अथ राक्षसकिङ्करयुद्धम् ॥
ऋषिपुत्र उवाच ॥
ततस्ते सहिताः सर्वे चान्योऽन्याभिरताः सदा ॥
नानावेषधरा दूताः कृताञ्जलिपुटास्तदा ॥१ ॥
दूता ऊचुः ॥
वयं श्रान्ताश्च क्षीणाश्च ह्यन्यान् योजितुमर्हसि ॥
वयमन्यत्करिष्यामः स्वामिन्कार्यं सुदुष्करम् ॥२॥
अन्ये हि तावत्तत्कुर्युर्यथेष्टं तव सुव्रत ॥
भगवन्स्म परिक्लिष्टाः त्राहि नः परमेश्वर ॥३॥
ततो विवृत्तरक्ताक्षस्तेन वाक्येन रोषितः॥
विनिःश्वस्य यथा नागो ह्यपश्यत्सर्वतो दिशम् ॥४॥
अदूरे दृष्टवान्कञ्चित्पुरुषं स ह्यनाकृतिम् ॥
स तु वेगेन सम्प्राप्त इङ्गितज्ञो दुरात्मवान् ॥५॥
निःसृतः स च रोषेण चित्रगुप्तेन धीमता ॥
ततः स त्वरितं गत्वा मन्देहा नाम राक्षसाः ॥ ६ ॥
नानारूपधरा घोरा नानाभरणभूषिताः ॥
विनाशाय महासत्वो यत्र तिष्ठन्महायशाः ॥ ७ ॥
चित्रगुप्तो महाबाहुः सर्वलोकार्थचिन्तकः ॥
समः सर्वेषु भूतेषु भूतानां च समादिशत् ॥ ८ ॥
ततस्ते विविधाकारा राक्षसा पिशिताशनाः ॥
उपरुह्य तथा सर्वे मातङ्गांश्च हयं तथा ॥ ९ ॥
बद्धगोधाङ्गुलित्राणा नानायुधधरास्तथा ॥
अग्रतः किङ्कराः कृत्वा तिष्ठन्पादाभिवन्दनम् ॥ 201.१० ॥
ब्रुवन्तश्च पुनर्हृष्टाः शीघ्रमाज्ञापय प्रभो ॥
तव सन्देशकर्त्तारः कस्य कृन्तामजीवितम् ॥ ११ ॥
तेषां तद्वचनं श्रुत्वा चित्रगुप्तो ह्यभाषत ॥
रोषगद्गदया वाचा निःश्वसन्वै मुहुर्मुहुः ॥ १२ ॥
भो भो मन्देहका वीराः मम चित्तानुपालकाः ॥
एतान्बध्नीत गृह्णीत भूतराक्षसपुङ्गवाः ॥ १३ ॥
एवं हत्वा च बद्ध्वा च ह्यागच्छत पुनर्यथा ॥
ह्न्तारः सर्वभूतानां कृतज्ञा दृढ विक्रमा ॥ १४ ॥
हत्वा वै पापकानेतान्मम विप्रियकारिणः ॥
एतच्छ्रुत्वा वचस्तस्य वचनं चेदमब्रुवन् ॥ १५ ॥
राक्षसा ऊचुः ॥
श्रान्ता वा क्षुधिता वापि दुःखिता वा तपोधनाः ॥
अमात्या एव ज्ञातव्या भृत्याः शतसहस्रशः ॥ १६ ॥
एते वधार्थं निर्दिष्टास्त्वयैव च महात्मना ॥
न युक्तं विविधाकारा ह्यस्माकं नाशनाय वै ॥ १७ ॥
यथा ह्येते समुत्पन्नाः सर्वधर्मानुचिन्तकाः ॥
तथा वयं समुत्पन्नास्तदर्थं हि भवानपि ॥१८॥
मा च मिथ्या प्रतिज्ञातं धर्मिष्ठस्य भवत्विति ॥
अस्माकं विग्रहे वीर मुच्यन्तां यदि मन्यसे ॥ १९ ॥
परित्रायस्व नो वीर किङ्कराणां महाबलान् ॥
