२१४

ब्रह्मोवाच ॥
अन्तर्हितं ततस्तस्मिन्भवे वै भूतनायके ॥
बभूव दिव्यः स तदा नन्दी गणचमूपतिः ॥ १ ॥
चतुर्भुजस्त्रिणयनो दिव्यसंस्थानसंस्थितः ॥
दिव्यवर्णवपूश्चारुर्दिव्यागुरुसमन्वितः ॥ २ ॥
त्रिशूली परिघी दण्डी पिनाकी मौञ्जमेखली ॥
शुशुभे तेजता तत्र द्वितीय इव शङ्करः ॥ ३ ॥
आस्थितः पादमाकृष्य ह्याह्वयन्निव स द्विजः ॥
त्रिभिः क्रमैः क्रान्तुमनास्त्रिविक्रम इवोद्यतः ॥ ४ ॥
तं दृष्ट्वा खेचराः सर्वा देवताः परिशङ्किताः ॥
आख्यातुं पुरुहूताय सम्भ्रान्ताः प्रययुर्दिवम् ॥ ५ ॥
तेभ्यः श्रुत्वा सहस्राक्षः सर्वे चान्ये दिवौकसः ॥
विषादं परमं गत्वा चिन्तामापेदिरे भृशम् ॥ ६ ॥
अयं कश्चिद्वरं लब्ध्वा ह्युमाकान्तान्महेश्वरात् ॥
अत्यूर्जितबलः श्रीमांस्त्रैलोक्यं प्राप्स्यति ध्रुवम् ॥ ७ ॥
यादृशोऽस्य महोत्साहस्तेजोबलसमन्वितः ॥
नूनमेष महासत्त्वो हरेत्स्थानं दिवौकसाम् ॥ ८ ॥
यावच्चैवोजसा नाकमसौ चङ्क्रमते प्रभुः ॥
प्रसादयामो वरदं तावदेव महेश्वरम् ॥ ९ ॥
एवमुक्त्वा तु ते तत्र मया सह सुरोत्तमाः ॥
गिरेर्मौञ्जवतः शृङ्गमाजग्मुर्देवनिर्मितम् ॥ 214.१० ॥
विधाता भगवान्विष्णुः प्रभुस्त्रिभुवनेश्वरः ॥
अभ्यधावंस्ततः सोऽथ स हि जानाति हृद्गतम् ॥ ११ ॥
कृतेन तेन विबुधाः पश्यन्ति मुनयश्च तं ॥
ततः स भगवान्विष्णुः सहदेवः सधातृकः ॥ १२ ॥
जगाम तत्र यत्रासौ नन्दी तिष्ठति देववत् ॥
नन्द्युवाच ॥
सफलं जीवितं मेऽद्य सफलश्च परिश्रमः ॥ १३ ॥
यन्मे दृष्टः सुराध्यक्षः सर्वलोकगुरुर्हरिः ॥
पर्याप्तं तन्ममाद्येह कृतकृत्योऽस्मि तेन वै ॥१४॥
यच्च मे प्रभुरव्यग्रः प्रीतः पापहरो हरः ॥
विधाय पार्षदत्वं मे वरानिष्टान्ददौ शिवः ॥१५॥
परो मेऽनुग्रहः सोऽत्र पूतोऽस्मि खलु साम्प्रतम् ॥
यच्चोक्तं विधिना वाक्यं देवान्प्रति महात्मना ॥१६॥
मामुद्दिश्य हितं तथ्यं तथैव च न चान्यथा ॥
यन्मां देवर्षयः प्रीत्या समागत्य प्रियंवदाः ॥१७॥
तेनास्मि परमप्रीत आदृतः परमेष्ठिना ॥
देवा ऊचुः ॥
वयं तं वरदं देवं द्रक्ष्यामस्ते वरप्रदम्॥१८॥
तवैष तपसा तुष्टः स्वयं प्रत्यक्षताङ्गतः ॥
इत्युक्तवन्तस्ते देवाः पुनरूचुर्द्विजोत्तमम् ॥ १९॥
कुत्र द्रक्ष्यामहे देवं भगवन्तं कपालिनम्॥
नन्द्युवाच ॥
अनुगृह्य तु मां देवस्तत्रैवादर्शनं गतः ॥214.२०॥
न जाने कुत्र वा देवं कुत्रास्ते तद्गवेष्यताम्॥
सनत्कुमार उवाच ॥
किमत्र नन्दिनं देवो येनासौ नोक्तवान्प्रभुम् ॥ २१॥
तन्मे कथय देवेश गुह्यं किं चास्ति शूलिनः ॥
ब्रह्मोवाच ॥
यदुक्तवान्महेशानो नाख्येयोऽस्मि पुरान्जनि ॥ २२ ॥
