०५

[पाँचवाँ अध्याय]

विषय

निमि-चरित्र और निमिवंशका वर्णन

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

इक्ष्वाकुतनयो योऽसौ निमिर्नाम सहस्रं वत्सरं सत्रमारेभे ॥ १ ॥

मूलम्

इक्ष्वाकुतनयो योऽसौ निमिर्नाम सहस्रं वत्सरं सत्रमारेभे ॥ १ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—इक्ष्वाकुका जो निमि नामक पुत्र था उसने एक सहस्रवर्षमें समाप्त होनेवाले यज्ञका आरम्भ किया ॥ १ ॥

विश्वास-प्रस्तुतिः

वसिष्ठं च होतारं वरयामास ॥ २ ॥

मूलम्

वसिष्ठं च होतारं वरयामास ॥ २ ॥

अनुवाद (हिन्दी)

उस यज्ञमें उसने वसिष्ठजीको होता वरण किया ॥ २ ॥

विश्वास-प्रस्तुतिः

तमाह वसिष्ठोऽहमिन्द्रेण पञ्चवर्षशतयागार्थं प्रथमं वृतः ॥ ३ ॥

मूलम्

तमाह वसिष्ठोऽहमिन्द्रेण पञ्चवर्षशतयागार्थं प्रथमं वृतः ॥ ३ ॥

अनुवाद (हिन्दी)

वसिष्ठजीने उससे कहा कि पाँच सौ वर्षके यज्ञके लिये इन्द्रने मुझे पहले ही वरण कर लिया है ॥ ३ ॥

विश्वास-प्रस्तुतिः

तदनन्तरं प्रतिपाल्यतामागतस्तवापि ऋत्विग्भविष्यामीत्युक्ते स पृथिवीपतिर्न किञ्चिदुक्तवान‍् ॥ ४ ॥

मूलम्

तदनन्तरं प्रतिपाल्यतामागतस्तवापि ऋत्विग्भविष्यामीत्युक्ते स पृथिवीपतिर्न किञ्चिदुक्तवान‍् ॥ ४ ॥

अनुवाद (हिन्दी)

अतः इतने समय तुम ठहर जाओ, वहाँसे आनेपर मैं तुम्हारा भी ऋत्विक् हो जाऊँगा । उनके ऐसा कहनेपर राजाने उन्हें कुछ भी उत्तर नहीं दिया ॥ ४ ॥

विश्वास-प्रस्तुतिः

वसिष्ठोऽप्यनेन समन्वीप्सितमित्यमरपतेर्यागमकरोत् ॥ ५ ॥

मूलम्

वसिष्ठोऽप्यनेन समन्वीप्सितमित्यमरपतेर्यागमकरोत् ॥ ५ ॥

अनुवाद (हिन्दी)

वसिष्ठजीने यह समझकर कि राजाने उनका कथन स्वीकार कर लिया है इन्द्रका यज्ञ आरम्भ कर दिया ॥ ५ ॥

विश्वास-प्रस्तुतिः

सोऽपि तत्काल एवान‍्यैर्गौतमादिभिर्यागमकरोत् ॥ ६ ॥

मूलम्

सोऽपि तत्काल एवान‍्यैर्गौतमादिभिर्यागमकरोत् ॥ ६ ॥

अनुवाद (हिन्दी)

किन्तु राजा निमि भी उसी समय गौतमादि अन्य होताओंद्वारा अपना यज्ञ करने लगे ॥ ६ ॥

विश्वास-प्रस्तुतिः

समाप्ते चामरपतेर्यागे त्वरया वसिष्ठो निमियज्ञं करिष्यामीत्याजगाम ॥ ७ ॥

मूलम्

समाप्ते चामरपतेर्यागे त्वरया वसिष्ठो निमियज्ञं करिष्यामीत्याजगाम ॥ ७ ॥

अनुवाद (हिन्दी)

