ब्रह्मोवाच ॥
ततः शक्रः सुरगणैः सह सर्वैः समेत्य च ॥
बुद्धिं चकार गमने मार्गितुं यत्र शङ्करः ॥ १ ॥
तत उत्थाय ते देवाः सर्व एव शिलोच्चयात् ॥
विहायसा ययुः शीघ्रं तेनैव सह नन्दिना ॥ २ ॥
स्वर्लोकं ब्रह्मलोकं च नागलोकं च सर्वशः ॥
बभ्रमुस्त्रिदशाः सर्वे रुद्रान्वेषणतत्पराः ॥ ३ ॥
खिन्नाः क्लिष्टाश्च सुभृशं न पुनस्तत्पदं विदुः ॥
चतुःसमुद्रपर्यन्तसप्त द्वीपवतीं महीम् ॥ ४ ॥
सशैलकाननोपेतां मार्गयद्भिर्हि तं सुरम् ॥
कन्दरेषु महाद्रीणां तुङ्गेषु शिखरेषु च ॥ ५ ॥
विततेषु निकुञ्जेषु विहारेषु च सर्वतः ॥
विचिन्वद्भिः क्षितिमिमां तृणं द्विविदलीकृतम् ॥६॥
न प्रवृत्तिः क्वचिदपि शम्भोरासाद्यते सुरैः ॥
यदा निर्विण्णमनसो मार्गमाणाः सुरास्तदा ॥ ७ ॥
न पश्यन्ति शिवं तत्र तदेषां भयमाविशत् ॥
भीतास्ते संविदं कृत्वा सञ्चिन्त्य गुरुलाघवम् ॥ ८ ॥
सम्भूयान्योऽन्यममरा मामेव शरणं ययुः ॥
तमेकाग्रेण मनसा शङ्करं लोकशङ्करम् ॥९॥
उपायमात्रं दृष्टं मे ध्यायंस्तद्वेषभूषणैः ॥
यथा यत्र च सोऽस्माभिर्द्रष्टव्यो वृषभध्वजः ॥ 215.१० ॥
सर्वं त्रैलोक्यमस्माभिर्विचितं वै निरन्तरम्।
श्लेश्मातकवनोद्देशं स्थानं मुक्त्वा महीतले ॥ ११ ॥
आगच्छध्वं गमिष्यामस्तमुद्देशं सुरोत्तमाः ॥
इत्येवमुक्त्वा तैः सर्वैस्तामाशां प्रस्थिता वयम् ॥१२॥
तत्क्षणादेव सम्प्राप्ता विमानैः शीघ्रयायिभिः ॥
श्लेष्मातकवनं पुण्यं सिद्धचारणसेवितम् ॥ १३ ॥
तस्मिन्सुरमणीयानि विविधानि शुचीनि च ॥
ध्यानस्थानानि रम्याणि बहूनि गुणवन्ति च ॥ १४ ॥
आश्रमारण्यभागेषु दरीणां विवरेषु च ॥
विभ्राजद्वनराजाकी नद्यश्च विमलोदकाः ॥ १५ ॥
सिंहशार्दूलमहिषगोलाङ्गूलर्क्षवानरैः ॥
नादितं गजयूथैश्च मृगयूथैश्च तद्वनम् ॥ १५ ॥
प्रमुखे वासवं कृत्वा विविशुस्ते सुरास्तदा ॥
विमुच्य रथयानानि पद्भिः सिद्धादिसङ्कटम् ॥ १७ ॥
कन्दरोदरकूटेषु तरूणां गहनेषु च ॥
सर्वदेवमयं रुद्रं मार्गमाणाः शनैः शनैः ॥ १८ ॥
प्रविशन्तश्च ते देवा वनोद्देशं क्वचिच्छुभे ॥
कदलीवनसञ्छन्ने फुल्लपादपशोभिते ॥ १९ ॥
गिरिनद्यास्तु पुलिने हंसकुन्देन्दुसन्निभे ॥
गन्धामोदेन पुष्पाणां वासितं मधुगन्धिमत् ॥ 215.२० ॥
मुक्ताचूर्णनिकाशाभिर्वालुकाभिस्ततस्तत ॥
विक्रीडमानां ददृशुः कन्यां काश्चिन्मनोरमाम् ॥ २१ ॥
तत्र ते विबुधा दृष्ट्वा सर्वे मां समचोदयन् ॥
