०१

[पहला अध्याय]

विषय

प्रियव्रतके वंशका वर्णन

मूलम् (वचनम्)

श्रीमैत्रेय उवाच

विश्वास-प्रस्तुतिः

भगवन‍्सम्यगाख्यातं ममैतदखिलं त्वया ।
जगतः सर्गसम्बन्धि यत्पृष्टोऽसि गुरो मया ॥ १ ॥

मूलम्

भगवन‍्सम्यगाख्यातं ममैतदखिलं त्वया ।
जगतः सर्गसम्बन्धि यत्पृष्टोऽसि गुरो मया ॥ १ ॥

अनुवाद (हिन्दी)

श्रीमैत्रेयजी बोले—हे भगवन्! हे गुरो! मैंने जगत‍्की सृष्टिके विषयमें आपसे जो कुछ पूछा था वह सब आपने मुझसे भली प्रकार कह दिया ॥ १ ॥

विश्वास-प्रस्तुतिः

योऽयमंशो जगत्सृष्टिसम्बन्धो गदितस्त्वया ।
तत्राहं श्रोतुमिच्छामि भूयोऽपि मुनिसत्तम ॥ २ ॥

मूलम्

योऽयमंशो जगत्सृष्टिसम्बन्धो गदितस्त्वया ।
तत्राहं श्रोतुमिच्छामि भूयोऽपि मुनिसत्तम ॥ २ ॥

अनुवाद (हिन्दी)

हे मुनिश्रेष्ठ! जगत‍्की सृष्टिसम्बन्धी आपने जो यह प्रथम अंश कहा है, उसकी एक बात मैं और सुनना चाहता हूँ ॥ २ ॥

विश्वास-प्रस्तुतिः

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ ।
तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥ ३ ॥

मूलम्

प्रियव्रतोत्तानपादौ सुतौ स्वायम्भुवस्य यौ ।
तयोरुत्तानपादस्य ध्रुवः पुत्रस्त्वयोदितः ॥ ३ ॥

अनुवाद (हिन्दी)

स्वायम्भुवमनुके जो प्रियव्रत और उत्तानपाद दो पुत्र थे, उनमेंसे उत्तानपादके पुत्र ध्रुवके विषयमें तो आपने कहा ॥ ३ ॥

विश्वास-प्रस्तुतिः

प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः ।
तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥ ४ ॥

मूलम्

प्रियव्रतस्य नैवोक्ता भवता द्विज सन्ततिः ।
तामहं श्रोतुमिच्छामि प्रसन्नो वक्तुमर्हसि ॥ ४ ॥

अनुवाद (हिन्दी)

किंतु, हे द्विज! आपने प्रियव्रतकी सन्तानके विषयमें कुछ भी नहीं कहा, अतः मैं उसका वर्णन सुनना चाहता हूँ, सो आप प्रसन्नतापूर्वक कहिये ॥ ४ ॥

मूलम् (वचनम्)

श्रीपराशर उवाच

विश्वास-प्रस्तुतिः

कर्दमस्यात्मजां कन्यामुपयेमे प्रियव्रतः ।
सम्राट् कुक्षिश्च तत्कन्ये दशपुत्रास्तथाऽपरे ॥ ५ ॥

मूलम्

कर्दमस्यात्मजां कन्यामुपयेमे प्रियव्रतः ।
सम्राट् कुक्षिश्च तत्कन्ये दशपुत्रास्तथाऽपरे ॥ ५ ॥

अनुवाद (हिन्दी)

श्रीपराशरजी बोले—प्रियव्रतने कर्दमजीकी पुत्रीसे विवाह किया था । उससे उनके सम्राट् और कुक्षि नामकी दो कन्याएँ तथा दस पुत्र हुए ॥ ५ ॥

विश्वास-प्रस्तुतिः

महाप्रज्ञा महावीर्या विनीता दयिता पितुः ।
प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु ॥ ६ ॥

मूलम्

महाप्रज्ञा महावीर्या विनीता दयिता पितुः ।
प्रियव्रतसुताः ख्यातास्तेषां नामानि मे शृणु ॥ ६ ॥

अनुवाद (हिन्दी)

प्रियव्रतके पुत्र बड़े बुद्धिमान्, बलवान‍्, विनयसम्पन्न और अपने माता-पिताके अत्यन्त प्रिय कहे जाते हैं; उनके नाम सुनो— ॥ ६ ॥

