[बत्तीसवाँ अध्याय]
विषय
उषा-चरित्र
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथितास्तव ।
भानुभौमेरिकाद्यांश्च सत्यभामा व्यजायत ॥ १ ॥
मूलम्
प्रद्युम्नाद्या हरेः पुत्रा रुक्मिण्यां कथितास्तव ।
भानुभौमेरिकाद्यांश्च सत्यभामा व्यजायत ॥ १ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—रुक्मिणीके गर्भसे उत्पन्न हुए भगवान् के प्रद्युम्न आदि पुत्रोंका वर्णन हम पहले ही कर चुके हैं; सत्यभामाने भानु और भौमेरिक आदिको जन्म दिया ॥ १ ॥
विश्वास-प्रस्तुतिः
दीप्तिमत्ताम्रपक्षाद्या रोहिण्यां तनया हरेः ।
बभूवुर्जाम्बवत्यां च साम्बाद्या बलशालिनः ॥ २ ॥
मूलम्
दीप्तिमत्ताम्रपक्षाद्या रोहिण्यां तनया हरेः ।
बभूवुर्जाम्बवत्यां च साम्बाद्या बलशालिनः ॥ २ ॥
अनुवाद (हिन्दी)
श्रीहरिके रोहिणीके गर्भसे दीप्तिमान् और ताम्रपक्ष आदि तथा जाम्बवतीसे बलशाली साम्ब आदि पुत्र हुए ॥ २ ॥
विश्वास-प्रस्तुतिः
तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः ।
सङ्ग्रामजित्प्रधानास्तु शैव्यायां च हरेस्सुताः ॥ ३ ॥
मूलम्
तनया भद्रविन्दाद्या नाग्नजित्यां महाबलाः ।
सङ्ग्रामजित्प्रधानास्तु शैव्यायां च हरेस्सुताः ॥ ३ ॥
अनुवाद (हिन्दी)
नाग्नजिती (सत्या)-से महाबली भद्रविन्द आदि और शैव्या (मित्रविन्दा)-से संग्रामजित् आदि उत्पन्न हुए ॥ ३ ॥
विश्वास-प्रस्तुतिः
वृकाद्याश्च सुता माद्र्यां गात्रवत्प्रमुखान्सुतान् ।
अवाप लक्ष्मणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥ ४ ॥
मूलम्
वृकाद्याश्च सुता माद्र्यां गात्रवत्प्रमुखान्सुतान् ।
अवाप लक्ष्मणा पुत्रान्कालिन्द्याश्च श्रुतादयः ॥ ४ ॥
अनुवाद (हिन्दी)
माद्रीसे वृक आदि, लक्ष्मणासे गात्रवान् आदि तथा कालिन्दीसे श्रुत आदि पुत्रोंका जन्म हुआ ॥ ४ ॥
विश्वास-प्रस्तुतिः
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥ ५ ॥
मूलम्
अन्यासां चैव भार्याणां समुत्पन्नानि चक्रिणः ।
अष्टायुतानि पुत्राणां सहस्राणि शतं तथा ॥ ५ ॥
अनुवाद (हिन्दी)
इसी प्रकार भगवान् की अन्य स्त्रियोंके भी आठ अयुत आठ हजार आठ सौ (अट्ठासी हजार आठ सौ) पुत्र हुए ॥ ५ ॥
विश्वास-प्रस्तुतिः
प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः ।
प्रद्युम्नादनिरुद्धोऽभूद्वज्रस्तस्मादजायत ॥ ६ ॥
मूलम्
प्रद्युम्नः प्रथमस्तेषां सर्वेषां रुक्मिणीसुतः ।
प्रद्युम्नादनिरुद्धोऽभूद्वज्रस्तस्मादजायत ॥ ६ ॥
अनुवाद (हिन्दी)
इन सब पुत्रोंमें रुक्मिणीनन्दन प्रद्युम्न सबसे बड़े थे; प्रद्युम्नसे अनिरुद्धका जन्म हुआ और अनिरुद्धसे वज्र उत्पन्न हुआ ॥ ६ ॥
विश्वास-प्रस्तुतिः
अनिरुद्धो रणेऽरुद्धो बलेः पौत्रीं महाबलः ।
उषां बाणस्य तनयामुपयेमे द्विजोत्तम ॥ ७ ॥
मूलम्