आद्योऽहं सर्वदेवानां कथमेतद्भवेदिति ॥ २२॥
मुहूर्त्तं ध्यानमास्थाय विज्ञाता सा मया तदा ॥
ध्रुवं शैलेन्द्रपुत्रीयमुमा विश्वेश्वरेश्वरी ॥ २३ ॥
ततस्तदुच्चशिखरमारुह्य विबुधेश्वराः ॥
अधो विलोक्य ते सर्वे ददृशुस्तं सुरोत्तमम् ॥ २४ ॥
मध्ये मृगसमूहस्य गोप्तारमिव संस्थितम् ॥
एकशृङ्गैकचरणं तप्तहाटकवर्चसम् ॥ २५ ॥
चारुवक्त्राक्षिदशनं पृष्ठतः शुक्लबिन्दुभिः ॥
शुक्लेनोदरभागेन राजतैरुपशोभितम् ॥ २६ ॥।
पीनोन्नतकटिस्कन्धं निमग्नांसशिरोधरम्॥
बिम्बोष्ठं ताम्रजिह्वास्यं दंष्ट्राङ्कुरविराजितम् ॥ २७ ॥
तं दृष्ट्वा विबुधाः सर्वे शिखरात्प्रतिधाविताः ॥
सर्वोन्द्यमेन तरसा तं मृगेन्द्रजिघृक्षवः ॥२८॥
शृङ्गाग्रं प्रथमं धृत्वा गृहीत्वा वज्रपाणिना ॥
मध्यं मया तस्य तदा गृहीतं प्रणतात्मना ॥२९ ॥
जग्राह केशवश्चापि मूलं तस्य महात्मनः ॥
त्रिभिरेवं गृहीतं तु त्रिधा भूतमभज्यत ॥215.३०॥
शक्रस्याग्रं स्थितं हस्ते मध्यं हस्ते मम स्थितम् ॥
विष्णोर्मूलं स्थितं हस्ते प्रविभक्तं त्रिधागतम् ॥३१॥
शृङ्गस्यैव गृहीतस्य त्रिधास्माकं मृगाधिपः॥
विषाणरहितस्तस्य प्रनष्टः पुनरत्र वै ॥३२॥
अन्तर्हितोऽन्तरिक्षस्थः प्रोवाचास्मानुपालभन् ॥
भो भो देवा मया यूयं वच्यमानानवाप्स्यथ ॥ ३३ ॥
सशरीरोऽहं युष्माभिर्वशाप्तः प्रगतस्त्वितः ॥
शृङ्गमात्रेण सन्तुष्टा भवन्तस्तेन वञ्चिताः ॥ ३४ ॥
यद्यहं सशरीरः स्यां गृहीत्वा स्थापितोऽभवम् ॥
तदा चतुष्पात्सकलो धर्मः स्यात्प्रतिपादितः ॥३५॥
कामं शृङ्गाणि मेऽत्रैव श्लेष्मात्मकवनेऽमराः ॥
न्यायतः स्थापयिष्यध्वं लोकानुग्रहकाम्यया ॥३६॥
अत्रापि महती व्युष्टिर्भविष्यति न संशयः॥
पुण्यक्षेत्रे सुमहति मत्प्रभावानुभाविते॥३७॥
यावन्ति भुवि तीर्थानि ह्यासमुद्र सरांसि च॥
क्षेत्रेऽस्मिंस्तानि तीर्थानि चागमिष्यन्ति मत्कृते॥३८॥
अहं पुनः शैलपतेः पादे हिमवतः शुभे ॥
नेपालाख्ये समुत्पत्स्ये स्वयमेव महीतलात् ॥३९॥
दीप्ततेजोमयशिराः शरीरं च चतुर्मुखम् ॥
शरीरेश इति ख्यातः सर्वत्र भुवनत्रये ॥ 215.४० ॥
तत्र नागह्रदे घोरे स्थास्याम्यन्तर्जले ह्यहम् ॥
त्रिंशद्वर्षसहस्राणि सर्वभूतहिते रतः ॥ ४१ ॥
यदा वृष्णिकुलोत्पन्नः कृष्णचक्रेण पर्वतान् ॥
पाटयित्वेन्द्रवचनाद्दानवान्निहनिष्यति ॥ ४२ ॥
तदा स देशो भविता सर्वम्लेच्छैरधिष्ठितः ॥
ततोऽन्ये सूर्यवंशीयाः क्षत्रियास्तान्निहत्य च ॥ ४३ ॥
