[छब्बीसवाँ अध्याय]
विषय
रुक्मिणी-हरण
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
रुक्मी तस्याभवत्पुत्रो रुक्मिणी च वरानना ॥ १ ॥
मूलम्
भीष्मकः कुण्डिने राजा विदर्भविषयेऽभवत् ।
रुक्मी तस्याभवत्पुत्रो रुक्मिणी च वरानना ॥ १ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—विदर्भदेशान्तर्गत कुण्डिनपुर नामक नगरमें भीष्मक नामक एक राजा थे । उनके रुक्मी नामक पुत्र और रुक्मिणी नामकी एक सुमुखी कन्या थी ॥ १ ॥
विश्वास-प्रस्तुतिः
रुक्मिणीं चकमे कृष्णस्सा च तं चारुहासिनी ।
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ २ ॥
मूलम्
रुक्मिणीं चकमे कृष्णस्सा च तं चारुहासिनी ।
न ददौ याचते चैनां रुक्मी द्वेषेण चक्रिणे ॥ २ ॥
अनुवाद (हिन्दी)
श्रीकृष्णने रुक्मिणीकी और चारुहासिनी रुक्मिणीने श्रीकृष्णचन्द्रकी अभिलाषा की, किंतु भगवान् श्रीकृष्णचन्द्रके प्रार्थना करनेपर भी उनसे द्वेष करनेके कारण रुक्मीने उन्हें रुक्मिणी न दी ॥ २ ॥
विश्वास-प्रस्तुतिः
ददौ च शिशुपालाय जरासन्धप्रचोदितः ।
भीष्मको रुक्मिणा सार्धं रुक्मिणीमुरुविक्रमः ॥ ३ ॥
मूलम्
ददौ च शिशुपालाय जरासन्धप्रचोदितः ।
भीष्मको रुक्मिणा सार्धं रुक्मिणीमुरुविक्रमः ॥ ३ ॥
अनुवाद (हिन्दी)
महापराक्रमी भीष्मकने जरासन्धकी प्रेरणासे रुक्मीसे सहमत होकर शिशुपालको रुक्मिणी देनेका निश्चय किया ॥ ३ ॥
विश्वास-प्रस्तुतिः
विवाहार्थं ततः सर्वे जरासन्धमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुश्शिशुपालप्रियैषिणः ॥ ४ ॥
मूलम्
विवाहार्थं ततः सर्वे जरासन्धमुखा नृपाः ।
भीष्मकस्य पुरं जग्मुश्शिशुपालप्रियैषिणः ॥ ४ ॥
अनुवाद (हिन्दी)
तब शिशुपालके हितैषी जरासन्ध आदि सम्पूर्ण राजागण विवाहमें सम्मिलित होनेके लिये भीष्मकके नगरमें गये ॥ ४ ॥
विश्वास-प्रस्तुतिः
कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः ॥ ५ ॥
मूलम्
कृष्णोऽपि बलभद्राद्यैर्यदुभिः परिवारितः ।
प्रययौ कुण्डिनं द्रष्टुं विवाहं चैद्यभूभृतः ॥ ५ ॥
अनुवाद (हिन्दी)
इधर बलभद्र आदि यदुवंशियोंके सहित श्रीकृष्णचन्द्र भी चेदिराजका विवाहोत्सव देखनेके लिये कुण्डिनपुर आये ॥ ५ ॥
विश्वास-प्रस्तुतिः
श्वोभाविनि विवाहे तु तां कन्यां हृतवान्हरिः ।
विपक्षभारमासज्य रामादिष्वथ बन्धुषु ॥ ६ ॥
मूलम्
श्वोभाविनि विवाहे तु तां कन्यां हृतवान्हरिः ।
विपक्षभारमासज्य रामादिष्वथ बन्धुषु ॥ ६ ॥
अनुवाद (हिन्दी)
तदनन्तर विवाहका एक दिन रहनेपर अपने विपक्षियोंका भार बलभद्र आदि बन्धुओंको सौंपकर श्रीहरिने उस कन्याका हरण कर लिया ॥ ६ ॥
विश्वास-प्रस्तुतिः
