२८

[अट्ठाईसवाँ अध्याय]

विषय

रुक्मीका वध

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥ १ ॥
चारुविन्दं सुचारुं च चारुं च बलिनां वरम् ।
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ २ ॥

मूलम्

चारुदेष्णं सुदेष्णं च चारुदेहं च वीर्यवान् ।
सुषेणं चारुगुप्तं च भद्रचारुं तथा परम् ॥ १ ॥
चारुविन्दं सुचारुं च चारुं च बलिनां वरम् ।
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥ २ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—हे मैत्रेय! रुक्मिणीके[प्रद्युम्नके अतिरिक्त] चारुदेष्ण, सुदेष्ण, वीर्यवान्, चारुदेह, सुषेण, चारुगुप्त, भद्रचारु, चारुविन्द, सुचारु और बलवानोंमें श्रेष्ठ चारु नामक पुत्र तथा चारुमती नामकी एक कन्या हुई ॥ १-२ ॥

विश्वास-प्रस्तुतिः

अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥ ३ ॥
देवी जाम्बवती चापि रोहिणी कामरूपिणी ।
मद्रराजसुता चान्या सुशीला शीलमण्डना ॥ ४ ॥
सात्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
षोडशासन‍्सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥ ५ ॥

रुक्मिणीके अतिरिक्त श्रीकृष्णचन्द्रके कालिन्दी, मित्रविन्दा, नग्नजित् की पुत्री सत्या, जाम्बवान् की पुत्री कामरूपिणी रोहिणी, अति-शीलवती मद्रराजसुता सुशीला भद्रा, सत्राजित् की पुत्री सत्यभामा और चारुहासिनी लक्ष्मणा—ये अति सुन्दरी सात स्त्रियाँ और थीं, इनके सिवा उनके सोलह हजार स्त्रियाँ और भी थीं ॥ ३—५ ॥

विश्वास-प्रस्तुतिः

प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंवरे तां जग्राह सा च तं तनयं हरेः ॥ ६ ॥

मूलम्

प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंवरे तां जग्राह सा च तं तनयं हरेः ॥ ६ ॥

अनुवाद (हिन्दी)

महावीर प्रद्युम्नने रुक्मीकी सुन्दरी कन्याको और उस कन्याने भी भगवान् के पुत्र प्रद्युम्नजीको स्वयंवरमें ग्रहण किया ॥ ६ ॥

विश्वास-प्रस्तुतिः

तस्यामस्याभवत्पुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणेऽरुद्धवीर्योदधिररिन्दमः ॥ ७ ॥

मूलम्

तस्यामस्याभवत्पुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणेऽरुद्धवीर्योदधिररिन्दमः ॥ ७ ॥

अनुवाद (हिन्दी)

उससे प्रद्युम्नजीके अनिरुद्ध नामक एक महाबलपराक्रमसम्पन्न पुत्र हुआ जो युद्धमें रुद्ध (प्रतिहत) न होनेवाला, बलका समुद्र तथा शत्रुओंका दमन करनेवाला था ॥ ७ ॥

विश्वास-प्रस्तुतिः

तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रुक्मी तां स्पर्द्धन्नपि चक्रिणा ॥ ८ ॥

मूलम्

तस्यापि रुक्मिणः पौत्रीं वरयामास केशवः ।
दौहित्राय ददौ रुक्मी तां स्पर्द्धन्नपि चक्रिणा ॥ ८ ॥

अनुवाद (हिन्दी)

कृष्णचन्द्रने उस (अनिरुद्ध)-के लिये भी रुक्मीकी पौत्रीका वरण किया और रुक्मीने कृष्णचन्द्रसे ईर्ष्या रखते हुए भी अपने दौहित्रको अपनी पौत्री देना स्वीकार कर लिया ॥ ८ ॥

विश्वास-प्रस्तुतिः

तस्या विवाहे रामाद्या यादवा हरिणा सह ।
रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥ ९

मूलम्

तस्या विवाहे रामाद्या यादवा हरिणा सह ।
रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विज ॥ ९

अनुवाद (हिन्दी)

