पुनः पापनाशोपायवर्णनम् ॥
ऋषिपुत्र उवाच॥
एतच्छ्रुत्वा शुभं वाक्यं धर्मराजस्य नारदः ॥
इदं भावेन भक्त्या च पुनर्वचनमब्रवीत् ॥ १ ॥
नारद उवाच ॥
समः सर्वेषु भूतेषु स्थावरेषु चरेषु च ॥
धर्मराज महाबाहो पितृतुल्यपराक्रम ॥ २ ॥
ब्राह्मणानां हितार्थाय यदुक्तं मे प्रदक्षिणम् ॥
इदं श्रेयतमाख्यानं श्रुतं श्रुतपरं पदम् ॥ ३ ॥
त्रयो वर्णा महाभाग यज्ञसामान्यभागिनः ॥
शूद्रा वेदपवित्रेभ्यो ब्राह्मणैस्तु बहिष्कृताः ॥ ४ ॥
यथैव सर्वसमता तव भूतेषु मानद ॥
तथैव तेषामपि हि श्रेयो वाच्यं महामते ॥ ५ ॥
यथा कर्म हितं वाक्यं शूद्राणामपि कथ्यताम् ॥
यम उवाच ॥
अहं ते कथयिष्यामि चातुर्वर्ण्यस्य नित्यशः ॥ ६ ॥
यद्धितं धर्मयुक्तं च नित्यं भवति सुव्रत ॥
केवलं श्रुतिसंयोगाच्छ्रद्धया नियमेन च ॥ ७ ॥
करोति पापनाशार्थमिदं वक्ष्यामि तच्छृणु ॥
गावः पवित्रा मङ्गल्या देवानामपि देवताः ॥ ८ ॥
यस्ताः शुश्रूषते भक्त्या स पापेभ्यः प्रमुच्यते ॥
सौम्ये मुहुर्ते संयुक्ते पञ्चगव्यं तु यः पिबेत् ॥ ९ ॥
यावज्जीव कृतात्पापात्तत्क्षणादेव मुच्यते ॥
लाङ्गूलेनोद्धृतं तोयं मूर्ध्ना गृह्णाति यो नरः ॥211.१० ॥
सर्वतीर्थफलं प्राप्य स पापेभ्यः प्रमुच्यते ॥
प्रस्रवेण च यः स्नायाद्रोहिण्यां मानवे द्विज ॥ ११ ॥
सर्वपापकृतान्दोषान्दहत्याशु न संशयः ॥
धेनुस्तनाद्विनिष्क्रान्तां धारां क्षीरस्य यो नरः ॥ १२ ॥
शिरसा प्रतिगृह्णाति स पापेभ्यः प्रमुच्यते ॥
ब्राह्मणस्तु सदा स्नातो भक्त्या परमया युतः ॥१३॥
नमस्येत्प्रयतो भूत्वा स पापेभ्यः प्रमुच्यते ॥
उदयान्निःसृतं सूर्यं भक्त्या परमया युतः ॥ १४ ॥
नमस्येत्प्रयतो भूत्वा स पापेभ्यः प्रमुच्यते ॥
दध्यक्षताञ्जलीभिस्तु त्रिभिः पूजयते शुचिः ॥१५॥
तस्य भानुः प्रसन्नश्च ह्यशुभं यत्समर्जितम् ॥
तस्य भानुः स सन्दह्य दूरीकुर्यात्सदा द्विज ॥१६॥
तावकं दधिमिश्रं तु पात्रे औदुम्बरे स्थितम् ॥
सोमाय पौर्णमास्यां हि दत्वा पापैः प्रमुच्यते ॥ १७॥
अरुन्धतीं बुधं चैव तथा सर्वान्महामुनीन् ॥
अभ्यर्च्य वेदविधिना तेभ्यो दत्त्वा च तावकम् ॥ १८ ॥
एकाग्रमानसो भूत्वा यो नमस्येत्कृताञ्जलिः ॥
किल्बिषं तस्य वै सर्वं तत्क्षणादेव नश्यति ॥ १९ ॥
