[उन्नीसवाँ अध्याय]
विषय
पुरुवंश
मूलम् (वचनम्)
श्रीपराशर उवाच
अनुवाद (हिन्दी)
पुरोर्जनमेजयस्तस्यापि प्रचिन्वान् प्रचिन्वतः प्रवीरः प्रवीरान्मनस्युर्मनस्योश्चाभयदस्तस्यापि सुद्युस्सुद्योर्बहुगतस्तस्यापि संयातिस्संयातेरहंयातिस्ततो रौद्राश्वः ॥ १ ॥
श्रीपराशरजी बोले—पुरुका पुत्र जनमेजय था । जनमेजयका प्रचिन्वान्, प्रचिन्वान्का प्रवीर, प्रवीरका मनस्यु, मनस्युका अभयद, अभयदका सुद्यु, सुद्युका बहुगत, बहुगतका संयाति, संयातिका अहंयाति तथा अहंयातिका पुत्र रौद्राश्व था ॥ १ ॥
ऋतेषुकक्षेषुस्थण्डिलेषुकृतेषुजलेषुधर्मेषुधृतेषुस्थलेषुसन्नतेषुवनेषुनामानो रौद्राश्वस्य दश पुत्रा बभूवुः ॥ २ ॥
रौद्राश्वके ऋतेषु, कक्षेषु, स्थण्डिलेषु, कृतेषु, जलेषु, धर्मेषु, धृतेषु, स्थलेषु, सन्नतेषु और वनेषु नामक दस पुत्र थे ॥ २ ॥
विश्वास-प्रस्तुतिः
ऋतेषोरन्तिनारः पुत्रोऽभूत् ॥ ३ ॥ सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ ४ ॥
मूलम्
ऋतेषोरन्तिनारः पुत्रोऽभूत् ॥ ३ ॥ सुमतिमप्रतिरथं ध्रुवं चाप्यन्तिनारः पुत्रानवाप ॥ ४ ॥
अनुवाद (हिन्दी)
ऋतेषुका पुत्र अन्तिनार हुआ तथा अन्तिनारके सुमति, अप्रतिरथ और ध्रुव नामक तीन पुत्रोंने जन्म लिया ॥ ३-४ ॥
विश्वास-प्रस्तुतिः
अप्रतिरथस्य कण्वः पुत्रोऽभूत् ॥ ५ ॥ तस्यापि मेधातिथिः ॥ ६ ॥ यतः काण्वायना द्विजा बभूवुः ॥ ७ ॥
मूलम्
अप्रतिरथस्य कण्वः पुत्रोऽभूत् ॥ ५ ॥ तस्यापि मेधातिथिः ॥ ६ ॥ यतः काण्वायना द्विजा बभूवुः ॥ ७ ॥
अनुवाद (हिन्दी)
इनमेंसे अप्रतिरथका पुत्र कण्व और कण्वका मेधातिथि हुआ जिसकी सन्तान काण्वायन ब्राह्मण हुए ॥ ५—७ ॥
विश्वास-प्रस्तुतिः
अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ॥ ८ ॥
मूलम्
अप्रतिरथस्यापरः पुत्रोऽभूदैलीनः ॥ ८ ॥
अनुवाद (हिन्दी)
अप्रतिरथका दूसरा पुत्र ऐलीन था ॥ ८ ॥
विश्वास-प्रस्तुतिः
ऐलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ ९ ॥
मूलम्
ऐलीनस्य दुष्यन्ताद्याश्चत्वारः पुत्रा बभूवुः ॥ ९ ॥
अनुवाद (हिन्दी)
इस ऐलीनके दुष्यन्त आदि चार पुत्र हुए ॥ ९ ॥
विश्वास-प्रस्तुतिः
दुष्यन्ताच्चक्रवर्ती भरतोऽभूत् ॥ १० ॥ यन्नामहेतुर्देवैश्लोको गीयते ॥ ११ ॥
मूलम्
दुष्यन्ताच्चक्रवर्ती भरतोऽभूत् ॥ १० ॥ यन्नामहेतुर्देवैश्लोको गीयते ॥ ११ ॥
अनुवाद (हिन्दी)