हन्यमानान्हि रक्षोभिरस्मानद्य रणाजिरे ॥ 201.२० ॥
एवमुक्त्वा ततो घोरा व्याधयः कामरूपिणः ॥
सन्नद्धास्त्वरितं शूरा भीमरूपा भयानकाः ॥ २१ ॥
गजैरन्ये तथा चाश्वै रथैश्चापि महाबलाः ॥
कण्टकैस्तुरगैर्हंसैरन्ये सिंहैस्तथापरे ॥२२॥
मृगैः सृगालैर्महिषैर्व्याघ्रैर्मेषैस्तथापरे ॥
गृध्रैः श्येनैर्मयूरैश्च सर्पगर्द्दभकुक्कुटैः ॥ २३ ॥
एवं वाहनसंयुक्ता नानाप्रहरणोद्यताः ॥
समागता महासत्त्वा अन्योन्यमभिकाङ्क्षिणः ॥ २४ ॥
तूर्यक्ष्वेडितसङ्घुष्टैर्बलितास्फोटितैरपि ॥
जयार्थिनो द्रुतं वीराश्चालयन्तश्च मेदिनीम् ॥ २५ ॥
ततः समभवद्युद्धं तस्मिंस्तमसि सन्तते ॥
मुकुटैरङ्गदैश्चित्रैः केयूरैः पट्टिशासिकैः ॥ २६ ॥
सकुण्डलैः शिरोभिश्च भ्राजते वसुधातलम् ॥
बहुभिश्च सकेयूरैश्छत्रैश्च मणिभूषणैः ॥ २७॥
शूल शक्तिप्रहारैश्च यष्टितोमरपट्टिशैः ॥
असिखड्गप्रहारैश्च बलप्राणसमीरितैः ॥ २८ ॥
अभवद्दारुणं युद्धं तुमुलं लोमहर्षणम् ॥
नखैर्दन्तैश्च पादैश्च तेऽन्योऽन्यमभिजघ्निरे ॥ २९ ॥
बाहुभिः समनुप्राप्तः केशाकेशि ततः परम् ॥
अयुक्तमतुलं युद्धं तेषां वै समजायत ॥ 201.३० ॥
ततस्ते राक्षसा भग्ना दूतैर्घोरपराक्रमैः ॥
देहि देहि वदन्त्येव भिन्धि गृह्णीष्व तिष्ठ च ॥ ३१ ॥
वध्यमानाः पिशाचास्ते ये निवृत्ता रणार्दिताः ॥
आहूयन्त प्रतिभयात्क्रोधसंरक्तलोचनाः ॥ ३२ ॥
तिष्ठ तिष्ठ क्व यासीति न गच्छामि दृढो भव ॥
मया मुक्तमिदं शस्त्रं तव देहविनाशनम् ॥ ३३ ॥
किन्तु मूढ त्वया शस्त्रं न मुक्तं मे रुजाकरम् ॥
मया क्षिप्तास्तु इषवः प्रतीच्छ क्व पलायसे ॥३४॥
किं त्वं वदसि दुर्बुद्धे एषोऽहं पारगो रणे ॥
मम बाहु विमुक्तस्तु यदि जीवस्यतो वद ॥ ३५॥
तत्र ते सहसा घोरा राक्षसाः पिशिताशनाः ॥
मन्देहा नाम नाम्ना ते वध्यमानाः सहस्रशः ॥ ३६ ॥
ततो भग्ना यदा ते तु राक्षसाः कामरूपिणः ॥
प्रत्यपद्यन्त ते मायां तामसीं तमसावृताः ॥३७ ॥
अदृश्याश्चैव दृश्याश्च तद्बलं तमसावृताः ॥
ततस्ते शरणं जग्मुर्ज्वरं परमभीषणम् ॥ ३८ ॥
शूलपाणिं विरूपाक्षं सर्वप्राणिप्रणाशनम् ॥
मन्देहा नाम नाम्ना वै राक्षसाः पिशिताशनाः ॥ ३९ ॥
खादन्ति चैव घ्नन्ति स्म चित्रगुप्तेन चोदिताः ॥
