२१३

सूत उवाच ॥
पुरा देवैर्विनिहते सङ्ग्रामे तारकामये ॥
अत्युच्छ्रिते प्रतिबले दानवानां बले तथा ॥ १ ॥
सहस्राक्षे लब्धपदे क्षीणशत्रौ गतास्पदे ॥
सम्यक्प्रसूतिमापन्ने त्रैलोक्ये सचराचरे ॥ २ ॥
शृङ्गे चैवाचलेन्द्रस्य मेरोः सर्वहिरण्यये ॥
मणिविद्रुमविद्धे च विपुले पङ्कजासने ॥ ३ ॥
सुखोपविष्टमेकाग्रं स्थिरचित्तं कृतेक्षणम् ॥
निवृत्तकार्यं मुदितं सूर्यवैश्वानरद्युतिम् ॥ ४ ॥
प्रणम्य मूर्ध्ना चरणावुपगृह्य समाहितः ॥
ब्रह्माणं परिपप्रच्छ कुमारो नतिपूर्वकः ॥ ५ ॥
सनत्कुमार उवाच ॥
भगवञ्छ्रोतुमिच्छामि पुराणमृषिसंस्तुतम् ॥
पुराणं तु महाभाग त्वत्तस्तत्त्वविदां वर ॥६ ॥
कथमुत्तर गोकर्णं दक्षिणं च कथं विभो॥
शृङ्गेश्वरस्य परमं कथं सम्यक्प्रतिष्ठितम्॥७॥
क्षेत्रस्य कि प्रमाणं स्यात्किञ्च तीर्थफलं स्मृतम् ॥
कथं पशुपतिस्तत्र भगवान्मृगरूपधृक् ॥ ८ ॥
सर्वैस्त्वत्प्रमुखैर्देवैः कथमासादितं पुनः ॥
मृगरूपं कथं चास्य शरीरं क्व प्रतिष्ठितम् ॥ ९ ॥
यथा यत्र च यस्तत्र विधिः सम्यगनुष्ठितः ॥
तत्सर्वं निखिलेनाशु ब्रूहि मे वाग्विदां वर ॥ 213.१० ॥
एवमुक्तः स भगवान्ब्रह्मा ब्रह्मविदां वरः ॥
उवाच तस्मै पुत्राय गुह्यमेतत्पुरातनम् ॥ ११ ॥
ब्रह्मोवाच ॥
शृणु वत्स महाभाग यथातत्त्वं ब्रवीमि ते ॥
पुराणमेतद्ब्रह्मर्षे सरहस्यं यथाश्रुतम् ॥ १२ ॥
अस्ति भूधरराजस्य मन्दरस्योत्तरे शुचौ ॥
मुञ्जवान्नाम शिखरो नन्दनोपवनद्युतिः ॥ १३ ॥
वज्रस्फटिकपाषाणः प्रवालाङ्कुरशर्क्करः ॥
नीलामलशिलावर्णो गुहानिर्झरकन्दरः ॥ १४ ॥
विचित्रकुसुमोपेतैर्लतामञ्जीरधारिभिः ॥
रेजे यः प्रांशुभिः शृङ्गैरुल्लिखद्भिरिवाम्बरम् ॥ १५ ॥
दर्यस्तत्राधिकं रेजुर्नानाधातुपरिस्रवैः ॥
शिलीन्ध्रकुसुमोपेताश्चित्रिता इव सर्वतः ॥ १६ ॥
तेऽत्र केतकिखण्डाश्च कुन्दखण्डाश्च पुष्पिताः ॥
उन्मीलिता इवाभान्ति धातकीवनराजिभिः ॥१७॥
भिन्नेन्द्रनीलविमलैर्धौतैः प्रस्रवणाम्बुभिः ॥
चित्रैः कुसुमसञ्छन्नैः शिलाप्रस्तरविस्तरैः ॥१८॥
शक्रचापनिभै रम्यैः कुबेरभवनद्युतौ ॥
तस्मिन्नगवरे रम्ये महोरगनिषेविते ॥ १९ ॥
क्रीडद्भिर्देवमिथुनेर्नृत्यद्भिश्चाप्सरोगणैः ॥
कूजद्भिः शिखिभिर्मत्तैः सेविते च नगोत्तमे ॥ 213.२० ॥
कल्हारकुसुमोपेते हंससारससेविते॥
प्रसन्नसलिलाकीर्णे सरोभिः फुल्लपङ्कजैः ॥२१॥
गजयूथानुकीर्णाभिर्जुष्टाभिर्मृगपक्षिभिः ॥
सेविताभिर्मुनिगणैः सरिद्भिरुपशोभिते ॥ २२ ॥
किन्नरोद्गीतकुहरे परपुष्टनिनादिते ॥
विद्याधरशताकीर्णे देवगन्धर्व सेविते ॥ २३ ॥