विश्वास-प्रस्तुतिः

आग्नीध्रश्चाग्निबाहुश्च वपुष्मान‍्द्युतिमांस्तथा ।
मेधा मेधातिथिर्भव्यः सवनः पुत्र एव च ॥ ७ ॥
ज्योतिष्मान‍्दशमस्तेषां सत्यनामा सुतोऽभवत् ।
प्रियव्रतस्य पुत्रास्ते प्रख्याता बलवीर्यतः ॥ ८ ॥

वे आग्नीध्र, अग्निबाहु, वपुष्मान्, द्युतिमान्, मेधा, मेधातिथि, भव्य, सवन और पुत्र थे तथा दसवाँ यथार्थनामा ज्योतिष्मान् था । वे प्रियव्रतके पुत्र अपने बल-पराक्रमके कारण विख्यात थे ॥ ७-८ ॥

विश्वास-प्रस्तुतिः

मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मरा महाभागा न राज्याय मनो दधुः ॥ ९ ॥

मूलम्

मेधाग्निबाहुपुत्रास्तु त्रयो योगपरायणाः ।
जातिस्मरा महाभागा न राज्याय मनो दधुः ॥ ९ ॥

अनुवाद (हिन्दी)

उनमें महाभाग मेधा, अग्निबाहु और पुत्र—ये तीन योगपरायण तथा अपने पूर्वजन्मका वृत्तान्त जाननेवाले थे । उन्होंने राज्य आदि भोगोंमें अपना चित्त नहीं लगाया ॥ ९ ॥

विश्वास-प्रस्तुतिः

निर्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने ।
चक्रुः क्रियां यथान्यायमफलाकाङ्क्षिणो हि ते ॥ १० ॥

मूलम्

निर्मलाः सर्वकालन्तु समस्तार्थेषु वै मुने ।
चक्रुः क्रियां यथान्यायमफलाकाङ्क्षिणो हि ते ॥ १० ॥

अनुवाद (हिन्दी)

हे मुने! वे निर्मलचित्त और कर्म-फलकी इच्छासे रहित थे तथा समस्त विषयोंमें सदा न्यायानुकूल ही प्रवृत्त होते थे ॥ १० ॥

विश्वास-प्रस्तुतिः

प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम ।
सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥ ११ ॥

मूलम्

प्रियव्रतो ददौ तेषां सप्तानां मुनिसत्तम ।
सप्तद्वीपानि मैत्रेय विभज्य सुमहात्मनाम् ॥ ११ ॥

अनुवाद (हिन्दी)

हे मुनिश्रेष्ठ! राजा प्रियव्रतने अपने शेष सात महात्मा पुत्रोंको सात द्वीप बाँट दिये ॥ ११ ॥

विश्वास-प्रस्तुतिः

जम्बूद्वीपं महाभाग साग्नीध्राय ददौ पिता ।
मेधातिथेस्तथा प्रादात‍‍्प्लक्षद्वीपं तथापरम् ॥ १२ ॥

मूलम्

जम्बूद्वीपं महाभाग साग्नीध्राय ददौ पिता ।
मेधातिथेस्तथा प्रादात‍‍्प्लक्षद्वीपं तथापरम् ॥ १२ ॥

अनुवाद (हिन्दी)

हे महाभाग! पिता प्रियव्रतने आग्नीध्रको जम्बूद्वीप और मेधातिथिको प्लक्ष नामक दूसरा द्वीप दिया ॥ १२ ॥

विश्वास-प्रस्तुतिः

शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान‍् ।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान‍्प्रभुः ॥ १३ ॥

मूलम्

शाल्मले च वपुष्मन्तं नरेन्द्रमभिषिक्तवान‍् ।
ज्योतिष्मन्तं कुशद्वीपे राजानं कृतवान‍्प्रभुः ॥ १३ ॥

अनुवाद (हिन्दी)

उन्होंने शाल्मलद्वीपमें वपुष्मान‍‍्को अभिषिक्त किया; ज्योतिष्मान‍‍्को कुशद्वीपका राजा बनाया ॥ १३ ॥

विश्वास-प्रस्तुतिः

द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ।
शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ।
पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः ॥ १४ ॥

मूलम्

द्युतिमन्तं च राजानं क्रौञ्चद्वीपे समादिशत् ।
शाकद्वीपेश्वरं चापि भव्यं चक्रे प्रियव्रतः ।
पुष्कराधिपतिं चक्रे सवनं चापि स प्रभुः ॥ १४ ॥

अनुवाद (हिन्दी)

