[छठा अध्याय]
विषय
सामवेदकी शाखा, अठारह पुराण और चौदह विद्याओंके विभागका वर्णन
मूलम् (वचनम्)
श्रीपराशर उवाच
विश्वास-प्रस्तुतिः
सामवेदतरोश्शाखा व्यासशिष्यस्स जैमिनिः ।
क्रमेण येन मैत्रेय बिभेद शृणु तन्मम॥ १॥
मूलम्
सामवेदतरोश्शाखा व्यासशिष्यस्स जैमिनिः ।
क्रमेण येन मैत्रेय बिभेद शृणु तन्मम॥ १॥
अनुवाद (हिन्दी)
श्रीपराशरजी बोले—हे मैत्रेय! जिस क्रमसे व्यासजीके शिष्य जैमिनिने सामवेदकी शाखाओंका विभाग किया था, वह मुझसे सुनो॥ १॥
विश्वास-प्रस्तुतिः
सुमन्तुस्तस्य पुत्रोऽभूत्सुकर्मास्याप्यभूत्सुतः ।
अधीतवन्तौ चैकैकां संहितां तौ महामती॥ २॥
मूलम्
सुमन्तुस्तस्य पुत्रोऽभूत्सुकर्मास्याप्यभूत्सुतः ।
अधीतवन्तौ चैकैकां संहितां तौ महामती॥ २॥
अनुवाद (हिन्दी)
जैमिनिका पुत्र सुमन्तु था और उसका पुत्र सुकर्मा हुआ । उन दोनों महामति पुत्र-पौत्रोंने सामवेदकी एक-एक शाखाका अध्ययन किया॥ २॥
विश्वास-प्रस्तुतिः
सहस्रसंहिताभेदं सुकर्मा तत्सुतस्ततः ।
चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ॥ ३॥
हिरण्यनाभः कौसल्यः पौष्पिञ्जिश्च द्विजोत्तम ।
उदीच्यास्सामगाः शिष्या स्तस्य पञ्चशतं स्मृताः॥ ४॥
मूलम्
सहस्रसंहिताभेदं सुकर्मा तत्सुतस्ततः ।
चकार तं च तच्छिष्यौ जगृहाते महाव्रतौ॥ ३॥
हिरण्यनाभः कौसल्यः पौष्पिञ्जिश्च द्विजोत्तम ।
उदीच्यास्सामगाः शिष्या स्तस्य पञ्चशतं स्मृताः॥ ४॥
अनुवाद (हिन्दी)
तदनन्तर सुमन्तुके पुत्र सुकर्माने अपनी सामवेदसंहिताके एक सहस्र शाखाभेद किये और हे द्विजोत्तम! उन्हें उसके कौसल्य हिरण्यनाभ तथा पौष्पिंजि नामक दो महाव्रती शिष्योंने ग्रहण किया । हिरण्यनाभके पाँच सौ शिष्य थे जो उदीच्य सामग कहलाये॥ ३-४॥
विश्वास-प्रस्तुतिः
हिरण्यनाभात्तावत्यस्संहिता यैर्द्विजोत्तमैः ।
गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः॥ ५॥
मूलम्
हिरण्यनाभात्तावत्यस्संहिता यैर्द्विजोत्तमैः ।
गृहीतास्तेऽपि चोच्यन्ते पण्डितैः प्राच्यसामगाः॥ ५॥
अनुवाद (हिन्दी)
इसी प्रकार जिन अन्य द्विजोत्तमोंने इतनी ही संहिताएँ हिरण्यनाभसे और ग्रहण कीं उन्हें पण्डितजन प्राच्य सामग कहते हैं॥ ५॥
विश्वास-प्रस्तुतिः
लोकाक्षिर्नौधमिश्चैव कक्षीवाल्ँलाङ्गलिस्तथा ।
पौष्पिञ्जिशिष्यास्तद्भेदैस्संहिता बहुलीकृताः॥ ६॥
मूलम्
लोकाक्षिर्नौधमिश्चैव कक्षीवाल्ँलाङ्गलिस्तथा ।
पौष्पिञ्जिशिष्यास्तद्भेदैस्संहिता बहुलीकृताः॥ ६॥
अनुवाद (हिन्दी)
पौष्पिंजिके शिष्य लोकाक्षि, नौधमि, कक्षीवान् और लांगलि थे । उनके शिष्य-प्रशिष्योंने अपनी-अपनी संहिताओंके विभाग करके उन्हें बहुत बढ़ा दिया॥ ६॥