किमुक्तवान्महादेवो नन्दिनं तच्छृणुष्व मे ॥
ईश्वर उवाच ॥
अस्ति कश्चित्समुद्देशः क्षितेः सिद्धोऽद्रिसङ्कटः ॥ २३ ॥
पारे हिमवतः पुण्ये तपोवनगणैर्युतः ॥
तत्र श्लेष्मातको नाम वसते पन्नगोत्तमः ॥ २४ ॥
सोऽनुग्राह्यो मयावश्यं तपसा दग्धकिल्बिषः ॥
तदभ्याशे च रुचिरं न चासौ वानराश्रयः॥२५॥
तस्य नाम्ना च तत्स्थानं दिव्यं चिरतपोभृतम्॥
श्लेष्मातकवनं नाम पुण्यशीलशिलोच्चयम्॥२६॥
मृगरूपेण चरता तत्र वै त्रिदशा मया ॥
द्रष्टव्याः सञ्जिघृतक्षन्तः खिन्नाश्चान्वेषणे मम ॥ २७ ॥
नाख्यातव्यं त्वया तेषां देवताप्सरसामिदम् ॥
अनुगृह्य वरैस्तैश्च तत्रैवान्तरधीयत ॥ २८ ॥
विद्योतयन्दिशः सर्वास्त्रिदशैः परिवारितः ॥
बालकेन्दुनिभं दिव्यमर्च्चितं दिव्यबिन्दुभिः ॥ २९ ॥
कामगं रथमारुह्य महेन्द्रः समरुद्गणः ॥
आयातः शैलपृष्ठन्तमोजसा पूरयन्निव ॥ 214.३० ॥
गणावृतश्च वरदो वरुणो यादसाम्पतिः ॥
वज्रस्फटिक चित्रेण विमानेनातितेजसा ॥ ३१ ॥
तप्तकाञ्चनवर्णेन रत्नचित्रेण भास्वता ॥
विमानेनागतः शृङ्गे द्योतयन्वै धनाधिपः ॥ ३२ ॥
विमानशत कोटीभिरागतो यक्षराक्षसैः ॥
श्रीमद्भिर्बहुभिर्दिव्यैर्विमानैः सूर्यसन्निभैः ॥३३॥
अधिष्ठितः सुकृतिभिः प्रायाद्वैवस्वतोपमः ॥
चन्द्रादित्यौ ग्रहाः सर्वे समग्रं त्वृक्षमण्डलम् ॥ ३४ ॥
विमानैरग्नितुल्याभैराजग्मुः खान्महीधरम् ॥
रुद्रास्त्वेकादशा याताः सूर्या द्वादश चैव तु ॥ ३५ ॥
आगतावश्विनौ देवौ मौञ्जवन्तं महागिरिम् ॥
विश्वेदेवाश्च साध्याश्च गुरुश्च तपसान्वितः ॥ ३६ ॥
सञ्छाद्यैरावतपथं सहसाभ्याययुर्द्रुतम् ॥
स्कन्दश्चैव विशाखश्च भगवांश्च विनायकः ॥३७॥
सम्प्राप्तस्तं गिरिवरं मयूरशतनादितम् ॥
नारदस्तुम्बुरुश्चैव विश्वावसुपरावसू ॥ ३८ ॥
हाहाहूहूस्तथा चान्ये सर्वे गन्धर्वसत्तमाः ॥
वैहायसैर्यानवरैर्विविधैर्वासवाज्ञया ॥ ३९ ॥
अनिलश्चानलश्चैव धर्मः सत्यो ध्रुवोऽपरः ॥
देवर्षयश्च सिद्धाश्च यक्षा विद्याधरास्तथा ॥ 214.४० ॥
गुह्यकाश्च महात्मानः सर्व एव समागताः ॥
गन्धकाली घृताची च बुद्धा गौरी तिलोत्तमा ॥ ४१॥
उर्वशी मेनका रम्भा पञ्चस्या च तथापरा ॥
एताश्चान्याश्च तच्छैलमाजग्मुर्देवयोषितः ॥४२॥
पुलस्त्योऽत्रिर्मरीचिश्च वसिष्ठो भृगुरेव च ॥
कश्यपः पुलहश्चापि विश्वामित्रोऽथ गौतमः ॥४३॥
भारद्वाजोऽग्निवेश्यश्च तथा वृद्धपराशरः ॥
मार्कण्डेयोऽङ्गिरा गर्गः संवर्त्तः क्रतुरेव च ॥४४ ॥
मरीचिर्जमदग्निश्च भार्गवश्च्यवनस्तथा ॥
नियोगान्मम विष्णोश्च शक्रस्य त्रिदिवस्पतेः ॥४५॥
