०९

[नवाँ अध्याय]

विषय

ज्योतिश्चक्र और शिशुमारचक्र

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

तारामयं भगवतः शिशुमाराकृति प्रभोः ।
दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ १ ॥

मूलम्

तारामयं भगवतः शिशुमाराकृति प्रभोः ।
दिवि रूपं हरेर्यत्तु तस्य पुच्छे स्थितो ध्रुवः ॥ १ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—आकाशमें भगवान‍् विष्णुका जो शिशुमार (गिरगिट अथवा गोधा)-के समान आकारवाला तारामय स्वरूप देखा जाता है, उसके पुच्छ-भागमें ध्रुव अवस्थित है ॥ १ ॥

विश्वास-प्रस्तुतिः

सैष भ्रमन‍्भ्रामयति चन्द्रादित्यादिकान‍्ग्रहान् ।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २ ॥

मूलम्

सैष भ्रमन‍्भ्रामयति चन्द्रादित्यादिकान‍्ग्रहान् ।
भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ॥ २ ॥

अनुवाद (हिन्दी)

यह ध्रुव स्वयं घूमता हुआ चन्द्रमा और सूर्य आदि ग्रहोंको घुमाता है । उस भ्रमणशील ध्रुवके साथ नक्षत्रगण भी चक्रके समान घूमते रहते हैं ॥ २ ॥

विश्वास-प्रस्तुतिः

सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ ३ ॥

मूलम्

सूर्याचन्द्रमसौ तारा नक्षत्राणि ग्रहैः सह ।
वातानीकमयैर्बन्धैर्ध्रुवे बद्धानि तानि वै ॥ ३ ॥

अनुवाद (हिन्दी)

सूर्य, चन्द्रमा, तारे, नक्षत्र और अन्यान्य समस्त ग्रहगण वायु-मण्डलमयी डोरीसे ध्रुवके साथ बँधे हुए हैं ॥ ३ ॥

विश्वास-प्रस्तुतिः

शिशुमाराकृति प्रोक्तं यद्‍रूपं ज्योतिषां दिवि ।
नारायणोऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥ ४ ॥

मूलम्

शिशुमाराकृति प्रोक्तं यद्‍रूपं ज्योतिषां दिवि ।
नारायणोऽयनं धाम्नां तस्याधारः स्वयं हृदि ॥ ४ ॥

अनुवाद (हिन्दी)

मैंने तुमसे आकाशमें ग्रहगणके जिस शिशुमार-स्वरूपका वर्णन किया है, अनन्त तेजके आश्रय स्वयं भगवान‍् नारायण ही उसके हृदयस्थित आधार हैं ॥ ४ ॥

विश्वास-प्रस्तुतिः

उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् ।
स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ ५ ॥

मूलम्

उत्तानपादपुत्रस्तु तमाराध्य जगत्पतिम् ।
स ताराशिशुमारस्य ध्रुवः पुच्छे व्यवस्थितः ॥ ५ ॥

अनुवाद (हिन्दी)

उत्तानपादके पुत्र ध्रुवने उन जगत्पतिकी आराधना करके तारामय शिशुमारके पुच्छस्थानमें स्थिति प्राप्त की है ॥ ५ ॥

विश्वास-प्रस्तुतिः

आधारः शिशुमारस्य सर्वाध्यक्षो जनार्दनः ।
ध्रुवस्य शिशुमारस्तु ध्रुवे भानुर्व्यवस्थितः ॥ ६ ॥
तदाधारं जगच्चेदं सदेवासुरमानुषम् ॥ ७ ॥
येन विप्र विधानेन तन्ममैकमनाः शृणु ।
विवस्वानष्टभिर्मासैरादायापो रसात्मिकाः ।
वर्षत्यम्बु ततश्चान्नमन्नादप्यखिलं जगत् ॥ ८ ॥

शिशुमारके आधार सर्वेश्वर श्रीनारायण हैं, शिशुमार ध्रुवका आश्रय है और ध्रुवमें सूर्यदेव स्थित हैं तथा हे विप्र! जिस प्रकार देव, असुर और मनुष्यादिके सहित यह सम्पूर्ण जगत् सूर्यके आश्रित है, वह तुम एकाग्र होकर सुनो । सूर्य आठ मासतक अपनी किरणोंसे छः रसोंसे युक्त जलको ग्रहण करके उसे चार महीनोंमें बरसा देता है उससे अन्नकी उत्पत्ति होती है और अन्नहीसे सम्पूर्ण जगत् पोषित होता है ॥ ६—८ ॥

विश्वास-प्रस्तुतिः

विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् ।
सोमं पुष्णात्यथेन्दुश्च वायुनाडीमयैर्दिवि ।
नालैर्विक्षिपतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥ ९ ॥

मूलम्

विवस्वानंशुभिस्तीक्ष्णैरादाय जगतो जलम् ।
सोमं पुष्णात्यथेन्दुश्च वायुनाडीमयैर्दिवि ।
नालैर्विक्षिपतेऽभ्रेषु धूमाग्न्यनिलमूर्तिषु ॥ ९ ॥

अनुवाद (हिन्दी)