दुष्यन्तके यहाँ चक्रवर्ती सम्राट् भरतका जन्म हुआ जिसके नामके विषयमें देवगणने इस श्लोकका गान किया था— ॥ १०-११ ॥
विश्वास-प्रस्तुतिः
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यन्तमावमंस्थाश्शकुन्तलाम् ॥ १२ ॥
रेतो धाः पुत्रो नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १३ ॥
मूलम्
माता भस्त्रा पितुः पुत्रो येन जातः स एव सः ।
भरस्व पुत्रं दुष्यन्तमावमंस्थाश्शकुन्तलाम् ॥ १२ ॥
रेतो धाः पुत्रो नयति नरदेव यमक्षयात् ।
त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ॥ १३ ॥
अनुवाद (हिन्दी)
‘‘माता तो केवल चमड़ेकी धौंकनीके समान है, पुत्रपर अधिकार तो पिताका ही है, पुत्र जिसके द्वारा जन्म ग्रहण करता है उसीका स्वरूप होता है । हे दुष्यन्त! तू इस पुत्रका पालन-पोषण कर, शकुन्तलाका अपमान न कर । हे नरदेव! अपने ही वीर्यसे उत्पन्न हुआ पुत्र अपने पिताको यमलोकसे [उद्धार कर स्वर्गलोकको] ले जाता है । ‘इस पुत्रके आधान करनेवाले तुम्हीं हो’— शकुन्तलाने यह बात ठीक ही कही है’ ॥ १२-१३ ॥
विश्वास-प्रस्तुतिः
भरतस्य पत्नीत्रये नव पुत्रा बभूवुः ॥ १४ ॥
मूलम्
भरतस्य पत्नीत्रये नव पुत्रा बभूवुः ॥ १४ ॥
अनुवाद (हिन्दी)
भरतके तीन स्त्रियाँ थीं जिनसे उनके नौ पुत्र हुए ॥ १४ ॥
विश्वास-प्रस्तुतिः
नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः ॥ १५ ॥
मूलम्
नैते ममानुरूपा इत्यभिहितास्तन्मातरः परित्यागभयात्तत्पुत्राञ्जघ्नुः ॥ १५ ॥
अनुवाद (हिन्दी)
भरतके यह कहनेपर कि ‘ये मेरे अनुरूप नहीं हैं’, उनकी माताओंने इस भयसे कि राजा हमको त्याग न दें, उन पुत्रोंको मार डाला ॥ १५ ॥
ततोऽस्य वितथे पुत्रजन्मनि पुत्रार्थिनो मरुत्सोमयाजिनो दीर्घतमसः पार्ष्ण्यपास्ताद्बृहस्पतिवीर्यादुतथ्यपत्न्यां ममतायां समुत्पन्नो भरद्वाजाख्यः पुत्रो मरुद्भिर्दत्तः ॥ १६ ॥
इस प्रकार पुत्र-जन्मके विफल हो जानेसे भरतने पुत्रकी कामनासे मरुत्सोम नामक यज्ञ किया । उस यज्ञके अन्तमें मरुद्गणने उन्हें भरद्वाज नामक एक बालक पुत्ररूपसे दिया जो उतथ्यपत्नी ममताके गर्भमें स्थित दीर्घतमा मुनिके पाद-प्रहारसे स्खलित हुए बृहस्पतिजीके वीर्यसे उत्पन्न हुआ था ॥ १६ ॥
विश्वास-प्रस्तुतिः
तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ १७ ॥
मूलम्
तस्यापि नामनिर्वचनश्लोकः पठ्यते ॥ १७ ॥
अनुवाद (हिन्दी)
उसके नामकरणके विषयमें भी यह श्लोक कहा जाता है— ॥ १७ ॥
