२०८

अथ पतिव्रतोपाख्यानवर्णनम् ॥
ऋषिपुत्र उवाच ॥
मुहूर्त्तस्य तु कालस्य दिव्याभरणभूषितान् ॥
प्रयातान्दिवि सम्प्रेक्ष्य विमानैः सूर्यसन्निभैः ॥ १ ॥
ब्राह्मणास्तपसा सिद्धाः सपत्नीकाः सबान्धवाः ॥
सानुरागा ह्युभयतो मन्युनाभिपरिप्लुताः ॥ २ ॥
विवर्णवदनो राजा प्रभातेजोविवर्जितः ॥
अचिरादेव सञ्जातः क्रोधेन भृशदुःखितः ॥ ३ ॥
तं तथा निष्प्रभं दृष्ट्वा धर्मराजं तपोधनः ॥
नारदश्चाब्रवीत्तत्र ज्ञात्वा तस्य मनोगतम् ॥ ४ ॥
अपि त्वं भ्राजमानस्तु पशोः पतिरिवापरः ॥
कस्मात्ते शोभनं वक्त्रं क्षणाद्वैवर्ण्यमापतत् ॥ ५ ॥
विनिःश्वसन्यथा नागः कस्मात्त्वं परितप्यसे ॥
राजन्कस्माद्बिभेषि त्वमेतदिच्छामि वेदितुम् ॥ ६ ॥
यम उवाच ॥
विवर्णं जायते वक्त्रं शुष्यते न च संशयः ॥
यन्मया हीदृशं दृष्टं श्रूयतां तन्महामुने ॥ ७ ॥
यायावरास्तु ये विप्रा उञ्छवृत्तिपरायणाः ॥
दृढस्वाध्यायतपसो ह्रीमन्तो ह्यनसूयकाः ॥ ८ ॥
अतिथिप्रियकाश्चैव नित्ययुक्ता जितेन्द्रियाः ॥
ते त्वहम्मानिनः सर्वे गच्छन्त्युपरि मे द्विज ॥ ९ ॥
न च मामुपतिष्ठन्ति न चैव वशगा मम ॥
मस्तकं मम गच्छन्ति सपत्नीकाः सहानुगाः ॥ 208.१० ॥
दिव्यगन्धैर्विलिप्ताङ्गा माल्यभूषितवाससः ॥
सृजन्तो मम माल्यानि तेन ताम्ये द्विजोत्तम ॥ ११ ॥
मृत्यो तिष्ठसि कस्यार्थे को वा मृत्युः कथं भवेत् ॥
कि त्वं न भाषसे मृत्यो ब्रूहि लोके निरर्थकः ॥ १२ ॥
लोभासक्तान्सदा हंसि पापिष्ठान्धर्मवर्जितान् ॥
एषां तपसि सिद्धानां नाहं विग्रहवानिह ॥ १३ ॥
निग्रहानुग्रहौ नापि मया शक्यौ महात्मनाम् ॥
कर्त्तुं वा प्रतिषेद्धुं वा तेन तप्ये भृशं मुने .॥ १४ ॥
एतस्मिन्नन्तरे तत्र विमानेन महाद्युतिः ॥
पतिव्रता समं भर्त्रा सानुगा सपरिच्छदा॥१५॥
महता तूर्यघोषेण सम्प्राप्ता प्रियदर्शना ॥
धर्मराजहितं सर्वं धर्मज्ञा धर्मवत्सला ॥१६॥
साब्रवीत्तु विमानस्था साधयन्ती शुभाङ्गना ॥
विचित्रं प्रसृतं वाक्यं सर्वसत्त्वसुखावहम् ॥ १७॥
पतिव्रतोवाच॥
धर्मराज महाबाहो कृतज्ञः सर्वसम्मतः ॥
मैवमीर्षां कुरुष्व त्वं ब्राह्मणेषु तपस्विसु॥
एतेषां तपसां वीर माहात्म्यं बलमेव च ॥
अचिन्त्याः सर्वभूतानां ब्राह्मणा वेदपारगाः ॥१९ ॥
ब्राह्मणाः सततं पूज्या ब्राह्मणाः सर्वदेवताः ॥
मात्सर्यं क्रोधसंयुक्तं न कर्त्तव्यं द्विजातिषु ॥208.२०॥
त्वया शुभाशुभं कर्म नित्यं पूजा मनस्विनाम् ॥
रागो वा रोषमोहौ वा न कर्तव्यौ सदा सताम् ॥ २१ ॥
प्रयाता गगने दृष्टा विद्युत्सौदामिनी यथा ॥
दृष्ट्वा पतिव्रतां नारीं धर्मराजेन पूजिताम् ॥ २२ ॥
अब्रवीन्नारदस्तत्र धर्मराजं तथागतम् ॥ २३ ॥