वसिष्यन्ति च तं देशं ब्राह्मणैः सम्प्रवर्त्तितान् ॥
धर्मान्संस्थापयिष्यन्ति राज्यं प्राप्स्यन्ति शाश्वतम् ॥४४॥
ततो लिङ्गार्च्चनं तत्र प्रतिष्ठास्यन्ति पार्थिवाः॥
क्षत्रियाः सूर्यवंशीयाः शून्ये लप्स्यन्ति मां नृपाः ॥४५॥
ततो जनपदस्तत्र भविष्यति महांस्तदा ॥
स्फीतो ब्राह्मणभूयिष्ठसर्ववर्णाश्रमैर्युतः ॥ ४३ ॥
सम्यक्प्रवृत्ता राजानो भविष्यन्त्यायतौ स्थिताः ॥
एवं सम्यक्स्थिते तस्मिन्देशे पौरजने तथा ॥ ४७ ॥
तत्र मामर्च्चयिष्यन्ति सर्वभूतानि सर्वदा ॥
तत्राहं यैः सकृद्दृष्टो विधिवद्वन्दितस्तु यैः ॥४८॥
गत्वा शिवपुरं ते मां द्रक्ष्यन्ते दग्धकिल्बिषाः ॥
उत्तरेण तु गङ्गाया दक्षिणे चाश्विनीमुखात् ॥ ४९ ॥
क्षेत्रं हि मम तज्ज्ञेयं योजनानि चतुर्दश ॥
हिमाद्रेस्तुङ्गशिखरात्प्रोद्भूता वाग्म ( ङ्म) ती नदी ॥ 215.५० ॥
भागीरथ्याः शतगुणं पवित्रं तज्जलं स्मृतम् ॥
तत्र स्नात्वा हरेर्लोकानुपस्पृश्य दिवस्पतेः ॥५१ ॥
मुक्त्वा देहं नरा यान्ति मम लोकं न संशयः ॥
अपि दुष्कृतकर्माणः क्षेत्रेऽस्मिन्निवसन्ति ये ॥ ५२ ॥
नियतं पुरुहूतस्य श्रिताः स्थाने वसन्ति ते ॥
देवदानवगन्धर्वाः सिद्धविद्याधरोरगाः ॥५३॥
मुनयोऽप्सरसो यक्षा मोहिता मम मायया ॥
तद्वै गुह्यं न जानन्ति यत्र सन्निहितो ह्यहम् ॥ ५४ ॥
तपस्तपोधनानां च सिद्धक्षेत्रं हि तत्कृतम् ॥
प्रभासाच्च प्रयागाच्च नैमिषात्पुष्करादपि ॥ ५५ ॥
कुरुक्षेत्रादपि बुधाः क्षेत्रमेतद्विशिष्यते ॥
श्वशुरो मे स्थितो यत्र हिमवान् भूधरेश्वरः ॥ ५६ ॥
प्रभवन्ति यतः सर्वा गङ्गाद्याः सरितां वराः ॥
तस्मिन्क्षेत्रवरे पुण्ये पुण्याः सर्वाः सरिद्वराः ॥ ५७ ॥
सर्वे प्रस्रवणाः पुण्याः सर्वे पुण्याः शिलोच्चयाः ॥
आश्रमस्तत्र भविता सिद्धचारणसेवितः ॥५८॥
शैलेश्वर इति ख्यातः शरीरं यत्र मे स्थितम् ॥
स्रवन्तीनां वरा पुण्या वाग्मती पर्वतोत्तमात् ॥ ५९ ॥
भागीरथी वेगवती कलुषं दहते नृणाम् ॥
कीर्त्तनादेव संशुद्धे दर्शनाद्भूतिमाप्स्यति ॥ 215.६० ॥
पानावगाहनात्तस्यास्तारयेत्सप्त वै कुलान् ॥
लोकपालस्तु चरति तीर्थख्यातिं च तत्स्वयम् ॥ ६१ ॥
तत्र स्नात्वा दिवं यान्ति मृतास्ते त्वपुनर्भवाः ॥
स्नात्वा स्नात्वा तु ये तत्र नित्यमभ्यर्चयन्ति माम् ॥ ६२ ॥
उद्धराम्यहमेतान्वै प्रीतः संसारसागरात् ॥
