२०३

अथ पापसमूहानुक्रमवर्णनम् ॥
ऋषिपुत्र उवाच ॥
अन्यान्यपि च पापानि चित्रगुप्तो दिदेश ह ॥
व्यामिश्रान्कथ्यमानांश्च शृणुध्वं तान्महौजसः ॥ १ ॥
शीलसंयमहीनानां कृष्णपक्षानुगामिनाम् ॥
महापापैरुपेतानां कथ्यतां तत्पराभवम् ॥ २ ॥
राजद्विष्टा गुरुद्विष्टाः सर्वे ते वै विगर्हिताः ॥
अविश्वास्या ह्यसम्भाष्याः कुक्षिमात्रपरायणाः ॥ ३ ॥
हिंसाविहारिणः क्रूराः सूचकाः कार्यदूषकाः ॥
गवेडकस्य वधकाः महिषाजादिकस्य च ॥ ४ ॥
दावाग्निं ये च मुञ्चन्ति ये च सौकरिकास्तथा ॥
तत्र कालमसङ्ख्येयं पच्यन्ते पापकारिणः ॥ ५ ॥
कर्मक्षयाद्यदा भूयो मानुष्यं प्राप्नुवन्ति ते ॥
अल्पायुषो भवन्तीह व्याधिग्रस्ताश्च नित्यशः ॥ ६॥
गर्भ एव विपद्यन्ते म्रियन्ते बालकास्तथा ॥
परिरिङ्गरताः केचिन्म्रियन्ते पुरुषाधमाः ॥ ७ ॥
काष्ठवंशे च शस्त्रे च वायुना ज्वलनेन च ॥
तोयेन वा पाशबन्धैः पतनेन विषेण वा ॥८॥
मातापितृवधं कष्टं मित्रसम्बन्धिबन्धुजम् ॥
बहुशः प्राप्नुवन्त्येते विद्रवं चाप्यभीक्ष्णशः॥९॥
प्राणातिपातनं ते वै प्राप्नुवन्ति यथा तथा ॥
लोहकाः कारुकाश्चैव गर्भाणां विनिहिंसकाः ॥ 203.१० ॥
मूलकर्मकरा ये च गरदाः पुरदाहकाः ॥
ये च पञ्जरकर्त्तारो ये च शूलोपघातकाः ॥ ११ ॥
पिशुनाः कलहाश्चैव ये च मिथ्याविदूषकाः ॥
गोकुञ्जरखरोष्ट्राणां चर्मका मांसभेदकाः ॥ १२ ॥
उद्वेजनकराश्चण्डाः पच्यन्ते नरकेषु ते ॥
तत्र कालं तु सम्प्राप्य यातनाश्च सुदुःसहाः ॥ १३ ॥
कर्मक्षयो यदा भूयो मानुष्यं प्राप्नुवन्ति ते ॥
हीनाङ्गाः सुदरिद्राश्च भवन्ति पुरुषाधमाः ॥ १४ ॥
श्रवणच्छेदनं चैव नासाच्छेदनमेव च ॥
छेदनं हस्तपादानां प्राप्नुवन्ति स्वकर्मणा ॥ १५ ॥
शारीरं मानसं दुःखं प्राप्नुवन्ति पुनःपुनः ॥
गलवेदनास्तथोग्राश्च तथा मस्तकवेदनाः ॥ १६ ॥
कुक्ष्यामयं तथा तीव्रं प्राप्नुवन्ति नराधमाः ॥
जडान्ध बधिरा मूकाः पङ्गवः पादसर्पिणः ॥ १७ ॥
एकपक्षहताः काणाः कुनखाश्चामयाविनः ॥
कुब्जाः खञ्जास्तथा हीना विकलाश्च घटोदराः ॥ १८ ॥
गलत्कुष्ठाः श्वित्रकुष्ठा भवन्ति स्वैश्च कर्मभिः ॥
वाताण्डाश्चाण्डहीनाश्च प्रमेहमधुमेहिनः ॥ १९ ॥
योनिशूलाक्षिशूलाश्च श्वास हृद्गुह्यशूलिनः ॥
पिण्डकावर्त्तभेदैश्च प्लीहगुल्मादिरोगिणः ॥ 203.२० ॥
बहुभिर्दारुणैर्घोरैर्व्याधिभिः समनुद्गताः ॥
इत्येतान्हिंसकान्क्रूरान्घातयन्तु सुदारुणान् ॥ २१ ॥
मिथ्याप्रलापिनो दूतान्पाचयन्तु यथाक्रमम् ॥
कर्कशाः पुरुषाः सत्या ये च योषानिरर्थकाः ॥ २२ ॥
एषां चतुर्विधा भाषा या मिथ्याप्यभिधीयते ॥
हास्यरूपेण या भाषा चित्ररूपेण वा पुनः ॥ २३ ॥