हे द्विज! उसके विवाहमें सम्मिलित होनेके लिये कृष्णचन्द्रके साथ बलभद्र आदि अन्य यादवगण भी रुक्मीकी राजधानी भोजकट नामक नगरको गये ॥ ९ ॥

विश्वास-प्रस्तुतिः

विवाहे तत्र निर्वृत्ते प्राद्युम्नेस्तु महात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ १० ॥

मूलम्

विवाहे तत्र निर्वृत्ते प्राद्युम्नेस्तु महात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवन् ॥ १० ॥

अनुवाद (हिन्दी)

जब प्रद्युम्न-पुत्र महात्मा अनिरुद्धका विवाह-संस्कार हो चुका तो कलिंगराज आदि राजाओंने रुक्मीसे कहा— ॥ १० ॥

विश्वास-प्रस्तुतिः

अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् ।
न जयामो बलं कस्माद्‍द्युतेनैनं महाबलम् ॥ ११ ॥

मूलम्

अनक्षज्ञो हली द्यूते तथास्य व्यसनं महत् ।
न जयामो बलं कस्माद्‍द्युतेनैनं महाबलम् ॥ ११ ॥

अनुवाद (हिन्दी)

‘‘ये बलभद्र द्यूतक्रीडा [अच्छी तरह ] जानते तो हैं नहीं तथापि इन्हें उसका व्यसन बहुत है; तो फिर हम इन महाबली रामको जुएसे ही क्यों न जीत लें?’’ ॥ ११ ॥

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

तथेति तानाह नृपान‍्‍रुक्मी बलमदान्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ १२ ॥

मूलम्

तथेति तानाह नृपान‍्‍रुक्मी बलमदान्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥ १२ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—तब बलके मदसे उन्मत्त रुक्मीने उन राजाओंसे कहा—‘बहुत अच्छा’ और सभामें बलरामजीके साथ द्यूतक्रीडा आरम्भ कर दी ॥ १२ ॥

विश्वास-प्रस्तुतिः

सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीयेऽपि पणे चान्यत्सहस्रं रुक्मिणाजितः ॥ १३ ॥

मूलम्

सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीयेऽपि पणे चान्यत्सहस्रं रुक्मिणाजितः ॥ १३ ॥

अनुवाद (हिन्दी)

रुक्मीने पहले ही दाँवमें बलरामजीसे एक सहस्र निष्क जीते तथा दूसरे दाँवमें एक सहस्र निष्क और जीत लिये ॥ १३ ॥

विश्वास-प्रस्तुतिः

ततो दशसहस्राणि निष्काणां पणमाददे ।
बलभद्रोऽजयत्तानि रुक्मी द्यूतविदां वरः ॥ १४ ॥

मूलम्

ततो दशसहस्राणि निष्काणां पणमाददे ।
बलभद्रोऽजयत्तानि रुक्मी द्यूतविदां वरः ॥ १४ ॥

अनुवाद (हिन्दी)

तब बलभद्रजीने दस हजार निष्कका एक दाँव और लगाया । उसे भी पक्के जुआरी रुक्मीने ही जीत लिया ॥ १४ ॥

विश्वास-प्रस्तुतिः

ततो जहास स्वनवत्कलिङ्गाधिपतिर्द्विज ।
दन्तान्विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ १५ ॥

मूलम्

ततो जहास स्वनवत्कलिङ्गाधिपतिर्द्विज ।
दन्तान्विदर्शयन्मूढो रुक्मी चाह मदोद्धतः ॥ १५ ॥

अनुवाद (हिन्दी)

हे द्विज! इसपर मूढ कलिंगराज दाँत दिखाता हुआ जोरसे हँसने लगा और मदोन्मत्त रुक्मीने कहा— ॥ १५ ॥

विश्वास-प्रस्तुतिः

अविद्योऽयं मया द्यूते बलभद्रः पराजितः ।
मुधैवाक्षावलेपान्धो योऽवमेनेऽक्षकोविदान् ॥ १६ ॥

मूलम्

अविद्योऽयं मया द्यूते बलभद्रः पराजितः ।
मुधैवाक्षावलेपान्धो योऽवमेनेऽक्षकोविदान् ॥ १६ ॥

अनुवाद (हिन्दी)