धारापातैश्च तोयानां विस्फुलिङ्गैः सहस्रशः ॥
प्रज्वालितेऽतुले शृङ्गे रम्ये हरितशाद्वले ॥ २४ ॥
सर्वर्तुकवनोद्याने पुष्पाकरसुशोभिते ॥
यज्ञकिम्पुरुषावासे गुह्यकानामथाश्रये ॥ २५ ॥
तस्मिन्गिरिवरे रम्ये सेवितव्ये सुशोभने ॥
धर्मारण्ये तपःक्षेत्रे मुनिसिद्धनिषेविते ॥ २६ ॥
वरदस्तत्र भगवान्स्थाणुर्नाम महेश्वरः ॥
सर्वामरगुरुर्देवो नित्यं सन्निहितः प्रभुः ॥ २७ ॥
भक्तानुकम्पी स श्रीमान्गिरीन्द्रसुतया सह ॥
स ह्यध्यास्ते गिरिवरं पार्षदैश्च गुहेन च ॥ २८ ॥
विमानयायिनः सर्वे तं देवमजमव्ययम् ॥
आजग्मुः सेवितुं देवा वरेण्यमजमव्ययम् ॥ २९ ॥
अन्ये देवनिकायाश्च सेवितुं प्रपतन्ति तम् ॥
ततस्त्रेतायुगे काले नन्दी नाम महामुनिः ॥ 213.३० ॥
आरिराधयिषुः शर्वं तपस्तेपे सुदारुणम् ॥
ग्रीष्मे पञ्चतपास्तिष्ठेच्छिशिरे सलिलाश्रयः ॥ ३१ ॥
ऊर्ध्वबाहुर्निरालम्बस्तोयाऽनिलहुताशनैः ॥
व्रतैश्च विविधैरुग्रै स्तपोभिर्नियमैस्तथा ॥ ३२ ॥
जपपुष्पोपहारैश्च कालेकाले मुनिः सदा ॥
शङ्करं विधिवद्भक्त्या सोऽर्च्चयद्द्विजपुङ्गवः ॥ ३३ ॥
उग्रेण तपसात्मानं योजयामास सुव्रतः ॥
काष्ठभूतो यदा विप्रः कृशो धर्मसुसन्ततः ॥ ३४ ॥
क्षामोऽभूत्कृष्णवर्णश्च ततः प्रीतश्च शङ्करः ॥
सम्यगाराधितो भक्त्या नियमेन च तोषितः ॥ ३५ ॥
तदात्मदर्शनं प्रादात्स मुनेर्वृषभध्वजः ॥
उक्तवांश्च मुनिं शर्वश्चक्षुर्दिव्यं ददामि ते ॥ ३५ ॥
अदृश्यं पश्य मे रूपं वत्स प्रीतोऽस्मि ते मुने ॥
यत्पश्यन्तीह विद्वांसो रूपमप्रतिमौजसम् ॥३७॥
सहस्रसूर्यकिरणं ज्वालामालिनमूर्जितम् ॥
बालार्क मण्डलाकारं प्रभामण्डलमण्डितम्॥३८॥
जटाजूटतटाश्लिष्टं चन्द्रालङ्कृतशेखरम् ॥
जगदालोचनं श्रीमत्प्रदीप्तस्वत्रिलोचनम् ॥३९॥
प्रादेशमात्रं रुचिरं शतशीर्षं शतोदरम्॥
सहस्रबाहुचरणं सहस्राक्षिशिरोमुखम् ॥213.४०॥
अणीयसामणीयांसं बृहतां तु बृहत्तरम् ॥
अक्षमालापवित्राङ्गं कमण्डलु करोद्यतम्॥४१॥॥
सिंहचर्माम्बरधरं व्यालयज्ञोपवीतिनम् ॥
दृष्ट्वा देवं महादेवं हृष्टरोमा महातपाः ॥४२॥
प्राञ्जलिः प्रणतो भूत्वाऽगृणाद्ब्रह्म सनातनम् ॥
नमो धात्रे विधात्रे च सम्भवे वरदाय च ॥ ४३ ॥
जगद्भोक्त्रे त्रिनेत्राय शङ्कराय शिवाय च ॥
भवाय भवगोप्त्रे च मुनये कृत्तिवाससे ॥ ४४ ॥
नीलकण्ठाय भीमाय भूतभव्यभवाय च ॥
लम्बभ्रुवे करालाय हरिनेत्राय मीढुषे ॥ ४५ ॥
कपर्दिने विशालाय मुञ्जकेशाय धीमते ॥
शूलिने पशुपतये विभवे स्थाणवे तथा ॥ ४५ ॥
गणानां पतये स्रष्ट्रे सङ्क्षेप्त्रे भीषणाय च ॥