द्विजं शुश्रूषते यस्तु तर्पयित्वातिभक्तितः ॥
नमस्येत्प्रयतो भूत्वा स पापेभ्यः प्रमुच्यते ॥ 211.२० ॥
विषुवेषु च योगेषु शुचिर्दत्त्वा पयो नरः ॥
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति ॥ २१ ॥
प्राचीनीग्रान्कुशान् कृत्वा स्थापयित्वा वृषं नरः ॥
द्विजैः सह नमस्कृत्य सर्वपापैः प्रमुच्यते ॥ २२ ॥
दक्षिणावर्त्तसव्येन कृत्वा प्राक्स्रोतसं नदीम् ॥
कृत्वाऽभिषेकं विधिवत्ततः पापात्प्रमुच्यते ॥ २३ ॥
दक्षिणावर्त्तशङ्खेन कृत्वा चैव करे जलम् ॥
शिरसा तद्गृहीत्वा तु विप्रो हृष्टमनाः शुचिः ॥ २४ ॥
तस्य जन्मकृतं पापं तत्क्षणादेव नश्यति ॥
प्राक्स्रोतसं नदीं गत्वा नाभिमात्रजले स्थितः॥२५॥
स्नात्वा कृष्णतिलैर्मिश्रा दद्यात्सप्ताञ्जलीर्नरः ॥
प्राणायामत्रयं कृत्वा ब्रह्मचारी जितेन्द्रियः ॥ २६ ॥
यावज्जीवकृतं पापं तत्क्षणादेव नश्यति ॥
अच्छिद्रपद्मपत्रेण सर्वरत्नोदकेन तु ॥ २७ ॥
त्रिधा यस्तु नरः स्नायात्सर्वपापैः प्रमुच्यते ॥
अन्यच्च ते प्रवक्ष्यामि गुह्याद्गुह्यतरं मुने ॥ २८ ॥
कार्त्तिकेऽमलपक्षे तु स्मृता ह्येकादशी तिथिः ॥
भुक्तिमुक्तिप्रदा या तु नाम्ना ख्याता प्रबोधिनी ॥ २९ ॥
या सा विष्णोः परा मूर्त्तिरव्यक्तानेकरूपिणी ॥
सा क्षिप्ता मानुषे लोके द्वादशी मुनिपुङ्गव ॥ 211.३० ॥
ये उपोष्यन्ति विधिवन्नारायणपरायणाः ॥
न तेषामशुभं किञ्चिज्जन्मकोटिकृतं मुने ॥ ३१ ॥
एकादशीं समाश्रित्य पुरा पृष्टो महेश्वरः ॥
वाराहरूपी धरया सर्वलोकहिताय वै ॥ ३२ ॥
धरण्युवाच ॥
अस्मिन्कलियुगे घोरे नराः पापरताः प्रभो ॥
ब्रह्मस्वहरणे युक्ता तथा ब्राह्मणघातकाः ॥ ३३ ॥
गुरुद्रोहरता देव मित्रद्रोहरतास्तथा ॥
स्वामिद्रोहरताश्चैव परदाराभिमर्शकाः ॥ ३४ ॥
परद्रव्यापहरणे संसक्ताश्च सुरेश्वर ॥
अभक्ष्यभक्षणरता वेदब्राह्मणनिन्दकाः ॥ ३५ ॥
दाम्भिका भिन्नमर्यादा नायमस्तीति वादिनः ॥
असत्प्रतिग्रहे सक्ता अगम्यागमने रताः ॥ ३६ ॥
एतैश्चान्यैश्च पापैश्च संसक्ता ये नरा विभो ॥
किमासाद्य गतिर्देव तेषां वद सुरेश्वर ॥ ३७ ॥
श्रीवराह उवाच ॥
साधु देवि महाभागे यत्पृष्टोऽहं वरानने ॥
रहस्यं ते प्रवक्ष्यामि लोकानां हितकाम्यया ॥३८ ॥
महापातकयुक्ता ये नराः सुकृतवर्जिताः ॥
