[ग्यारहवाँ अध्याय]
विषय
यदुवंशका वर्णन और सहस्रार्जुनका चरित्र
मूलम् (वचनम्)
श्रीपराशर उवाच
अनुवाद (हिन्दी)
अतः परं ययातेः प्रथमपुत्रस्य यदोर्वंशमहं कथयामि ॥ १ ॥ यत्राशेषलोकनिवासो मनुष्यसिद्धगन्धर्वयक्षराक्षसगुह्यककिंपुरुषाप्सरउरगविहगदैत्यदानवादित्यरुद्रवस्वश्विमरुद्देवर्षिभि-र्मुमुक्षुभिर्धर्मार्थकाममोक्षार्थिभिश्च तत्तत्फललाभाय सदाभिष्टुतोऽपरिच्छेद्यमाहात्म्यांशेन भगवाननादिनिधनो विष्णुरवततार ॥ २ ॥ अत्र श्लोकः ॥ ३ ॥
श्रीपराशरजी बोले—अब मैं ययातिके प्रथम पुत्र यदुके वंशका वर्णन करता हूँ, जिसमें कि मनुष्य, सिद्ध, गन्धर्व, यक्ष, राक्षस, गुह्यक, किंपुरुष, अप्सरा, सर्प, पक्षी, दैत्य, दानव, आदित्य, रुद्र, वसु, अश्विनीकुमार, मरुद्गण, देवर्षि, मुमुक्षु तथा धर्म, अर्थ, काम और मोक्षके अभिलाषी पुरुषोंद्वारा सर्वदा स्तुति किये जानेवाले, अखिललोक-विश्राम आद्यन्तहीन भगवान् विष्णुने अपने अपरिमित महत्त्वशाली अंशसे अवतार लिया था । इस विषयमें यह श्लोक प्रसिद्ध है— ॥ १—३ ॥
विश्वास-प्रस्तुतिः
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म निराकृति ॥ ४ ॥
मूलम्
यदोर्वंशं नरः श्रुत्वा सर्वपापैः प्रमुच्यते ।
यत्रावतीर्णं कृष्णाख्यं परं ब्रह्म निराकृति ॥ ४ ॥
अनुवाद (हिन्दी)
‘जिसमें श्रीकृष्ण नामक निराकार परब्रह्मने अवतार लिया था, उस यदुवंशका श्रवण करनेसे मनुष्य सम्पूर्ण पापोंसे मुक्त हो जाता है’ ॥ ४ ॥
विश्वास-प्रस्तुतिः
सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चत्वारो यदुपुत्रा बभूवुः ॥ ५ ॥ सहस्रजित्पुत्रश्शतजित् ॥ ६ ॥ तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ ७ ॥
मूलम्
सहस्रजित्क्रोष्टुनलनहुषसंज्ञाश्चत्वारो यदुपुत्रा बभूवुः ॥ ५ ॥ सहस्रजित्पुत्रश्शतजित् ॥ ६ ॥ तस्य हैहयहेहयवेणुहयास्त्रयः पुत्रा बभूवुः ॥ ७ ॥
अनुवाद (हिन्दी)
यदुके सहस्रजित् , क्रोष्टु, नल और नहुष नामक चार पुत्र हुए । सहस्रजित् के शतजित् और शतजित् के हैहय, हेहय तथा वेणुहय नामक तीन पुत्र हुए ॥ ५—७ ॥
विश्वास-प्रस्तुतिः
हैहयपुत्रो धर्मस्तस्यापि धर्मनेत्रस्ततः कुन्तिः कुन्तेः सहजित् ॥ ८ ॥ तत्तनयो महिष्मान् योऽसौ माहिष्मतीं पुरीं निवासयामास ॥ ९ ॥
मूलम्
हैहयपुत्रो धर्मस्तस्यापि धर्मनेत्रस्ततः कुन्तिः कुन्तेः सहजित् ॥ ८ ॥ तत्तनयो महिष्मान् योऽसौ माहिष्मतीं पुरीं निवासयामास ॥ ९ ॥
अनुवाद (हिन्दी)
हैहयका पुत्र धर्म, धर्मका धर्मनेत्र, धर्मनेत्रका कुन्ति, कुन्तिका सहजित् तथा सहजित् का पुत्र महिष्मान् हुआ, जिसने माहिष्मतीपुरीको बसाया ॥ ८-९ ॥
विश्वास-प्रस्तुतिः
तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनको धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ १० ॥
मूलम्
तस्माद्भद्रश्रेण्यस्ततो दुर्दमस्तस्माद्धनको धनकस्य कृतवीर्यकृताग्निकृतधर्मकृतौजसश्चत्वारः पुत्रा बभूवुः ॥ १० ॥