सौम्याय सौम्यतपसे भीमाय त्र्यम्बकाय च ॥ ४७ ॥
प्रेतावासनिवासाय रुद्राय वरदाय च ॥
कपालमालिने तस्मै हरिश्मश्रुधराय च ॥ ४८ ॥
भक्तप्रियाय सततं नमोऽस्तु परमात्मने ॥
एवं नन्दी भवं स्तुत्वा नमस्कृत्य च सर्वशः ॥ ४९ ॥
प्रणम्य शिरसा देवं पुनः पुनरवन्दत ॥
ततस्तु भगवान्प्रीतस्तस्मै विप्राय शङ्करः। ॥ 213.५० ॥
उवाच च वचः साक्षात्तमृषिं वरदः प्रभुः ॥
वरान्वृणीष्व विप्रेन्द्र यानिच्छसि महामुने ॥ ५१ ॥
तांस्ते सर्वान्प्रयच्छामि दुर्ल्लभानपि मारिष ॥
प्रभुत्वममरत्वं वा शक्रत्वमपि वा प्रभो ॥ ५२ ॥
ब्रह्मत्वं लोकपालत्वमपवर्गमथापि वा ॥
अथाष्टगुणमैश्वर्यं गाणपत्यमथापि वा ॥ ५३ ॥
यदिच्छसि मुने शीघ्रं तद्ब्रूहि द्विजपुङ्गव ॥
इत्युक्तोऽसौ भगवता शर्वेण मुनिपुङ्गवः ॥ ५४ ॥
प्रोवाच वरदं देवं प्रहृष्टेनान्तरात्मना ॥
न प्रभुत्वं न देवत्वं नेन्द्रत्वमपि वा प्रभो ॥ ५५ ॥
ब्रह्मत्वं लोकपालत्वं नापवर्गं वरप्रद ॥
नैवाष्टगुणमैश्वर्यं गाणपत्यं न च प्रभो ॥ ५६ ॥
स्पृहये देवदेवेश प्रसन्ने त्वयि शङ्कर ॥
यदि प्रीतोऽसि भगवन्ननुक्रोशतया मम ॥५७॥
अनुग्राह्यो ह्ययं देव त्वयावश्यं सुराधिप ॥
यथान्ये न भवेद्भक्तिस्त्वत्तो नित्यं महेश्वर ॥ ५८ ॥
तथाहं भक्तिमिच्छामि सर्वभूताशये त्वयि ॥
यथा च न भवेद्विघ्नं तपस्यानिरतस्य मे ॥ ५९ ॥
कोटिजप्येन रुद्राणामाराधनपरस्य च ॥
एतत्तु वचनं श्रुत्वा नन्दिनः स महेश्वरः ॥ 213.६० ॥
प्रहस्योवाच तं प्रीत्या ततो मधुरया गिरा ॥
प्रीतोऽस्म्युत्तिष्ठ विप्रर्षे तप्यमानेन सुव्रत ॥ ६१ ॥
आराधितश्च भक्त्याहं त्वया शुद्धेन चेतसा ॥
पर्याप्तं ते महाभाग तपः कर्तुं तपोधन ॥ ६२ ॥
निवर्त्तयति मां वत्स मत्पादाराधने रतः ॥
जप्ता ते त्रिगुणा कोटी रुद्राणां पुरतो मम ॥ ६३ ॥
पूर्णं वर्षसहस्रं च तपस्तीव्रं महामुने ॥
न कृतं यत्पुरा देवैर्नासुरैर्ऋषिभिर्न च ॥ ६४ ॥
कृतं सुमहदाश्चर्यं त्वया कर्म सुदुष्करम् ॥
सङ्क्षोभितमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ ६५ ॥
आगमिष्यन्ति ते द्रष्टुं देवाः सर्वे सवासवाः ॥
अक्षयश्चाव्ययश्च त्वमतर्क्यः ससुरासुरैः ॥ ६६ ॥
दिव्यतेजोवपूः श्रीमान्दिव्याभरणभूषितः ॥
मत्तुल्यो मत्प्रभावश्च त्वमेकः ससुरासुरैः ॥६७ ॥
मद्रूपधारी मत्तेजास्त्र्यक्षः सर्वगुणोत्तमः ॥
भविष्यसि न सन्देहो देवदानवपूजितः ॥ ६८ ॥
अनेनैव शरीरेण जरामरणवर्जितः ॥
दुष्प्राप्येयमवाप्ता ते देवैर्गाणेश्वरी गतिः ॥ ६९ ॥