यस्तस्य वारिणा पूर्णमेकं च घटमुद्धरेत् ॥ ६३ ॥
स्नापनार्थे मम शुचिः श्रद्दधानोऽनसूयकः ॥
वेदवेदाङ्गविदुषा श्रोत्रियेण विशेषतः ॥ ६४ ॥
आहृतस्याग्निहोत्रस्य यत्फलं तस्य तद्भवेत् ॥
तस्यास्तीरे जलोद्भेदं मन्मूलादभिनिःसृतम् ॥ ६५ ॥
मृगशृङ्गोदकं नाम नित्यं मुनिजनप्रियम् ॥
तत्राभिषेकं कुर्वीत उपस्पृश्य समाहितः ॥६६ ॥
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति॥
तीर्थं पञ्चनदं प्राप्य पुण्यं ब्रह्मर्षिसेवितम् ॥ ६७ ॥
अग्निष्टोमफलं तत्र स्नातमात्रः प्रपद्यते ॥
षष्टिं धेनुसहस्राणि यानि रक्षन्ति वाग्मतीम् ॥ ६८ ॥
न तां पापाः कृतघ्नो वा कदाचित्प्राप्नुयान्नरः॥
शुचयः श्रद्दधानाश्च सत्यसन्धाश्च ये नराः ॥६९ ॥
वाग्मत्यां ते नराः स्नान्ति लभन्ते चोत्तमां गतिम् ॥
आर्त्ता भीताश्च सन्तप्ता व्याधितोऽव्याधितोऽपि वा॥215.७० ॥
वाग्मत्याः सलिले स्नात्वा ये मां पश्यन्ति संस्कृताः॥
तेषां शान्तिर्भवेन्नित्यं पुरुषाणां न संशयः ॥७१ ॥
मत्प्रभावात्तु स्नातस्य सर्वं नश्यति किल्बिषम् ॥
ईतयः समुदीर्णाश्च प्रशमं यान्ति सर्वशः॥७२॥
वाग्मत्याः सलिले स्नात्वा ये मां पश्यन्ति संस्कृताः ॥
वाग्मती सरितां श्रेष्ठा यत्र यत्राऽवगाह्यते ॥७७३॥
तत्र तत्र फलं दद्याद्राजसूयाश्वमेधयोः ॥
योजनाभ्यन्तरं क्षेत्रं समन्तात्सर्वतोदिशम् ॥ ७४ ॥
मूलक्षेत्रं तु विज्ञेयं रुद्रेणाधिष्ठितं स्वयम् ॥
तत्र पूर्वोत्तरे पार्श्वे वासुकिर्नाम नागराट् ॥ ७५ ॥
वृतो नागसहस्रैस्तु द्वारि तिष्ठति मे सदा ॥
स विघ्नं कुरुते नृणां तत्क्षेत्रं विशतां सदा ॥ ७६ ॥
प्रथमं स नमस्कार्यस्ततोऽहं तदनन्तरम् ॥
अनेन विधिना पुंसामविघ्नं विशतां भवेत् ॥ ७७ ॥
वन्दते परया भक्त्या यो मां तत्र नरः सदा ॥
पृथिव्यां स भवेद्राजा सर्वलोकनमस्कृतः ॥ ७८ ॥
गन्धैर्माल्यैश्च मे मूर्त्तिमभ्यर्च्चयति यो नरः ॥
उत्पत्स्यते स देवेषु तुषितेषु न संशयः ॥ ७९ ॥
यस्तु दद्यात्प्रदीपं मे पर्वते श्रद्धयान्वितः ॥
सूर्यप्रभेषु देवेषु तस्योत्पत्तिर्विधीयते ॥ 215.८० ॥
गीतवादित्रनृत्यैस्तु स्तुतिभिर्जागरेण वा ॥
ये मे कुर्वन्ति सेवां वै मत्संस्थास्ते भवन्ति हि ॥ ८१ ॥
दध्ना क्षीरेण मधुना सर्पिषा सलिलेन वा ॥
स्नापनं ये प्रयच्छन्ति ते तरन्ति जरान्तकौ ॥८२ ॥
यः श्राद्धे भोजनं दद्याद्विप्रेभ्यः श्रद्धयान्वितः ॥