अनिरुद्धो रणेऽरुद्धो बलेः पौत्रीं महाबलः ।
उषां बाणस्य तनयामुपयेमे द्विजोत्तम ॥ ७ ॥
अनुवाद (हिन्दी)
हे द्विजोत्तम! महाबली अनिरुद्ध युद्धमें किसीसे रोके नहीं जा सकते थे । उन्होंने बलिकी पौत्री एवं बाणासुरकी पुत्री उषासे विवाह किया था ॥ ७ ॥
विश्वास-प्रस्तुतिः
यत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् ।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ ८ ॥
मूलम्
यत्र युद्धमभूद्घोरं हरिशङ्करयोर्महत् ।
छिन्नं सहस्रं बाहूनां यत्र बाणस्य चक्रिणा ॥ ८ ॥
अनुवाद (हिन्दी)
उस विवाहमें श्रीहरि और भगवान् शंकरका घोर युद्ध हुआ था और श्रीकृष्णचन्द्रने बाणासुरकी सहस्र भुजाएँ काट डाली थीं ॥ ८ ॥
मूलम् (वचनम्)
श्रीमैत्रेय उवाच
विश्वास-प्रस्तुतिः
कथं युद्धमभूद्ब्रह्मन्नुषार्थे हरकृष्णयोः ।
कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ ९ ॥
मूलम्
कथं युद्धमभूद्ब्रह्मन्नुषार्थे हरकृष्णयोः ।
कथं क्षयं च बाणस्य बाहूनां कृतवान्हरिः ॥ ९ ॥
अनुवाद (हिन्दी)
श्रीमैत्रेयजी बोले—हे ब्रह्मन्! उषाके लिये श्रीमहादेव और कृष्णका युद्ध क्यों हुआ और श्रीहरिने बाणासुरकी भुजाएँ क्यों काट डालीं? ॥ ९ ॥
विश्वास-प्रस्तुतिः
एतत्सर्वं महाभाग ममाख्यातुं त्वमर्हसि ।
महत्कौतूहलं जातं कथां श्रोतुमिमां हरेः ॥ १० ॥
मूलम्
एतत्सर्वं महाभाग ममाख्यातुं त्वमर्हसि ।
महत्कौतूहलं जातं कथां श्रोतुमिमां हरेः ॥ १० ॥
अनुवाद (हिन्दी)
हे महाभाग! आप मुझसे यह सम्पूर्ण वृत्तान्त कहिये; मुझे श्रीहरिकी यह कथा सुननेका बड़ा कुतूहल हो रहा है ॥ १० ॥
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
उषा बाणसुता विप्र पार्वतीं सह शम्भुना ।
क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम् ॥ ११ ॥
मूलम्
उषा बाणसुता विप्र पार्वतीं सह शम्भुना ।
क्रीडन्तीमुपलक्ष्योच्चैः स्पृहां चक्रे तदाश्रयाम् ॥ ११ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—हे विप्र! एक बार बाणासुरकी पुत्री उषाने श्रीशंकरके साथ पार्वतीजीको क्रीडा करती देख स्वयं भी अपने पतिके साथ रमण करनेकी इच्छा की ॥ ११ ॥
विश्वास-प्रस्तुतिः
ततस्सकलचित्तज्ञा गौरी तामाह भामिनीम् ।
अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे ॥ १२ ॥
मूलम्
ततस्सकलचित्तज्ञा गौरी तामाह भामिनीम् ।
अलमत्यर्थतापेन भर्त्रा त्वमपि रंस्यसे ॥ १२ ॥
अनुवाद (हिन्दी)
तब सर्वान्तर्यामिनी श्रीपार्वतीजीने उस सुकुमारीसे कहा—‘‘तू अधिक सन्तप्त मत हो, यथासमय तू भी अपने पतिके साथ रमण करेगी’’ ॥ १२ ॥
विश्वास-प्रस्तुतिः
इत्युक्ता सा तया चक्रे कदेति मतिमात्मनः ।
को वा भर्ता ममेत्याह पुनस्तामाह पार्वती ॥ १३ ॥
मूलम्
इत्युक्ता सा तया चक्रे कदेति मतिमात्मनः ।
