[आठवाँ अध्याय]
विषय
काश्यवंशका वर्णन
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे ॥ १ ॥
मूलम्
पुरूरवसो ज्येष्ठः पुत्रो यस्त्वायुर्नामा स राहोर्दुहितरमुपयेमे ॥ १ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—आयु नामक जो पुरूरवाका ज्येष्ठ पुत्र था उसने राहुकी कन्यासे विवाह किया ॥ १ ॥
विश्वास-प्रस्तुतिः
तस्यां च पञ्च पुत्रानुत्पादयामास ॥ २ ॥ नहुषक्षत्रवृद्धरम्भरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रोऽभूत् ॥ ३ ॥
मूलम्
तस्यां च पञ्च पुत्रानुत्पादयामास ॥ २ ॥ नहुषक्षत्रवृद्धरम्भरजिसंज्ञास्तथैवानेनाः पञ्चमः पुत्रोऽभूत् ॥ ३ ॥
अनुवाद (हिन्दी)
उससे उसके पाँच पुत्र हुए जिनके नाम क्रमशः नहुष, क्षत्रवृद्ध, रम्भ, रजि और अनेना थे ॥ २-३ ॥
विश्वास-प्रस्तुतिः
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत् ॥ ४ ॥ काश्यकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ॥ ५ ॥ गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्तयिताभूत् ॥ ६ ॥
मूलम्
क्षत्रवृद्धात्सुहोत्रः पुत्रोऽभवत् ॥ ४ ॥ काश्यकाशगृत्समदास्त्रयस्तस्य पुत्रा बभूवुः ॥ ५ ॥ गृत्समदस्य शौनकश्चातुर्वर्ण्यप्रवर्तयिताभूत् ॥ ६ ॥
अनुवाद (हिन्दी)
क्षत्रवृद्धके सुहोत्र नामक पुत्र हुआ और सुहोत्रके काश्य, काश तथा गृत्समद नामक तीन पुत्र हुए । गृत्समदका पुत्र शौनक चातुर्वर्ण्यका प्रवर्तक हुआ ॥ ४—६ ॥
विश्वास-प्रस्तुतिः
काश्यस्य काशेयः काशिराजः तस्माद्राष्ट्रः, राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ॥ ७ ॥ धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत् ॥ ८ ॥
मूलम्
काश्यस्य काशेयः काशिराजः तस्माद्राष्ट्रः, राष्ट्रस्य दीर्घतपाः पुत्रोऽभवत् ॥ ७ ॥ धन्वन्तरिस्तु दीर्घतपसः पुत्रोऽभवत् ॥ ८ ॥
अनुवाद (हिन्दी)
काश्यका पुत्र काशिराज काशेय हुआ । उसके राष्ट्र, राष्ट्रके दीर्घतपा और दीर्घतपाके धन्वन्तरि नामक पुत्र हुआ ॥ ७-८ ॥
स हि संसिद्धकार्यकरणस्सकलसम्भूतिष्वशेषज्ञानविद् भगवता नारायणेन चातीतसम्भूतौ तस्मै वरो दत्तः ॥ ९ ॥ काशिराजगोत्रेऽवतीर्य त्वमष्टधा सम्यगायुर्वेदं करिष्यसि यज्ञभागभुग्भविष्यसीति ॥ १० ॥
इस धन्वन्तरिके शरीर और इन्द्रियाँ जरा आदि विकारोंसे रहित थीं—तथा सभी जन्मोंमें यह सम्पूर्ण शास्त्रोंका जाननेवाला था । पूर्वजन्ममें भगवान् नारायणने उसे यह वर दिया था कि ‘काशिराजके वंशमें उत्पन्न होकर तुम सम्पूर्ण आयुर्वेदको आठ भागोंमें विभक्त करोगे और यज्ञ-भागके भोक्ता होगे’ ॥ ९-१० ॥
विश्वास-प्रस्तुतिः
तस्य च धन्वन्तरेः पुत्रः केतुमान् केतुमतो भीमरथस्तस्यापि दिवोदासस्तस्यापि प्रतर्दनः ॥ ११ ॥
मूलम्
तस्य च धन्वन्तरेः पुत्रः केतुमान् केतुमतो भीमरथस्तस्यापि दिवोदासस्तस्यापि प्रतर्दनः ॥ ११ ॥
अनुवाद (हिन्दी)
धन्वन्तरिका पुत्र केतुमान्, केतुमान्का भीमरथ, भीमरथका दिवोदास तथा दिवोदासका पुत्र प्रतर्दन हुआ ॥ ११ ॥
