[सातवाँ अध्याय]
विषय
जह्नुका गंगापान तथा जमदग्नि और विश्वामित्रकी उत्पत्ति
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
तस्याप्यायुर्धीमानमावसुर्विश्वावसुः श्रुतायुश्शतायुरयुतायुरितिसंज्ञाः षट् पुत्रा अभवन् ॥ १ ॥
मूलम्
तस्याप्यायुर्धीमानमावसुर्विश्वावसुः श्रुतायुश्शतायुरयुतायुरितिसंज्ञाः षट् पुत्रा अभवन् ॥ १ ॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—राजा पुरूरवाके परम बुद्धिमान् आयु, अमावसु, विश्वावसु, श्रुतायु, शतायु और अयुतायु नामक छः पुत्र हुए ॥ १ ॥
विश्वास-प्रस्तुतिः
तथामावसोर्भीमनामा पुत्रोऽभवत् ॥ २ ॥ भीमस्य काञ्चनः काञ्चनात्सुहोत्रस्तस्यापि जह्नुः ॥ ३ ॥ योऽसौ यज्ञवाटमखिलं गङ्गाम्भसाप्लावितमवलोक्य क्रोधसंरक्तलोचनो भगवन्तं यज्ञपुरुषमात्मनि परमेण समाधिना समारोप्याखिलामेव गङ्गामपिबत् ॥ ४ ॥

अमावसुके भीम, भीमके कांचन, कांचनके सुहोत्र और सुहोत्रके जह्नु नामक पुत्र हुआ जिसने अपनी सम्पूर्ण यज्ञशालाको गंगाजलसे आप्लावित देख क्रोधसे रक्तनयन हो भगवान् यज्ञपुरुषको परम समाधिके द्वारा अपनेमें स्थापित कर सम्पूर्ण गंगाजीको पी लिया था ॥ २—४ ॥
विश्वास-प्रस्तुतिः
अथैनं देवर्षयः प्रसादयामासुः ॥ ५ ॥ दुहितृत्वे चास्य गङ्गामनयन् ॥ ६ ॥
मूलम्
अथैनं देवर्षयः प्रसादयामासुः ॥ ५ ॥ दुहितृत्वे चास्य गङ्गामनयन् ॥ ६ ॥
अनुवाद (हिन्दी)
तब देवर्षियोंने इन्हें प्रसन्न किया और गंगाजीको इनकी पुत्रीरूपसे पाकर ले गये ॥ ५-६ ॥
विश्वास-प्रस्तुतिः
जह्नोश्च सुमन्तुर्नाम पुत्रोऽभवत् ॥ ७ ॥
मूलम्
जह्नोश्च सुमन्तुर्नाम पुत्रोऽभवत् ॥ ७ ॥
अनुवाद (हिन्दी)
जह्नुके सुमन्तु नामक पुत्र हुआ ॥ ७ ॥
विश्वास-प्रस्तुतिः
तस्याप्यजकस्ततो बलाकाश्वस्तस्मात्कुशस्तस्यापि कुशाम्बकुशनाभाधूर्त्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥ ८ ॥
मूलम्
तस्याप्यजकस्ततो बलाकाश्वस्तस्मात्कुशस्तस्यापि कुशाम्बकुशनाभाधूर्त्तरजसो वसुश्चेति चत्वारः पुत्रा बभूवुः ॥ ८ ॥
अनुवाद (हिन्दी)
सुमन्तुके अजक, अजकके बलाकाश्व, बलाकाश्वके कुश और कुशके कुशाम्ब, कुशनाभ, अधूर्त्तरजा और वसु नामक चार पुत्र हुए ॥ ८ ॥
विश्वास-प्रस्तुतिः
तेषां कुशाम्बः शक्रतुल्यो मे पुत्रो भवेदिति तपश्चकार ॥ ९ ॥
मूलम्
तेषां कुशाम्बः शक्रतुल्यो मे पुत्रो भवेदिति तपश्चकार ॥ ९ ॥
अनुवाद (हिन्दी)
उनमेंसे कुशाम्बने इस इच्छासे कि मेरे इन्द्रके समान पुत्र हो, तपस्या की ॥ ९ ॥
विश्वास-प्रस्तुतिः
तं चोग्रतपसमवलोक्य मा भवत्वन्योऽस्मत्तुल्यवीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत् ॥ १० ॥
मूलम्
तं चोग्रतपसमवलोक्य मा भवत्वन्योऽस्मत्तुल्यवीर्य इत्यात्मनैवास्येन्द्रः पुत्रत्वमगच्छत् ॥ १० ॥
अनुवाद (हिन्दी)
उसके उग्र तपको देखकर ‘बलमें कोई अन्य मेरे समान न हो जाय’ इस भयसे इन्द्र स्वयं ही इनका पुत्र हो गया ॥ १० ॥
विश्वास-प्रस्तुतिः