अरहस्यं रहस्यं वा पैशुन्येन तु निन्दनात् ॥
उद्वेगजनना वापि कटुका लोकगर्हिताः ॥२४॥
स्नेहक्षयकरां रूक्षां भिन्नवृत्तविभूषिताम् ॥
कदलीगर्भनिस्सारां मर्मस्पृक्कटुकाक्षराम् ॥ २५ ॥
स्वरहीनामसङ्ख्येयां भाषन्ते च निरर्थकम् ॥
अयन्त्रितमुखा ये च ये निबद्धाः प्रलापिनः ॥ २६ ॥
दूषयन्ति हि जल्पन्तोऽनृजवो निष्ठुराः शठाः ॥
निर्दया गतलज्जाश्च मूर्खा मर्मविभेदिनः ॥ २७ ॥
न मर्षयन्ति येऽन्येषां कीर्त्यमानाञ्छुभान्गुणान् ॥
दुर्वाचः परुषांश्चण्डान्बन्धयध्वं नराधमान् ॥ २८ ॥
ततस्तिर्यक्प्रजायन्ते बहुधा कीट पक्षिणः ॥
लोके दोषकराश्चैव लोकद्विष्टास्तथा परे॥ ॥ २९ ॥
तत्र कालं चिरं घोरं पच्यन्ते पापकारिणः॥
कर्मक्षयो यदा भूयो मानुष्यं प्राप्नुवन्ति ते ॥ 203.३० ॥
परिभूता अविज्ञाता नष्टचित्ता अकीर्त्तयः ॥
अनर्च्याश्चाप्यनर्हाश्च स्वपक्षे ह्यवमानिताः ॥३१॥
त्यक्त्वा मित्राणि मित्रेषु ज्ञातिभिश्च निराकृताः ॥
लोकदोषकराश्चैव लोकद्वेष्याश्च ये नराः ॥ ३२ ॥
अन्यैरपि कृतं पापं तेषां पतति मस्तके ॥
वज्रं शस्त्रं विषं वापि देहाद्देहनिपातनम् ॥ ३३ ॥
मिथ्याप्रलापिनामेषामुक्ता क्लेशपरम्परा ॥
स्तेयहारं प्रहारं च नीतिहारं तथैव च ॥ ३४ ॥
स्तेयकर्माणि कुर्वन्ति प्रसह्य हरणानि च ॥
करचण्डाशिनो ये च राजशब्दोपजीविनः ॥ ३५ ॥
पीडयन्ति जनान् सर्वान्कृपणान्ग्रामकूटकान् ॥
सुवर्णमणिमुक्तानां कूटकर्मानुकारकाः ॥ ३६ ॥
समये कृतहर्त्तारो लोकपीडाकरा नराः ॥
अनादिबुद्धयश्चान्ये स्वार्थातिशयकारिणः ॥ ३७ ॥
भूतनिष्ठाभियोगज्ञा व्यवहारेष्वनर्थकाः ॥
भेदकाराश्च धातूनां रजतस्य च कारकाः ॥ ३८ ॥
न्यासार्थहारका ये च सम्मोहनकराश्च ये ॥
ये तथोपाधिकाः क्षुद्राः पच्यन्ते तेषु तेष्वथ ॥ ३९ ॥
निरयेष्व प्रतिष्ठेषु दारुणेषु ततस्ततः॥
तत्र कालं तु सुचिरं पच्यन्तां पापकारिणः॥203.४०॥
कर्मक्षयो यदा तेषां मानुष्यं प्राप्नुवन्ति ते ॥
तत्र तत्रोपपद्यन्ते यत्र यत्र महद्भयम् ॥ ४१ ॥
यस्मिंश्चौरभयं देशे क्षुद्भयं राजतो भयम् ॥
आपद्भ्योऽपि भयं यत्र व्याधिमृत्युभयं तथा ॥ ४२॥
ईतयो यत्र देशेषु लुब्धेषु नगरेषु च ॥
क्षयाः कालोपसर्गा वा जायन्ते तत्र ते नराः॥४३॥
बहुदुःखपरिक्लिष्टा गर्भवासेन पीडिताः ॥
एकहस्ता द्विहस्ता वा कूटाश्च विकृतोदराः ॥ ४४ ॥
शिराविवृतगात्राश्च हीनाङ्गा वातरोगिणः ॥
अश्रुपातितनेत्राश्च भार्या न प्राप्नुवन्ति ते ॥४९॥
तेषामपत्यं न भवेत्तद्रूपं च सुलक्षणम् ॥
अतिह्रस्वं विवर्णं च विकृतं भ्रान्तलोचनम् ॥ ४६ ॥
संसारे च यथा पक्वं कृपणं भैरवस्वनम् ॥
महतः परिवारस्य तुष्टश्चोच्छिष्टभोजकः ॥ ४७ ॥
