२१

[इक्कीसवाँ अध्याय]

विषय

भविष्यमें होनेवाले राजाओंका वर्णन

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

अतः परं भविष्यानहं भूपालान‍्कीर्तयिष्यामि ॥ १ ॥

मूलम्

अतः परं भविष्यानहं भूपालान‍्कीर्तयिष्यामि ॥ १ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—अब मैं भविष्यमें होनेवाले राजाओंका वर्णन करता हूँ ॥ १ ॥

विश्वास-प्रस्तुतिः

योऽयं साम्प्रतमवनीपतिः परीक्षित्तस्यापि जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति ॥ २ ॥

मूलम्

योऽयं साम्प्रतमवनीपतिः परीक्षित्तस्यापि जनमेजयश्रुतसेनोग्रसेनभीमसेनाश्चत्वारः पुत्रा भविष्यन्ति ॥ २ ॥

अनुवाद (हिन्दी)

इस समय जो परीक्षित् नामक महाराज हैं इनके जनमेजय, श्रुतसेन, उग्रसेन और भीमसेन नामक चार पुत्र होंगे ॥ २ ॥

विश्वास-प्रस्तुतिः

जनमेजयस्यापि शतानीको भविष्यति ॥ ३ ॥ योऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राण्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति ॥ ४ ॥

मूलम्

जनमेजयस्यापि शतानीको भविष्यति ॥ ३ ॥ योऽसौ याज्ञवल्क्याद्वेदमधीत्य कृपादस्त्राण्यवाप्य विषमविषयविरक्तचित्तवृत्तिश्च शौनकोपदेशादात्मज्ञानप्रवीणः परं निर्वाणमवाप्स्यति ॥ ४ ॥

अनुवाद (हिन्दी)

जनमेजयका पुत्र शतानीक होगा जो याज्ञवल्क्यसे वेदाध्ययनकर, कृपसे शस्त्रविद्या प्राप्तकर विषम विषयोंसे विरक्तचित्त हो महर्षि शौनकके उपदेशसे आत्मज्ञानमें निपुण होकर परमनिर्वाण-पद प्राप्त करेगा ॥ ३-४ ॥

विश्वास-प्रस्तुतिः

शतानीकादश्वमेधदत्तो भविता ॥ ५ ॥

मूलम्

शतानीकादश्वमेधदत्तो भविता ॥ ५ ॥

अनुवाद (हिन्दी)

शतानीकका पुत्र अश्वमेधदत्त होगा ॥ ५ ॥

विश्वास-प्रस्तुतिः

तस्मादप्यधिसीमकृष्णः ॥ ६ ॥ अधिसीमकृष्णान्निचक्नुः ॥ ७ ॥ यो गङ्गयापहृते हस्तिनापुरे कौशाम्ब्यां निवत्स्यति ॥ ८ ॥

मूलम्

तस्मादप्यधिसीमकृष्णः ॥ ६ ॥ अधिसीमकृष्णान्निचक्नुः ॥ ७ ॥ यो गङ्गयापहृते हस्तिनापुरे कौशाम्ब्यां निवत्स्यति ॥ ८ ॥

अनुवाद (हिन्दी)

उसके अधिसीमकृष्ण तथा अधिसीमकृष्णके निचक्नु नामक पुत्र होगा जो कि गंगाजीद्वारा हस्तिनापुरके बहा ले जानेपर कौशाम्बीपुरीमें निवास करेगा ॥ ६—८ ॥
तस्याप्युष्णः पुत्रो भविता ॥ ९ ॥ उष्णाद्विचित्ररथः ॥ १० ॥ ततः शुचिरथः ॥ ११ ॥ तस्माद्‍धृष्णिमांस्ततस्सुषेणस्तस्यापि सुनीथस्सुनीथान्नृपचक्षुस्तस्मादपि सुखावलस्तस्य च पारिप्लवस्ततश्च सुनयस्तस्यापि मेधावी ॥ १२ ॥ मेधाविनो रिपुञ्जयस्ततो मृदुस्तस्माच्च तिग्मस्तस्माद्‍बृहद्रथो बृहद्रथाद्वसुदानः ॥ १३ ॥ ततोऽपरश्शतानीकः ॥ १४ ॥ तस्माच्चोदयन उदयनादहीनरस्ततश्च दण्डपाणिस्ततो निरमित्रः ॥ १५ ॥ तस्माच्च क्षेमकः ॥ १६ ॥ अत्रायं श्लोकः ॥ १७ ॥
निचक्नुका पुत्र उष्ण होगा, उष्णका विचित्ररथ, विचित्ररथका शुचिरथ, शुचिरथका वृष्णिमान्, वृष्णिमान‍्का सुषेण, सुषेणका सुनीथ, सुनीथका नृप, नृपका चक्षु, चक्षुका सुखावल, सुखावलका पारिप्लव, पारिप्लवका सुनय, सुनयका मेधावी, मेधावीका रिपुंजय, रिपुंजयका मृदु, मृदुका तिग्म, तिग्मका बृहद्रथ, बृहद्रथका वसुदान, वसुदानका दूसरा शतानीक, शतानीकका उदयन, उदयनका अहीनर, अहीनरका दण्डपाणि, दण्डपाणिका निरमित्र तथा निरमित्रका पुत्र क्षेमक होगा । इस विषयमें यह श्लोक प्रसिद्ध है— ॥ ९—१७ ॥

विश्वास-प्रस्तुतिः

ब्रह्मक्षत्रस्य यो योनिर्वंशो राजर्षिसत्कृतः ।
क्षेमकं प्राप्य राजानं संस्थानं प्राप्स्यते कलौ ॥ १८ ॥

मूलम्

ब्रह्मक्षत्रस्य यो योनिर्वंशो राजर्षिसत्कृतः ।
क्षेमकं प्राप्य राजानं संस्थानं प्राप्स्यते कलौ ॥ १८ ॥

अनुवाद (हिन्दी)

‘जो वंश ब्राह्मण और क्षत्रियोंकी उत्पत्तिका कारणरूप तथा नाना राजर्षियोंसे सभाजित है वह कलियुगमें राजा क्षेमके उत्पन्न होनेपर समाप्त हो जायगा’ ॥ १८ ॥

मूलम् (समाप्तिः)

इति श्रीविष्णुपुराणे चतुर्थेंऽशे एकविंशोऽध्यायः ॥ २१ ॥