सोऽमृताशी भवेन्नूनं त्रिदिवे सुरपूजितः ॥ ८३ ॥
व्रतोपवासैर्होमैर्वा नैवेद्यैश्चारुभिस्तथा ॥
यजन्ते ब्राह्मणा ये मां परया श्रद्धयान्विताः ॥ ८४ ॥
षष्टिवर्षसहस्राणि चोषित्वा दिवि ते ततः ॥
ऐश्वर्यं प्रतिपद्यन्ते मर्त्यलोके पुनः पुनः॥८५॥
ब्राह्मणाः क्षत्रियो वैश्यः शूद्रः स्त्री वापि सङ्गताः ॥
शैलेश्वरं तु तत्स्थानं भक्तितः समुपासते ॥ ८६ ॥
मत्पार्षदास्ते जायन्ते सततं सहिताः सुरैः ॥
शैलेश्वरं परं गुह्यं गतिः शैलेश्वरः परा ॥
शैलेश्वरात्परं क्षेत्रं न क्वचिद्भुवि विद्यते ॥ ८७ ॥
ब्रह्महा गुरुहा गोघ्नः स्पृष्टो वै सर्वपातकैः ॥
क्षेत्रमेतदनुप्राप्य निर्मलो जायते नरः ॥ ८८ ॥
विविधान्यत्र तीर्थानि सन्ति पुण्यानि देवताः ॥
येषान्तोयैर्नरः स्पृष्टः सर्वपापैः प्रमुच्यते ॥८९॥
क्रोशं क्रोशं सुरै रूपं तच्च संहृत्य निर्मितम् ॥
तीर्थं क्रोशोदकं नाम पुण्यं मुनिजनप्रियम्॥215.९०॥
तत्र स्नात्वा शुचिर्दान्तः सत्यसन्धो जितेन्द्रियः॥
विमुक्तः किल्बिषैः सर्वैः सर्वमेव फलं लभेत्॥९१॥
अनाशकं व्रजेद्यस्तु दक्षिणेन महात्मनः ॥
शैलेश्वरस्य पुरुषः स गच्छेत्परमां गतिम् ॥९२॥
भृगुप्रपतनं कृत्वा कामक्रोधविवर्जितः॥
विमानेन दिवं गच्छेद्धृतः सोऽप्सरसाङ्गणैः॥९३॥
भृगुमूले परं तीर्थं ब्रह्मणा निर्मितं स्वयम् ॥
ब्रह्मोद्भेदेति विख्यातं तस्यापि शृणु यत्फलं॥९४॥
संवत्सरं तु यस्तत्र स्नास्यंस्तु नियतेन्द्रियः॥
स ब्रह्मलोके विरजे गच्छेन्नास्त्यत्र संशयः॥९५॥
तत्र गोरक्षकं नाम गोवृषः पदविक्षतम् ॥
दृष्ट्वा च तानि हि पुमान् गोसहस्रफलं लभेत् ॥९६॥
गौर्यास्तु शिखरं तत्र गच्छेत्सिद्धनिषेवितम् ॥
यत्र सन्निहिता नित्यं पार्वती शिखरप्रिया ॥९७॥
लोकमाता भगवती लोकरक्षार्थमुद्यता ॥
तस्याः सालोक्यमायाति दृष्ट्वा स्पृष्ट्वाभिवाद्य च ॥ ९८ ॥
त्यजते पतितुं तस्या अधस्ताद्वाग्मतीतटे ॥
उमालोकं व्रजेदाशु विमानेन विहायसा ॥ ९९ ॥
स्तनकुण्डे उमायास्तु यः स्नायात्खलु मानवः ॥
स्कन्दलोकमवाप्नोति भूत्वा वैश्वानर द्युतिः ॥ 215.१०० ॥
तीर्थं पञ्चनदं प्राप्य पुण्यं ब्रह्मर्षिसेवितम् ॥
अग्निहोत्रफलं तत्र स्नानमात्रेण लभ्यते ॥ १०१ ॥
नकुलोहेन मतिमान्स्नापयेत्प्रयतात्मवान् ॥
जातिस्मरः स तु भवेत्सिध्यते चास्य मानसम् ॥ १०२ ॥
तस्यैवोत्तरतस्तीर्थमपरं सिद्धसेवितम् ॥