ततश्च पौण्ड्रकश्श्रीमान्दन्तवक्त्रो विदूरथः ।
शिशुपालजरासन्धशाल्वाद्याश्च महीभृतः ॥ ७ ॥
कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
निर्जिताश्च समागम्य रामाद्यैर्यदुपुङ्गवैः ॥ ८ ॥
मूलम्
ततश्च पौण्ड्रकश्श्रीमान्दन्तवक्त्रो विदूरथः ।
शिशुपालजरासन्धशाल्वाद्याश्च महीभृतः ॥ ७ ॥
कुपितास्ते हरिं हन्तुं चक्रुरुद्योगमुत्तमम् ।
निर्जिताश्च समागम्य रामाद्यैर्यदुपुङ्गवैः ॥ ८ ॥
अनुवाद (हिन्दी)
तब श्रीमान् पौण्ड्रक, दन्तवक्त्र, विदूरथ, शिशुपाल, जरासन्ध और शाल्व आदि राजाओंने क्रोधित होकर श्रीहरिको मारनेका महान् उद्योग किया, किन्तु वे सब बलराम आदि यदुश्रेष्ठोंसे मुठभेड़ होनेपर पराजित हो गये ॥ ७-८ ॥
विश्वास-प्रस्तुतिः
कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः ॥ ९ ॥
मूलम्
कुण्डिनं न प्रवेक्ष्यामि ह्यहत्वा युधि केशवम् ।
कृत्वा प्रतिज्ञां रुक्मी च हन्तुं कृष्णमनुद्रुतः ॥ ९ ॥
अनुवाद (हिन्दी)
तब रुक्मीने यह प्रतिज्ञाकर कि ‘मैं युद्धमें कृष्णको मारे बिना कुण्डिनपुरमें प्रवेश न करूँगा’ कृष्णको मारनेके लिये उनका पीछा किया ॥ ९ ॥
विश्वास-प्रस्तुतिः
हत्वा बलं सनागाश्वं पत्तिस्यन्दनसङ्कुलम् ।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १० ॥
मूलम्
हत्वा बलं सनागाश्वं पत्तिस्यन्दनसङ्कुलम् ।
निर्जितः पातितश्चोर्व्यां लीलयैव स चक्रिणा ॥ १० ॥
अनुवाद (हिन्दी)
किन्तु श्रीकृष्णने लीलासे ही हाथी, घोड़े, रथ और पदातियोंसे युक्त उसकी सेनाको नष्ट करके उसे जीत लिया और पृथिवीमें गिरा दिया ॥ १० ॥
विश्वास-प्रस्तुतिः
निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् ।
राक्षसेन विवाहेन सम्प्राप्तां मधुसूदनः ॥ ११ ॥
मूलम्
निर्जित्य रुक्मिणं सम्यगुपयेमे च रुक्मिणीम् ।
राक्षसेन विवाहेन सम्प्राप्तां मधुसूदनः ॥ ११ ॥
अनुवाद (हिन्दी)
इस प्रकार रुक्मीको युद्धमें परास्तकर श्रीमधुसूदनने राक्षसविवाहसे मिली हुई रुक्मिणीका सम्यक् (वेदोक्त) रीतिसे पाणिग्रहण किया ॥ ११ ॥
विश्वास-प्रस्तुतिः
तस्यां जज्ञे च प्रद्मुम्नो मदनांशस्सवीर्यवान् ।
जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ १२ ॥
मूलम्
तस्यां जज्ञे च प्रद्मुम्नो मदनांशस्सवीर्यवान् ।
जहार शम्बरो यं वै यो जघान च शम्बरम् ॥ १२ ॥
अनुवाद (हिन्दी)
उससे उनके कामदेवके अंशसे उत्पन्न हुए वीर्यवान् प्रद्युम्नजीका जन्म हुआ, जिन्हें शम्बरासुर हर ले गया था और फिर जिन्होंने [काल-क्रमसे] शम्बरासुरका वध किया था ॥ १२ ॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे पञ्चमेंऽशे षड्विंशोऽध्यायः ॥ २६ ॥