व्याधीनां च सहस्राणि दूतानां च महाबलाः ॥201.४०॥
वयमद्य महाभाग त्रायस्व जगतः पते ॥
ततस्तेषां वचः श्रुत्वा दूतानां कामरूपिणाम् ॥ ४१ ॥
ज्वरः क्रुद्धो महातेजा योधानां तु सहस्रशः ॥
कालो मुण्डः केकराक्षो लोहयष्टिपरिग्रहः ॥४२॥
विविधान्सन्दिदेशाऽत्र पुरुषानग्निवर्चसः ॥
बद्धाञ्जलिपुटान्सर्वानिदमाह सुरेश्वरः॥४३॥
पच शीघ्रमिमान्पापान्योगेन च बलेन च ॥
ततस्ते त्वरितं गत्वा यत्र ते पिशिताशनाः ॥४४॥
ज्वराज्ञया च ते सर्वे जीमूतघननिःस्वनाः ॥
बहूंस्ते राक्षसान्घोरान्दर्पोत्सिक्तान् सहस्रशः ॥ ४५ ॥
बहुशस्त्रप्रहारैश्च शस्त्रैश्च विविधोज्ज्वलैः ॥
तरसा राक्षसा विग्ना रुधिरेण परिप्लुताः ॥ ४६ ॥
मोचयामास सङ्ग्रामं स्वयमेव यमस्ततः ॥
राक्षसान्मोचयित्वाऽथ हन्यमानान्समन्ततः ॥ ४७ ॥
गत्वा ज्वरं महाभागं विनयात्सान्त्वयन्मुहुः ॥
पूजयन्वै ज्वरं दिव्यं गृह्य हस्ते महायशाः ॥ ४८ ॥
प्रविवेश गृहं स्वं तु सम्भ्रमेणेदृशेन तु ॥
आननं तु समुत्प्रोश्छ्य सङ्ग्रामे स्वेदबिन्दुवत् ॥ ४९ ॥
धर्मराजोऽथ विश्रान्तं कालभूतं महाज्वरम् ॥
किङ्किं वृत्तमिदं देव व्यापिनस्त्वं महातपाः ॥ 201.५० ॥
रोषायासकरं चैव सर्वलोकनमस्कृतः ॥
अहं त्वं चैव देवेश इमं लोकं चराचरम् ॥ ५१ ॥
शासेमहि यथाकामं यथादृष्टं यथाश्रुतम् ॥
त्वया ग्राह्यो ह्यहं देव मृत्युना च सुसंवृतः ॥ ५२ ॥
लोकान्सर्वानहं हन्मि सर्वघाती न संशयः ॥
गच्छ गच्छ यथास्थानं युद्धं च त्यजतु स्वयम् ॥५३ ॥
राक्षसानां हतास्तत्र षष्टिकोट्यो रणाजिरे॥
अमराश्चाक्षयाश्चैव न हि त्वां प्रापयन्ति वै ॥ ५४ ॥
ततो ह्युपरतं युद्धं धर्मराजो यमः स्वयम् ॥
दूतानां चित्रगुप्तेन सख्यमेकमकारयत् ॥ ५५ ॥
सम्भाषन्ते ततो दूताश्चित्रगुप्तं तथैव च ॥
नियुञ्जस्व मया पूर्वं सर्वकर्माणि जन्तुषु॥५६॥
स्वकर्मगुणभूतानि ह्यशुभानि शुभानि च॥
रुद्रं दूताः समागम्य चित्रगुप्तस्य पार्श्वतः॥।५७॥
उपस्थानं च कुर्वन्ति कालचिन्तकमब्रुवन् ॥
यथा लोका यथा राजा यथा मृत्युः सनातनः॥५८॥
तदैवोत्तिष्ठ तिष्ठेति क्षम्यतां क्षम्यतां प्रभो ॥ ५९ ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे संसारचक्रे राक्षसकिङ्करयुद्धं नामैकाधिकद्विशततमोऽध्यायः ॥ २०१ ॥