अनुवाद (हिन्दी)
महिष्मान्के भद्रश्रेण्य, भद्रश्रेण्यके दुर्दम, दुर्दमके धनक तथा धनकके कृतवीर्य, कृताग्नि, कृतधर्म और कृतौजा नामक चार पुत्र हुए ॥ १० ॥
विश्वास-प्रस्तुतिः
कृतवीर्यादर्जुनस्सप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ ११ ॥
मूलम्
कृतवीर्यादर्जुनस्सप्तद्वीपाधिपतिर्बाहुसहस्रो जज्ञे ॥ ११ ॥
अनुवाद (हिन्दी)
कृतवीर्यके सहस्र भुजाओंवाले सप्तद्वीपाधिपति अर्जुनका जन्म हुआ ॥ ११ ॥
विश्वास-प्रस्तुतिः
योऽसौ भगवदंशमत्रिकुलप्रसूतं दत्तात्रेयाख्यमाराध्य बाहुसहस्रमधर्मसेवानिवारणं स्वधर्मसेवित्वं रणे पृथिवीजयं धर्मतश्चानुपालनमरातिभ्योऽपराजयमखिलजगत्प्रख्यातपुरुषाच्च मृत्युमित्येतान्वरानभिलषितवाल्ँलेभे च ॥ १२ ॥

सहस्रार्जुनने अत्रिकुलमें उत्पन्न भगवदंशरूप श्रीदत्तात्रेयजीकी उपासना कर ‘सहस्र भुजाएँ, अधर्माचरणका निवारण, स्वधर्मका सेवन, युद्धके द्वारा सम्पूर्ण पृथिवीमण्डलका विजय, धर्मानुसार प्रजा-पालन, शत्रुओंसे अपराजय तथा त्रिलोकप्रसिद्ध पुरुषसे मृत्यु’—ऐसे कई वर माँगे और प्राप्त किये थे ॥ १२ ॥
विश्वास-प्रस्तुतिः
तेनेयमशेषद्वीपवती पृथिवी सम्यक्परिपालिता ॥ १३ ॥ दशयज्ञसहस्राण्यसावयजत् ॥ १४ ॥
मूलम्
तेनेयमशेषद्वीपवती पृथिवी सम्यक्परिपालिता ॥ १३ ॥ दशयज्ञसहस्राण्यसावयजत् ॥ १४ ॥
अनुवाद (हिन्दी)
अर्जुनने इस सम्पूर्ण सप्तद्वीपवती पृथिवीका पालन तथा दस हजार यज्ञोंका अनुष्ठान किया था ॥ १३-१४ ॥
विश्वास-प्रस्तुतिः
तस्य च श्लोकोऽद्यापि गीयते ॥ १५ ॥
मूलम्
तस्य च श्लोकोऽद्यापि गीयते ॥ १५ ॥
अनुवाद (हिन्दी)
उसके विषयमें यह श्लोक आजतक कहा जाता है— ॥ १५ ॥
विश्वास-प्रस्तुतिः
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥ १६ ॥
मूलम्
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञैर्दानैस्तपोभिर्वा प्रश्रयेण श्रुतेन च ॥ १६ ॥
अनुवाद (हिन्दी)
‘यज्ञ, दान, तप, विनय और विद्यामें कार्तवीर्य— सहस्रार्जुनकी समता कोई भी राजा नहीं कर सकता’ ॥ १६ ॥
विश्वास-प्रस्तुतिः
अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ १७ ॥
मूलम्
अनष्टद्रव्यता च तस्य राज्येऽभवत् ॥ १७ ॥
अनुवाद (हिन्दी)
उसके राज्यमें कोई भी पदार्थ नष्ट नहीं होता था ॥ १७ ॥
विश्वास-प्रस्तुतिः
एवं च पञ्चाशीतिवर्षसहस्राण्यव्याहतारोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ १८ ॥
मूलम्
एवं च पञ्चाशीतिवर्षसहस्राण्यव्याहतारोग्यश्रीबलपराक्रमो राज्यमकरोत् ॥ १८ ॥
अनुवाद (हिन्दी)
इस प्रकार उसने बल, पराक्रम, आरोग्य और सम्पत्तिको सर्वथा सुरक्षित रखते हुए पचासी हजार वर्ष राज्य किया ॥ १८ ॥
विश्वास-प्रस्तुतिः
माहिष्मत्यां दिग्विजयाभ्यागतो नर्मदाजलावगाहनक्रीडातिपानमदाकुलेनायत्नेनैव तेनाशेषदेवदैत्यगन्धर्वेशजयोद्भूतमदावलेपोऽपि रावणः पशुरिव बद्ध्वा स्वनगरैकान्ते स्थापितः ॥ १९ ॥