सूर्य अपनी तीक्ष्ण रश्मियोंसे संसारका जल खींचकर उससे चन्द्रमाका पोषण करता है और चन्द्रमा आकाशमें वायुमयी नाड़ियोंके मार्गसे उसे धूम, अग्नि और वायुमय मेघोंमें पहुँचा देता है ॥ ९ ॥

विश्वास-प्रस्तुतिः

न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ।
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥ १० ॥

मूलम्

न भ्रश्यन्ति यतस्तेभ्यो जलान्यभ्राणि तान्यतः ।
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ।
संस्कारं कालजनितं मैत्रेयासाद्य निर्मलाः ॥ १० ॥

अनुवाद (हिन्दी)

यह चन्द्रमाद्वारा प्राप्त जल मेघोंसे तुरन्त ही भ्रष्ट नहीं होता इसलिये ‘अभ्र’ कहलाता है । हे मैत्रेय! कालजनित संस्कारके प्राप्त होनेपर यह अभ्रस्थ जल निर्मल होकर वायुकी प्रेरणासे पृथिवीपर बरसने लगता है ॥ १० ॥

विश्वास-प्रस्तुतिः

सरित्समुद्रभौमास्तु तथापः प्राणिसम्भवाः ।
चतुष्प्रकारा भगवानादत्ते सविता मुने ॥ ११ ॥

मूलम्

सरित्समुद्रभौमास्तु तथापः प्राणिसम्भवाः ।
चतुष्प्रकारा भगवानादत्ते सविता मुने ॥ ११ ॥

अनुवाद (हिन्दी)

हे मुने! भगवान‍् सूर्यदेव नदी, समुद्र, पृथिवी तथा प्राणियोंसे उत्पन्न—इन चार प्रकारके जलोंका आकर्षण करते हैं ॥ ११ ॥

विश्वास-प्रस्तुतिः

आकाशगङ्गासलिलं तथादाय गभस्तिमान् ।
अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ १२ ॥

मूलम्

आकाशगङ्गासलिलं तथादाय गभस्तिमान् ।
अनभ्रगतमेवोर्व्यां सद्यः क्षिपति रश्मिभिः ॥ १२ ॥

अनुवाद (हिन्दी)

तथा आकाशगंगाके जलको ग्रहण करके वे उसे बिना मेघादिके अपनी किरणोंसे ही तुरन्त पृथिवीपर बरसा देते हैं ॥ १२ ॥

विश्वास-प्रस्तुतिः

तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम ।
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ १३ ॥

मूलम्

तस्य संस्पर्शनिर्धूतपापपङ्को द्विजोत्तम ।
न याति नरकं मर्त्यो दिव्यं स्नानं हि तत्स्मृतम् ॥ १३ ॥

अनुवाद (हिन्दी)

हे द्विजोत्तम! उसके स्पर्शमात्रसे पाप-पंकके धुल जानेसे मनुष्य नरकमें नहीं जाता । अतः वह दिव्य-स्नान कहलाता है ॥ १३ ॥

विश्वास-प्रस्तुतिः

दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर्विना दिवः ।
आकाशगङ्गासलिलं तद‍्गोभिः क्षिप्यते रवेः ॥ १४ ॥

मूलम्

दृष्टसूर्यं हि यद्वारि पतत्यभ्रैर्विना दिवः ।
आकाशगङ्गासलिलं तद‍्गोभिः क्षिप्यते रवेः ॥ १४ ॥

अनुवाद (हिन्दी)

सूर्यके दिखलायी देते हुए, बिना मेघोंके ही जो जल बरसता है वह सूर्यकी किरणोंद्वारा बरसाया हुआ आकाशगंगाका ही जल होता है ॥ १४ ॥

विश्वास-प्रस्तुतिः

कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः ।
दृष्टार्कपतितं ज्ञेयं तद‍्गाङ्गं दिग्गजोज्झितम् ॥ १५ ॥

मूलम्

कृत्तिकादिषु ऋक्षेषु विषमेषु च यद्दिवः ।
दृष्टार्कपतितं ज्ञेयं तद‍्गाङ्गं दिग्गजोज्झितम् ॥ १५ ॥

अनुवाद (हिन्दी)

कृत्तिका आदि विषम (अयुग्म) नक्षत्रोंमें जो जल सूर्यके प्रकाशित रहते हुए बरसता है उसे दिग्गजोंद्वारा बरसाया हुआ आकाशगंगाका जल समझना चाहिये ॥ १५ ॥

विश्वास-प्रस्तुतिः

युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः ।
तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥ १६ ॥

मूलम्

युग्मर्क्षेषु च यत्तोयं पतत्यर्कोज्झितं दिवः ।
तत्सूर्यरश्मिभिः सर्वं समादाय निरस्यते ॥ १६ ॥

अनुवाद (हिन्दी)

[रोहिणी और आर्द्रा आदि] सम संख्यावाले नक्षत्रोंमें जिस जलको सूर्य बरसाता है वह सूर्यरश्मियोंद्वारा [आकाशगंगासे] ग्रहण करके ही बरसाया जाता है ॥ १६ ॥