को वा भर्ता ममेत्याह पुनस्तामाह पार्वती ॥ १३ ॥
अनुवाद (हिन्दी)
पार्वतीजीके ऐसा कहनेपर उषाने मन-ही-मन यह सोचकर कि ‘न जाने ऐसा कब होगा? और मेरा पति भी कौन होगा?’ [इस सम्बन्धमें] पार्वतीजीसे पूछा, तब पार्वतीजीने उससे फिर कहा— ॥ १३ ॥
मूलम् (वचनम्)
पार्वत्युवाच
विश्वास-प्रस्तुतिः
वैशाखशुक्लद्वादश्यां स्वप्ने योऽभिभवं तव ।
करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ १४ ॥
मूलम्
वैशाखशुक्लद्वादश्यां स्वप्ने योऽभिभवं तव ।
करिष्यति स ते भर्ता राजपुत्रि भविष्यति ॥ १४ ॥
अनुवाद (हिन्दी)
पार्वतीजी बोलीं—हे राजपुत्रि! वैशाख शुक्ला द्वादशीकी रात्रिको जो पुरुष स्वप्नमें तुझसे हठात् सम्भोग करेगा वही तेरा पति होगा ॥ १४ ॥
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
तस्यां तिथावुषास्वप्ने यथा देव्या समीरितम् ।
तथैवाभिभवं चक्रे कश्चिद्रागं च तत्र सा ॥ १५ ॥
मूलम्
तस्यां तिथावुषास्वप्ने यथा देव्या समीरितम् ।
तथैवाभिभवं चक्रे कश्चिद्रागं च तत्र सा ॥ १५ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—तदनन्तर उसी तिथिको उषाकी स्वप्नावस्थामें किसी पुरुषने उससे, जैसा श्रीपार्वतीदेवीने कहा था, उसी प्रकार सम्भोग किया और उसका भी उसमें अनुराग हो गया ॥ १५ ॥
विश्वास-प्रस्तुतिः
ततः प्रबुद्धा पुरुषमपश्यन्ती समुत्सुका ।
क्व गतोऽसीति निर्लज्जा मैत्रेयोक्तवती सखीम् ॥ १६ ॥
मूलम्
ततः प्रबुद्धा पुरुषमपश्यन्ती समुत्सुका ।
क्व गतोऽसीति निर्लज्जा मैत्रेयोक्तवती सखीम् ॥ १६ ॥
अनुवाद (हिन्दी)
हे मैत्रेय! तब उसके बाद स्वप्नसे जगनेपर जब उसने उस पुरुषको न देखा तो वह उसे देखनेके लिये अत्यन्त उत्सुक होकर अपनी सखीकी ओर लक्ष्य करके निर्लज्जतापूर्वक कहने लगी—‘‘हे नाथ! आप कहाँ चले गये?’’ ॥ १६ ॥
विश्वास-प्रस्तुतिः
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता ।
तस्याः सख्यभवत्सा च प्राह कोऽयं त्वयोच्यते ॥ १७ ॥
मूलम्
बाणस्य मन्त्री कुम्भाण्डश्चित्रलेखा च तत्सुता ।
तस्याः सख्यभवत्सा च प्राह कोऽयं त्वयोच्यते ॥ १७ ॥
अनुवाद (हिन्दी)
बाणासुरका मन्त्री कुम्भाण्ड था; उसकी चित्रलेखा नामकी पुत्री थी, वह उषाकी सखी थी, [उषाका यह प्रलाप सुनकर] उसने पूछा—‘‘यह तुम किसके विषयमें कह रही हो?’’ ॥ १७ ॥
विश्वास-प्रस्तुतिः
यदा लज्जाकुला नास्यै कथयामास सा सखी ।
तदा विश्वासमानीय सर्वमेवाभ्यवादयत् ॥ १८ ॥
मूलम्
यदा लज्जाकुला नास्यै कथयामास सा सखी ।
तदा विश्वासमानीय सर्वमेवाभ्यवादयत् ॥ १८ ॥
अनुवाद (हिन्दी)
किन्तु जब लज्जावश उषाने उसे कुछ भी न बतलाया तब चित्रलेखाने [सब बात गुप्त रखनेका] विश्वास दिलाकर उषासे सब वृत्तान्त कहला लिया ॥ १८ ॥
विश्वास-प्रस्तुतिः
विदितार्थां तु तामाह पुनश्चोषा यथोदितम् ।
