पुनः पतिव्रतामाहात्म्यवर्णनम् ॥
नारद उवाच ॥
रहस्यं धर्ममाख्यानं त्वयोक्तं तु महायशः ॥
स्त्रीणां माहात्म्यमुद्दिश्य भास्करस्य मतं यथा ॥ १ ॥
इदं हि सर्वभूतेषु परं कौतूहलं मम ॥
तदहं श्रोतुमिच्छामि कथयस्व महातपाः ॥ २ ॥
ये नरा दुःखसन्तप्तास्तपस्तीव्रं समाश्रिताः ॥
नानाव्रतशतोपायैः सुखहेतोर्महाप्रभ ॥ ३ ॥
मनसा निश्चितात्मानस्त्यक्त्वा सर्वप्रियाप्रियम् ॥।
काङ्क्षन्ते बहवः केचित्केनचिद्विनिहन्यते॥४॥
श्रुता लोके श्रुतिस्तात श्रेयोधर्मा हि नित्यशः॥
सम्यक्कृच्छ्राश्रितस्याथ कथं पापे मतिर्भवेत्॥५॥
कस्यैतच्चेष्टितं तात कर्त्ता कारयितापि वा ॥
कः कर्षति जगच्चैको भूतग्रामं चतुर्विधम् ॥ ६ ॥
कं वा द्वेषं पुरस्कृत्य मतिस्तस्य प्रवर्त्तते ॥
सुखदुःखादि लोकेऽस्मिन्प्रकरोति सुदारुणम् ॥ ७ ॥
यद्येवं तु मया गुह्यं दुर्विज्ञेयं सुरैरपि ॥
शक्यं श्रोतुं महाराज तदाख्याहि तपोधन ॥ ८ ॥
नारदेनैवमुक्तस्तु धर्मराजो महामनाः ॥
विनयात्प्रश्रितं वाक्यमिदमाह महामुनिम् ॥ ९ ॥
यम उवाच ॥
देवर्षे श्रूयतां पुण्यं यद्ब्रवीषि महामुने ॥
त्वदुक्त्या मे कथयतः शृणुष्वावहितोऽनघ ॥ 210.१० ॥
न कश्चिद्दृश्यते लोके कर्त्ता कारयितापि वा ॥
यद्वै परमधर्मात्मन् यस्मिन्कर्म प्रतिष्ठितम् ॥ ११ ॥
यस्य वै कीर्त्त्यते नाम येन चाज्ञाप्यते जगत् ॥
व्यवहरामि वचश्चाहं यः करोति स्वयं कृतम् ॥ १२ ॥
दिव्येऽस्मिन् सदसि ब्रह्मन् ब्रह्मर्षिगणसंवृते ॥
यथाश्रुतं यथादृष्टं कथयिष्याम्यहं विभो ॥१३॥
स्वकर्म भुज्यते तात सम्भूतैर्यत्कृतं स्वयम् ॥
आत्मानं पातयत्यात्मा किञ्चित्कर्म च कारयेत् ॥ १४॥
वायुना भाविता सञ्ज्ञा संसारे सा दृढीकृता ॥
तामेव भजते जन्तुः सुकृतं वाथ दुष्कृतम् ॥ १५ ॥
अभिघाताभिभूतस्तु आत्मनात्मानमुद्धरेत् ॥
आत्मा शत्रुश्च बन्धुश्च न कश्चिद्बन्धुरात्मनः ॥ १६ ॥
बन्धुं बन्धुपरिक्लेशं निर्मितं पूर्वकर्मभिः ॥
जगत्यामुपभुङ्क्ते वै जीवा योनिशतैरपि॥१७॥
मिथ्याप्रवृत्तः शब्दोऽयं जगद्भ्रमति सर्वशः ॥
यावत्तत्कुरुते कर्म तावत्कर्म स्वयङ्कृतम् ॥ १८ ॥
यथा यथा क्षयं याति ह्यशुभं पुरुषस्य वै ॥
तथा तथा शुभा बुद्धिर्मनुजस्य प्रवर्त्तते ॥ १९ ॥
संसारे प्राप्तदोषस्य जायमानस्य देहिनः ॥
पततां च गतो भावः पापकर्मक्षयेन तु ॥ 210.२० ॥
शुभाशुभकरीं बुद्धिं लभते पौर्वदैहिकीम् ॥
दुष्कृतैः कर्मभिर्देही शुभैर्वा स्वयमर्जितैः॥
क्लेशक्षयं पापहरं शुभं कर्म करोत्यथ ॥२१॥
शुभाशुभं नरः प्राप्य कर्माकर्म तथैव च॥