विश्वास-प्रस्तुतिः
मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ १८ ॥
मूलम्
मूढे भर द्वाजमिमं भर द्वाजं बृहस्पते ।
यातौ यदुक्त्वा पितरौ भरद्वाजस्ततस्त्वयम् ॥ १८ ॥
अनुवाद (हिन्दी)
‘‘पुत्रोत्पत्तिके अनन्तर बृहस्पतिने ममतासे कहा—‘हे मूढ़े! यह पुत्र द्वाज (हम दोनोंसे उत्पन्न हुआ) है तू इसका भरण कर ।’ तब ममताने भी कहा—‘हे बृहस्पते! यह पुत्र द्वाज (हम दोनोंसे उत्पन्न हुआ) है अतः तुम इसका भरण करो ।’ इस प्रकार परस्पर विवाद करते हुए उसके माता-पिता चले गये, इसलिये उसका नाम ‘भरद्वाज’ पड़ा’’ ॥ १८ ॥
विश्वास-प्रस्तुतिः
भरद्वाजस्स वितथे पुत्रजन्मनि मरुद्भिर्दत्तस्ततो वितथसंज्ञामवाप ॥ १९ ॥
मूलम्
भरद्वाजस्स वितथे पुत्रजन्मनि मरुद्भिर्दत्तस्ततो वितथसंज्ञामवाप ॥ १९ ॥
अनुवाद (हिन्दी)
पुत्र-जन्म वितथ (विफल) होनेपर मरुद्गणने राजा भरतको भरद्वाज दिया था, इसलिये उसका नाम ‘वितथ’ भी हुआ ॥ १९ ॥
विश्वास-प्रस्तुतिः
वितथस्यापि मन्युः पुत्रोऽभवत् ॥ २० ॥ बृहत्क्षत्रमहावीर्यनरगर्गा अभवन्मन्युपुत्राः ॥ २१ ॥
मूलम्
वितथस्यापि मन्युः पुत्रोऽभवत् ॥ २० ॥ बृहत्क्षत्रमहावीर्यनरगर्गा अभवन्मन्युपुत्राः ॥ २१ ॥
अनुवाद (हिन्दी)
वितथका पुत्र मन्यु हुआ और मन्युके बृहत्क्षत्र, महावीर्य, नर और गर्ग आदि कई पुत्र हुए ॥ २०-२१ ॥
विश्वास-प्रस्तुतिः
नरस्य सङ्कृतिस्सङ्कृतेर्गुरुप्रीतिरन्तिदेवौ ॥ २२ ॥
मूलम्
नरस्य सङ्कृतिस्सङ्कृतेर्गुरुप्रीतिरन्तिदेवौ ॥ २२ ॥
अनुवाद (हिन्दी)
नरका पुत्र संकृति और संकृतिके गुरुप्रीति एवं रन्तिदेव नामक दो पुत्र हुए ॥ २२ ॥
विश्वास-प्रस्तुतिः
गर्गाच्छिनिः, ततश्च गार्ग्याश्शैन्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ २३ ॥
मूलम्
गर्गाच्छिनिः, ततश्च गार्ग्याश्शैन्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ २३ ॥
अनुवाद (हिन्दी)
गर्गसे शिनिका जन्म हुआ जिससे कि गार्ग्य और शैन्य नामसे विख्यात क्षत्रोपेत ब्राह्मण उत्पन्न हुए ॥ २३ ॥
विश्वास-प्रस्तुतिः
महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् ॥ २४ ॥
मूलम्
महावीर्याच्च दुरुक्षयो नाम पुत्रोऽभवत् ॥ २४ ॥
अनुवाद (हिन्दी)
महावीर्यका पुत्र दुरुक्षय हुआ ॥ २४ ॥
विश्वास-प्रस्तुतिः
तस्य त्रय्यारुणिः पुष्करिण्यो कपिश्च पुत्रत्रयमभूत् ॥ २५ ॥
मूलम्