तेषां मया हितार्थाय निर्मितं तच्छृणुष्व मे ॥ ३९ ॥
या सा विष्णोः परा शक्तिरव्यक्तानेकरूपिणी ॥
सा मर्त्ये निर्मिता भूमे द्वादशीरूपधारिणी ॥ 211.४० ॥
तामुपोष्य नरा भद्रे महापापरताश्च ये ॥
पुण्यपापविनिर्मुक्ता गच्छन्ति पदमव्ययम्॥४१॥
उपायोऽतःपरो नान्यो विद्यते हि वसुन्धरे ॥
एकादशीं विना येन सर्वपापक्षयो भवेत् ॥४२॥
यथा शुक्ला तथा कृष्णा ह्युपोष्या सा प्रयत्नतः ॥
शुक्ला भक्तिप्रदा नित्यं कृष्णा मुक्तिं प्रयच्छति॥४३॥
तस्मात्सर्वप्रयत्नेन कर्त्तव्या द्वादशी सदा॥
यदीच्छेद्वैष्णवं लोकं गन्तुं वै भूतधारिणि॥४४॥
मनसा वचसा चैव कर्मणा समुपार्जितम् ॥
पापं मासकृतं पुंसां दहत्येकादशी कृता ॥ ४५ ॥
दहन्तीह पुराणानि भूयोभूयो वरानने ॥
न भोक्तव्यं न भोक्तव्यं सम्प्राप्ते हरिवासरे ॥ ४६ ॥
यदीच्छथ नरा गन्तुं तद्विष्णोः परमं पदम् ॥
न भोक्तव्यं न भोक्तव्यं तदा केशववासरे॥४७॥
ऊर्ध्वबाहुर्विरौम्येष प्रलापं मे शृणुष्व तम् ॥
आराधयस्व विश्वेशमेकादश्यामतन्द्रितः ॥ ४८ ॥
न शङ्खेन पिबेत्तोयं न हन्यान्मत्स्यसूकरौ ॥
एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥ ४९ ॥
स ब्रह्महा सुरापश्च स स्तेयी गुरुतल्पगः ॥
एकादश्यां तु यो भुङ्क्ते पक्षयोरुभयोरपि ॥211.५०॥
किं तेन न कृतं पापं दुर्वृत्तेनात्मघातिना ॥
एकादश्यां विशालाक्षि भुक्तं येन विजानता ॥५१॥
एकादशीं च यः शुक्लामसमर्थं उपोषितुम् ॥
तदा नक्तं प्रकर्त्तव्यं तथाऽयाचितमेव वा ॥ ५२ ॥
एकभक्तेन दानेन कर्त्तव्यं द्वादशीव्रतम् ॥
न करोति यदा भूमे व्रतं वा दानमेव वा ॥ ५३॥
महापातकभागी स्यात्सुगतिं नाप्नुयात्क्वचित् ॥
उपवासासमर्थानां तथैव पृथुलोचने ॥ ९४ ॥
एका सा द्वादशी पुण्या उपोष्या सा प्रबोधिनी ॥
तस्यामाराध्य विश्वेषं जगतामीश्वरेश्वरम् ॥ ५५ ॥
प्राप्नोति सकलं चैतद्द्वादशद्वादशीफलम् ॥
पूर्वाभाद्रपदायोगे सैव या द्वादशी भवेत ॥ ५६ ॥
अतीव महती तस्यां सर्वं कृतमिहाक्षयम् ॥
उत्तराभाद्रसहिता यदि सैकादशी भवेत् ॥ ५७ ॥
तदा कोटिगुणं पुण्यं केशवाल्लभते फलम् ॥
सकृद्देवेऽर्च्चिते तस्यां लभते भूतधारिणि ॥ ५८ ॥
यथा प्रबोधिनी पुण्या तथा यस्यां स्वपेद्धरिः ॥
उपोष्या हि महाभागे त्वनन्तफलदा हि सा ॥ ५९ ॥
