[तेईसवाँ अध्याय]
विषय
मगधवंशका वर्णन
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
मागधानां बार्हद्रथानां भाविनामनुक्रमं कथयिष्यामि ॥ १ ॥
मूलम्
मागधानां बार्हद्रथानां भाविनामनुक्रमं कथयिष्यामि ॥ १ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—अब मैं मगधदेशीय बृहद्रथकी भावी सन्तानका अनुक्रमसे वर्णन करूँगा ॥ १ ॥
विश्वास-प्रस्तुतिः
अत्र हि वंशे महाबलपराक्रमा जरासन्धप्रधाना बभूवुः ॥ २ ॥
मूलम्
अत्र हि वंशे महाबलपराक्रमा जरासन्धप्रधाना बभूवुः ॥ २ ॥
अनुवाद (हिन्दी)
इस वंशमें महाबलवान् और पराक्रमी जरासन्ध आदि राजागण प्रधान थे ॥ २ ॥
विश्वास-प्रस्तुतिः
जरासन्धस्य पुत्रः सहदेवः ॥ ३ ॥
मूलम्
जरासन्धस्य पुत्रः सहदेवः ॥ ३ ॥
अनुवाद (हिन्दी)
जरासन्धका पुत्र सहदेव है ॥ ३ ॥
विश्वास-प्रस्तुतिः
सहदेवात्सोमापिस्तस्य श्रुतश्रवास्तस्याप्ययुतायुस्ततश्च निरमित्रस्तत्तनयस्सुनेत्रस्तस्मादपि बृहत्कर्मा ॥ ४ ॥ ततश्च सेनजित्ततश्च श्रुतञ्जयस्ततो विप्रस्तस्य च पुत्रश्शुचिनामा भविष्यति ॥ ५ ॥

सहदेवके सोमापि नामक पुत्र होगा, सोमापिके श्रुतश्रवा, श्रुतश्रवाके अयुतायु, अयुतायुके निरमित्र, निरमित्रके सुनेत्र, सुनेत्रके बृहत्कर्मा, बृहत्कर्माके सेनजित् , सेनजित् के श्रुतंजय, श्रुतंजयके विप्र तथा विप्रके शुचि नामक एक पुत्र होगा ॥ ४-५ ॥
विश्वास-प्रस्तुतिः
तस्यापि क्षेम्यस्ततश्च सुव्रतस्सुव्रताद्धर्मस्ततस्सुश्रवाः ॥ ६ ॥ ततो दृढसेनः ॥ ७ ॥ तस्मात्सुबलः ॥ ८ ॥ सुबलात्सुनीतो भविता ॥ ९ ॥ ततस्सत्यजित् ॥ १० ॥ तस्माद्विश्वजित् ॥ ११ ॥ तस्यापि रिपुञ्जयः ॥ १२ ॥

शुचिके क्षेम्य, क्षेम्यके सुव्रत, सुव्रतके धर्म, धर्मके सुश्रवा, सुश्रवाके दृढसेन, दृढसेनके सुबल, सुबलके सुनीत, सुनीतके सत्यजित् , सत्यजित् के विश्वजित् और विश्वजित् के रिपुंजयका जन्म होगा ॥ ६—१२ ॥
इत्येते बार्हद्रथा भूपतयो वर्षसहस्रमेकं भविष्यन्ति ॥ १३ ॥
इस प्रकारसे बृहद्रथवंशीय राजागण एक सहस्र वर्षपर्यन्त मगधमें शासन करेंगे ॥ १३ ॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे चतुर्थेंऽशे त्रयोविंशोऽध्यायः ॥ २३ ॥