तस्य त्रय्यारुणिः पुष्करिण्यो कपिश्च पुत्रत्रयमभूत् ॥ २५ ॥
अनुवाद (हिन्दी)
उसके त्रय्यारुणि, पुष्करिण्य और कपि नामक तीन पुत्र हुए ॥ २५ ॥
विश्वास-प्रस्तुतिः
तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम ॥ २६ ॥
मूलम्
तच्च पुत्रत्रितयमपि पश्चाद्विप्रतामुपजगाम ॥ २६ ॥
अनुवाद (हिन्दी)
ये तीनों पुत्र पीछे ब्राह्मण हो गये थे ॥ २६ ॥
विश्वास-प्रस्तुतिः
बृहत्क्षत्रस्य सुहोत्रः ॥ २७ ॥ सुहोत्राद्धस्ती य इदं हस्तिनापुरमावासयामास ॥ २८ ॥
मूलम्
बृहत्क्षत्रस्य सुहोत्रः ॥ २७ ॥ सुहोत्राद्धस्ती य इदं हस्तिनापुरमावासयामास ॥ २८ ॥
अनुवाद (हिन्दी)
बृहत्क्षत्रका पुत्र सुहोत्र, सुहोत्रका पुत्र हस्ती था जिसने यह हस्तिनापुर नामक नगर बसाया था ॥ २७-२८ ॥
अजमीढद्विजमीढपुरुमीढास्त्रयो हस्तिनस्तनयाः ॥ २९ ॥ अजमीढात्कण्वः ॥ ३० ॥ कण्वान्मेधातिथिः ॥ ३१ ॥ यतः काण्वायना द्विजाः ॥ ३२ ॥
हस्तीके तीन पुत्र अजमीढ, द्विजमीढ और पुरुमीढ थे । अजमीढके कण्व और कण्वके मेधातिथि नामक पुत्र हुआ जिससे कि काण्वायन ब्राह्मण उत्पन्न हुए ॥ २९—३२ ॥
अजमीढस्यान्यः पुत्रो बृहदिषुः ॥ ३३ ॥
अजमीढका दूसरा पुत्र बृहदिषु था ॥ ३३ ॥
बृहदिषोर्बृहद्धनुर्बृहद्धनुषश्च बृहत्कर्मा ततश्च जयद्रथस्तस्मादपि विश्वजित् ॥ ३४ ॥ ततश्च सेनजित् ॥ ३५ ॥ रुचिराश्वकाश्यदृढहनुवत्सहनुसंज्ञास्सेनजितः पुत्राः ॥ ३६ ॥
बृहदिषुके बृहद्धनु, बृहद्धनुके बृहत्कर्मा, बृहत्कर्माके जयद्रथ, जयद्रथके विश्वजित् तथा विश्वजित् के सेनजित् का जन्म हुआ । सेनजित् के रुचिराश्व, काश्य, दृढहनु और वत्सहनु नामक चार पुत्र हुए ॥ ३४—३६ ॥
विश्वास-प्रस्तुतिः
रुचिराश्वपुत्रः पृथुसेनः पुथुसेनात्पारः ॥ ३७ ॥ पारान्नीलः ॥ ३८ ॥ तस्यैकशतं पुत्राणाम् ॥ ३९ ॥ तेषां प्रधानः काम्पिल्याधिपतिस्समरः ॥ ४० ॥
मूलम्
रुचिराश्वपुत्रः पृथुसेनः पुथुसेनात्पारः ॥ ३७ ॥ पारान्नीलः ॥ ३८ ॥ तस्यैकशतं पुत्राणाम् ॥ ३९ ॥ तेषां प्रधानः काम्पिल्याधिपतिस्समरः ॥ ४० ॥
अनुवाद (हिन्दी)
रुचिराश्वके पृथुसेन, पृथुसेनके पार और पारके नीलका जन्म हुआ । इस नीलके सौ पुत्र थे, जिनमें काम्पिल्यनरेश समर प्रधान था ॥ ३७—४० ॥
समरस्यापि पारसुपारसदश्वास्त्रयः पुत्राः ॥ ४१ ॥
समरके पार, सुपार और सदश्व नामक तीन पुत्र थे ॥ ४१ ॥
विश्वास-प्रस्तुतिः