द्युतिमान‍‍्को क्रौंचद्वीपके शासनपर नियुक्त किया, भव्यको प्रियव्रतने शाकद्वीपका स्वामी बनाया और सवनको पुष्करद्वीपका अधिपति किया ॥ १४ ॥

विश्वास-प्रस्तुतिः

जम्बूद्वीपेश्वरो यस्तु आग्नीध्रो मुनिसत्तम ॥ १५ ॥
तस्य पुत्रा बभूवुस्ते प्रजापतिसमा नव ।
नाभिः किम्पुरुषश्चैव हरिवर्ष इलावृतः ॥ १६ ॥
रम्यो हिरण्वान‍्षष्ठश्च कुरुर्भद्राश्व एव च ।
केतुमालस्तथैवान‍्यः साधुचेष्टोऽभवन्नृपः ॥ १७ ॥

हे मुनिसत्तम! उनमें जो जम्बूद्वीपके अधीश्वर राजा आग्नीध्र थे उनके प्रजापतिके समान नौ पुत्र हुए । वे नाभि, किम्पुरुष, हरिवर्ष, इलावृत, रम्य, हिरण्वान‍्, कुरु, भद्राश्व और सत्कर्मशील राजा केतुमाल थे ॥ १५—१७ ॥

विश्वास-प्रस्तुतिः

जम्बूद्वीपविभागांश्च तेषां विप्र निशामय ।
पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥ १८ ॥

मूलम्

जम्बूद्वीपविभागांश्च तेषां विप्र निशामय ।
पित्रा दत्तं हिमाह्वं तु वर्षं नाभेस्तु दक्षिणम् ॥ १८ ॥

अनुवाद (हिन्दी)

हे विप्र! अब उनके जम्बूद्वीपके विभाग सुनो । पिता आग्नीध्रने दक्षिणकी ओरका हिमवर्ष [जिसे अब भारतवर्ष कहते हैं] नाभिको दिया ॥ १८ ॥

विश्वास-प्रस्तुतिः

हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः ।
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान‍् ॥ १९ ॥

मूलम्

हेमकूटं तथा वर्षं ददौ किम्पुरुषाय सः ।
तृतीयं नैषधं वर्षं हरिवर्षाय दत्तवान‍् ॥ १९ ॥

अनुवाद (हिन्दी)

इसी प्रकार किम्पुरुषको हेमकूटवर्ष तथा हरिवर्षको तीसरा नैषधवर्ष दिया ॥ १९ ॥

विश्वास-प्रस्तुतिः

इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः ।
नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ॥ २० ॥

मूलम्

इलावृताय प्रददौ मेरुर्यत्र तु मध्यमः ।
नीलाचलाश्रितं वर्षं रम्याय प्रददौ पिता ॥ २० ॥

अनुवाद (हिन्दी)

जिसके मध्यमें मेरुपर्वत है वह इलावृतवर्ष उन्होंने इलावृतको दिया तथा नीलाचलसे लगा हुआ वर्ष रम्यको दिया ॥ २० ॥

विश्वास-प्रस्तुतिः

श्वेतं तदुत्तरं वर्षं पित्रा दत्तं हिरण्वते ॥ २१ ॥
यदुत्तरं शृङ्गवतो वर्षं तत्कुरवे ददौ ।
मेरोः पूर्वेण यद्वर्षं भद्राश्वाय प्रदत्तवान‍् ॥ २२ ॥
गन्धमादनवर्षं तु केतुमालाय दत्तवान‍् ।
इत्येतानि ददौ तेभ्यः पुत्रेभ्यः स नरेश्वरः ॥ २३ ॥

पिता आग्नीध्रने उसका उत्तरवर्ती श्वेतवर्ष हिरण्वान‍्को दिया तथा जो वर्ष शृंगवान‍् ‍पर्वतके उत्तरमें स्थित है वह कुरुको और जो मेरुके पूर्वमें स्थित है वह भद्राश्वको दिया तथा केतुमालको गन्धमादनवर्ष दिया । इस प्रकार राजा आग्नीध्रने अपने पुत्रोंको ये वर्ष दिये ॥ २१—२३ ॥

विश्वास-प्रस्तुतिः

वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः ।
शालग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥ २४ ॥

मूलम्

वर्षेष्वेतेषु तान्पुत्रानभिषिच्य स भूमिपः ।
शालग्रामं महापुण्यं मैत्रेय तपसे ययौ ॥ २४ ॥