विश्वास-प्रस्तुतिः
स च मद्रश्रेण्यवंशविनाशनादशेषशत्रवोऽनेन जिता इति शत्रुजिदभवत् ॥ १२ ॥
मूलम्
स च मद्रश्रेण्यवंशविनाशनादशेषशत्रवोऽनेन जिता इति शत्रुजिदभवत् ॥ १२ ॥
अनुवाद (हिन्दी)
उसने मद्रश्रेण्यवंशका नाश करके समस्त शत्रुओंपर विजय प्राप्त की थी, इसलिये उसका नाम ‘शत्रुजित्’ हुआ ॥ १२ ॥
विश्वास-प्रस्तुतिः
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत् ॥ १३ ॥
मूलम्
तेन च प्रीतिमतात्मपुत्रो वत्सवत्सेत्यभिहितो वत्सोऽभवत् ॥ १३ ॥
अनुवाद (हिन्दी)
दिवोदासने अपने इस पुत्र (प्रतर्दन)-से अत्यन्त प्रेमवश ‘वत्स, वत्स’ कहा था, इसलिये इसका नाम ‘वत्स’ हुआ ॥ १३ ॥
विश्वास-प्रस्तुतिः
सत्यपरतया ऋतध्वजसंज्ञामवाप ॥ १४ ॥
मूलम्
सत्यपरतया ऋतध्वजसंज्ञामवाप ॥ १४ ॥
अनुवाद (हिन्दी)
अत्यन्त सत्यपरायण होनेके कारण इसका नाम ‘ऋतध्वज’ हुआ ॥ १४ ॥
विश्वास-प्रस्तुतिः
ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः ॥ १५ ॥
मूलम्
ततश्च कुवलयनामानमश्वं लेभे ततः कुवलयाश्व इत्यस्यां पृथिव्यां प्रथितः ॥ १५ ॥
अनुवाद (हिन्दी)
तदनन्तर इसने कुवलय नामक अपूर्व अश्व प्राप्त किया । इसलिये यह इस पृथिवीतलपर ‘कुवलयाश्व’ नामसे विख्यात हुआ ॥ १५ ॥
विश्वास-प्रस्तुतिः
तस्य च वत्सस्य पुत्रोऽलर्कनामाभवद् यस्यायमद्यापि श्लोको गीयते ॥ १६ ॥
मूलम्
तस्य च वत्सस्य पुत्रोऽलर्कनामाभवद् यस्यायमद्यापि श्लोको गीयते ॥ १६ ॥
अनुवाद (हिन्दी)
इस वत्सके अलर्क नामक पुत्र हुआ जिसके विषयमें यह श्लोक आजतक गाया जाता है— ॥ १६ ॥
विश्वास-प्रस्तुतिः
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा ॥ १७ ॥
मूलम्
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ।
अलर्कादपरो नान्यो बुभुजे मेदिनीं युवा ॥ १७ ॥
अनुवाद (हिन्दी)
‘पूर्वकालमें अलर्कके अतिरिक्त और किसीने भी छाछठ सहस्र वर्षतक युवावस्थामें रहकर पृथिवीका भोग नहीं किया’ ॥ १७ ॥
तस्याप्यलर्कस्य सन्नतिनामाभवदात्मजः ॥ १८ ॥ सन्नतेः सुनीथस्तस्यापि सुकेतुस्तस्माच्च धर्मकेतुर्जज्ञे ॥ १९ ॥ ततश्च सत्यकेतुस्तस्माद्विभुस्तत्तनयस्सुविभुस्ततश्च सुकुमारस्तस्यापि धृष्टकेतुस्ततश्च वीतिहोत्रस्तस्माद्भार्गो भार्गस्य भार्गभूमिस्ततश्चातुर्वर्ण्यप्रवृत्तिरित्येते काश्यभूभृतः कथिताः ॥ २० ॥ रजेस्तु सन्ततिः श्रूयताम् ॥ २१ ॥
उस अलर्कके भी सन्नति नामक पुत्र हुआ; सन्नतिके सुनीथ, सुनीथके सुकेतु, सुकेतुके धर्मकेतु, धर्मकेतुके सत्यकेतु, सत्यकेतुके विभु, विभुके सुविभु, सुविभुके सुकुमार, सुकुमारके धृष्टकेतु, धृष्टकेतुके वीतिहोत्र, वीतिहोत्रके भार्ग और भार्गके भार्गभूमि नामक पुत्र हुआ; भार्गभूमिसे चातुर्वर्ण्यका प्रचार हुआ । इस प्रकार काश्यवंशके राजाओंका वर्णन हो चुका अब रजिकी सन्तानका विवरण सुनो ॥ १८—२१ ॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे चतुर्थेंऽशे अष्टमोऽध्यायः ॥ ८ ॥