सुपारात्पृथुः पृथोस्सुकृतिस्ततो विभ्राजः ॥ ४२ ॥ तस्माच्चाणुहः ॥ ४३ ॥ यश्शुकदुहितरं कीर्तिं नामोपयेमे ॥ ४४ ॥
मूलम्
सुपारात्पृथुः पृथोस्सुकृतिस्ततो विभ्राजः ॥ ४२ ॥ तस्माच्चाणुहः ॥ ४३ ॥ यश्शुकदुहितरं कीर्तिं नामोपयेमे ॥ ४४ ॥
अनुवाद (हिन्दी)
सुपारके पृथु, पृथुके सुकृति, सुकृतिके विभ्राज और विभ्राजके अणुह नामक पुत्र हुआ, जिसने शुककन्या कीर्तिसे विवाह किया था ॥ ४२—४४ ॥
अणुहाद्ब्रह्मदत्तः ॥ ४५ ॥ ततश्च विष्वक्सेनस्तस्मादुदक्सेनः ॥ ४६ ॥ भल्लाभस्तस्य चात्मजः ॥ ४७ ॥
अणुहसे ब्रह्मदत्तका जन्म हुआ । ब्रह्मदत्तसे विष्वक्सेन, विष्वक्सेनसे उदक्सेन तथा उदक्सेनसे भल्लाभ नामक पुत्र उत्पन्न हुआ ॥ ४५—४७ ॥
विश्वास-प्रस्तुतिः
द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ॥ ४८ ॥
मूलम्
द्विजमीढस्य तु यवीनरसंज्ञः पुत्रः ॥ ४८ ॥
अनुवाद (हिन्दी)
द्विजमीढका पुत्र यवीनर था ॥ ४८ ॥
विश्वास-प्रस्तुतिः
तस्यापि धृतिमांस्तस्माच्च सत्यधृतिस्ततश्च दृढनेमिस्तस्माच्च सुपार्श्वस्ततस्सुमतिस्ततश्च सन्नतिमान् ॥ ४९ ॥ सन्नतिमतः कृतः पुत्रोऽभूत् ॥ ५० ॥ यं हिरण्यनाभो योगमध्यापयामास ॥ ५१ ॥ यश्चतुर्विंशतिं प्राच्यसामगानां संहिताश्चकार ॥ ५२ ॥

उसका धृतिमान्, धृतिमान्का सत्यधृति, सत्यधृतिका दृढनेमि, दृढनेमिका सुपार्श्व, सुपार्श्वका सुमति, सुमतिका सन्नतिमान् तथा सन्नतिमान्का पुत्र कृत हुआ जिसे हिरण्यनाभने योगविद्याकी शिक्षा दी थी तथा जिसने प्राच्य सामग श्रुतियोंकी चौबीस संहिताएँ रची थीं ॥ ४९—५२ ॥
विश्वास-प्रस्तुतिः
कृताच्चोग्रायुधः ॥ ५३ ॥ येन प्राचुर्येण नीपक्षयः कृतः ॥ ५४ ॥
मूलम्
कृताच्चोग्रायुधः ॥ ५३ ॥ येन प्राचुर्येण नीपक्षयः कृतः ॥ ५४ ॥
अनुवाद (हिन्दी)
कृतका पुत्र उग्रायुध था जिसने अनेकों नीपवंशीय क्षत्रियोंका नाश किया ॥ ५३-५४ ॥
विश्वास-प्रस्तुतिः
उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्मादरिपुञ्जयस्तस्माच्च बहुरथ इत्येते पौरवाः ॥ ५५ ॥
मूलम्
उग्रायुधात्क्षेम्यः क्षेम्यात्सुधीरस्तस्मादरिपुञ्जयस्तस्माच्च बहुरथ इत्येते पौरवाः ॥ ५५ ॥
अनुवाद (हिन्दी)
उग्रायुधके क्षेम्य, क्षेम्यके सुधीर, सुधीरके रिपुंजय और रिपुंजयसे बहुरथने जन्म लिया । ये सब पुरुवंशीय राजागण हुए ॥ ५५ ॥
विश्वास-प्रस्तुतिः
अजमीढस्य नलिनी नाम पत्नी तस्या नीलसंज्ञः पुत्रोऽभवत् ॥ ५६ ॥
मूलम्
अजमीढस्य नलिनी नाम पत्नी तस्या नीलसंज्ञः पुत्रोऽभवत् ॥ ५६ ॥