देवराज इन्द्रका यज्ञ समाप्त होते ही ‘मुझे निमिका यज्ञ कराना है’ इस विचारसे वसिष्ठजी भी तुरंत ही आ गये ॥ ७ ॥

विश्वास-प्रस्तुतिः

तत्कर्मकर्तृत्वं च गौतमस्य दृष्ट्वा स्वपते तस्मै राज्ञे मां प्रत्याख्यायैतदनेन गौतमाय कर्मान्तरं समर्पितं यस्मात्तस्मादयं विदेहो भविष्यतीति शापं ददौ ॥ ८ ॥

मूलम्

तत्कर्मकर्तृत्वं च गौतमस्य दृष्ट्वा स्वपते तस्मै राज्ञे मां प्रत्याख्यायैतदनेन गौतमाय कर्मान्तरं समर्पितं यस्मात्तस्मादयं विदेहो भविष्यतीति शापं ददौ ॥ ८ ॥

अनुवाद (हिन्दी)

उस यज्ञमें अपना [होताका] कर्म गौतमको करते देख उन्होंने सोते हुए राजा निमिको यह शाप दिया कि ‘इसने मेरी अवज्ञा करके सम्पूर्ण कर्मका भार गौतमको सौंपा है इसलिये यह देहहीन हो जायगा’ ॥ ८ ॥

विश्वास-प्रस्तुतिः

प्रबुद्धश्चासाववनिपतिरपि प्राह ॥ ९ ॥

मूलम्

प्रबुद्धश्चासाववनिपतिरपि प्राह ॥ ९ ॥

अनुवाद (हिन्दी)

सोकर उठनेपर राजा निमिने भी कहा— ॥ ९ ॥

विश्वास-प्रस्तुतिः

यस्मान्मामसम्भाष्याज्ञानत एव शयानस्य शापोत्सर्गमसौ दुष्टगुरुश्चकार तस्मात्तस्यापि देहः पतिष्यतीति शापं दत्त्वा देहमत्यजत् ॥ १० ॥

मूलम्

यस्मान्मामसम्भाष्याज्ञानत एव शयानस्य शापोत्सर्गमसौ दुष्टगुरुश्चकार तस्मात्तस्यापि देहः पतिष्यतीति शापं दत्त्वा देहमत्यजत् ॥ १० ॥

अनुवाद (हिन्दी)

‘‘इस दुष्ट गुरुने मुझसे बिना बातचीत किये अज्ञानतापूर्वक मुझ सोये हुएको शाप दिया है, इसलिये इसका देह भी नष्ट हो जायगा ।’’ इस प्रकार शाप देकर राजाने अपना शरीर छोड़ दिया ॥ १० ॥

विश्वास-प्रस्तुतिः

तच्छापाच्च मित्रावरुणयोस्तेजसि वसिष्ठस्य चेतः प्रविष्टम् ॥ ११ ॥

मूलम्

तच्छापाच्च मित्रावरुणयोस्तेजसि वसिष्ठस्य चेतः प्रविष्टम् ॥ ११ ॥

अनुवाद (हिन्दी)

राजा निमिके शापसे वसिष्ठजीका लिंगदेह मित्रावरुणके वीर्यमें प्रविष्ट हुआ ॥ ११ ॥

विश्वास-प्रस्तुतिः

उर्वशीदर्शनादुद्भूतबीजप्रपातयोस्तयोस्सकाशाद्वसिष्ठो देहमपरं लेभे ॥ १२ ॥

मूलम्

उर्वशीदर्शनादुद्भूतबीजप्रपातयोस्तयोस्सकाशाद्वसिष्ठो देहमपरं लेभे ॥ १२ ॥

अनुवाद (हिन्दी)

और उर्वशीके देखनेसे उसका वीर्य स्खलित होनेपर उसीसे उन्होंने दूसरा देह धारण किया ॥ १२ ॥

विश्वास-प्रस्तुतिः

निमेरपि तच्छरीरमतिमनोहरगन्धतैलादिभिरुपसंस्क्रियमाणं नैव क्लेदादिकं दोषमवाप सद्यो मृत इव तस्थौ ॥ १३ ॥