अनुवाद (हिन्दी)

हे मैत्रेय! अपने पुत्रोंको इन वर्षोंमें अभिषिक्त कर वे तपस्याके लिये शालग्राम नामक महापवित्र क्षेत्रको चले गये ॥ २४ ॥

विश्वास-प्रस्तुतिः

यानि किम्पुरुषादीनि वर्षाण्यष्टौ महामुने ।
तेषांस्वाभाविकीसिद्धिः सुखप्रायाह्ययत्नतः ॥ २५ ॥

मूलम्

यानि किम्पुरुषादीनि वर्षाण्यष्टौ महामुने ।
तेषांस्वाभाविकीसिद्धिः सुखप्रायाह्ययत्नतः ॥ २५ ॥

अनुवाद (हिन्दी)

हे महामुने! किम्पुरुष आदि जो आठ वर्ष हैं उनमें सुखकी बहुलता है और बिना यत्नके स्वभावसे ही समस्त भोग-सिद्धियाँ प्राप्त हो जाती हैं ॥ २५ ॥

विश्वास-प्रस्तुतिः

विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ।
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा ॥ २६ ॥

मूलम्

विपर्ययो न तेष्वस्ति जरामृत्युभयं न च ।
धर्माधर्मौ न तेष्वास्तां नोत्तमाधममध्यमाः ।
न तेष्वस्ति युगावस्था क्षेत्रेष्वष्टसु सर्वदा ॥ २६ ॥

अनुवाद (हिन्दी)

उनमें किसी प्रकारके विपर्यय (असुख या अकाल-मृत्यु आदि) तथा जरा-मृत्यु आदिका कोई भय नहीं होता और न धर्म, अधर्म अथवा उत्तम, अधम और मध्यम आदिका ही भेद है । उन आठ वर्षोंमें कभी कोई युगपरिवर्तन भी नहीं होता ॥ २६ ॥

विश्वास-प्रस्तुतिः

हिमाह्वयं तु वै वर्षं नाभेरासीन्महात्मनः ।
तस्यर्षभोऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥ २७ ॥

मूलम्

हिमाह्वयं तु वै वर्षं नाभेरासीन्महात्मनः ।
तस्यर्षभोऽभवत्पुत्रो मेरुदेव्यां महाद्युतिः ॥ २७ ॥

अनुवाद (हिन्दी)

महात्मा नाभिका हिम नामक वर्ष था; उनके मेरुदेवीसे अतिशय कान्तिमान् ऋषभ नामक पुत्र हुआ ॥ २७ ॥

विश्वास-प्रस्तुतिः

ऋषभाद्भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः ।
कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान‍्मखान् ॥ २८ ॥
अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः ।
तपसे स महाभागः पुलहस्याश्रमं ययौ ॥ २९ ॥

मूलम्

ऋषभाद्भरतो जज्ञे ज्येष्ठः पुत्रशतस्य सः ।
कृत्वा राज्यं स्वधर्मेण तथेष्ट्वा विविधान‍्मखान् ॥ २८ ॥
अभिषिच्य सुतं वीरं भरतं पृथिवीपतिः ।
तपसे स महाभागः पुलहस्याश्रमं ययौ ॥ २९ ॥

अनुवाद (हिन्दी)

ऋषभजीसे भरतका जन्म हुआ जो उनके सौ पुत्रोंमें सबसे बड़े थे । महाभाग पृथिवीपति ऋषभदेवजी धर्मपूर्वक राज्य-शासन तथा विविध यज्ञोंका अनुष्ठान करनेके अनन्तर अपने वीर पुत्र भरतको राज्याधिकार सौंपकर तपस्याके लिये पुलहाश्रमको चले गये ॥ २८-२९ ॥

विश्वास-प्रस्तुतिः

वानप्रस्थविधानेन तत्रापि कृतनिश्चयः ।
तपस्तेपे यथान्यायमियाज स महीपतिः ॥ ३० ॥

मूलम्

वानप्रस्थविधानेन तत्रापि कृतनिश्चयः ।
तपस्तेपे यथान्यायमियाज स महीपतिः ॥ ३० ॥

अनुवाद (हिन्दी)

महाराज ऋषभने वहाँ भी वानप्रस्थ-आश्रमकी विधिसे रहते हुए निश्चयपूर्वक तपस्या की तथा नियमानुकूल यज्ञानुष्ठान किये ॥ ३० ॥