विवृते विमले कर्मण्यमरेषु महीयते॥२२॥
स्वर्गः शुभफलप्राप्तिर्निरयः पापसम्भवः ॥
नैव कश्चित्प्रदाता च नापहर्ता प्रदृश्यते ॥ २३ ॥
नारद उवाच ॥
यद्येवं स्वकृतं कर्म समन्वेति शुभाशुभम् ॥
शुभस्येह भवेदवृद्धिरशुभस्य क्षयोऽपि वा ॥ २४ ॥
मनसा कर्मणा वापि तपसा चरितेन वा ॥
यथा न रोहते जन्तुस्तथा त्वं वक्तुमर्हसि ॥ २५ ॥
यम उवाच ॥
इदं पुण्यं पवित्रं च ह्यशुभानां शुभप्रदम् ॥
कीर्त्तयिष्यामि ते सम्यक्पापदोषक्षयं सदा ॥ २६ ॥
प्रणम्य शिरसा सम्यक्पापपुण्यकराय च ॥
कर्तृणे जगतो नित्यं विश्वस्य जगतो ह्यहम् ॥२७॥
येन सृष्टमिदं सर्वं त्रैलोक्यं सचराचरम् ॥
अनादिमध्यनिधनं दुर्विज्ञेयं सुरासुरैः ॥ २८ ॥
यः समः सर्वभूतेषु जितात्मा शान्तमानसः ॥
स पापेभ्यो विमुच्येत ज्ञानवान्सर्ववेदवित् ॥२९ ॥
तत्त्वार्थं वेत्ति यः सम्यक्पुरुषं प्रकृतिं तथा ॥
ज्ञात्वा वा यो न मुह्येत पदं प्राप्नोति शाश्वतम् ॥210.३०॥
गुणागुणपरिज्ञाता ह्यक्षयस्य क्षयस्य च ॥
ध्याने नैव ह्यसम्मूढः स पापेभ्यः प्रमुच्यते ॥३१॥
स्वदेहे परदेहे च सुखदुःखेन नित्यशः ॥
विचारज्ञो भवद्येस्तु स मुच्येतैनसा ध्रुवम् ॥३२॥
अहिंस्रः सर्वभूतेषु तृष्णाक्रोधविवर्जितः ॥
शुभन्यायः सदा यश्च स पापेभ्यः प्रमुच्यते ॥ ३३ ॥
प्राणायामैश्च निर्गृह्य त्वधः सन्धारणानि च ॥
व्यवस्थितमना यस्तु स पापेभ्यः प्रमुच्यते ॥ ३४ ॥
निराशः सर्वतस्तिष्ठेदिष्टार्थेषु न लोलुपः॥
परीतात्मा त्यजेत्प्राणान्सर्वपापात्प्रमुच्यते ॥३५॥
श्रद्दधानो जितक्रोधः परद्रव्यविवर्जकः ॥
अनसूयश्च यो मर्त्यः स पापेभ्यः प्रमुच्यते ॥ ३६ ॥
गुरुशुश्रूषया युक्तस्त्वहिंसानिरतश्च यः ॥
अक्षुद्रशीलस्तु नरः स पापेभ्यः प्रमुच्यते ॥३७॥
प्रशस्तानि च यः कुर्यादप्रशस्तानि वर्जयेत् ॥
मङ्गले परमो यश्च स पापेभ्यः प्रमुच्यते ॥३८॥
योऽभिगच्छति तीर्थानि विशुद्धेनान्तरात्मना ॥
पापादुपरतो नित्यं स पापेभ्यः प्रमुच्यते ॥ ३९ ॥
उत्थाय ब्राह्मणं गच्छेन्नरो भक्त्या समन्वितः ॥
अभिगम्य प्रदानेन स पापेभ्यः प्रमुच्यते ॥ 210.४० ॥
नारद उवाच ॥
एतच्छ्रेयोहितं चैव सर्वेषां वै परन्तप ॥
उपपन्नं च युक्तं च तत्त्वया समुदाहृतम् ॥ ४१ ॥
विविधैः कारणोपायैः सम्यक्तत्त्वार्थदर्शितैः ॥
संशयोऽभून्मम पुरा स त्वया नाशितः प्रभो ॥ ४२ ॥
ततोऽप्यल्पतरश्चेत्स्यादुपायो योगवित्तम ॥
कथ्यतां मे महाभाग येन पापं प्रणश्यति ॥४३॥
दुष्करं पूर्वमुक्तं हि योगधर्मस्य साधनम् ॥
पापापहरणं लोके यदन्यत्सुखसाधनम् ॥ ४४ ॥