‘‘द्यूतक्रीडासे अनभिज्ञ इन बलभद्रजीको मैंने हरा दिया है; ये वृथा ही अक्षके घमण्डसे अन्धे होकर अक्षकुशल पुरुषोंका अपमान करते थे’’ ॥ १६ ॥

विश्वास-प्रस्तुतिः

दृष्ट्वा कलिङ्गराजन्तं प्रकाशदशनाननम् ।
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ १७ ॥

मूलम्

दृष्ट्वा कलिङ्गराजन्तं प्रकाशदशनाननम् ।
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥ १७ ॥

अनुवाद (हिन्दी)

इस प्रकार कलिंगराजको दाँत दिखाते और रुक्मीको दुर्वाक्य कहते देख हलायुध बलभद्रजी अत्यन्त क्रोधित हुए ॥ १७ ॥

विश्वास-प्रस्तुतिः

ततः कोपपरीतात्मा निष्ककोटिं समाददे ।
ग्लहं जग्राह रुक्मी च तदर्थेऽक्षानपातयत् ॥ १८ ॥

मूलम्

ततः कोपपरीतात्मा निष्ककोटिं समाददे ।
ग्लहं जग्राह रुक्मी च तदर्थेऽक्षानपातयत् ॥ १८ ॥

अनुवाद (हिन्दी)

तब उन्होंने अत्यन्त कुपित होकर करोड़ निष्कका दाँव लगाया और रुक्मीने भी उसे ग्रहणकर उसके निमित्त पाँसे फेंके ॥ १८ ॥

विश्वास-प्रस्तुतिः

अजयद‍्बलदेवस्तं प्राहोच्चैर्विजितं मया ।
मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ॥ १९ ॥

मूलम्

अजयद‍्बलदेवस्तं प्राहोच्चैर्विजितं मया ।
मयेति रुक्मी प्राहोच्चैरलीकोक्तेरलं बल ॥ १९ ॥

अनुवाद (हिन्दी)

उसे बलदेवजीने ही जीता और वे जोरसे बोल उठे, ‘मैंने जीता ।’ इसपर रुक्मी भी चिल्लाकर बोला—‘बलराम! असत्य बोलनेसे कुछ लाभ नहीं हो सकता, यह दाँव भी मैंने ही जीता है ॥ १९ ॥

विश्वास-प्रस्तुतिः

त्वयोक्तोऽयं ग्लहस्सत्यं न मयैषोऽनुमोदितः ।
एवं त्वया चेद्विजितं विजितं न मया कथम् ॥ २० ॥

मूलम्

त्वयोक्तोऽयं ग्लहस्सत्यं न मयैषोऽनुमोदितः ।
एवं त्वया चेद्विजितं विजितं न मया कथम् ॥ २० ॥

अनुवाद (हिन्दी)

आपने इस दाँवके विषयमें जिक्र अवश्य किया था, किंतु मैंने उसका अनुमोदन तो नहीं किया । इस प्रकार यदि आपने इसे जीता है तो मैंने भी क्यों नहीं जीता?’’ ॥ २० ॥

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

अथान्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी ।
बलदेवस्य तं कोपं वर्द्धयन्ती महात्मनः ॥ २१ ॥

मूलम्

अथान्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी ।
बलदेवस्य तं कोपं वर्द्धयन्ती महात्मनः ॥ २१ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—उसी समय महात्मा बलदेवजीके क्रोधको बढ़ाती हुई आकाशवाणीने गम्भीर स्वरमें कहा— ॥ २१ ॥

विश्वास-प्रस्तुतिः

जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा ।
अनुक्त्वापि वचः किञ्चित्कृतं भवति कर्मणा ॥ २२ ॥

मूलम्

जितं बलेन धर्मेण रुक्मिणा भाषितं मृषा ।
अनुक्त्वापि वचः किञ्चित्कृतं भवति कर्मणा ॥ २२ ॥

अनुवाद (हिन्दी)

‘‘इस दाँवको धर्मानुसार तो बलरामजी ही जीते हैं; रुक्मी झूठ बोलता है क्योंकि [अनुमोदनसूचक] वचन न कहनेपर भी [पाँसे फेंकने आदि] कार्यसे वह अनुमोदित ही माना जायगा’’ ॥ २२ ॥