विश्वास-प्रस्तुतिः

तपसा कर्षितोऽत्यर्थं कृशो धमनिसन्ततः ।
नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥ ३१ ॥

मूलम्

तपसा कर्षितोऽत्यर्थं कृशो धमनिसन्ततः ।
नग्नो वीटां मुखे कृत्वा वीराध्वानं ततो गतः ॥ ३१ ॥

अनुवाद (हिन्दी)

वे तपस्याके कारण सूखकर अत्यन्त कृश हो गये और उनके शरीरकी शिराएँ (रक्तवाहिनी नाड़ियाँ) दिखायी देने लगीं । अन्तमें अपने मुखमें एक पत्थरकी बटिया रखकर उन्होंने नग्नावस्थामें महाप्रस्थान किया ॥ ३१ ॥

विश्वास-प्रस्तुतिः

ततश्च भारतं वर्षमेतल्लोकेषु गीयते ।
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ ३२ ॥

मूलम्

ततश्च भारतं वर्षमेतल्लोकेषु गीयते ।
भरताय यतः पित्रा दत्तं प्रातिष्ठता वनम् ॥ ३२ ॥

अनुवाद (हिन्दी)

पिता ऋषभदेवजीने वन जाते समय अपना राज्य भरतजीको दिया था; अतः तबसे यह (हिमवर्ष) इस लोकमें भारतवर्ष नामसे प्रसिद्ध हुआ ॥ ३२ ॥

विश्वास-प्रस्तुतिः

सुमतिर्भरतस्याभूत्पुत्रः परमधार्मिकः ।
कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखः पिता ॥ ३३ ॥

मूलम्

सुमतिर्भरतस्याभूत्पुत्रः परमधार्मिकः ।
कृत्वा सम्यग्ददौ तस्मै राज्यमिष्टमखः पिता ॥ ३३ ॥

अनुवाद (हिन्दी)

भरतजीके सुमति नामक परम धार्मिक पुत्र हुआ । पिता भरतने यज्ञानुष्ठानपूर्वक यथेच्छ राज्य-सुख भोगकर उसे सुमतिको सौंप दिया ॥३३ ॥

विश्वास-प्रस्तुतिः

पुत्रसङ्क्रामितश्रीस्तु भरतः स महीपतिः ।
योगाभ्यासरतः प्राणान् शालग्रामेऽत्यजन्मुने ॥ ३४

मूलम्

पुत्रसङ्क्रामितश्रीस्तु भरतः स महीपतिः ।
योगाभ्यासरतः प्राणान् शालग्रामेऽत्यजन्मुने ॥ ३४

अनुवाद (हिन्दी)

हे मुने! महाराज भरतने पुत्रको राज्यलक्ष्मी सौंपकर योगाभ्यासमें तत्पर हो अन्तमें शालग्रामक्षेत्रमें अपने प्राण छोड़ दिये ॥ ३४ ॥

विश्वास-प्रस्तुतिः

अजायत च विप्रोऽसौ योगिनां प्रवरे कुले ।
मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥ ३५ ॥

मूलम्

अजायत च विप्रोऽसौ योगिनां प्रवरे कुले ।
मैत्रेय तस्य चरितं कथयिष्यामि ते पुनः ॥ ३५ ॥

अनुवाद (हिन्दी)

फिर इन्होंने योगियोंके पवित्र कुलमें ब्राह्मणरूपसे जन्म लिया । हे मैत्रेय! इनका वह चरित्र मैं तुमसे फिर कहूँगा ॥ ३५ ॥

विश्वास-प्रस्तुतिः

सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत ।
परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥ ३६ ॥

मूलम्

सुमतेस्तेजसस्तस्मादिन्द्रद्युम्नो व्यजायत ।
परमेष्ठी ततस्तस्मात्प्रतिहारस्तदन्वयः ॥ ३६ ॥

अनुवाद (हिन्दी)

तदनन्तर सुमतिके वीर्यसे इन्द्रद्युम्नका जन्म हुआ, उससे परमेष्ठी और परमेष्ठीका पुत्र प्रतिहार हुआ ॥ ३६ ॥

विश्वास-प्रस्तुतिः

प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।
भवस्तस्मादथोद‍्गीथःप्रस्तावस्तत्सुतो विभुः ॥ ३७ ॥

मूलम्

प्रतिहर्तेति विख्यात उत्पन्नस्तस्य चात्मजः ।
भवस्तस्मादथोद‍्गीथःप्रस्तावस्तत्सुतो विभुः ॥ ३७ ॥

