अथ शुभकर्मफलोदय प्रकरणम् ॥
ऋषिरुवाच ॥
चित्रगुप्तस्य सन्देशो वदतो यो मया श्रुतः ॥
श्रूयतां वै महाभागास्तपःसिद्धा द्विजोत्तमाः ॥ १ ॥
इमं सर्वातिथिं दान्तं सर्वभूतानुकम्पकम् ॥
समान्नदानदातारं शेषभोजनभोजिनम् ॥ २ ॥
मुञ्च मुञ्च महाभृत्य चैष धर्मस्य निर्णयः ॥
अहं कालेन सार्द्धं हि मृत्युना प्रकृतस्तथा ॥ ३ ॥
मम स्थास्यन्ति पार्श्वेषु पापा वै विकृतास्तथा ॥
एनं गास्यन्ति गन्धर्वा गगनेऽप्सरसस्तथा ॥४ ॥
दीयतामासनं दिव्यं तथान्यद्यानमेव च ।
अन्यान्यान्कामयेत्कामान्मनसा यानि चेच्छति ॥ ५ ॥
तत्तु शीघ्रं प्रदातव्यं धर्मराजस्य शासनात् ॥
अक्रियाणि तु दानानि पूर्वं दत्तानि धीमता ॥ ६ ॥
प्रेक्षतां च महाभागो भोक्तुं चैव सहानुगः ॥
तिष्ठत्येषोऽत्र वै वीरो ममादेशान्महायशाः ॥ ७ ॥।
यावत्स्वर्गाद्विमानानि समागच्छन्ति कृत्स्नशः ॥
ततः स प्रवरैर्यानैः सानुगः सपरिच्छदः ॥ ८ ॥
देवानां भवनं यातु दैवतैरभिपूजितः ॥
तत्रैव रमतां वीरो यावल्लोको हि धार्यते ॥ ९ ॥
स कृतार्थः सदा लोके यत्रैषोऽभिप्रयास्यति ॥
तत्र मेध्यं पवित्रं च यत्र स्थास्यत्ययं शुचिः ॥ 206.१० ॥
नैककन्याप्रदातारं नैकयज्ञकृतं तथा ॥
पूज्यतां सर्वकामैस्तु पदं गच्छतु वैष्णवम् ॥ ११ ॥
तत्रैष रमतां धीरः सहस्रमयुतं समाः ॥
ततो वै मानुषे लोके आद्ये वै जायतां कुले ॥ १२ ॥
भूतानुकम्पको ह्येष क्रियतामस्य चार्च्चनम् ॥
वर्षाणामयुतं चायं तत्र तिष्ठतु देववत् ॥ १३ ॥
जायते तु ततः पश्चात्सर्वमानुषपूजितः ॥
उपानहौ च छत्रं च जलभाजनमेव च ॥ १४ ॥
असकृद्येन दत्तानि तस्मै पूजां प्रयच्छथ ॥
सभा यत्र प्रवर्त्तन्ते यस्मिन्देशे सहस्रशः ॥ १५ ॥
हस्तेन संस्पृशत्येष मृदुना शीतलेन च ॥
विद्याधरस्तथा ह्येष नित्यं मुदितमानसः ॥ १६ ॥
महापद्मानि चत्वारि तस्मिंस्तिष्ठन्तु नित्यशः ॥
ततश्च्युतश्च कालेन मानुषं लोकमास्थितः ॥ १७ ॥
बहुसुन्दरनारीके कुले जन्म समाप्नुयात् ॥
दधि क्षीरं घृतं चैव येन दत्तं द्विजातिषु ॥१८॥
एष वा यातु नः पार्श्वमस्मै पूजां प्रयच्छथ ॥
नीयतां नीयतां शीघ्रं यत्रयत्र न चालयेत् ॥ १९ ॥
गोरसस्य तु पूर्णानि भाजनानि सहस्रशः ॥
यत्र दत्त्वा च पीत्वा च बान्धवेभ्यो विभागशः ॥ 206.२० ॥
ततः पश्चादयं यातु यत्र लोकोऽनसूयकः ॥
तत्रैव रमतां धीरो बहुवर्षशतान्ययम् ॥ २१ ॥
बहुसुन्दरनारीभिः सेव्यमानो महातपाः ॥
अमराख्यो भवेत्तत्र गोलोकेषु समाहितः ॥ २२ ॥
इदमेवापरं चैव चित्रगुप्तस्य भाषितम् ॥
सर्वदेवमया देव्यः सर्ववेदमयास्तथा ॥ २३ ॥
अमृतं धारयन्त्यश्च प्रचरन्ति महीतले ॥
तीर्थानां परमं तीर्थमतस्तीर्थं न विद्यते ॥ २४ ॥
पवित्रं च पवित्राणां पुष्टीनां पुष्टिरेव च ॥
तस्मात्पुरस्तु दातव्यं गवां वै मेध्यकारणात् ॥ २५ ॥
दघ्ना हि त्रिदशाः सर्वे क्षीरेण च महेश्वरः ॥
घृतेन पावको नित्यं पायसेन पितामहः ॥ २६ ॥
सकृद्दत्तेन प्रीयन्ते वर्षाणां हि त्रयोदश ॥
तां दत्त्वा चैव पीत्वा च प्रीतो मेध्यस्तु जायते ॥ २७ ॥
पञ्चगव्येन पीतेन वाजिमेधफलं लभेत् ॥
गव्यं तु परमं मेध्यं गव्यादन्यन्न विद्यते ॥ २८ ॥