विश्वास-प्रस्तुतिः

उभयं पुण्यमत्यर्थं नृणां पापभयापहम् ।
आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥ १७ ॥

मूलम्

उभयं पुण्यमत्यर्थं नृणां पापभयापहम् ।
आकाशगङ्गासलिलं दिव्यं स्नानं महामुने ॥ १७ ॥

अनुवाद (हिन्दी)

हे महामुने! आकाशगंगाके ये [सम तथा विषम नक्षत्रोंमें बरसनेवाले ] दोनों प्रकारके जलमय दिव्य स्नान अत्यन्त पवित्र और मनुष्योंके पाप-भयको दूर करनेवाले हैं ॥ १७ ॥

विश्वास-प्रस्तुतिः

यत्तु मेघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज ।
पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥ १८ ॥

मूलम्

यत्तु मेघैः समुत्सृष्टं वारि तत्प्राणिनां द्विज ।
पुष्णात्योषधयः सर्वा जीवनायामृतं हि तत् ॥ १८ ॥

अनुवाद (हिन्दी)

हे द्विज! जो जल मेघोंद्वारा बरसाया जाता है वह प्राणियोंके जीवनके लिये अमृतरूप होता है और ओषधियोंका पोषण करता है ॥ १८ ॥

विश्वास-प्रस्तुतिः

तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।
साधकः फलपाकान्तः प्रजानां द्विज जायते ॥ १९ ॥

मूलम्

तेन वृद्धिं परां नीतः सकलश्चौषधीगणः ।
साधकः फलपाकान्तः प्रजानां द्विज जायते ॥ १९ ॥

अनुवाद (हिन्दी)

हे विप्र! उस वृष्टिके जलसे परम वृद्धिको प्राप्त होकर समस्त ओषधियाँ और फल पकनेपर सूख जानेवाले [गोधूम, यव आदि अन्न] प्रजावर्गके [शरीरकी उत्पत्ति एवं पोषण आदिके] साधक होते हैं ॥ १९ ॥

विश्वास-प्रस्तुतिः

तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः ।
कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्ति ते ॥ २० ॥

मूलम्

तेन यज्ञान्यथाप्रोक्तान्मानवाः शास्त्रचक्षुषः ।
कुर्वन्त्यहरहस्तैश्च देवानाप्याययन्ति ते ॥ २० ॥

अनुवाद (हिन्दी)

उनके द्वारा शास्त्रविद् मनीषिगण नित्यप्रति यथाविधि यज्ञानुष्ठान करके देवताओंको सन्तुष्ट करते हैं ॥ २० ॥

विश्वास-प्रस्तुतिः

एवं यज्ञाश्च वेदाश्च वर्णाश्च वृष्टिपूर्वकाः ।
सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥ २१ ॥

मूलम्

एवं यज्ञाश्च वेदाश्च वर्णाश्च वृष्टिपूर्वकाः ।
सर्वे देवनिकायाश्च सर्वे भूतगणाश्च ये ॥ २१ ॥

अनुवाद (हिन्दी)

इस प्रकार सम्पूर्ण यज्ञ, वेद, ब्राह्मणादि वर्ण, समस्त देवसमूह और प्राणिगण वृष्टिके ही आश्रित हैं ॥ २१ ॥

विश्वास-प्रस्तुतिः

वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया ।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥ २२ ॥

मूलम्

वृष्ट्या धृतमिदं सर्वमन्नं निष्पाद्यते यया ।
सापि निष्पाद्यते वृष्टिः सवित्रा मुनिसत्तम ॥ २२ ॥

अनुवाद (हिन्दी)

हे मुनिश्रेष्ठ! अन्नको उत्पन्न करनेवाली वृष्टि ही इन सबको धारण करती है तथा उस वृष्टिकी उत्पत्ति सूर्यसे होती है ॥ २२ ॥

विश्वास-प्रस्तुतिः

आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम ।
ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणात्मकः ॥ २३ ॥

मूलम्

आधारभूतः सवितुर्ध्रुवो मुनिवरोत्तम ।
ध्रुवस्य शिशुमारोऽसौ सोऽपि नारायणात्मकः ॥ २३ ॥

अनुवाद (हिन्दी)

हे मुनिवरोत्तम! सूर्यका आधार ध्रुव है, ध्रुवका शिशुमार है तथा शिशुमारके आश्रय श्रीनारायण हैं ॥ २३ ॥

विश्वास-प्रस्तुतिः

हृदि नारायणस्तस्य शिशुमारस्य संस्थितः ।
बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २४ ॥

मूलम्

हृदि नारायणस्तस्य शिशुमारस्य संस्थितः ।
बिभर्ता सर्वभूतानामादिभूतः सनातनः ॥ २४ ॥

अनुवाद (हिन्दी)

उस शिशुमारके हृदयमें श्रीनारायण स्थित हैं जो समस्त प्राणियोंके पालनकर्ता तथा आदिभूत सनातनपुरुष हैं ॥ २४ ॥

मूलम् (समाप्तिः)

इति श्रीविष्णुपुराणे द्वितीयेंऽशे नवमोऽध्यायः ॥ ९ ॥