सिन्धुश्च पुरुषश्चैव सरयूश्च महानदी॥
ताम्रारुणा चारुभागा वितस्ता कौशिकी तथा ॥४१॥।
पुण्या सरस्वती कोका नर्मदा बाहुदा तथा ॥
शतद्रूश्च विपाशा च गण्डकी च सरिद्वरा ॥४७॥
गोदावरी च वेणी च तापी च सरिदुत्तमा ॥
करतोया स शीता च तथा चीरवती नदी ॥४८ ॥
नन्दा च परनन्दा च तथा चर्मण्वती नदी ॥
पर्णाशा दैविका चैव वितस्ता च तथापरा ॥ ४९ ॥
सिन्धुश्च पुरुषश्चैव प्रभासः सोम एव च ॥
लोहितश्चाययुस्तत्र गङ्गासागर एव च ॥ 214.५० ॥
अन्यानि चापि मेदिन्यां तीर्थान्यायतनानि च ॥ ५१॥
निजस्वरूपेणाजग्मुस्तत्र पुण्यान्यनेकशः ॥
उपागतानि चेन्द्रस्य नियोगादुत्तमं गिरिम् ॥ ५२॥
शैलोत्तमो महामेरुः कैलासो गन्धमादनः ॥
हिमवान्हेमकूटश्च निषधश्च महागिरिः ॥५३॥
विन्ध्यो महेन्द्रः सह्यश्च मलयो दर्दुरस्तथा ॥
माल्यवांश्चित्रकूटश्च तथा द्रोणः शिलोच्चयः ॥ ५४ ॥।
श्रीपर्वतो लतावेष्टः पारियात्रश्च शैलराट् ॥
आगताः सर्व एवैते शैलेन्द्राः काननौकसः॥५५॥
सर्वे यज्ञाः सर्वविद्या वेदाश्चत्वार एव च ॥
धर्मः सत्यं दमः स्वर्गः कपिलश्च महानृषिः ॥५६ ॥
वासुकिश्च महाभागश्चामृताशी भुजङ्गराट्॥
ज्वलत्फणासहस्रेण अनन्तश्च धराधरः ॥ ५७॥
फणीन्द्रो धृतराष्ट्रश्च किर्मीराङ्गश्च नागराट् ॥
अम्भोधरश्च स श्रीमान्नागराजो महाद्युतिः ॥५८॥
अर्बुदो न्यर्बुदबलस्तथा चक्षुःश्रवाधिपः ॥
विद्युज्जिह्वो द्विजेह्वेन्द्र शङ्खवर्च्चा महाद्युतिः ।५॥
ख्यातस्त्रिभुवने धीमान्नहुषोऽनिमिषेश्वरः ॥
विरोचनसुतः सत्यः स्फुटोमणिशतैश्चितः ॥ 214.६० ॥
फणाशतधरो रूपी भूरिशृङ्ग इवाचलः ॥
अरिमेजयसंयुक्तः प्रज्ञावान् भुजगेश्वरः ॥ ६१ ॥
विनतो नागराजश्च कम्बलाश्वतरौ तथा ॥
भुजगाधिपतिर्वीर एलापत्रस्तथैव च ॥ ६२ ॥
उरगानामधिपती कर्कोटकधनञ्जयौ ॥
एवमाद्याः समायाता भुजगेन्द्रा महाबलाः ॥ ६३ ॥
अहोरात्र तथा पक्षा मासाः संवत्सरास्तथा ॥
द्यौर्मेदिनी दिशश्चैव विदिशश्च समागताः ॥ ६४ ॥
ततश्चैवागतैर्देवैर्यक्षैः सिद्धैश्च सर्वशः॥
अपूर्यत गिरेः शृङ्गे वेला काले यथोदधेः॥६९॥
तस्मिन्देवसमाजे तु रम्ये शैलेन्द्रमूर्द्धनि॥
पुष्पाणि मुमुचुस्तत्र तरवो ह्यनिलार्दिताः ॥ ६६ ॥
प्रगीता देवगन्धर्वाः प्रनृत्ताप्सरसां गणाः ॥
पक्षिणः सम्प्रहृष्टाश्च कूजन्ति मधुरं तदा ॥ ६७ ॥
पुण्यगन्धाः सुखस्पर्शास्तत्र वान्ति च वायवः ॥
एवमागत्य ते सर्वे देवा विष्णुपुरोगमाः ॥ ६८ ॥
श्रिया ज्वलन्तं ददृशुर्नन्दिनं पुरतः स्थितम् ॥
स च तानागतान्द्रष्ट्वा गन्धर्वाप्सरसां गणान् ॥ ६९ ॥