अनुवाद (हिन्दी)
अजमीढकी नलिनीनाम्नी एक भार्या थी । उसके नील नामक एक पुत्र हुआ ॥ ५६ ॥
विश्वास-प्रस्तुतिः
तस्मादपि शान्तिः शान्तेस्सुशान्तिस्सुशान्तेः पुरञ्जयस्तस्माच्च ऋक्षः ॥ ५७ ॥ ततश्च हर्यश्वः ॥ ५८ ॥
मूलम्
तस्मादपि शान्तिः शान्तेस्सुशान्तिस्सुशान्तेः पुरञ्जयस्तस्माच्च ऋक्षः ॥ ५७ ॥ ततश्च हर्यश्वः ॥ ५८ ॥
अनुवाद (हिन्दी)
नीलके शान्ति, शान्तिके सुशान्ति, सुशान्तिके पुरंजय, पुरंजयके ऋक्ष और ऋक्षके हर्यश्व नामक पुत्र हुआ ॥ ५७-५८ ॥
विश्वास-प्रस्तुतिः
तस्मान्मुद्गलसृञ्जयबृहदिषुयवीनरकाम्पिल्यसंज्ञाः पञ्चानामेव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः ॥ ५९ ॥
मूलम्
तस्मान्मुद्गलसृञ्जयबृहदिषुयवीनरकाम्पिल्यसंज्ञाः पञ्चानामेव तेषां विषयाणां रक्षणायालमेते मत्पुत्रा इति पित्राभिहिताः पाञ्चालाः ॥ ५९ ॥
अनुवाद (हिन्दी)
हर्यश्वके मुद्गल, सृंजय, बृहदिषु, यवीनर और काम्पिल्य नामक पाँच पुत्र हुए । पिताने कहा था कि मेरे ये पुत्र मेरे आश्रित पाँचों देशोंकी रक्षा करनेमें समर्थ हैं, इसलिये वे पांचाल कहलाये ॥ ५९ ॥
विश्वास-प्रस्तुतिः
मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ ६० ॥
मूलम्
मुद्गलाच्च मौद्गल्याः क्षत्रोपेता द्विजातयो बभूवुः ॥ ६० ॥
अनुवाद (हिन्दी)
मुद्गलसे मौद्गल्य नामक क्षत्रोपेत ब्राह्मणोंकी उत्पत्ति हुई ॥ ६० ॥
विश्वास-प्रस्तुतिः
मुद्गलाद्बृहदश्वः ॥ ६१ ॥ बृहदश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ॥ ६२ ॥
मूलम्
मुद्गलाद्बृहदश्वः ॥ ६१ ॥ बृहदश्वाद्दिवोदासोऽहल्या च मिथुनमभूत् ॥ ६२ ॥
अनुवाद (हिन्दी)
मुद्गलसे बृहदश्व और बृहदश्वसे दिवोदास नामक पुत्र एवं अहल्या नामकी एक कन्याका जन्म हुआ ॥ ६१-६२ ॥
विश्वास-प्रस्तुतिः
शरद्वतश्चाहल्यायां शतानन्दोऽभवत् ॥ ६३ ॥
मूलम्
शरद्वतश्चाहल्यायां शतानन्दोऽभवत् ॥ ६३ ॥
अनुवाद (हिन्दी)
अहल्यासे महर्षि गौतमके द्वारा शतानन्दका जन्म हुआ ॥ ६३ ॥
विश्वास-प्रस्तुतिः
शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ ६४ ॥
मूलम्
शतानन्दात्सत्यधृतिर्धनुर्वेदान्तगो जज्ञे ॥ ६४ ॥
अनुवाद (हिन्दी)
शतानन्दसे धनुर्वेदका पारदर्शी सत्यधृति उत्पन्न हुआ ॥ ६४ ॥
विश्वास-प्रस्तुतिः
सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तम्बे पपात ॥ ६५ ॥
मूलम्