नाम्ना प्रान्तकपानीयं गुह्यं गुह्यकरक्षितम् ॥ १०३ ॥
संवत्सरं यस्तु पूर्णं तत्र स्नायान्नरः सदा ॥
गुह्यकः स भवेदाशु रुद्रस्यानुचरः सुधीः ॥ १०४ ॥
देव्याः शिखरवासिन्या ज्ञेयं पूर्वोत्तरेण वै ॥
दक्षिणेन तु वाग्मत्याः प्रसृतं कन्दरोदरात् ॥ १०५ ॥
तीर्थं ब्रह्मोदयं नाम पुण्यं पापप्रणाशनम् ॥
तत्र गत्वा जलं स्पृष्ट्वा स्नात्वा चाभ्युक्ष्य मानवः ॥ १०६ ॥
मृत्युलोकं न पश्येत्स कृच्छ्रेषु च न सीदति ॥
गत्वा सुन्दरिकातीर्थं विधिना तीर्थमादिमम् ॥ १०७ ॥
तत्र स्नात्वा भवेत्तोये रूपवानुत्तमद्युतिः ॥
त्रिसन्ध्यं तत्र गच्छेत्तु पूर्वेण विधिवन्नरः ॥ १०८ ॥
तत्र सन्ध्यामुपास्याथ द्विजो मुच्येत किल्विषात् ॥
वाग्मत्या मणिवत्याश्च सम्भेदे पापनाशने ॥ १०९ ॥
अहोरात्रं वसेद्यस्तु रुद्रजापो द्विजः शुचिः ॥
स भवेद्वेदविद्विद्वान्यज्वा पार्थिवपूजितः ॥ 215.११० ॥
तारितं च कुलं तेन सर्वं भवति साधुना ॥
वर्णावरोऽपि यः कश्चित्स्नात्वा दद्यात्तिलोदकम् ॥ १११ ॥।
तर्पिताः पितरस्तेन भवेयुर्नात्र संशयः ॥
यत्र यत्र च वाग्मत्यां स्नाति वै मानवोत्तमः ॥ ११२ ॥
तिर्यग्योनिं न गच्छेत्तु समृद्धे जायते कुले ॥
वाग्मतीमणिवत्योश्च सम्भेदश्चर्षिसेवितः ॥ ११३ ॥
धीमान्गच्छेत्तु विधिना कामक्रोधविवर्जितः ॥
गङ्गाद्वारे तु यत्प्रोक्तं स्नानपुण्यफलं महत् ॥ ११४ ॥
स्नानस्य तद्दशगुणं भवेदत्र न संशयः ॥
अत्र विद्याधराः सिद्धा गन्धर्वा मुनयः सुराः ॥११५ ॥
स्नानमेतदुपासन्ते यक्षाश्च भुजगैः सह ॥
स्वल्पमप्यत्र यत्किञ्चिद्द्विजेभ्यो दीयते धनम् ॥ ११५ ॥
तदक्षयं भवेद्दातुर्दानपुण्यफलं महत् ॥
तस्मात्सर्वप्रयत्नेन करणीयं च देवताः ॥ ११७ ॥
वरिष्ठं क्षेत्रमेतस्मान्नान्यदेव हि विद्यते ॥
तस्मिन् श्लेष्मातकवने पुण्ये त्रिदशसेविते ॥ ११८ ॥
यत्र यत्र मया देवाश्चरता मृगरूपिणा ॥
आसितं स्वपितं यातं विहृतं वा समन्ततः ॥११९॥
तत्र तत्राभवत्सर्वं पुण्यक्षेत्रं च सर्वशः ॥
शृङ्गमेतत्त्रिधाभूतं सम्यक्संश्रूयतां सुराः ॥ 215.१२० ॥
गोकर्णेश्वर इत्येतत्पृथिव्यां ख्यातिमेष्यति ॥
एवं सन्दिश्य विबुधान्देवदेवः सनातनः ॥ १२१ ॥
अदृश्य एव विबुधैः प्रययावुत्तरां दिशम् ॥ १२२ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे भगवद्गोकर्णेश्वरमाहात्म्ये जलेश्वरमाहात्म्यवर्णनं नाम पञ्चदशाधिकद्विशततमोऽध्यायः ॥२१५॥