मूलम्

निमेरपि तच्छरीरमतिमनोहरगन्धतैलादिभिरुपसंस्क्रियमाणं नैव क्लेदादिकं दोषमवाप सद्यो मृत इव तस्थौ ॥ १३ ॥

अनुवाद (हिन्दी)

निमिका शरीर भी अति मनोहर गन्ध और तैल आदिसे सुरक्षित रहनेके कारण गला-सड़ा नहीं, बल्कि तत्काल मरे हुए देहके समान ही रहा ॥ १३ ॥

विश्वास-प्रस्तुतिः

यज्ञसमाप्तौ भागग्रहणाय देवानागतानृत्विज ऊचुर्यजमानाय वरो दीयतामिति ॥ १४ ॥

मूलम्

यज्ञसमाप्तौ भागग्रहणाय देवानागतानृत्विज ऊचुर्यजमानाय वरो दीयतामिति ॥ १४ ॥

अनुवाद (हिन्दी)

यज्ञ समाप्त होनेपर जब देवगण अपना भाग ग्रहण करनेके लिये आये तो उनसे ऋत्विक‍‍्गण बोले कि—‘‘यजमानको वर दीजिये’’ ॥ १४ ॥

विश्वास-प्रस्तुतिः

देवैश्च छन्दितोऽसौ निमिराह ॥ १५ ॥

मूलम्

देवैश्च छन्दितोऽसौ निमिराह ॥ १५ ॥

अनुवाद (हिन्दी)

देवताओंद्वारा प्रेरणा किये जानेपर राजा निमिने उनसे कहा— ॥ १५ ॥

विश्वास-प्रस्तुतिः

भगवन्तोऽखिलसंसारदुःखहन्तारः ॥ १६ ॥

मूलम्

भगवन्तोऽखिलसंसारदुःखहन्तारः ॥ १६ ॥

अनुवाद (हिन्दी)

‘‘भगवन्! आपलोग सम्पूर्ण संसार-दुःखको दूर करनेवाले हैं ॥ १६ ॥

विश्वास-प्रस्तुतिः

न ह्येतादृगन्यद्-दुःखमस्ति यच्छरीरात्मनोर्वियोगे भवति ॥ १७ ॥

मूलम्

न ह्येतादृगन्यद्-दुःखमस्ति यच्छरीरात्मनोर्वियोगे भवति ॥ १७ ॥

अनुवाद (हिन्दी)

मेरे विचारमें शरीर और आत्माके वियोग होनेमें जैसा दुःख होता है वैसा और कोई दुःख नहीं है ॥ १७ ॥
तदहमिच्छामि सकललोकलोचनेषु वस्तुं न पुनश्शरीरग्रहणं कर्तुमित्येवमुक्तैर्देवैरसावशेषभूतानां नेत्रेष्ववतारितः ॥ १८ ॥
इसलिये मैं अब फिर शरीरग्रहण करना नहीं चाहता,समस्त लोगोंके नेत्रोंमें ही वास करना चाहता हूँ ।’’ राजाके ऐसा कहनेपर देवताओंने उनको समस्त जीवोंके नेत्रोंमें अवस्थित कर दिया ॥ १८ ॥

विश्वास-प्रस्तुतिः

ततो भूतान्युन्मेषनिमेषं चक्रुः ॥ १९ ॥

मूलम्

ततो भूतान्युन्मेषनिमेषं चक्रुः ॥ १९ ॥

अनुवाद (हिन्दी)

तभीसे प्राणी निमेषोन्मेष (पलक खोलना-मूँदना) करने लगे हैं ॥ १९ ॥

विश्वास-प्रस्तुतिः

अपुत्रस्य च भूभुजः शरीरमराजकभीरवो मुनयोऽरण्या ममन्थुः ॥ २० ॥

मूलम्

अपुत्रस्य च भूभुजः शरीरमराजकभीरवो मुनयोऽरण्या ममन्थुः ॥ २० ॥

अनुवाद (हिन्दी)