विश्वास-प्रस्तुतिः

ततो बलः समुत्थाय कोपसंरक्तलोचनः ।
जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २३ ॥

मूलम्

ततो बलः समुत्थाय कोपसंरक्तलोचनः ।
जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥ २३ ॥

अनुवाद (हिन्दी)

तब क्रोधसे अरुणनयन हुए महाबली बलभद्रजीने उठकर रुक्मीको जुआ खेलनेके पाँसोंसे ही मार डाला ॥ २३ ॥

विश्वास-प्रस्तुतिः

कलिङ्गराजं चादाय विस्फुरन्तं बलाद‍्बलः ।
बभञ्ज दन्तान‍्कुपितो यैः प्रकाशं जहास सः ॥ २४ ॥

मूलम्

कलिङ्गराजं चादाय विस्फुरन्तं बलाद‍्बलः ।
बभञ्ज दन्तान‍्कुपितो यैः प्रकाशं जहास सः ॥ २४ ॥

अनुवाद (हिन्दी)

फिर फड़कते हुए कलिंगराजको बलपूर्वक पकड़कर बलरामजीने उसके दाँत, जिन्हें दिखलाता हुआ वह हँसा था, तोड़ दिये ॥ २४ ॥

विश्वास-प्रस्तुतिः

आकृष्य च महास्तम्भं जातरूपमयं बलः ।
जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥ २५ ॥

मूलम्

आकृष्य च महास्तम्भं जातरूपमयं बलः ।
जघान तान्ये तत्पक्षे भूभृतः कुपितो भृशम् ॥ २५ ॥

अनुवाद (हिन्दी)

इनके सिवा उसके पक्षके और भी जो कोई राजालोग थे, उन्हें बलरामजीने अत्यन्त कुपित होकर एक सुवर्णमय स्तम्भ उखाड़कर उससे मार डाला ॥ २५ ॥

विश्वास-प्रस्तुतिः

ततो हाहाकृतं सर्वं पलायनपरं द्विज ।
तद्राजमण्डलं भीतं बभूव कुपिते बले ॥ २६ ॥

मूलम्

ततो हाहाकृतं सर्वं पलायनपरं द्विज ।
तद्राजमण्डलं भीतं बभूव कुपिते बले ॥ २६ ॥

अनुवाद (हिन्दी)

हे द्विज! उस समय बलरामजीके कुपित होनेसे हाहाकार मच गया और सम्पूर्ण राजालोग भयभीत होकर भागने लगे ॥ २६ ॥

विश्वास-प्रस्तुतिः

बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः ।
नोवाच किञ्चिन्मैत्रेय रुक्मिणीबलयोर्भयात् ॥ २७ ॥

मूलम्

बलेन निहतं दृष्ट्वा रुक्मिणं मधुसूदनः ।
नोवाच किञ्चिन्मैत्रेय रुक्मिणीबलयोर्भयात् ॥ २७ ॥

अनुवाद (हिन्दी)

हे मैत्रेय! उस समय रुक्मीको मारा गया देख श्रीमधुसूदनने एक ओर रुक्मिणीके और दूसरी ओर बलरामजीके भयसे कुछ भी नहीं कहा ॥ २७ ॥

विश्वास-प्रस्तुतिः

ततोऽनिरुद्धमादाय कृतदारं द्विजोत्तम ।
द्वारकामाजगामाथ यदुचक्रं च केशवः ॥ २८ ॥

मूलम्

ततोऽनिरुद्धमादाय कृतदारं द्विजोत्तम ।
द्वारकामाजगामाथ यदुचक्रं च केशवः ॥ २८ ॥

अनुवाद (हिन्दी)

तदनन्तर, हे द्विजश्रेष्ठ! यादवोंके सहित श्रीकृष्णचन्द्र सपत्नीक अनिरुद्धको लेकर द्वारकापुरीमें चले आये ॥ २८ ॥

मूलम् (समाप्तिः)

इति श्रीविष्णुपुराणे पञ्चमेंऽशेऽष्टाविंशोऽध्यायः ॥ २८ ॥