सत्यधृतेर्वराप्सरसमुर्वशीं दृष्ट्वा रेतस्कन्नं शरस्तम्बे पपात ॥ ६५ ॥
अनुवाद (हिन्दी)
एक बार अप्सराओंमें श्रेष्ठ उर्वशीको देखनेसे सत्यधृतिका वीर्य स्खलित होकर शरस्तम्ब (सरकण्डे)-पर पड़ा ॥ ६५ ॥
विश्वास-प्रस्तुतिः
तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ ६६ ॥
मूलम्
तच्च द्विधागतमपत्यद्वयं कुमारः कन्या चाभवत् ॥ ६६ ॥
अनुवाद (हिन्दी)
उससे दो भागोंमें बँट जानेके कारण पुत्र और पुत्रीरूप दो सन्तानें उत्पन्न हुईं ॥ ६६ ॥
विश्वास-प्रस्तुतिः
तौ च मृगयामुपयातश्शान्तनुर्दृष्ट्वा कृपया जग्राह ॥ ६७ ॥
मूलम्
तौ च मृगयामुपयातश्शान्तनुर्दृष्ट्वा कृपया जग्राह ॥ ६७ ॥
अनुवाद (हिन्दी)
उन्हें मृगयाके लिये गये हुए राजा शान्तनु कृपावश ले आये ॥ ६७ ॥
विश्वास-प्रस्तुतिः
ततः कुमारः कृपः कन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्यभवत् ॥ ६८ ॥
मूलम्
ततः कुमारः कृपः कन्या चाश्वत्थाम्नो जननी कृपी द्रोणाचार्यस्य पत्न्यभवत् ॥ ६८ ॥
अनुवाद (हिन्दी)
तदनन्तर पुत्रका नाम कृप हुआ और कन्या अश्वत्थामाकी माता द्रोणाचार्यकी पत्नी कृपी हुई ॥ ६८ ॥
विश्वास-प्रस्तुतिः
दिवोदासस्य पुत्रो मित्रायुः ॥ ६९ ॥
मूलम्
दिवोदासस्य पुत्रो मित्रायुः ॥ ६९ ॥
अनुवाद (हिन्दी)
दिवोदासका पुत्र मित्रायु हुआ ॥ ६९ ॥
मित्रायोश्च्यवनो नाम राजा ॥ ७० ॥ च्यवनात्सुदासः सुदासात्सौदासः सौदासात्सहदेवस्तस्यापि सोमकः ॥ ७१ ॥ सोमकाज्जन्तुः पुत्रशतज्येष्ठोऽभवत् ॥ ७२ ॥ तेषां यवीयान् पृषतः पृषताद् द्रुपदस्तस्माच्च धृष्टद्युम्नस्ततो धृष्टकेतुः ॥ ७३ ॥
मित्रायुका पुत्र च्यवन नामक राजा हुआ, च्यवनका सुदास, सुदासका सौदास, सौदासका सहदेव, सहदेवका सोमक और सोमकके सौ पुत्र हुए जिनमें जन्तु सबसे बड़ा और पृषत सबसे छोटा था । पृषतका पुत्र द्रुपद, द्रुपदका धृष्टद्युम्न और धृष्टद्युम्नका पुत्र धृष्टकेतु था ॥ ७०—७३ ॥
विश्वास-प्रस्तुतिः
अजमीढस्यान्य ऋक्षनामा पुत्रोऽभवत् ॥ ७४ ॥
मूलम्
अजमीढस्यान्य ऋक्षनामा पुत्रोऽभवत् ॥ ७४ ॥
अनुवाद (हिन्दी)
अजमीढका ऋक्ष नामक एक पुत्र और था ॥ ७४ ॥
विश्वास-प्रस्तुतिः
तस्य संवरणः ॥ ७५ ॥ संवरणात्कुरुः ॥ ७६ ॥ य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ ७७ ॥
मूलम्
तस्य संवरणः ॥ ७५ ॥ संवरणात्कुरुः ॥ ७६ ॥ य इदं धर्मक्षेत्रं कुरुक्षेत्रं चकार ॥ ७७ ॥
अनुवाद (हिन्दी)