पार्षदानां वरिष्ठस्त्वं मामकानां द्विजोत्तम ॥
नन्दीश्वर इति ख्यातो भविष्यसि न संशयः ॥ 213.७० ॥
प्राप्तमष्टगुणं सत्यमैश्वर्यं ते तपोधन ॥
द्वितीयां मे तनुं त्वां तु नमस्यन्ति च देवताः ॥ ७१ ॥
अद्यप्रभृति देवाग्र्य देवकार्येषु सर्वतः ॥
प्रभुस्त्वं भविता लोके मत्प्रसादान्मुनीश्वर ॥ ७२ ॥
त्वामेवाभ्यर्च्चयिष्यन्ति सर्वभूतानि सर्वतः ॥
मत्तः समभिवाञ्छन्ति प्रसादं पार्षदाधिप ॥ ७३ ॥
वरान्वरार्थिनां दाता विधाता जगतः सदा ॥
भविष्यसि च धर्मज्ञ भीतानामभयप्रदः ॥ ७४ ॥
यस्त्वां द्वेष्टि स मां द्वेष्टि यस्त्वामनु स मामनु ॥
नावयोरन्तरं किञ्चिदम्बरानिलयोरिव ॥ ७५ ॥
द्वारे तु दक्षिणे नित्यं त्वया स्थेयं गणाधिप ॥
वामे तु विभुना चापि महाकालेन सर्वदा ॥ ७६॥
प्रतीहारो भवानद्य सर्वदा त्रिदशोत्तमः ॥
शिरो मे रक्षतु भवान्महाकालेऽपि मे गणः ॥ ७७ ॥
न वज्रेण न दण्डेन न चक्रेण न चाग्निना ॥
काञ्चिच्छक्नोति वै बाधां कर्त्तुं वै भुवनत्रये ॥ ७८ ॥
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥
त्वामेव संश्रयिष्यन्ति मद्भक्ताः पुरुषाश्च ये ॥ ७९ ॥
त्वयि तुष्टे ह्यहं तुष्टः कुपिते कुपितस्त्वहम् ॥
त्वत्तः प्रियतरो नास्ति ममान्यो द्विजपुङ्गव ॥ 213.८० ॥
एवं तस्मै वरान्दत्त्वा प्रीतः स्वयमुमापतिः ॥
उवाच भूयः स्पष्टेन स्वरेणाम्बरचारिणा ॥ ८१ ॥
आगतान्विद्धि सर्वान्वै त्रिदशान्समरुद्गणान् ॥
दिदृक्षया च भद्रं ते कृतकृत्यश्च साम्प्रतम् ॥ ८२ ॥
यदीरितं मया वत्स वरं प्रतिवचस्त्वयि ॥
प्रविष्टं न श्रुतिपथं दिवि सर्वदिवौकसाम् ॥ ८३ ॥
नारायणं पुरस्कृत्य सेन्द्रास्ते समरुद्गणाः ॥
प्रेमार्थे चागमिष्यन्ति वरार्थं तपसाऽमराः ॥ ८४ ॥
यक्षविद्याधरगणाः सिद्धगन्धर्वपन्नगाः ॥
मुनयश्च महात्मानस्तपोलब्धाः सहस्रशः ॥८५॥
ते बुद्ध्वा त्वद्गतामृद्धि प्रतप्ताः परमेर्ष्यया ॥
तपांसि विविधान्यत्र विविधान्नियमांस्तथा ॥ ८६ ॥
चर्तुं समभिवाञ्छन्ति सदाभ्यासे वरार्थिनः ॥
वरदं यामभिज्ञाय गिरौ मौञ्जवति स्थितम् ॥ ८७ ॥
अत्रैते यावदागम्य न मां पश्यन्ति मानवाः ॥
तावदेव त्वितः शीघ्रं गमिष्यामि महामुने ॥ ८८ ॥
अद्य ते तु मया सर्वे देवा ब्रह्मपुरोगमाः ॥
द्रष्टव्याश्चानुमन्तव्या मत्तोऽनुग्रहकाङ्क्षिणः ॥ ८९ ॥
अभिप्रायं च सर्वेषां जानामि द्विजसत्तम ॥
अनुगुह्य वरैस्तैश्च तत्रैवान्तरधीयत ॥ 213.९० ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे गोकर्णेश्वरमाहात्म्ये त्रयोदशाधिकद्विशततमोऽ ध्यायः ॥ २१३ ॥