२१२

अथ संसारचक्रोपाख्याने प्रबोधनीयवर्णनम् ॥
नारद उवाच ॥
साधु साधु महाराज सर्वधर्मविदां वर ॥
त्वया तु कथिता दिव्या कथेयं धर्मसंहिता ॥१॥
अतोऽहमपि सुप्रीतस्तव धर्मपथे स्थितः ॥
तव वाक्यान्निस्सृतानि प्रोक्तानि च श्रुतानि च ॥२॥
त्वयाहं चैव राजेन्द्र पूजितश्च विशेषतः ॥
गच्छामि त्वरितो लोकान्यत्र मे रमते मनः ॥ ३ ॥
स्वस्ति तेऽस्तु महाराज त्वकम्पो भव सुव्रत ॥
एवमुक्त्वा ततो यातो नारदो मुनिसत्तमः ॥ ४ ॥
तेजसा द्योतयन्सर्वं गगनं भास्करो यथा ॥
विचचार दिवं रम्यां कामचारो महामुनिः ॥ ५॥
गते तस्मिंस्तु सुचिरं स राजा धर्मवत्सलः ॥
मां दृष्ट्वा सुमना विप्रा वाक्यैश्चित्रैरवन्दयन् ॥ ६ ॥
कृत्वा पूजां च मे युक्तां प्रियमुक्त्वा च सुव्रत ॥
विसर्जयामास विभुः सुप्रीतेनान्तरात्मना ॥ ७ ॥
एतद्वः कथितं विप्रास्तस्य राज्ञः पुरोत्तमे ॥
यथा दृष्टं श्रुतं चैव यथा चेहागतो ह्यहम् ॥८॥
वैशम्पायन उवाच ॥
तस्य तद्वचनं श्रुत्वा हृष्टपुष्टास्तपोधनाः ॥
केचिद्वैखानसास्तत्र केचिदासन्निरासनाः ॥ ९ ॥
साधु साध्विति चैवोक्त्वा विस्मयोत्फुल्ललोचनाः ॥
यायावरास्तथा चान्ये वानप्रस्थास्तथापरे ॥212.१०॥
शालानीश्च तथा केचित्कापोतीवृत्तिमास्थिताः ॥
तथा चान्ये जगुर्वृत्तिं सर्वभूतदयां शुभाम्॥११॥
शिलोञ्च्छाश्च तथैवान्ये काष्ठान्ताश्च महौजसः ॥
अपाकपाचिनः केचित्पाकिनश्च क्वचित्पुनः ॥ १२ ॥
नानाविधिधराः केचिज्जितात्मानस्तु केचन ॥
स्थानमौनव्रताः केचित्तथान्ये जलशायिनः ॥ १३ ॥
तथोर्द्ध्वशायिकाश्चान्ये तथान्ये मृगचारिणः ॥
पञ्चाग्नयस्तथा केचित् केचित्पर्णफलाशिनः ॥१४ ॥
अब्भक्षा वायुभक्षाश्च तथान्ये शाकभक्षिणः ॥
अतोऽन्येऽप्यतितीव्रं वै तपश्चैव प्रपेदिरे ॥ १५॥
तपसोऽन्यन्न चास्तीति चिन्तयित्वा पुनः पुनः ॥
जन्मनो मरणाच्चैव केचिद्धीरा महर्षयः ॥ १६ ॥
त्यक्त्वा धर्ममधर्मं च शाश्वतीं धियमास्थिताः ॥
श्रुत्वा चैव कथामेतामृषयो दिव्यवर्चसः ॥ १७ ॥
जगृहुर्नियमांस्तांस्तान्भयहेतोरनिन्दिताः ॥
नाचिकेतोऽपि धमार्त्मा पुत्रो दृष्ट्वा तपोधनम् ॥ १८ ॥
प्रीत्या परमया युक्तो धर्ममेवान्वचिन्तयत् ॥
वेदार्थममितं विष्णुं शुद्धं चिन्मयमीश्वरम् ॥ १९ ॥
चिन्तयामास धर्मात्मा तपः परममास्थितः ॥
इदं तु परमाख्यानं भगवद्भक्तिकारकम् ॥ 212.२० ॥
शृणुयाच्छ्रावयेद्वापि सर्वकामानवाप्नुयात् ॥ २१ ॥
इति श्रीवराहपुराणे प्रागितिहासे संसारचक्रोपाख्याने प्रबोधनीयं नाम द्वादशाधिकद्विशततमोऽध्यायः ॥ २१२ ॥