उसका पुत्र संवरण हुआ तथा संवरणका पुत्र कुरु था जिसने कि धर्मक्षेत्र कुरुक्षेत्रकी स्थापना की ॥ ७५—७७ ॥
विश्वास-प्रस्तुतिः
सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्रा बभूवुः ॥ ७८ ॥
मूलम्
सुधनुर्जह्नुपरीक्षित्प्रमुखाः कुरोः पुत्रा बभूवुः ॥ ७८ ॥
अनुवाद (हिन्दी)
कुरुके पुत्र सुधनु, जह्नु और परीक्षित् आदि हुए ॥ ७८ ॥
सुधनुषः पुत्रस्सुहोत्रस्तस्माच्च्यवनश्च्यवनात् कृतकः ॥ ७९ ॥ ततश्चोपरिचरो वसुः ॥ ८० ॥
सुधनुका पुत्र सुहोत्र था, सुहोत्रका च्यवन, च्यवनका कृतक और कृतकका पुत्र उपरिचर वसु हुआ ॥ ७९-८० ॥
विश्वास-प्रस्तुतिः
बृहद्रथप्रत्यग्रकुशाम्बुकुचेलमात्स्यप्रमुखा वसोः पुत्रास्सप्ताजायन्त ॥ ८१ ॥
मूलम्
बृहद्रथप्रत्यग्रकुशाम्बुकुचेलमात्स्यप्रमुखा वसोः पुत्रास्सप्ताजायन्त ॥ ८१ ॥
अनुवाद (हिन्दी)
वसुके बृहद्रथ, प्रत्यग्र, कुशाम्बु, कुचेल और मात्स्य आदि सात पुत्र थे ॥ ८१ ॥
विश्वास-प्रस्तुतिः
बृहद्रथात्कुशाग्रः कुशाग्राद्वृषभो वृषभात् पुष्पवान् तस्मात्सत्यहितस्तस्मात्सुधन्वा तस्य च जतुः ॥ ८२ ॥
मूलम्
बृहद्रथात्कुशाग्रः कुशाग्राद्वृषभो वृषभात् पुष्पवान् तस्मात्सत्यहितस्तस्मात्सुधन्वा तस्य च जतुः ॥ ८२ ॥
अनुवाद (हिन्दी)
इनमेंसे बृहद्रथके कुशाग्र, कुशाग्रके वृषभ, वृषभके पुष्पवान्, पुष्पवान्के सत्यहित, सत्यहितके सुधन्वा और सुधन्वाके जतुका जन्म हुआ ॥ ८२ ॥
विश्वास-प्रस्तुतिः
बृहद्रथाच्चान्यश्शकलद्वयजन्मा जरया संहितो जरासन्धनामा ॥ ८३ ॥
मूलम्
बृहद्रथाच्चान्यश्शकलद्वयजन्मा जरया संहितो जरासन्धनामा ॥ ८३ ॥
अनुवाद (हिन्दी)
बृहद्रथके दो खण्डोंमें विभक्त एक पुत्र और हुआ था जो कि जराके द्वारा जोड़ दिये जानेपर जरासन्ध कहलाया ॥ ८३ ॥
विश्वास-प्रस्तुतिः
तस्मात्सहदेवस्सहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ॥ ८४ ॥
मूलम्
तस्मात्सहदेवस्सहदेवात्सोमपस्ततश्च श्रुतिश्रवाः ॥ ८४ ॥
अनुवाद (हिन्दी)
उससे सहदेवका जन्म हुआ तथा सहदेवसे सोमप और सोमपसे श्रुतिश्रवाकी उत्पत्ति हुई ॥ ८४ ॥
विश्वास-प्रस्तुतिः
इत्येते मया मागधा भूपालाः कथिताः ॥ ८५ ॥
मूलम्
इत्येते मया मागधा भूपालाः कथिताः ॥ ८५ ॥
अनुवाद (हिन्दी)
इस प्रकार मैंने तुमसे यह मागध भूपालोंका वर्णन कर दिया है ॥ ८५ ॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे चतुर्थेंऽशे एकोनविंशोऽध्यायः ॥ १९ ॥