अल्पोपायकरं चैव सुखोपायं च सर्वशः ॥
येन पापकृतान्दोषानपोहति सुदारुणान्॥४५॥
आत्मायत्ताश्च ये नित्यं न च विस्तारविस्तरः ॥
गुणैश्च विविधैर्युक्ता इहलोके परत्र च ॥ ४६ ॥
कर्मणामशुभानां च विविधोत्पत्तिजन्मनाम् ॥
यः समर्थः स्फोटयितुं तन्मे ब्रूहि महातपाः ॥ ४७ ॥
यम उवाच ॥
यथा स भगवानाह धर्ममेतं प्रजापतिः ॥
तदहं भावयिष्यामि नमस्कृत्य स्वयम्भुवम् ॥ ४८ ॥
लोकानां श्रेयसोऽर्थं तु पापानां तु विनाशनम् ॥
क्रियाकारनियोगं च प्रोच्यमानं निबोध मे ॥ ४९ ॥
कैवल्यमभिसम्पन्ने श्रद्दधानो भवेन्नरः ॥
अनन्यमानसः कुर्याद्यथा धर्मानुशासनम् ॥ 210.५० ॥
प्राप्नुयादीप्सितान्कामान्पापैर्मुक्तो यथासुखम् ॥
यः कुर्याद्धर्मसंयुक्तं विशुद्धेनान्तरात्मना ॥ ५१ ॥
यस्तु कारयते रूपं शिशुमारं प्रजापतिम् ॥
दृष्ट्वा नमस्येत्प्रयतः स पापेभ्यः प्रमुच्यते ॥ ५२ ॥
यदा तस्य शरीरस्थं सोमं पश्येत्समाहितः ॥
महापातकनाशस्तु तदा तस्य विधीयते ॥ ५३ ॥
ललाटे तूत्थितं दृष्ट्वा मुच्यते च स पातकैः ॥
कण्ठस्थं पातकैः सर्वैर्ह्रदिस्थं च कृताकृतैः ॥ ५४॥
मनसा कर्मणा वाचा यत्किञ्चित्कलुषं कृतम् ॥
उदरस्थं तु तं दृष्ट्वा मुच्यते नात्र संशयः ॥ ५५ ॥
वाङ्मनोभिः कृतानां तु पापानां विप्रमोक्षणम् ॥
यदा लाङ्गलकण्ठे तु स्थितं पश्येद्दिवाकरम् ॥ ५६ ॥
तदा स दुष्कृतान्सर्वान्विनाशयति मानवः ॥
यदा सोमं गुरुं सर्वं यः कुर्यात्तु प्रदक्षिणम् ॥५७॥
ध्यायेत ह्यक्षयं यस्तु स पापेभ्यः प्रमुच्यते ॥
भृगुर्बुधः शनैश्चारो लोहिताङ्गश्च वीर्यवान् ॥५८॥
सौम्यरूपो यदा चन्द्रः कुरुते च प्रदक्षिणाम् ॥
हृदि कृत्वा तु तत्पापं यो ध्यायेदक्षरं शुचिः ॥५९॥
तदा निर्मलतां याति चन्द्रमाः शारदो यथा ॥
प्राणायामशतं कृत्वा सर्वपापैः प्रमुच्यते ॥ 210.६० ॥
जघनस्थं शुचिर्दृष्ट्वा नरश्चन्द्रमसं मुने ॥
नमस्येत्प्रयतो भूत्वा सर्वपापैः प्रमुच्यते ॥ ६१ ॥
आर्द्रस्थमार्द्रकर्मा तु ध्यात्वा चाष्टशताक्षरम् ॥
यदा चन्द्रश्च सूर्यश्च द्वावन्योऽन्यं प्रपश्यतः ॥ ६२ ॥
सम्पूर्णौ विमलौ सम्यग्भ्राजमानौ स्वतेजसा ॥
कृत्वा हृदि तथा पापं यो ध्यायेत्परमव्ययम् ॥ ६३ ॥
वामनं ब्राह्मणं दृष्ट्वा वाराहं च जलोत्थितम् ॥
धरणी चोद्धृता येन सिंहं चापि महामुने ॥ ६४ ॥
नमस्येद्वै पयोभक्षः स पापेभ्यः प्रमुच्यते ॥
प्राणायामं च यः कुर्यात्सोऽपि पापात्प्रमुच्यते ॥ ६९ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे पापनाशोपायनिरूपणं नाम दशाधिकद्विशततमोऽध्यायः ॥२१० ॥