स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥ ११ ॥
मूलम्
स गाधिर्नाम पुत्रः कौशिकोऽभवत् ॥ ११ ॥
अनुवाद (हिन्दी)
वह गाधि नामक पुत्र कौशिक कहलाया ॥ ११ ॥
गाधिश्च सत्यवतीं कन्यामजनयत् ॥ १२ ॥
गाधिने सत्यवती नामकी कन्याको जन्म दिया ॥ १२ ॥
विश्वास-प्रस्तुतिः
तां च भार्गव ऋचीको वव्रे ॥ १३ ॥
मूलम्
तां च भार्गव ऋचीको वव्रे ॥ १३ ॥
अनुवाद (हिन्दी)
उसे भृगुपुत्र ऋचीकने वरण किया ॥ १३ ॥
विश्वास-प्रस्तुतिः
गाधिरप्यतिरोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतश्श्यामकर्णानामिन्दुवर्चसामनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत ॥ १४ ॥
मूलम्
गाधिरप्यतिरोषणायातिवृद्धाय ब्राह्मणाय दातुमनिच्छन्नेकतश्श्यामकर्णानामिन्दुवर्चसामनिलरंहसामश्वानां सहस्रं कन्याशुल्कमयाचत ॥ १४ ॥
अनुवाद (हिन्दी)
गाधिने अति क्रोधी और अति वृद्ध ब्राह्मणको कन्या न देनेकी इच्छासे ऋचीकसे कन्याके मूल्यमें जो चन्द्रमाके समान कान्तिमान् और पवनके तुल्य वेगवान् हों, ऐसे एक सहस्र श्यामकर्ण घोड़े माँगे ॥ १४ ॥
विश्वास-प्रस्तुतिः
तेनाप्यृषिणा वरुणसकाशादुपलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्रं दत्तम् ॥ १५ ॥
मूलम्
तेनाप्यृषिणा वरुणसकाशादुपलभ्याश्वतीर्थोत्पन्नं तादृशमश्वसहस्रं दत्तम् ॥ १५ ॥
अनुवाद (हिन्दी)
किन्तु महर्षि ऋचीकने अश्वतीर्थसे उत्पन्न हुए वैसे एक सहस्र घोड़े उन्हें वरुणसे लेकर दे दिये ॥ १५ ॥
विश्वास-प्रस्तुतिः
ततस्तामृचीकः कन्यामुपयेमे ॥ १६ ॥
मूलम्
ततस्तामृचीकः कन्यामुपयेमे ॥ १६ ॥
अनुवाद (हिन्दी)
तब ऋचीकने उस कन्यासे विवाह किया ॥ १६ ॥
विश्वास-प्रस्तुतिः
ऋचीकश्च तस्याश्चरुमपत्यार्थं चकार ॥ १७ ॥
मूलम्
ऋचीकश्च तस्याश्चरुमपत्यार्थं चकार ॥ १७ ॥
अनुवाद (हिन्दी)
[तदुपरान्त एक समय] उन्होंने सन्तानकी कामनासे सत्यवतीके लिये चरु (यज्ञीय खीर) तैयार किया ॥ १७ ॥
विश्वास-प्रस्तुतिः
तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरुमपरं साधयामास ॥ १८ ॥
मूलम्
तत्प्रसादितश्च तन्मात्रे क्षत्रवरपुत्रोत्पत्तये चरुमपरं साधयामास ॥ १८ ॥
अनुवाद (हिन्दी)
और उसीके द्वारा प्रसन्न किये जानेपर एक क्षत्रियश्रेष्ठ पुत्रकी उत्पत्तिके लिये एक और चरु उसकी माताके लिये भी बनाया ॥ १८ ॥
विश्वास-प्रस्तुतिः
एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्यगुपयोज्य इत्युक्त्वा वनं जगाम ॥ १९ ॥
मूलम्
एष चरुर्भवत्या अयमपरश्चरुस्त्वन्मात्रा सम्यगुपयोज्य इत्युक्त्वा वनं जगाम ॥ १९ ॥
अनुवाद (हिन्दी)
और ‘यह चरु तुम्हारे लिये है तथा यह तुम्हारी माताके लिये—इनका तुम यथोचित उपयोग करना’—ऐसा कहकर वे वनको चले गये ॥ १९ ॥
विश्वास-प्रस्तुतिः
उपयोगकाले च तां माता सत्यवतीमाह ॥ २० ॥
मूलम्
उपयोगकाले च तां माता सत्यवतीमाह ॥ २० ॥
अनुवाद (हिन्दी)
उनका उपयोग करते समय सत्यवतीकी माताने उससे कहा— ॥ २० ॥
विश्वास-प्रस्तुतिः
पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति ॥ २१ ॥
मूलम्
पुत्रि सर्व एवात्मपुत्रमतिगुणमभिलषति नात्मजायाभ्रातृगुणेष्वतीवादृतो भवतीति ॥ २१ ॥
अनुवाद (हिन्दी)
‘‘बेटी! सभी लोग अपने ही लिये सबसे अधिक गुणवान् पुत्र चाहते हैं, अपनी पत्नीके भाईके गुणोंमें किसीकी भी विशेष रुचि नहीं होती ॥ २१ ॥
विश्वास-प्रस्तुतिः
अतोऽर्हसि ममात्मीयं चरुं दातुं मदीयं चरुमात्मनोपयोक्तुम् ॥ २२ ॥ मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसम्पदेत्युक्ता सा स्वचरुं मात्रे दत्तवती ॥ २३ ॥
मूलम्
अतोऽर्हसि ममात्मीयं चरुं दातुं मदीयं चरुमात्मनोपयोक्तुम् ॥ २२ ॥ मत्पुत्रेण हि सकलभूमण्डलपरिपालनं कार्यं कियद्वा ब्राह्मणस्य बलवीर्यसम्पदेत्युक्ता सा स्वचरुं मात्रे दत्तवती ॥ २३ ॥
अनुवाद (हिन्दी)
अतः तू अपना चरु तो मुझे दे दे और मेरा तू ले ले; क्योंकि मेरे पुत्रको तो सम्पूर्ण भूमण्डलका पालन करना होगा और ब्राह्मणकुमारको तो बल, वीर्य तथा सम्पत्ति आदिसे लेना ही क्या है ।’’ ऐसा कहनेपर सत्यवतीने अपना चरु अपनी माताको दे दिया ॥ २२-२३ ॥
विश्वास-प्रस्तुतिः
अथ वनादागत्य सत्यवतीमृषिरपश्यत् ॥ २४ ॥ आह चैनामतिपापे किमिदमकार्यं भवत्या कृतमतिरौद्रं ते वपुर्लक्ष्यते ॥ २५ ॥
मूलम्
अथ वनादागत्य सत्यवतीमृषिरपश्यत् ॥ २४ ॥ आह चैनामतिपापे किमिदमकार्यं भवत्या कृतमतिरौद्रं ते वपुर्लक्ष्यते ॥ २५ ॥
अनुवाद (हिन्दी)
वनसे लौटनेपर ऋषिने सत्यवतीको देखकर कहा—‘‘अरी पापिनि! तूने ऐसा क्या अकार्य किया है जिससे तेरा शरीर ऐसा भयानक प्रतीत होता है ॥ २४-२५ ॥
विश्वास-प्रस्तुतिः
नूनं त्वया त्वन्मातृसात्कृतश्चरुरुपयुक्तो न युक्तमेतत् ॥ २६ ॥
मूलम्
नूनं त्वया त्वन्मातृसात्कृतश्चरुरुपयुक्तो न युक्तमेतत् ॥ २६ ॥
अनुवाद (हिन्दी)
अवश्य ही तूने अपनी माताके लिये तैयार किये चरुका उपयोग किया है, सो ठीक नहीं है ॥ २६ ॥
विश्वास-प्रस्तुतिः
मया हि तत्र चरौ सकलैश्वर्यवीर्यशौर्यबलसम्पदारोपिता त्वदीयचरावप्यखिलशान्तिज्ञानतितिक्षादिब्राह्मणगुणसम्पत् ॥ २७ ॥
मूलम्
मया हि तत्र चरौ सकलैश्वर्यवीर्यशौर्यबलसम्पदारोपिता त्वदीयचरावप्यखिलशान्तिज्ञानतितिक्षादिब्राह्मणगुणसम्पत् ॥ २७ ॥
अनुवाद (हिन्दी)
मैंने उसमें सम्पूर्ण ऐश्वर्य, पराक्रम, शूरता और बलकी सम्पत्तिका आरोपण किया था तथा तेरेमें शान्ति, ज्ञान, तितिक्षा आदि सम्पूर्ण ब्राह्मणोचित गुणोंका समावेश किया था ॥ २७ ॥
विश्वास-प्रस्तुतिः
तच्च विपरीतं कुर्वत्यास्तवातिरौद्रास्त्रधारणपालननिष्ठः क्षत्रियाचारः पुत्रो भविष्यति तस्याश्चोपशमरुचिर्ब्राह्मणाचार इत्याकर्ण्यैव सा तस्य पादौ जग्राह ॥ २८ ॥ प्रणिपत्य चैनमाह ॥ २९ ॥

उनका विपरीत उपयोग करनेसे तेरे अति भयानक अस्त्र-शस्त्रधारी पालन-कर्ममें तत्पर क्षत्रियके समान आचरणवाला पुत्र होगा और उसके शान्तिप्रिय ब्राह्मणाचारयुक्त पुत्र होगा ।’’ यह सुनते ही सत्यवतीने उनके चरण पकड़ लिये और प्रणाम करके कहा— ॥ २८-२९ ॥