तदनन्तर अराजकताके भयसे मुनिजनोंने उस पुत्रहीन राजाके शरीरको अरणि (शमीदण्ड)-से मँथा ॥ २० ॥

विश्वास-प्रस्तुतिः

तत्र च कुमारो जज्ञे ॥ २१ ॥ जननाज्जनकसंज्ञां चावाप ॥ २२ ॥

मूलम्

तत्र च कुमारो जज्ञे ॥ २१ ॥ जननाज्जनकसंज्ञां चावाप ॥ २२ ॥

अनुवाद (हिन्दी)

उससे एक कुमार उत्पन्न हुआ जो जन्म लेनेके कारण ‘जनक’ कहलाया ॥ २१-२२ ॥

विश्वास-प्रस्तुतिः

अभूद्विदेहोऽस्य पितेति वैदेहः,मथनान्मिथिरिति ॥ २३ ॥

मूलम्

अभूद्विदेहोऽस्य पितेति वैदेहः,मथनान्मिथिरिति ॥ २३ ॥

अनुवाद (हिन्दी)

इसके पिता विदेह थे इसलिये यह ‘वैदेह’ कहलाता है और मन्थनसे उत्पन्न होनेके कारण ‘मिथि’ भी कहा जाता है ॥ २३ ॥

विश्वास-प्रस्तुतिः

तस्योदावसुः पुत्रोऽभवत् ॥ २४ ॥

मूलम्

तस्योदावसुः पुत्रोऽभवत् ॥ २४ ॥

अनुवाद (हिन्दी)

उसके उदावसु नामक पुत्र हुआ ॥ २४ ॥

विश्वास-प्रस्तुतिः

उदावसोर्नन्दिवर्द्धनस्ततस्सुकेतुः तस्माद्देवरातस्ततश्च बृहदुक्थः तस्य च महावीर्यस्तस्यापि सुधृतिः ॥ २५ ॥ ततश्च धृष्टकेतुरजायत ॥ २६ ॥ धृष्टकेतोर्हर्यश्वस्तस्य च मनुर्मनोः प्रतीकः, तस्मात्कृतरथस्तस्य देवमीढः, तस्य च विबुधो विबुधस्य महाधृतिस्ततश्च कृतरातः, ततो महारोमा तस्य सुवर्णरोमा तत्पुत्रो ह्रस्वरोमा ह्रस्वरोम्णस्सीरध्वजोऽभवत् ॥ २७ ॥

उदावसुके नन्दिवर्द्धन, नन्दिवर्द्धनके सुकेतु, सुकेतुके देवरात, देवरातके बृहदुक्थ, बृहदुक्थके महावीर्य, महावीर्यके सुधृति, सुधृतिके धृष्टकेतु, धृष्टकेतुके हर्यश्व, हर्यश्वके मनु, मनुके प्रतीक, प्रतीकके कृतरथ, कृतरथके देवमीढ, देवमीढके विबुध, विबुधके महाधृति, महाधृतिके कृतरात, कृतरातके महारोमा, महारोमाके सुवर्णरोमा, सुवर्णरोमाके ह्रस्वरोमा और ह्रस्वरोमाके सीरध्वज नामक पुत्र हुआ ॥ २५—२७ ॥

विश्वास-प्रस्तुतिः

तस्य पुत्रार्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना ॥ २८ ॥

मूलम्

तस्य पुत्रार्थं यजनभुवं कृषतः सीरे सीता दुहिता समुत्पन्ना ॥ २८ ॥

अनुवाद (हिन्दी)

वह पुत्रकी कामनासे यज्ञभूमिको जोत रहा था । इसी समय हलके अग्र भागमें उसके सीता नामकी कन्या उत्पन्न हुई ॥ २८ ॥