रूपतो गुणतो हीनो बलतः शीलतस्तथा ॥
राजभृत्या भवन्त्येते पृथिवीपरिचारकाः ॥ ४८ ॥
अनालया निरामर्षा वेद नाभिः सुसंवृताः ॥
समकार्यसजात्यानां मित्रसम्बन्धिनां तथा ॥ ४९ ॥
कर्मान्तकारका ह्येते तृणीभूता भवन्ति ते ॥
अनर्थो राजदण्डो वा नित्यमुत्पाद्यते वधः ॥ 203.५० ॥
कर्मकल्याणकृच्छ्रेषु भृशं चापि विमुह्यति ॥
कर्षकाः पशुपालाश्च वाणिज्यस्योपजीवकाः ॥५१॥
यद्यत्कुर्वन्ति ते कर्म सर्वत्र क्षयभागिनः ॥
सत्यमन्विष्यमाणाश्च नैव ते कीर्त्तिभागिनः ॥ ५२ ॥
यत्किञ्चिदशुभं कर्म तस्मिन्देशे समुच्छ्रितम् ॥
तस्य देशस्य नैवास्ति वर्जयित्वातुरान्नरान् ॥ ५३ ॥
सुवृष्ट्यामपि तेषां वै क्षेत्रं तं तु विवर्जयेत् ॥
अशनिर्वा पतेत्तत्र क्षेत्रं वापि विनश्यति ॥५४ ॥
न सुखं नापि निर्वाणं तेषां मानुषता भवेत् ॥
उत्पद्यते नृशंसानां तीव्रः क्लेशः सुदारुणः ॥५५॥
स्तेयकर्मप्रयुक्तानां मुक्त्वा क्लेशपरम्पराम् ॥
परदारप्रसक्तानामिमां शृणुत यातनाम् ॥ ५६ ॥
तिर्यङ्मानुषदेहेषु यान्ति विक्षिप्तमानसाः ॥
विहरन्ति ह्यधर्मेषु धर्मचारित्रदूषकाः ॥ ५७ ॥
तांस्तेनैव प्रदानेन सङ्ग्रहेत्तु ग्रहेण वा ॥
मूलकर्मप्रयोगेण राष्ट्रस्यातिक्रमेण वा ॥ ५८ ॥
प्रसह्य वा प्रकृत्या वै ये चरन्ति कुलाङ्गनाः ॥
वर्णसङ्करकर्त्तारः कुलधर्मादिदूषकाः ॥ ५९ ॥
शीलशौचादिसम्पन्नं ये जनं धर्मलक्षणम् ॥
धर्षयन्ति च ये पापाः श्रूयतां तत्पराभवः ॥ 203.६० ॥
निरयं पापभूयिष्ठा अनुभूय महाभयम् ॥
बहुवर्षसहस्राणि कमर्णा तेन दुष्कृताः ॥ ६१ ॥
कर्मक्षये यदा भूयो मानुष्यं यान्ति दारुणम् ॥
सङ्कीर्णयोनिजाः क्षुद्रा भवन्ति पुरुषाधमाः ॥ ६२ ॥
वेश्यालङ्घककूटानां शौण्डिकानां तथैव च ॥
दुष्टपाषण्डनारीणां नैकमैथुनगामिनाम् ॥ ६३ ॥
निर्ल्लज्जपुण्ड्रकाः केचिद्बद्धपौरुषगण्डकाः ॥
स्त्रीबन्धकाः स्त्रीविनाशाः स्त्रीवेषाः स्त्रीविहारिणः ॥ ६४ ॥
स्त्रीणां चानुप्रवृद्धा ये स्त्रीभोगपरिभोगिनः ॥
तद्दैवतास्तन्नियमास्तद्वेषास्तत्प्रभाषिताः ॥६५ ॥
तद्भावास्तत्कथालापास्तद्भोगाः परिभोगिनः ॥
विप्रलोभं च दानेषु प्राप्नुवन्ति नराधमाः ॥ ६६ ॥
सौभाग्यपरमासक्ता नरा बीभत्सदर्शनाः ॥
अबुद्धैः सह संवासं प्रियं चाविप्रियं तथा ॥ ६७ ॥
शारीरं मानसं दुःखं प्राप्नुवन्ति नराधमाः ॥
कृमिभिर्भक्षणं चैव तप्ततैलोपसेचनम् ॥ ६८ ॥
अग्निक्षारनदीभ्यां तु प्राप्नुवन्ति न संशयः ॥
परदारप्रसक्तानां भयं भवति निग्रहः ॥ ६९ ॥
सर्वं च निखिलं कार्यं यन्मया समुदाहृतम् ॥ 203.७० ॥
इति श्रीवराहपुराणे पापसमूहानुक्रमो नाम त्र्यधिकद्विशततमोऽध्याय ॥ २०३ ॥