुक्तिप्रद योगका वर्णन करके मेरे कल्याणके लिये सब कुछ कर दिया, अब आप सुखपूर्वक पधारिये ॥ १०१ ॥

मूलम् (वचनम्)

श्रीपराशर उवाच

केशिध्वज-मुक्तिः

विश्वास-प्रस्तुतिः

यथार्हं पूजया तेन
खाण्डिक्येन स पूजितः ।
आजगाम पुरं ब्रह्मंस्
ततः केशिध्वजो नृपः ॥ १०२ ॥

मूलम्

यथार्हं पूजया तेन खाण्डिक्येन स पूजितः ।
आजगाम पुरं ब्रह्मंस्ततः केशिध्वजो नृपः ॥ १०२ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—हे ब्रह्मन्! तदनन्तर खाण्डिक्यसे यथोचित पूजित हो राजा केशिध्वज अपने नगरमें चले आये ॥ १०२ ॥

विश्वास-प्रस्तुतिः

खाण्डिक्योऽपि सुतं कृत्वा
राजानं योगसिद्धये ।
वनं जगाम गोविन्दे
विनिवेशित-मानसः ॥ १०३ ॥

मूलम्

खाण्डिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये ।
वनं जगाम गोविन्दे विनिवेशितमानसः ॥ १०३ ॥

अनुवाद (हिन्दी)

तथा खाण्डिक्य भी अपने पुत्रको राज्य दे* श्रीगोविन्दमें चित्त लगाकर योग सिद्ध करनेके लिये [निर्जन] वनको चले गये ॥ १०३ ॥

पादटिप्पनी
  • यद्यपि खाण्डिक्य उस समय राजा नहीं था; तथापि वनमें जो उसके दुर्ग, मन्त्री और भृत्य आदि थे उन्हींका स्वामी अपने पुत्रको बनाया ।
विश्वास-प्रस्तुतिः

तत्रैकान्त-मतिर् भूत्वा
यमादि-गुण-संयुतः ।
विष्ण्व्-आख्ये निर्मले ब्रह्मण्य्
अवाप नृपतिर् लयम् ॥ १०४ ॥

मूलम्

तत्रैकान्तमतिर्भूत्वा यमादिगुणसंयुतः ।
विष्ण्वाख्ये निर्मले ब्रह्मण्यवापनृपतिर्लयम् ॥ १०४ ॥

अनुवाद (हिन्दी)

वहाँ यमादिगुणोंसे युक्त होकर एकाग्रचित्तसे ध्यान करते हुए राजा खाण्डिक्य विष्णु नामक निर्मल ब्रह्ममें लीन हो गये ॥ १०४ ॥

विश्वास-प्रस्तुतिः

केशिध्वजो विमुक्त्य्-अर्थं
स्वकर्म-क्षपणोन्मुखः ।
बुभुजे विषयान्, कर्म
चक्रे
चानभिसंहितम् +++(फलाग्रहिः)+++ ॥ १०५ ॥

मूलम्

केशिध्वजो विमुक्त्यर्थंस्वकर्मक्षपणोन्मुखः ।
बुभुजे विषयान्कर्म चक्रे चानभिसंहितम् ॥ १०५ ॥

अनुवाद (हिन्दी)

किन्तु केशिध्वज विदेहमुक्तिके लिये अपने कर्मोंको क्षय करते हुए समस्त विषय भोगते रहे । उन्होंने फलकी इच्छा न करके अनेकों शुभ-कर्म किये ॥ १०५ ॥

विश्वास-प्रस्तुतिः

सकल्याणोपभोगैश् च
क्षीण-पापोऽमलस् तथा ।
अवाप सिद्धिम् अत्यन्तां
ताप-क्षय-फलां द्विज ॥ १०६ ॥

मूलम्

सकल्याणोपभोगैश्च क्षीणपापोऽमलस्तथा ।
अवाप सिद्धिमत्यन्तां तापक्षयफलां द्विज ॥ १०६ ॥

अनुवाद (हिन्दी)

हे द्विज! इस प्रकार अनेकों कल्याणप्रद भोगोंको भोगते हुए उन्होंने पाप और मल (प्रारब्ध-कर्म) का क्षय हो जानेपर तापत्रयको दूर करनेवाली आत्यन्तिक सिद्धि प्राप्त कर ली ॥ १०६ ॥

मूलम् (समाप्तिः)

इति श्रीविष्णुपुराणे षष्ठेंऽशे सप्तमोऽध्यायः ॥ ७ ॥