विश्वास-प्रस्तुतिः

सीरध्वजस्य भ्राता सांकाश्याधिपतिः कुशध्वजनामासीत् ॥ २९ ॥

मूलम्

सीरध्वजस्य भ्राता सांकाश्याधिपतिः कुशध्वजनामासीत् ॥ २९ ॥

अनुवाद (हिन्दी)

सीरध्वजका भाई सांकाश्यनरेश कुशध्वज था ॥ २९ ॥

विश्वास-प्रस्तुतिः

सीरध्वजस्यापत्यं भानुमान् भानुमतश्शतद्युम्नः तस्य तु शुचिः तस्माच्चोर्जनामा पुत्रो जज्ञे ॥ ३० ॥ तस्यापि शतध्वजः, ततः कृतिः कृतेरञ्जनः, तत्पुत्रः कुरुजित् ततोऽरिष्टनेमिः तस्माच्छ्रुतायुः श्रुतायुषः सुपार्श्वः तस्मात्सृञ्जयः, ततः क्षेमावी क्षेमाविनोऽनेनाः तस्माद्भौमरथः, तस्य सत्यरथः, तस्मादुपगुरुपगोरुपगुप्तः, तत्पुत्रः स्वागतस्तस्य च स्वानन्दः, तस्माच्च सुवर्चाः, तस्य च सुपार्श्वः, तस्यापि सुभाषः, तस्य सुश्रुतः तस्मात्सुश्रुताज्जयः तस्य पुत्रो विजयो विजयस्य ऋतः, ऋतात्सुनयः सुनयाद्वीतहव्यः तस्माद्‍धृतिर्धृतेर्बहुलाश्वः, तस्य पुत्रः कृतिः ॥ ३१ ॥

सीरध्वजके भानुमान् नामक पुत्र हुआ । भानुमान‍्के शतद्युम्न, शतद्युम्नके शुचि, शुचिके ऊर्जनामा, ऊर्जनामाके शतध्वज, शतध्वजके कृति, कृतिके अंजन, अंजनके कुरुजित्, कुरुजित् के अरिष्टनेमि, अरिष्टनेमिके श्रुतायु, श्रुतायुके सुपार्श्व, सुपार्श्वके सृंजय, सृंजयके क्षेमावी, क्षेमावीके अनेना, अनेनाके भौमरथ, भौमरथके सत्यरथ, सत्यरथके उपगु, उपगुके उपगुप्त, उपगुप्तके स्वागत, स्वागतके स्वानन्द, स्वानन्दके सुवर्चा, सुवर्चाके सुपार्श्व, सुपार्श्वके सुभाष, सुभाषके सुश्रुत, सुश्रुतके जय, जयके विजय, विजयके ऋत, ऋतके सुनय, सुनयके वीतहव्य, वीतहव्यके धृति, धृतिके बहुलाश्व और बहुलाश्वके कृति नामक पुत्र हुआ ॥ ३०-३१ ॥

विश्वास-प्रस्तुतिः

कृतौ सन्तष्ठतेऽयं जनकवंशः ॥ ३२ ॥

मूलम्

कृतौ सन्तष्ठतेऽयं जनकवंशः ॥ ३२ ॥

अनुवाद (हिन्दी)

कृतिमें ही इस जनकवंशकी समाप्ति हो जाती है ॥ ३२ ॥

विश्वास-प्रस्तुतिः

इत्येते मैथिलाः ॥ ३३ ॥

मूलम्

इत्येते मैथिलाः ॥ ३३ ॥

अनुवाद (हिन्दी)

ये ही मैथिलभूपालगण हैं ॥ ३३ ॥
प्रायेणैते आत्मविद्याश्रयिणो भूपाला भवन्ति ॥ ३४ ॥
प्रायः ये सभी राजालोग आत्मविद्याको आश्रय देनेवाले होते हैं ॥ ३४ ॥

मूलम् (समाप्तिः)

इति श्रीविष्णुपुराणे चतुर्थेंऽशे पञ्चमोऽध्यायः ॥ ५ ॥