विश्वास-प्रस्तुतिः
भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥ ३० ॥ एवमस्त्विति ॥ ३१ ॥
मूलम्
भगवन्मयैतदज्ञानादनुष्ठितं प्रसादं मे कुरु मैवंविधः पुत्रो भवतु काममेवंविधः पौत्रो भवत्वित्युक्ते मुनिरप्याह ॥ ३० ॥ एवमस्त्विति ॥ ३१ ॥
अनुवाद (हिन्दी)
‘‘भगवन्! अज्ञानसे ही मैंने ऐसा किया है, अतः प्रसन्न होइये और ऐसा कीजिये जिससे मेरा पुत्र ऐसा न हो, भले ही पौत्र ऐसा हो जाय!’’ इसपर मुनिने कहा—‘ऐसा ही हो ।’ ॥ ३०-३१ ॥
विश्वास-प्रस्तुतिः
अनन्तरं च सा जमदग्निमजीजनत् ॥ ३२ ॥ तन्माता च विश्वामित्रं जनयामास ॥ ३३ ॥ सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥ ३४ ॥
मूलम्
अनन्तरं च सा जमदग्निमजीजनत् ॥ ३२ ॥ तन्माता च विश्वामित्रं जनयामास ॥ ३३ ॥ सत्यवत्यपि कौशिकी नाम नद्यभवत् ॥ ३४ ॥
अनुवाद (हिन्दी)
तदनन्तर उसने जमदग्निको जन्म दिया और उसकी माताने विश्वामित्रको उत्पन्न किया तथा सत्यवती कौशिकी नामकी नदी हो गयी ॥ ३२—३४ ॥
विश्वास-प्रस्तुतिः
जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयां रेणुकामुपयेमे ॥ ३५ ॥
मूलम्
जमदग्निरिक्ष्वाकुवंशोद्भवस्य रेणोस्तनयां रेणुकामुपयेमे ॥ ३५ ॥
अनुवाद (हिन्दी)
जमदग्निने इक्ष्वाकुकुलोद्भव रेणुकी कन्या रेणुकासे विवाह किया ॥ ३५ ॥
विश्वास-प्रस्तुतिः
तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतस्सकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ॥ ३६ ॥
मूलम्
तस्यां चाशेषक्षत्रहन्तारं परशुरामसंज्ञं भगवतस्सकललोकगुरोर्नारायणस्यांशं जमदग्निरजीजनत् ॥ ३६ ॥
अनुवाद (हिन्दी)
उससे जमदग्निके सम्पूर्ण क्षत्रियोंका ध्वंस करनेवाले भगवान् परशुरामजी उत्पन्न हुए जो सकल लोक-गुरु भगवान् नारायणके अंश थे ॥ ३६ ॥
विश्वास-प्रस्तुतिः
विश्वामित्रपुत्रस्तु भार्गव एव शुनश्शेपो देवैर्दत्तः ततश्च देवरातनामाभवत् ॥ ३७ ॥ ततश्चान्ये मधुच्छन्दोधनञ्जयकृतदेवाष्टककच्छपहारीतकाख्या विश्वामित्रपुत्रा बभूवुः ॥ ३८ ॥
मूलम्
विश्वामित्रपुत्रस्तु भार्गव एव शुनश्शेपो देवैर्दत्तः ततश्च देवरातनामाभवत् ॥ ३७ ॥ ततश्चान्ये मधुच्छन्दोधनञ्जयकृतदेवाष्टककच्छपहारीतकाख्या विश्वामित्रपुत्रा बभूवुः ॥ ३८ ॥
अनुवाद (हिन्दी)
देवताओंने विश्वामित्रजीको भृगुवंशीय शुनःशेप पुत्ररूपसे दिया था । उसके पीछे उनके देवरात नामक एक पुत्र हुआ और फिर मधुच्छन्द, धनञ्जय, कृतदेव, अष्टक, कच्छप एवं हारीतक नामक और भी पुत्र हुए ॥ ३७-३८ ॥
विश्वास-प्रस्तुतिः
तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवन् ॥ ३९ ॥
मूलम्
तेषां च बहूनि कौशिकगोत्राणि ऋष्यन्तरेषु विवाह्यान्यभवन् ॥ ३९ ॥
अनुवाद (हिन्दी)
उनसे अन्यान्य ऋषिवंशोंमें विवाहने योग्य बहुत-से कौशिकगोत्रीय पुत्र-पौत्रादि हुए ॥ ३९ ॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे चतुर्थेंऽशे सप्तमोऽध्यायः ॥ ७ ॥