शयने बोधने चैव हरेस्तु परिवर्त्तने ॥
उपोष्यैव विधानेन नरो निर्मलतां व्रजेत् ॥ 211.६० ॥
तस्मात्सर्वप्रयत्नेन द्वादशीं समुपोषयेत् ॥
यदीच्छेत्तु विशालाक्षि शाश्वतीं गतिमात्मनः ॥ ६१ ॥
एकादशी सोमयुता कार्त्तिके मासि भामिनि ॥
उत्तराभाद्रसंयोगे अनन्तफलदा हि सा ॥ ६२ ॥
तस्यां यत्क्रियते भद्रे तदनन्तगुणं स्मृतम् ॥
एकादशी भौमयुता यदा स्याद्भूतधारिणि ॥ ६३ ॥
स्नात्वा देवे समभ्यर्च्य प्राप्नोति परमं फलम् ॥
प्राप्नोति सकलं चैव द्वादशद्वादशीफलम् ॥ ६४ ॥
जलपूर्णं तथा कुम्भं स्थापयित्वा विचक्षणः ॥
पञ्चरत्नसमोपेतं घृतपात्रयुतं तथा ॥ ६५ ॥
तस्योपरि न्यसेन्मत्स्यस्वरूपं तु जनार्दनम् ॥
निष्कमात्रसुवर्णेन घटितं तु वरानने ॥ ६६ ॥
पञ्चामृतेन संस्नाप्य कुङ्कुमेन विलेपितम् ॥
पीतवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम् ॥ ६७ ॥
पूजयेत् कमलैर्देवि मद्भक्तः संयतेन्द्रियः ॥
मत्स्यं कूर्मं वराहं च नरसिंहं च वामनम् ॥६८॥
रामं रामं च कृष्णं च बुद्धं चैव च कल्किनम् ॥
एवं दशावतारांश्च पूजयेद्भक्तिसंयुतः ॥ ६९ ॥
पुष्पैर्धूपैस्तथा दीपनैवद्यैर्विविधैरपि ॥
सम्पूज्यैवमलङ्कारैर्विविधैरुपशोभितम् ॥ 211.७० ॥
रात्रौ चोत्थापनं कार्यं देवदेवस्य सुव्रते॥
प्रभाते विमले स्नात्वा भक्त्या सम्पूज्य केशवम्॥७१॥
पुष्पधूपादिनैवेद्यैः फलैर्नानाविधैः शुभैः॥
ततस्तु पूजयेद्विद्वानाचार्यं भक्तिसंयुतः ॥७२॥
अलङ्कारोपहारैश्च वस्त्राद्यैश्च स्वशक्तितः ॥
पूजयित्वा विधानेन तं देवं प्रतिपादयेत् ॥ ७३ ॥
जगदादिर्जगद्रूपो जगदादिरनादिमान् ॥
जगदादिर्जगद्योनिः प्रीयतां मे जनार्दनः ॥ ७४ ॥
अनेनैव विधानेन कुर्यादेकादशीव्रतम् ॥
तस्य पुण्यं भवेद्यत्तु तच्छृणुष्व वसुन्धरे ॥ ७१ ॥
यदि वक्त्रसहस्राणां सहस्राणि भवन्ति तैः ॥
सङ्ख्यातुं नैव शक्यन्ते प्रबोधिन्यास्तथा गुणाः ॥ ७६ ॥
तथाप्युद्देशमात्रेण शक्त्या वक्ष्यामि तच्छृणु ॥
चन्द्रतारार्कसङ्काशमधिष्ठायानुजीविभिः ॥ ७७ ॥
सहैव यानमागच्छेन्मम लोकं वसुन्धरे ॥
ततः कल्पसहस्रान्ते सप्तद्वीपेश्वरो भवेत् ॥ ७८ ॥
आयुरारोग्यसम्पन्नो जन्मातीतो भवेत्ततः ॥
ब्रह्मघ्नश्च सुरापश्च स्तेयी च गुरुतल्पगः ॥ ७९ ॥
पापान्येतानि सर्वाणि श्रवणेनैव नाशयेत्॥211.८०॥