नारद उवाच ॥
का चैषा सुमहाभागा सुरूपा प्रमदोत्तमा ॥
या त्वया पूजिता राजन् हितमुक्त्वा गता पुनः ॥२४॥
एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे ॥
एतन्मे सुमहाभाग कथयस्व समासतः ॥२५॥
यम उवाच ॥
अहं ते कथयिष्यामि कथां परमशोभनाम् ॥
एषा मया यथा तात पूजितापि च कृत्स्नशः ॥ २६ ॥
पुरा कृतयुगे तात निमिर्नाम महायशाः ॥
आसीद्राजा महातेजाः सत्यसन्ध इति श्रुतः ॥ २७ ॥
तस्य पुत्रो मिथिर्नाम जननाज्जनकोऽभवत् ॥
तस्य रूपवती नाम पत्नी प्रियहिते रता ॥ २८ ॥
सा चाप शुभकर्माणि पतिभक्ता पतिव्रता ॥
प्रीत्या परमया युक्ता भर्त्तुर्वचनकारिणी ॥ २९ ॥
सोऽपि राजा महाभागः सर्वभूतहिते रतः ॥
धर्मात्मा च महात्मा च सत्यसन्धो महातपाः ॥ 208.३० ॥
य इमां पृथिवीं सर्वां धर्मेण परिपालयन् ॥
न व्याधिर्न जरा मृत्युस्तस्मिन्राजनि शासति ॥ ३१ ॥
ववर्ष सततं देवस्तस्य राष्ट्रे महाद्युतेः ॥
एवं बहुगुणोपेतं तस्य राज्यं महात्मनः ॥ ३२ ॥
न कश्चिद् दृश्यते मर्त्यो रुजार्त्तो दुःखितोऽपि वा ॥
अथात्र बहुकालस्य राजानं मिथिलाधिपम्॥३३॥
उवाच राज्ञी विप्रेन्द्र विनयात्प्रश्रितं वचः॥३४॥
राज्ञ्युवाच ॥
भृत्यानां च द्विजातीनां तथा परिजनस्य च ॥
यदस्ति द्रविणं किञ्चित्पृथिव्यां यद्गृहे च ते ॥ ३५॥
विनियुक्तं तु तत्सर्वं सान्निध्यं तु तथा त्वया ॥
न च राजन्विजानासि भोजनस्य प्रशंससि ॥ ३६ ॥
नास्ति तन्नियमः कश्चित्पुष्पमूल्यं च नास्ति नः ॥
न वा गवादिकं किञ्चिन्न च वस्त्राणि कर्हिचित् ॥ ३७ ॥
न चैव वार्षिकः कश्चिद्विद्यते भाजनस्य च ॥
दृश्यते हि महाराज मम चैवाथ सुव्रत ॥ ३८ ॥
यत्कर्तव्यं मया वापि तन्मे ब्रूहि नराधिप ॥
कर्त्र्यस्म्यहं विशेषेण यद्वाक्यमपि मन्यसे ॥ ३९ ॥
राजोवाच ॥
न शक्यमुपरोधेन वक्तुं भामिनि विप्रियम् ॥
न च पश्याम्यहं देवि तव चैव जनस्य च ॥ 208.४० ॥
तद्ब्रवीमि यथाशक्त्या यदि मे मन्यसे प्रिये ॥
हविष्ये वर्त्तमानानामिदं वर्षशतं गतम् ॥ ४१ ॥
कुद्दालेन हि काष्ठेन क्षेत्रं वै कुर्महे प्रिये ॥
ततो धर्मविधिं तत्त्वात्प्राप्नुयां मे न संशयः ॥४२॥।
भक्ष्यं भोज्यं च ये ये च ततस्त्वं सुखमाप्स्यसि ॥
एवमुक्ता ततो राज्ञी राजानमिदमब्रवीत् ॥ ४३ ॥
देव्युवाच ॥
भृत्यानां तु सहस्राणि तव राजन्निवेशने ॥
अश्वानां च गजानां च सैरिभानां तथैव च ॥ ४४ ॥
उष्ट्राणां महिषाणां च खराणां च महायशाः ॥
एते सर्वे कथं राजन्न कुर्वन्ति तवेप्सितम् ॥ ४५ ॥
राजोवाच ॥
नियुक्तानि हि कर्माणि वार्षिकाणीतराणि च ॥
सर्वकर्माणि कुर्वन्ति ये भृत्या मे वरानने ॥ ४६ ॥
