२०५

अथ शुभाशुभ फलानुकीर्तनवर्णनम् ॥
ऋषिपुत्र उवाच ॥
इदमन्यत्पुरा विप्राः श्रूयतां तस्य भाषितम् ॥
यमस्य चित्रगुप्तस्य यच्च तत्र मया श्रुतम् ॥ १ ॥
अयं तु भवतां यातु यातु स्वर्गं महीक्षिताम् ॥
अयं वृक्षस्त्वयं तिर्यगयं मोक्षं व्रजेन्नरः ॥ २ ॥
अयं नागो भवेच्छीघ्रमयं तु परमां गतिम् ॥
स्वपूर्वकान्पश्यतेऽयमात्मनस्तु पितामहान् ॥ ३ ॥
क्लिश्यतो रुदतश्चैव वदतश्च पुनःपुनः ॥
स्वेन दोषेण सर्वे वा अक्षयं नरकङ्गताः ॥ ४ ॥
दारत्यागी त्वधर्मिष्ठः पुत्रपौत्रविवर्जितः ॥
क्षिप्तं वै रौरवे ह्येनं क्षपयन्तु महौजसः ॥ ५ ॥
मुच्यतां त इमे सर्वे ह्यतीतानागतास्तथा ॥
मुच्यन्तामाशु मुच्यन्तां त एते पापवर्जिताः ॥ ६॥
आगमे च विपत्तौ च सर्वधर्मानुपालकाः ॥
ते तु कल्पान्बहून्स्वर्ग उषित्वा ह्यनसूयकाः ॥७॥
बहुसुन्दरनार्यङ्के ह्याद्ये परमधार्मिकम् ॥
कलौ मानुषतां यातु धर्मस्येह निदर्शनम् ॥ ८ ॥
त्रिविष्टपे परिक्लेशो वासो ह्यस्याक्षयो भवेत् ॥
अयमायोधने शत्रुं हत्वा तु निधनङ्गतः ॥ ९ ॥
ब्राह्मणार्थे गवार्थे वा राष्ट्रार्थे निधनङ्गतः ॥
शक्रस्य ह्यमरावत्यां निवेदयत मा चिरम् ॥205.१०॥
तत्र वैमानिको भूत्वा कल्पमेकं निवत्स्यति ॥
तथैवायं महाभागो धर्मात्मा धर्मवत्सलः ॥ ११ ॥
बहुदानरतो नित्यं सर्वभूतानुकम्पकः ॥
एनं गन्धैश्च माल्यैश्च शीघ्रमेव प्रपूजय ॥ १२ ॥
अस्मै पूजा भवेद्देया मयादिष्टा महात्मने ॥
वीज्यतां चामरैरेष रथमस्मै प्रदीयताम् ॥१३॥
प्रेतवासं समुत्सृज्य हीतो यातु त्रिविष्टपम् ॥
इन्द्रस्यार्द्धं भवेच्चैव देवदेवस्य धीमतः ॥ १४ ॥
शङ्खतूर्यनिनादेन तत्र वै विजयेन च ॥
तत्र वै पूजयित्वा च प्रायशो लभतां सुखम् ॥ १५ ॥
अयं गच्छतु भद्रं चापीन्द्रदेशं दुरासदम् ॥
अनेन वै कीर्तिमता लोकः सर्वो ह्यलङ्कृतः ॥ १६॥
गुणैश्च शतसङ्ख्याकैः शक्र एनं प्रतीक्षते ॥
तावत्स्थास्यति धर्मात्मा यावच्छक्रस्त्रिविष्टपे ॥ १७ ॥
तावत्स मोदते स्वर्गे यावद्धर्मोऽनुमीयते ॥
ततच्युतश्च कालेन मानुष्ये सुखमश्नुते ॥ १८ ॥
रत्नवेणुप्रदश्चैव सर्वधर्मैरलङ्कृतः ॥
अश्विनोर्नय लोकं तु सर्वसौख्यसमन्वितम् ॥ १९ ॥
अयं यातु महाभागो देवदेवं सनातनम् ॥
अतिसृष्टः पुरा येन यथोक्ताः सुखदोहनाः ॥ 205.२० ॥
सर्वशक्त्या समेतेन द्विजेभ्य उपपादिताः ॥
शुचीनां ब्राह्मणानाम्बह्वन्नदानं विशेषतः ॥ २१ ॥
तेन कल्पं वसिष्यन्ति रुद्रकल्पा मनोरमाः ॥
तत्र कल्पं वसेद्गत्वा रुद्रलोकं न संशयः ॥ २२ ॥
तेन दत्तं द्विजातिभ्यो मधुखण्डपुरःसरम् ॥
रसैश्च विविधैर्युक्तं सर्वगन्धमनोरमम् ॥ २३ ॥
तरुणी क्षीरसम्पन्ना गौः सुवर्णयुता शुभा ॥
सवत्सा हेमवासाश्च दत्ताऽनेन महात्मना ॥ २४ ॥
अस्य लेख्यं मया दृष्टं तिस्रः कोट्यस्त्रिविष्टपे ॥
स्वर्गात्परिच्युतश्चापि ऋषीणां जायते कुले ॥२५॥
सुवर्णस्य प्रदाता च त्रिदशेभ्यो निवेद्यताम् ॥
त्रिदशानभ्यनुज्ञाप्य यातु देवमुमापतिम् ॥ २६ ॥
तत्रैष वै महातेजा यथेष्टं काममाप्नुयात् ॥
तत्रैवायमपि प्रेतगणभक्तो महातपाः ॥ २७ ॥
प्रयातु पितृभिः सार्द्धं तर्पिता येन पूर्वजाः ॥
दानव्रता दिवं यान्तु नानालोकनमस्कृताः ॥२८ ॥
अयं भद्रो महाकामं सर्वभूतहिते रतः ॥
सर्वकामैरयं पूज्यः सर्वकामप्रदो नरः ॥ २९ ॥
क्षितिप्रदो द्विजातिभ्यो ह्ययं यातु त्रिविष्टपम् ॥
तत्रैव तिष्ठताद्वीरो ब्रह्मलोके सहानुगः ॥ 205.३० ॥
विविधैः कामभोगैस्तु सेव्यमानो नरोत्तमः ॥
अक्षयं चाजरं स्थानं पूज्यमानो महर्षिभिः ॥३१ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे शुभाशुभफलानुकीर्त्तनं नाम पञ्चाधिकद्विशततमोऽध्यायः ॥ २०५ ॥