अनुवाद (हिन्दी)

प्रतिहारके प्रतिहर्ता नामसे विख्यात पुत्र उत्पन्न हुआ तथा प्रतिहर्ताका पुत्र भव, भवका उद‍्गीथ और उद‍्गीथका पुत्र अति समर्थ प्रस्ताव हुआ ॥ ३७ ॥

विश्वास-प्रस्तुतिः

पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः ।
नरो गयस्य तनयस्तत्पुत्रोऽभूद्विराट् ततः ॥ ३८ ॥

मूलम्

पृथुस्ततस्ततो नक्तो नक्तस्यापि गयः सुतः ।
नरो गयस्य तनयस्तत्पुत्रोऽभूद्विराट् ततः ॥ ३८ ॥

अनुवाद (हिन्दी)

प्रस्तावका पृथु, पृथुका नक्त और नक्तका पुत्र गय हुआ । गयके नर और उसके विराट् नामक पुत्र हुआ ॥ ३८ ॥

विश्वास-प्रस्तुतिः

तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ।
महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः ॥ ३९ ॥

मूलम्

तस्य पुत्रो महावीर्यो धीमांस्तस्मादजायत ।
महान्तस्तत्सुतश्चाभून्मनस्युस्तस्य चात्मजः ॥ ३९ ॥

अनुवाद (हिन्दी)

उसका पुत्र महावीर्य था, उससे धीमान‍्का जन्म हुआ तथा धीमान‍्का पुत्र महान्त और उसका पुत्र मनस्यु हुआ ॥ ३९ ॥

विश्वास-प्रस्तुतिः

त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ।
शतजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ॥ ४० ॥

मूलम्

त्वष्टा त्वष्टुश्च विरजो रजस्तस्याप्यभूत्सुतः ।
शतजिद्रजसस्तस्य जज्ञे पुत्रशतं मुने ॥ ४० ॥

अनुवाद (हिन्दी)

मनस्युका पुत्र त्वष्टा, त्वष्टाका विरज और विरजका पुत्र रज हुआ । हे मुने! रजके पुत्र शतजित् के सौ पुत्र उत्पन्न हुए ॥ ४० ॥

विश्वास-प्रस्तुतिः

विष्वग्ज्योतिः प्रधानास्ते यैरिमा वर्द्धिताः प्रजाः ।
तैरिदं भारतं वर्षं नवभेदमलङ्कृतम् ॥ ४१ ॥

मूलम्

विष्वग्ज्योतिः प्रधानास्ते यैरिमा वर्द्धिताः प्रजाः ।
तैरिदं भारतं वर्षं नवभेदमलङ्कृतम् ॥ ४१ ॥

अनुवाद (हिन्दी)

उनमें विष्वग्ज्योति प्रधान था । उनसौ पुत्रोंसे यहाँकी प्रजा बहुत बढ़ गयी । तब उन्होंने इस भारतवर्षको नौ विभागोंसे विभूषित किया । [अर्थात् वे सब इसको नौ भागोंमें बाँटकर भोगने लगे] ॥ ४१ ॥

विश्वास-प्रस्तुतिः

तेषां वंशप्रसूतैश्च भुक्तेयं भारती पुरा ।
कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम् ॥ ४२ ॥

मूलम्

तेषां वंशप्रसूतैश्च भुक्तेयं भारती पुरा ।
कृतत्रेतादिसर्गेण युगाख्यामेकसप्ततिम् ॥ ४२ ॥

अनुवाद (हिन्दी)

उन्हींके वंशधरोंने पूर्वकालमें कृतत्रेतादि युगक्रमसे इकहत्तर युगपर्यन्त इस भारतभूमिको भोगा था ॥ ४२ ॥

विश्वास-प्रस्तुतिः

एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत् ।
वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥ ४३ ॥

मूलम्

एष स्वायम्भुवः सर्गो येनेदं पूरितं जगत् ।
वाराहे तु मुने कल्पे पूर्वमन्वन्तराधिपः ॥ ४३ ॥

अनुवाद (हिन्दी)

हे मुने! यही इस वाराहकल्पमें सबसे पहले मन्वन्तराधिप स्वायम्भुवमनुका वंश है, जिसने उस समय इस सम्पूर्ण संसारको व्याप्त किया हुआ था ॥ ४३ ॥

मूलम् (समाप्तिः)

इति श्रीविष्णुपुराणे द्वितीयेंऽशे प्रथमोऽध्यायः ॥ १ ॥