बलीवर्दाः खरा अश्वा गजा उष्ट्रा ह्यनेकशः ॥
सर्वे नियुक्ता मे देवि सर्वकर्मसु शोभने ॥ ४७ ॥
आयसं त्रापुषं ताम्रं राजतं काञ्चनं तथा ॥
नियुक्तानि तु सर्वाणि सर्व कर्मस्वनिन्दिते ॥ ४८ ॥
ननु पश्याम्यहं देवि किञ्चिद्धैमं न चायसम् ॥
येन कुर्यामहं देवि कुद्दालं सुसमाहितः ॥४९॥
एवमुक्ता महादेवी तेन राज्ञा सुशोभना ॥
हृष्टपुष्टमना देवी राजानमिदमब्रवीत् ॥ 208.५० ॥
गच्छ राजन्यथाकाममनुयास्यामि पृष्ठतः ॥
एवमुक्तः सुनिष्क्रान्तः सभार्यः स नरेश्वरः ॥ ५१ ॥
ततो राजा च देवी च क्षेत्रं मृगयतस्तदा ॥
गतौ च परमाध्वानं ततो राजाब्रवीदिदम् ॥ ५२ ॥
इदं भद्रं मम क्षेत्रमास्स्वात्र वरवर्णिनि ॥
यावद्गुल्मानिमान् भद्रे कण्टकांश्च वरानने ॥ ५३ ॥
अहं छिनद्मि वै देवि त्वमेताञ्छोधय प्रिये ॥
एष ते कर्म योगस्तु ततः प्राप्स्यामि चेप्सितम् ॥ ५४ ॥
एवमुक्ता महादेवी तेन राज्ञा तपोधन ॥
उवाच मधुरं वाक्यं प्रहसन्ती नृपाङ्गना ॥ ५५ ॥
वृक्षोऽत्र दृश्यते पार्श्वे सौवर्णो गुल्म एव च ॥
पानीयस्य तु सान्निध्यं न किञ्चिदिह दृश्यते ॥ ५६ ॥
कथं क्षेत्रं करिष्यावो हृद्रोगस्य तु कारकम् ॥
इयं नदी ह्ययं वृक्ष इयं भूमिः समांसला ॥ ५७ ॥
अस्मिन्वापि कृतं कर्म कथं गुणकरं भवेत् ॥
तस्यास्तद्वचनं श्रुत्वा राजा वचनमब्रवीत् ॥ ५८ ॥
शुभं सानुनयं वाक्यं भूतानां गुणवत्सलः ॥
पूर्वगृहे भवेत्पूर्वं विनियुक्तं तथा प्रिये ॥ ५९ ॥
पानीयस्य तु पार्श्वेन सन्निकृष्टेन सुन्दरि ॥
चतुर्थं जनपर्यन्तं न किञ्चिदिह दृश्यते ॥ 208.६० ॥
अयं गृहो महादेवि न च बाधाऽत्र कस्यचित् ॥
ततस्तच्छोधयामास तत्क्षेत्रं भार्यया सह ॥ ६१ ॥
वियन्मध्ये तथोग्रश्च सविता तपते सदा ॥
समृद्धश्च तदा तत्र निदाघः काल आगतः ॥ ६२ ॥
प्रवृद्धो दारुणो घर्मः कालश्चैवातिदारुणः ॥
ततः सा तृषिता देवी क्षुधिता च तपस्विनी ॥ ६३ ॥
स्निग्धौ ताम्रतलौ पादौ तस्यां सन्तापमागतौ ॥
गुणप्रवाहरक्तौ तु तस्याः पादौ च सुव्रत ॥ ६४ ॥
सूर्यस्य पादा मध्याह्ने तापयन्त्यग्निसन्निभाः ॥
ततः सा व्यथिता देवी भर्त्तारमिदमब्रवीत् ॥ ६५ ॥
तृषितास्मि महाराज भृशमुष्णेन पीडिता ॥
पानीयं दीयतां राजन्मम शीघ्रं प्रसादतः ॥ ६६ ॥
इत्युक्त्वा पतिता देवी विह्वला दुःखपीडिता ॥
पतन्त्या च तया सूर्यो दृष्टो विह्वलया तथा ॥ ६७ ॥
यदृच्छया पतन्त्या तु सूर्यः कोपेन वीक्षितः ॥
ततो विवस्वान् भगवान् सन्त्रस्तो गगने तदा ॥ ६८॥
दिवं मुक्त्वा महातेजाः पतितो धरणीतले ॥
ततो दृष्ट्वा तु राजाऽसौ स्वभावेन च वर्जितम् ॥ ६९ ॥
किमर्थमिह तेजस्विंस्त्यक्त्वा मण्डलमागतः ॥