विश्वास-प्रस्तुतिः
हिरण्यनाभशिष्यस्तु चतुर्विंशतिसंहिताः ।
प्रोवाच कृतिनामासौ शिष्येभ्यश्च महामुनिः॥ ७॥
मूलम्
हिरण्यनाभशिष्यस्तु चतुर्विंशतिसंहिताः ।
प्रोवाच कृतिनामासौ शिष्येभ्यश्च महामुनिः॥ ७॥
अनुवाद (हिन्दी)
महामुनि कृति नामक हिरण्यनाभके एक और शिष्यने अपने शिष्योंको सामवेदकी चौबीस संहिताएँ पढ़ायीं॥ ७॥
विश्वास-प्रस्तुतिः
तैश्चापि सामवेदोऽसौ शाखाभिर्बहुलीकृतः ।
अथर्वणामथो वक्ष्ये संहितानां समुच्चयम्॥ ८॥
मूलम्
तैश्चापि सामवेदोऽसौ शाखाभिर्बहुलीकृतः ।
अथर्वणामथो वक्ष्ये संहितानां समुच्चयम्॥ ८॥
अनुवाद (हिन्दी)
फिर उन्होंने भी इस सामवेदका शाखाओंद्वारा खूब विस्तार किया । अब मैं अथर्ववेदकी संहिताओंके समुच्चयका वर्णन करता हूँ॥ ८॥
विश्वास-प्रस्तुतिः
अथर्ववेदं स मुनिस्सुमन्तुरमितद्युतिः ।
शिष्यमध्यापयामास कबन्धं सोऽपि तं द्विधा ।
कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान्॥ ९॥
मूलम्
अथर्ववेदं स मुनिस्सुमन्तुरमितद्युतिः ।
शिष्यमध्यापयामास कबन्धं सोऽपि तं द्विधा ।
कृत्वा तु देवदर्शाय तथा पथ्याय दत्तवान्॥ ९॥
अनुवाद (हिन्दी)
अथर्ववेदको सर्वप्रथम अमित तेजोमय सुमन्तु मुनिने अपने शिष्य कबन्धको पढ़ाया था, फिर कबन्धने उसके दो भाग कर उन्हें देवदर्श और पथ्य नामक अपने शिष्योंको दिया॥ ९॥
विश्वास-प्रस्तुतिः
देवदर्शस्य शिष्यास्तु मेधोब्रह्मबलिस्तथा ।
शौल्कायनिः पिप्पलादस्तथान्यो द्विजसत्तम॥ १०॥
मूलम्
देवदर्शस्य शिष्यास्तु मेधोब्रह्मबलिस्तथा ।
शौल्कायनिः पिप्पलादस्तथान्यो द्विजसत्तम॥ १०॥
अनुवाद (हिन्दी)
हे द्विजसत्तम! देवदर्शके शिष्य मेध, ब्रह्मबलि, शौल्कायनि और पिप्पलाद थे॥ १०॥
विश्वास-प्रस्तुतिः
पथ्यस्यापि त्रयश्शिष्याः कृता यैर्द्विज संहिताः ।
जाबालिः कुमुदादिश्च तृतीयश्शौनको द्विज॥ ११॥
मूलम्
पथ्यस्यापि त्रयश्शिष्याः कृता यैर्द्विज संहिताः ।
जाबालिः कुमुदादिश्च तृतीयश्शौनको द्विज॥ ११॥
अनुवाद (हिन्दी)
हे द्विज! पथ्यके भी जाबालि, कुमुदादि और शौनक नामक तीन शिष्य थे, जिन्होंने संहिताओंका विभाग किया॥ ११॥
विश्वास-प्रस्तुतिः
शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे ।
द्वितीयां संहितां प्रादात्सैन्धवाय च संज्ञिने॥ १२॥
मूलम्
शौनकस्तु द्विधा कृत्वा ददावेकां तु बभ्रवे ।
द्वितीयां संहितां प्रादात्सैन्धवाय च संज्ञिने॥ १२॥
अनुवाद (हिन्दी)
शौनकने भी अपनी संहिताके दो विभाग करके उनमेंसे एक बभ्रुको तथा दूसरी सैन्धव नामक अपने शिष्यको दी॥ १२॥