देव्या तथैव तत्प्राप्तौ यो ह्युपायः कुरुष्व तम् ॥ १९ ॥
मूलम्
विदितार्थां तु तामाह पुनश्चोषा यथोदितम् ।
देव्या तथैव तत्प्राप्तौ यो ह्युपायः कुरुष्व तम् ॥ १९ ॥
अनुवाद (हिन्दी)
चित्रलेखाके सब बात जान लेनेपर उषाने जो कुछ श्रीपार्वतीजीने कहा था, वह भी उसे सुना दिया और कहा कि अब जिस प्रकार उसका पुनः समागम हो वही उपाय करो ॥ १९ ॥
मूलम् (वचनम्)
चित्रलेखोवाच
विश्वास-प्रस्तुतिः
दुर्विज्ञेयमिदं वक्तुं प्राप्तुं वापि न शक्यते ।
तथापि किञ्चित्कर्तव्यमुपकारं प्रिये तव ॥ २० ॥
मूलम्
दुर्विज्ञेयमिदं वक्तुं प्राप्तुं वापि न शक्यते ।
तथापि किञ्चित्कर्तव्यमुपकारं प्रिये तव ॥ २० ॥
अनुवाद (हिन्दी)
चित्रलेखाने कहा—हे प्रिये! तुमने जिस पुरुषको देखा है उसे तो जानना भी बहुत कठिन है फिर उसे बतलाना या पाना कैसे हो सकता है? तथापि मैं तुम्हारा कुछ-न-कुछ उपकार तो करूँगी ही ॥ २० ॥
विश्वास-प्रस्तुतिः
सप्ताष्टदिनपर्यन्तं तावत्कालः प्रतीक्ष्यताम् ।
इत्युक्त्वाभ्यन्तरं गत्वा उपायं तमथाकरोत् ॥ २१ ॥
मूलम्
सप्ताष्टदिनपर्यन्तं तावत्कालः प्रतीक्ष्यताम् ।
इत्युक्त्वाभ्यन्तरं गत्वा उपायं तमथाकरोत् ॥ २१ ॥
अनुवाद (हिन्दी)
तुम सात या आठ दिन तक मेरी प्रतीक्षा करना—ऐसा कहकर वह अपने घरके भीतर गयी और उस पुरुषको ढूँढनेका उपाय करने लगी ॥ २१ ॥
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
ततः पटे सुरान्दैत्यान्गन्धर्वांश्च प्रधानतः ।
मनुष्यांश्च विलिख्यास्यै चित्रलेखा व्यदर्शयत् ॥ २२ ॥
मूलम्
ततः पटे सुरान्दैत्यान्गन्धर्वांश्च प्रधानतः ।
मनुष्यांश्च विलिख्यास्यै चित्रलेखा व्यदर्शयत् ॥ २२ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—तदनन्तर [सात-आठ दिन पश्चात् लौटकर] चित्रलेखाने चित्रपटपर मुख्य-मुख्य देवता, दैत्य, गन्धर्व और मनुष्योंके चित्र लिखकर उषाको दिखलाये ॥ २२ ॥
विश्वास-प्रस्तुतिः
अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् ।
मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ २३ ॥
मूलम्
अपास्य सा तु गन्धर्वांस्तथोरगसुरासुरान् ।
मनुष्येषु ददौ दृष्टिं तेष्वप्यन्धकवृष्णिषु ॥ २३ ॥
अनुवाद (हिन्दी)
तब उषाने गन्धर्व, नाग, देवता और दैत्य आदिको छोड़कर केवल मनुष्योंपर और उनमें भी विशेषतः अन्धक और वृष्णिवंशी यादवोंपर ही दृष्टि दी ॥ २३ ॥
विश्वास-प्रस्तुतिः
कृष्णरामौ विलोक्यासीत्सुभ्रूर्लज्जाजडेव सा ।
प्रद्युम्नदर्शने व्रीडादृष्टिं निन्येऽन्यतो द्विज ॥ २४ ॥
मूलम्
कृष्णरामौ विलोक्यासीत्सुभ्रूर्लज्जाजडेव सा ।
प्रद्युम्नदर्शने व्रीडादृष्टिं निन्येऽन्यतो द्विज ॥ २४ ॥
अनुवाद (हिन्दी)
हे द्विज! राम और कृष्णके चित्र देखकर वह सुन्दर भृकुटिवाली लज्जासे जडवत् हो गयी तथा प्रद्युम्नको देखकर उसने लज्जावश अपनी दृष्टि हटा ली ॥ २४ ॥