स हि तान्दैवराजेन सार्द्धमन्यैश्च दैवतैः ॥
मूर्ध्ना प्रणम्य चरणौ प्राञ्जलिः प्रयतात्मवान् ॥ 214.७० ॥
सम्भ्रान्तः सहसा तेभ्यो नमस्कर्तुं प्रचक्रमे ॥
नमस्कृत्य च तान् सर्वान् स्वागतानभिभाष्य च ॥ ७१ ॥
अर्घ्यपाद्यादिभिः शीघ्रमासनैश्च न्यमन्त्रयत् ॥
प्रणिधानेन तस्यार्थं श्रुत्वा तत्प्रतिपूजयेत् ॥ ७२ ॥
आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि ॥
साध्या विश्वे सगन्धर्वा गुह्यकाश्च प्रपूजयेत् ॥ ७३ ॥
विश्वावसुर्हाहाहूहू तथा नारदतुम्बुरू ॥
चित्रसेनादयः सर्वे गन्धर्वास्तमपूजयन् ॥ ७४ ॥
तं वासुकिप्रभृतयः पन्नगेन्द्रा महौजसः ॥
सौम्यमभ्यर्च्चयन्ति स्म दृष्ट्वा नन्दीश्वरं तथा ॥ ७५ ॥
सिद्धचारणसङ्घाश्च विद्याश्चाप्सरसाङ्गणाः ॥
सत्कृतं देवदेवेन गणास्तमभिपूजयन् ॥ ७१ ॥
यक्षविद्याधराश्चैव ग्रहाः सागरपर्वताः ॥
सिद्धा ब्रह्मर्षयश्चैव गङ्गाद्याः सरितस्तथा ॥ ७७ ॥
आशिषः प्रददुस्तस्य सर्व एव मुदान्विता ॥
देवा ऊचुः ॥
स सुप्रीतोऽस्तु ते देवः सदा पशुपतिर्मुने ॥ ७८ ॥
सर्वत्र चाप्रतिहता गतिश्चास्तु तवानघ ॥
भवान्देवैस्तु वा न स्यादत ऊर्ध्वं द्विजोत्तम ॥ ७९ ॥
निरामयोऽमृतीभूतश्चरिष्यति विभुः सुखी ॥
लोकेषु सप्तसु विभो त्र्यम्बकेन सहाच्युत ॥ 214.८० ॥
इत्युक्तस्त्रिदशैर्नन्दी पुनस्तान्प्रत्युवाच ह ॥
नन्दिकेश्वर उवाच ॥
यद्भवद्भिः प्रियं सर्वैः प्रीतिमद्भिः सुरोत्तमैः ॥ ८१ ॥
आशिषाऽनुगृहीतोऽस्मि नियोज्योऽहं सदा हि वः ॥
ब्रूत यूयं किमस्माभिः कर्त्तव्यं भवतामिह ॥ ८२ ॥
आज्ञापयध्यमाज्ञप्तस्तस्माद्विबुधसत्तमाः ॥
तस्य तद्वचनं श्रुत्वा शक्रः प्रोवाच तं तदा ॥ ८३ ॥
शक्र उवाच॥
कुत्रासौ प्रस्थितो भद्र कुत्र वा स गतोऽपि वा ॥
पश्यामो विप्र तं सर्वे देवानामधिपं विभुम् ॥ ८४ ॥
स्थाणुमुग्रं शिवं देवं शर्वमेव स्वयं मुने ॥
यदि जानासि भगवानीश्वरो यत्र तिष्ठति ॥८५॥
तत्स्थानं नः समाख्याहि महर्षे शीघ्रमेव हि ॥
तच्छ्रुत्वा वचनं धीमदीरितं वज्रपाणिना ॥८६॥
प्रत्युवाच ततः शक्रं नन्दी पशुपतिं स्मरन् ॥
नन्दिकेश्वर उवाच ॥
श्रोतुमर्हसि देवेन्द्र यथातत्त्वं दिवस्पते ॥८७॥
अस्मिन्गिरौ मुञ्जवति स्थाणुरभ्यर्च्चतो मया ॥
प्रीतोऽसौ मां वरैर्दिव्यैरनुगृह्य हरः प्रभुः ॥८८
प्रीतो विनिर्गत इतस्तं विज्ञातुं बिभेम्यहम्॥
यद्याज्ञापयसे देवं चाहं त्वच्छासने स्थितः ॥८९॥
मार्गयामो हि यत्नेन भगवन्तं तु वासव ॥ 214.९० ॥
इति श्रीवराहपुराणे गोकर्णमाहात्म्ये नन्दिकेश्वरवरप्रदानं नाम चतुर्दशाधिकद्विशततमोऽ ध्यायः ॥ २१४ ॥