विश्वास-प्रस्तुतिः
सैन्धवान्मुञ्जिकेशश्च द्वेधाभिन्नास्त्रिधा पुनः ।
नक्षत्रकल्पो वेदानां संहितानां तथैव च॥ १३॥
चतुर्थस्स्यादांगिंरसश्शान्तिकल्पश्च पञ्चमः ।
श्रेष्ठास्त्वथर्वणामेते संहितानां विकल्पकाः॥ १४॥

सैन्धवसे पढ़कर मुंजिकेशने अपनी संहिताके पहले दो और फिर तीन [इस प्रकार पाँच] विभाग किये । नक्षत्रकल्प, वेदकल्प, संहिताकल्प, आंगिरसकल्प और शान्तिकल्प—उनके रचे हुए ये पाँच विकल्प अथर्ववेद-संहिताओंमें सर्वश्रेष्ठ हैं॥ १३-१४॥
विश्वास-प्रस्तुतिः
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः ।
पुराणसंहितां चक्रे पुराणार्थविशारदः॥ १५॥
मूलम्
आख्यानैश्चाप्युपाख्यानैर्गाथाभिः कल्पशुद्धिभिः ।
पुराणसंहितां चक्रे पुराणार्थविशारदः॥ १५॥
अनुवाद (हिन्दी)
तदनन्तर पुराणार्थविशारद व्यासजीने आख्यान, उपाख्यान, गाथा और कल्पशुद्धिके सहित पुराणसंहिताकी रचना की॥ १५॥
विश्वास-प्रस्तुतिः
प्रख्यातो व्यासशिष्योऽभूत्सूतो वै रोमहर्षणः ।
पुराणसंहितां तस्मै ददौ व्यासो महामतिः॥ १६॥
मूलम्
प्रख्यातो व्यासशिष्योऽभूत्सूतो वै रोमहर्षणः ।
पुराणसंहितां तस्मै ददौ व्यासो महामतिः॥ १६॥
अनुवाद (हिन्दी)
रोमहर्षण सूत व्यासजीके प्रसिद्ध शिष्य थे । महामति व्यासजीने उन्हें पुराणसंहिताका अध्ययन कराया॥ १६॥
विश्वास-प्रस्तुतिः
सुमतिश्चाग्निवर्चाश्च मित्रायुश्शांसपायनः ।
अकृतव्रणसावर्णी षट् शिष्यास्तस्य चाभवन्॥ १७॥
मूलम्
सुमतिश्चाग्निवर्चाश्च मित्रायुश्शांसपायनः ।
अकृतव्रणसावर्णी षट् शिष्यास्तस्य चाभवन्॥ १७॥
अनुवाद (हिन्दी)
उन सूतजीके सुमति, अग्निवर्चा, मित्रायु, शांसपायन, अकृतव्रण और सावर्णि—ये छः शिष्य थे॥ १७॥
विश्वास-प्रस्तुतिः
काश्यपः संहिताकर्ता सावर्णिश्शांसपायनः ।
रोमहर्षणिका चान्या तिसॄणां मूलसंहिता॥ १८॥
चतुष्टयेन भेदेन संहितानामिदं मुने॥ १९॥
मूलम्
काश्यपः संहिताकर्ता सावर्णिश्शांसपायनः ।
रोमहर्षणिका चान्या तिसॄणां मूलसंहिता॥ १८॥
चतुष्टयेन भेदेन संहितानामिदं मुने॥ १९॥
अनुवाद (हिन्दी)
काश्यपगोत्रीय अकृतव्रण, सावर्णि और शांसपायन—ये तीनों संहिताकर्ता हैं । उन तीनों संहिताओंकी आधार एक रोमहर्षणजीकी संहिता है । हे मुने! इन चारों संहिताओंकी सारभूत मैंने यह विष्णुपुराणसंहिता बनायी है॥ १८-१९॥
विश्वास-प्रस्तुतिः
आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते ।
अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते॥ २०॥
मूलम्
आद्यं सर्वपुराणानां पुराणं ब्राह्ममुच्यते ।
अष्टादशपुराणानि पुराणज्ञाः प्रचक्षते॥ २०॥