किं करोमि महातेजाः सर्वलोकनमस्कृतः ॥ 208.७० ॥
एवं ब्रुवन्तं राजानं सूर्यः सानुनयोऽब्रवीत् ॥
पतिव्रता शुभाक्षी च ममैषा रुषिता भृशम् ॥ ७१ ॥
ततोऽहं पतितो राजंस्तव कार्यानुशासनः ॥
अनया सदृशी नारी त्रैलोक्ये नैव विद्यते ॥ ७२ ॥
पृथिव्यां स्वर्गलोके वा न काचिदिह दृश्यते ॥
अहोऽस्याः परमं सत्त्वमहोऽस्याः परमं तपः ॥ ७३॥
अहो धैर्यं च शक्तिश्च तवैवं शंसिता गुणाः॥
तथेयं ते महाभाग तव चित्तानुसारिणी॥७४॥
अनुरूपा विशुद्धा च तपसा च वराङ्गना॥
पतिव्रता च साध्वी च नित्यं तव हिते रता॥७९॥
सदृशी ते महाभाग शक्रस्येव यथा शची ॥
पात्रं पात्रवता प्राप्तं सुकृतस्य महत्फलम् ॥७६॥
अनुरूपः सुरूपो वा यतो जातः सुयन्त्रितः ॥
मा च ते वितथः कामो भवेच्चैव नराधिपः ॥७७ ॥
कुरुष्व दयितं क्षेत्रं यथा मनसि वर्त्तते ॥
भोजनार्थं महाराज त्वदन्यो न हि विद्यते॥७८॥
फलदं च यशस्यं च भविष्यति हि कामदम्॥
एवमुक्त्वा ततः सूर्यः ससर्ज जलभाजनम्॥७९॥
उपानहौ च छत्रं च दिव्यालङ्कार भूषितम् ॥
ददौ च राज्ञे सविता प्रीत्या परमया युतः ॥208.८० ॥
उपभोक्तुं सुखस्यार्थं सुपुण्यस्य विशेषतः ॥
दत्त्वा तत्पुण्यकर्माणं ततः प्राह दिवाकरः ॥ ८१ ॥
एवमुक्त्वा तु भगवांस्तथा तत्कृतवान् क्वचित् ॥
राज्ञा च जनकेनैव प्रियाया हितकाम्यया ॥ ८२ ॥
ततः साप्यायिता देवी तोयेन शुभलक्षणा ॥
लब्धसञ्ज्ञा गतभया राजानमिदमब्रवीत् ॥ ८३ ॥
देवी दृष्ट्वा तदाश्चर्यं विस्मयोत्फुल्ललोचना ॥
केन दत्तं शुभं तोयं दिव्यं छत्रमुपानहौ ॥ ८४ ॥
एतन्मे संशयं राजन्कथयस्व तपोधन ॥
राजोवाच ॥
एष देवो महादेवि विवस्वान्नाम नामतः ॥ ८५ ॥
तवानुकम्पया देवि मुक्त्वाकाशमिहागतः ॥
एवमुक्ता तु सा देवी भर्त्तारमिदमब्रवीत् ॥ ८६ ॥
करवाण्यस्य कां प्रीतिं ज्ञायतामस्य वाच्छितम् ॥
ततो राजा महातेजाः प्रणिपत्य कृताञ्जलिः ॥ ८७ ॥
विज्ञापयामास तदा भगवन् किं करोमि ते ॥
एवमुक्तो नरेन्द्रेण सूर्यो वचनमब्रवीत् ॥ ८८ ॥
अभयं मे महाराज स्त्रीभ्यो भवतु मानद ॥
तच्छ्रुत्वा वचनं तस्य भास्करस्य तु मानदः ॥ ८९ ॥
तां प्रियां प्रीतहृदयां श्रावयंस्तस्य भाषितम् ॥
राज्ञस्तु वचनं श्रुत्वा देवी वचनमब्रवीत् ॥ 208.९० ॥
प्रीत्या परमया युक्ता तस्य राज्ञो मनःप्रिया ॥
रश्मीनां तारणार्थाय छत्रं दत्त्वा तु कुण्डिकाम् ॥ ९१ ॥
इमौ चोपानहौ दत्त्वा चौभौ पादस्य शङ्करौ ॥
अभयं ते महाभाग यथा त्वं वृतवानसि ॥ ९२ ॥
एवं पतिव्रतां विप्र पूजयामि नमामि च ॥ ९३ ॥
इति श्रीवराहपुराणे संसारचक्रे पतिव्रतोपाख्यानं नाम अष्टाधिकद्विशततमोऽध्यायः ॥ २०८ ॥