पश्ये च धीमानधनोऽपि भक्त्या स्पृशेन्मनुष्यं इह चिन्त्यमानः॥
शृणोति भक्तस्य मतिं ददाति विकल्मषः सोऽपि दिवं प्रयाति ॥ ८१ ॥
दुःस्वप्नः प्रशममुपैति पठ्यमाने माहात्म्ये भवभयहारके नरस्य ॥
यः कुर्याद्व्रतवरमेतदव्ययाया बोधिन्याः किमुत फलं तु तस्य वाच्यम् ॥ ८२ ॥
ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम्॥
तैरात्मजन्म सफलं कृतं ये व्रतकारकाः ॥ ८३ ॥
नारायणाच्युतानन्त वासुदेवेति यो नरः ॥
सततं कीर्त्तयेद्भूमे याति मल्लयतां प्रिये ॥ ८४ ॥
किं पुनः श्रद्धया युक्तः पूजयेन्मामनन्यधीः ॥
गुरूपदिष्टमार्गेण याति मल्लयतां नरः ॥ ८५ ॥
तस्य यज्ञवराहस्य विष्णोरमिततेजसः ॥
प्रयाणं ये च कुर्वति ते पूज्याः सततं सुरैः ॥८६॥
तस्मात् सुनियतैर्भाव्यं वैष्णवं मार्गमास्पदम्॥
दुर्ल्लभं वैष्णवत्वं हि त्रिषु लोकेषु सुन्दरि॥८७॥
जन्मान्तरसहस्रेषु समाराध्य वृषध्वजम् ॥
वैष्णवत्वं लभेत् कश्चित्सर्वपापक्षये सति ॥ ८८॥
पापक्षयमवाप्नोति चेश्वराराधने कृते ॥
ज्ञानमन्विच्छता रुद्रं पूजयेत्परमेश्वरम् ॥८९॥
मामाराध्य तथा याति तद्विष्णोः परमं पदम् ॥
वैष्णवा हि महाभागाः पुनन्ति सकलं जगत्॥211.९०॥
संस्मृतः कीर्तितो वापि दृष्टः स्पृष्टोऽपि वा प्रिये ॥
पुनाति भगवद्भक्तश्चाण्डालोऽपि यदृच्छया॥९१॥
एतज्ज्ञात्वा तु विद्वद्भिः पूजनीयो जनार्दनः॥
वेदोक्तविधिना भद्रे आगमोक्तेन वा सुधीः॥९२॥
यम उवाच ॥
एतच्छ्रुत्वा महाभागा धरणी संशितव्रता ॥
समाराध्य जगन्नाथं विधिना तल्लयङ्गता ॥ ९३ ॥
अतो यत्नेन वै साध्यं वैष्णवत्वं विपश्चिता ॥
ये वैष्णवा महात्मानो विष्णुपूजनतत्पराः ॥ ९४॥
तेषां नैवास्त्ययं लोको यान्ति तत्परमं पदम्॥
ये सकृद्द्वादशीमेतामुपोष्यन्ति विधानतः ॥९५॥
प्रबोधनाख्यां सुधियस्ते यान्ति परमं पदम् ॥
न यमं यातनादण्डान्नरकं न च किङ्करान् ॥९६ ॥
पश्यन्ति द्विजशार्दूल इति सत्यं मयोदितम् ॥
एतत्ते सर्वमाख्यातं यथादृष्टं यथाश्रुतम् ॥९७॥
कथितं मे महाभाग यत्त्वया परिपृच्छितम्॥
स्वयम्भुवा यथा प्रोक्तं गुह्याख्यानं महामुने ॥९८॥
तत्ते सर्वं समासेन व्याख्यातं धर्मवत्सल ॥ ९९ ॥
इति श्रीवराहपुराणे पापनाशोपायवर्णनं नामैकादशाधिकद्विशततमोऽध्यायः ॥ २११ ॥