अनुवाद (हिन्दी)
पुराणज्ञ पुरुष कुल अठारह पुराण बतलाते हैं; उन सबमें प्राचीनतम ब्रह्मपुराण है॥ २०॥
विश्वास-प्रस्तुतिः
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम्॥ २१॥
मूलम्
ब्राह्मं पाद्मं वैष्णवं च शैवं भागवतं तथा ।
तथान्यं नारदीयं च मार्कण्डेयं च सप्तमम्॥ २१॥
अनुवाद (हिन्दी)
प्रथम पुराण ब्राह्म है, दूसरा पाद्म, तीसरा वैष्णव, चौथा शैव, पाँचवाँ भागवत, छठा नारदीय और सातवाँ मार्कण्डेय है॥ २१॥
विश्वास-प्रस्तुतिः
आग्नेयमष्टमं चैव भविष्यन्नवमं स्मृतम् ।
दशमं ब्रह्मवैवर्त्तं लैंगमेकादशं स्मृतम्॥ २२॥
मूलम्
आग्नेयमष्टमं चैव भविष्यन्नवमं स्मृतम् ।
दशमं ब्रह्मवैवर्त्तं लैंगमेकादशं स्मृतम्॥ २२॥
अनुवाद (हिन्दी)
इसी प्रकार आठवाँ आग्नेय, नवाँ भविष्यत्, दसवाँ ब्रह्मवैवर्त्त और ग्यारहवाँ पुराण लैङ्ग कहा जाता है॥ २२॥
विश्वास-प्रस्तुतिः
वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् ।
चतुर्दशं वामनं च कौर्मं पञ्चदशं तथा॥ २३॥
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ।
महापुराणान्येतानि ह्यष्टादश महामुने॥ २४॥
मूलम्
वाराहं द्वादशं चैव स्कान्दं चात्र त्रयोदशम् ।
चतुर्दशं वामनं च कौर्मं पञ्चदशं तथा॥ २३॥
मात्स्यं च गारुडं चैव ब्रह्माण्डं च ततः परम् ।
महापुराणान्येतानि ह्यष्टादश महामुने॥ २४॥
अनुवाद (हिन्दी)
तथा बारहवाँ वाराह, तेरहवाँ स्कान्द, चौदहवाँ वामन, पन्द्रहवाँ कौर्म, तथा इनके पश्चात् मात्स्य, गारुड और ब्रह्माण्डपुराण हैं । हे महामुने! ये ही अठारह महापुराण हैं॥ २३-२४॥
विश्वास-प्रस्तुतिः
तथा चोपपुराणानि मुनिभिः कथितानि च ।
सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
सर्वेष्वेतेषु कथ्यन्ते वंशानुचरितं च यत्॥ २५॥
मूलम्
तथा चोपपुराणानि मुनिभिः कथितानि च ।
सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च ।
सर्वेष्वेतेषु कथ्यन्ते वंशानुचरितं च यत्॥ २५॥
अनुवाद (हिन्दी)
इनके अतिरिक्त मुनिजनोंने और भी अनेक उपपुराण बतलाये हैं । इन सभीमें सृष्टि, प्रलय, देवता आदिकोंके वंश, मन्वन्तर और भिन्न-भिन्न राजवंशोंके चरित्रोंका वर्णन किया गया है॥ २५॥
विश्वास-प्रस्तुतिः
यदेतत्तव मैत्रेय पुराणं कथ्यते मया ।
एतद्वैष्णवसंज्ञं वै पाद्मस्य समनन्तरम्॥ २६॥
मूलम्
यदेतत्तव मैत्रेय पुराणं कथ्यते मया ।
एतद्वैष्णवसंज्ञं वै पाद्मस्य समनन्तरम्॥ २६॥
अनुवाद (हिन्दी)
हे मैत्रेय! जिस पुराणको मैं तुम्हें सुना रहा हूँ वह पाद्मपुराणके अनन्तर कहा हुआ वैष्णव नामक महापुराण है॥ २६॥