विश्वास-प्रस्तुतिः
दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज ।
दृष्ट्वात्यर्थविलासिन्या लज्जा क्वापि निराकृता ॥ २५ ॥
मूलम्
दृष्टमात्रे ततः कान्ते प्रद्युम्नतनये द्विज ।
दृष्ट्वात्यर्थविलासिन्या लज्जा क्वापि निराकृता ॥ २५ ॥
अनुवाद (हिन्दी)
तत्पश्चात् प्रद्युम्नतनय प्रियतम अनिरुद्धजीको देखते ही उस अत्यन्त विलासिनीकी लज्जा मानो कहीं चली गयी ॥ २५ ॥
विश्वास-प्रस्तुतिः
सोऽयं सोऽयमितीत्युक्ते तया सा योगगामिनी ।
चित्रलेखाब्रवीदेनामुषां बाणसुतां तदा ॥ २६ ॥
मूलम्
सोऽयं सोऽयमितीत्युक्ते तया सा योगगामिनी ।
चित्रलेखाब्रवीदेनामुषां बाणसुतां तदा ॥ २६ ॥
अनुवाद (हिन्दी)
[वह बोल उठी]—‘वह यही है, वह यही है ।’ उसके इस प्रकार कहनेपर योगगामिनी चित्रलेखाने उस बाणासुरकी कन्यासे कहा— ॥ २६ ॥
मूलम् (वचनम्)
चित्रलेखोवाच
विश्वास-प्रस्तुतिः
अयं कृष्णस्य पौत्रस्ते भर्ता देव्या प्रसादितः ।
अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः ॥ २७ ॥
मूलम्
अयं कृष्णस्य पौत्रस्ते भर्ता देव्या प्रसादितः ।
अनिरुद्ध इति ख्यातः प्रख्यातः प्रियदर्शनः ॥ २७ ॥
अनुवाद (हिन्दी)
चित्रलेखा बोली—देवीने प्रसन्न होकर यह कृष्णका पौत्र ही तेरा पति निश्चित किया है; इसका नाम अनिरुद्ध है और यह अपनी सुन्दरताके लिये प्रसिद्ध है ॥ २७ ॥
विश्वास-प्रस्तुतिः
प्राप्नोषि यदि भर्तारमिमं प्राप्तं त्वयाखिलम् ।
दुष्प्रवेशा पुरी पूर्वं द्वारका कृष्णपालिता ॥ २८ ॥
मूलम्
प्राप्नोषि यदि भर्तारमिमं प्राप्तं त्वयाखिलम् ।
दुष्प्रवेशा पुरी पूर्वं द्वारका कृष्णपालिता ॥ २८ ॥
अनुवाद (हिन्दी)
यदि तुझको यह पति मिल गया तब तो तूने मानो सभी कुछ पा लिया; किन्तु कृष्णचन्द्रद्वारा सुरक्षित द्वारकापुरीमें पहले प्रवेश ही करना कठिन है ॥ २८ ॥
विश्वास-प्रस्तुतिः
तथापि यत्नाद्भर्तारमानयिष्यामि ते सखि ।
रहस्यमेतद्वक्तव्यं न कस्यचिदपि त्वया ॥ २९ ॥
मूलम्
तथापि यत्नाद्भर्तारमानयिष्यामि ते सखि ।
रहस्यमेतद्वक्तव्यं न कस्यचिदपि त्वया ॥ २९ ॥
अनुवाद (हिन्दी)
तथापि हे सखि! किसी उपायसे मैं तेरे पतिको लाऊँगी ही, तू इस गुप्त रहस्यको किसीसे भी न कहना ॥ २९ ॥
विश्वास-प्रस्तुतिः
अचिरादागमिष्यामि सहस्व विरहं मम ।
ययौ द्वारवतीं चोषां समाश्वास्य ततः सखीम् ॥ ३० ॥
मूलम्
अचिरादागमिष्यामि सहस्व विरहं मम ।
ययौ द्वारवतीं चोषां समाश्वास्य ततः सखीम् ॥ ३० ॥
अनुवाद (हिन्दी)
मैं शीघ्र ही आऊँगी, इतनी देर तू मेरे वियोगको सहन कर । अपनी सखी उषाको इस प्रकार ढाढस बँधाकर चित्रलेखा द्वारकापुरीको गयी ॥ ३० ॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे पञ्चमेंऽशे द्वात्रिंशोऽध्यायः ॥ ३२ ॥