मूलम्
माहिष्मत्यां दिग्विजयाभ्यागतो नर्मदाजलावगाहनक्रीडातिपानमदाकुलेनायत्नेनैव तेनाशेषदेवदैत्यगन्धर्वेशजयोद्भूतमदावलेपोऽपि रावणः पशुरिव बद्ध्वा स्वनगरैकान्ते स्थापितः ॥ १९ ॥
अनुवाद (हिन्दी)
एक दिन जब वह अतिशय मद्य-पानसे व्याकुल हुआ नर्मदा नदीमें जल-क्रीडा कर रहा था, उसकी राजधानी माहिष्मतीपुरीपर दिग्विजयके लिये आये हुए सम्पूर्ण देव, दानव, गन्धर्व और राजाओंके विजयमदसे उन्मत्त रावणने आक्रमण किया, उस समय उसने अनायास ही रावणको पशुके समान बाँधकर अपने नगरके एक निर्जन स्थानमें रख दिया ॥ १९ ॥
विश्वास-प्रस्तुतिः
यश्च पञ्चाशीतिवर्षसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ २० ॥
मूलम्
यश्च पञ्चाशीतिवर्षसहस्रोपलक्षणकालावसाने भगवन्नारायणांशेन परशुरामेणोपसंहृतः ॥ २० ॥
अनुवाद (हिन्दी)
इस सहस्रार्जुनका पचासी हजार वर्ष व्यतीत होनेपर भगवान् नारायणके अंशावतार परशुरामजीने वध किया था ॥ २० ॥
विश्वास-प्रस्तुतिः
तस्य च पुत्रशतप्रधानाःपञ्च पुत्रा बभूवुः शूरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ २१ ॥
मूलम्
तस्य च पुत्रशतप्रधानाःपञ्च पुत्रा बभूवुः शूरशूरसेनवृषसेनमधुजयध्वजसंज्ञाः ॥ २१ ॥
अनुवाद (हिन्दी)
इसके सौ पुत्रोंमेंसे शूर, शूरसेन, वृषसेन, मधु और जयध्वज—ये पाँच प्रधान थे ॥ २१ ॥
विश्वास-प्रस्तुतिः
जयध्वजात्तालजङ्घः पुत्रोऽभवत् ॥ २२ ॥ तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ २३ ॥ एषां ज्येष्ठो वीतिहोत्रस्तथान्यो भरतः ॥ २४ ॥
मूलम्
जयध्वजात्तालजङ्घः पुत्रोऽभवत् ॥ २२ ॥ तालजङ्घस्य तालजङ्घाख्यं पुत्रशतमासीत् ॥ २३ ॥ एषां ज्येष्ठो वीतिहोत्रस्तथान्यो भरतः ॥ २४ ॥
अनुवाद (हिन्दी)
जयध्वजका पुत्र तालजंघ हुआ और तालजंघके तालजंघ नामक सौ पुत्र हुए इनमें सबसे बड़ा वीतिहोत्र तथा दूसरा भरत था ॥ २२—२४ ॥
विश्वास-प्रस्तुतिः
भरताद्वृषः ॥ २५ ॥ वृषस्य पुत्रो मधुरभवत् ॥ २६ ॥ तस्यापि वृष्णिप्रमुखं पुत्रशतमासीत् ॥ २७ ॥
मूलम्
भरताद्वृषः ॥ २५ ॥ वृषस्य पुत्रो मधुरभवत् ॥ २६ ॥ तस्यापि वृष्णिप्रमुखं पुत्रशतमासीत् ॥ २७ ॥
अनुवाद (हिन्दी)
भरतके वृष, वृषके मधु और मधुके वृष्णि आदि सौ पुत्र हुए ॥ २५—२७ ॥
विश्वास-प्रस्तुतिः
यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ २८ ॥
मूलम्
यतो वृष्णिसंज्ञामेतद्गोत्रमवाप ॥ २८ ॥
अनुवाद (हिन्दी)
वृष्णिके कारण यह वंश वृष्णि कहलाया ॥ २८ ॥
विश्वास-प्रस्तुतिः
मधुसंज्ञाहेतुश्च मधुरभवत् ॥ २९ ॥
मूलम्
मधुसंज्ञाहेतुश्च मधुरभवत् ॥ २९ ॥
अनुवाद (हिन्दी)
मधुके कारण इसकी मधु-संज्ञा हुई ॥ २९ ॥
यादवाश्च यदुनामोपलक्षणादिति ॥ ३० ॥
और यदुके नामानुसार इस वंशके लोग यादव कहलाये ॥ ३० ॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे चतुर्थेंऽशे एकादशोऽध्यायः ॥ ११ ॥