विश्वास-प्रस्तुतिः
सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु ।
कथ्यते भगवान्विष्णुरशेषेष्वेव सत्तम॥ २७॥
मूलम्
सर्गे च प्रतिसर्गे च वंशमन्वन्तरादिषु ।
कथ्यते भगवान्विष्णुरशेषेष्वेव सत्तम॥ २७॥
अनुवाद (हिन्दी)
हे साधुश्रेष्ठ! इसमें सर्ग, प्रतिसर्ग, वंश और मन्वन्तरादिका वर्णन करते हुए सर्वत्र केवल विष्णु भगवान्का ही वर्णन किया गया है॥ २७॥
विश्वास-प्रस्तुतिः
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश॥ २८॥
मूलम्
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश॥ २८॥
अनुवाद (हिन्दी)
छः वेदांग, चार वेद, मीमांसा, न्याय, पुराण और धर्मशास्त्र—ये ही चौदह विद्याएँ हैं॥ २८॥
विश्वास-प्रस्तुतिः
आयुर्वेदो धनुर्वेदो गान्धर्वश्चैव ते त्रयः ।
अर्थशास्त्रं चतुर्थं तु विद्या ह्यष्टादशैव ताः॥ २९॥
ज्ञेया ब्रह्मर्षयः पूर्वं तेभ्यो देवर्षयः पुनः ।
राजर्षयः पुनस्तेभ्य ऋषिप्रकृतयस्त्रयः॥ ३०॥

इन्हींमें आयुर्वेद, धनुर्वेद और गान्धर्व इन तीनोंको तथा चौथे अर्थशास्त्रको मिला लेनेसे कुल अठारह विद्याएँ हो जाती हैं । ऋषियोंके तीन भेद हैं—प्रथम ब्रह्मर्षि, द्वितीय देवर्षि और फिर राजर्षि॥ २९-३०॥
विश्वास-प्रस्तुतिः
इतिशाखास्समाख्याताश्शाखाभेदास्तथैव च ।
कर्तारश्चैव शाखानां भेदहेतुस्तथोदितः॥ ३१॥
मूलम्
इतिशाखास्समाख्याताश्शाखाभेदास्तथैव च ।
कर्तारश्चैव शाखानां भेदहेतुस्तथोदितः॥ ३१॥
अनुवाद (हिन्दी)
इस प्रकार मैंने तुमसे वेदोंकी शाखा, शाखाओंके भेद, उनके रचयिता तथा शाखाभेदके कारणोंका भी वर्णन कर दिया॥ ३१॥
विश्वास-प्रस्तुतिः
सर्वमन्वन्तरेष्वेवं शाखाभेदास्समाः स्मृताः ।
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज॥ ३२॥
मूलम्
सर्वमन्वन्तरेष्वेवं शाखाभेदास्समाः स्मृताः ।
प्राजापत्या श्रुतिर्नित्या तद्विकल्पास्त्विमे द्विज॥ ३२॥
अनुवाद (हिन्दी)
इसी प्रकार समस्त मन्वन्तरोंमें एक-से शाखाभेद रहते हैं; हे द्विज! प्रजापति ब्रह्माजीसे प्रकट होनेवाली श्रुति तो नित्य है, ये तो उसके विकल्पमात्र हैं॥ ३२॥
विश्वास-प्रस्तुतिः
एतत्ते कथितं सर्वं यत्पृष्टोऽहमिह त्वया ।
मैत्रेय वेदसम्बन्धः किमन्यत्कथयामि ते॥ ३३॥
मूलम्
एतत्ते कथितं सर्वं यत्पृष्टोऽहमिह त्वया ।
मैत्रेय वेदसम्बन्धः किमन्यत्कथयामि ते॥ ३३॥
अनुवाद (हिन्दी)
हे मैत्रेय! वेदके सम्बन्धमें तुमने मुझसे जो कुछ पूछा था वह मैंने सुना दिया; अब और क्या कहूँ?॥ ३३॥
मूलम् (समाप्तिः)
इति श्रीविष्णुपुराणे तृतीयेंऽशे षष्ठोऽध्यायः॥ ६॥