पुनः नरकयातनास्वरूपवर्णनम् ॥
ऋषिपुत्र उवाच॥
तप्तं चैव महातप्तं महारौरवरौरवौ ॥
सप्ततालश्च नरको नरकः कालसूत्रकः॥१॥
अन्धकारश्च नरको अन्धकारवरस्तथा॥
अष्टावेते तु नरकाः पच्यन्ते यत्र पापिनः॥२॥
प्रथमे प्रथमं विद्याद्द्वितीये द्विगुणं तथा॥
तृतीये त्रिगुणं विद्याच्चतुर्थे तु चतुर्गुणम् ॥३ ॥
पञ्चमे तु गुणाः पञ्च षष्ठे षङ्गुणमुच्यते॥
सप्तमे तु गुणाः सप्त अष्टमेऽष्टविधा गुणाः॥४॥
अहोरात्रेण चाध्वानं प्रेता गच्छन्ति तत्पुरम्॥
दुःखितानां ततो दुःखं दुःखाद्दुःखतरं ततः॥५॥
दुःखमेवात्र न सुखं दुःखैर्दुःखं विवर्ध्यते ॥
उपायस्तत्र नैवास्ति येन स्वल्पं सुखं भवेत् ॥ ६ ॥
मुच्यते च मृतस्तत्र मारकास्तत्र दुर्लभाः ॥
शब्दे स्पर्शे तथा रूपे रसे गन्धे तु पञ्चमे ॥७॥
न सुखं तत्र तस्यास्ति किञ्चिदेवात्र विद्यते ॥
शारीरैर्मानसैश्चैव दुःखैर्दुःखान्तगामिभिः ॥ ८॥
आयसैः कण्टकैस्तीक्ष्णैस्तप्तैस्तप्तावृता मही ॥
अन्तरिक्षं खगानीकैरग्निजिह्वैः समावृतम् ॥ ९ ॥
अतीव च बुभुक्षात्र पिपासा चाप्यतीव हि ॥
उष्णमत्युष्णमेवात्र शीतलं चातिशीतलम् ॥ 200.१० ॥
पातुकामश्च पानीयं राक्षसैर्नीयते सरः ॥
हंससारससङ्कीर्णं पद्मोत्पलविभूषितम् ॥ ११ ॥
पातुकामश्च पानीयं सहसा तत्र धावति ॥
सलिलं प्रेक्षते चैव तत्र तप्ततरं तथा ॥ १२ ॥
ततः पक्वानि मांसानि राक्षसैः परिणीयते ॥
क्षारोदकेऽपि च तथा क्षिप्यतेऽत्र महाह्रदे ॥ १३ ॥
तत्र चैव ह्रदे नैका मत्स्याः खादन्ति सर्वशः ॥
ततः कालावसाने तु कथञ्चित्प्रपलायिनः ॥ १४ ॥
किञ्चिदन्तरमागम्य वेदनार्थाः पतन्ति हि ॥
यातनार्थं पुनस्तत्र मांसं चैवोपजायते ॥ १५ ॥
शिरस्येवोपविष्टस्य प्रस्थितस्य प्रधावतः ॥
तस्यार्त्तायामवस्थायां दुःखं भवति दारुणम् ॥ १६ ॥
करीषगर्त्तस्तत्रैव कुम्भीपाकः सुदारुणः ॥
पद्मपत्राकृतिस्तस्य पेशी तत्र शरीरजः ॥ १७ ॥
पाटयन्ति सुमार्गेण राक्षसाः करपत्रिकाः ॥
निपीड्य दशनै रोषं भीमनादाः सुरोषिताः ॥ १८ ॥
असिपत्रवनं चात्र शृङ्गाटकवनं तथा ॥
तत्र शृङ्गाटकाश्चैव तप्तवालुकमिश्रिताः॥१९॥
दह्यते छिद्यते चैव विध्यते भिद्यते पथा॥
पात्यते पीड्यते चैव कृष्यते च विशस्यते ॥200.२० ॥
श्यामाश्च शबलाश्चैव श्वानस्तेऽत्र दुरासदाः ॥
खादन्ति च सुसंरब्धाः सर्पवृश्चिकसन्निभैः ॥ २१ ॥
कण्टकैः प्रतिकूलैश्च तत्रान्या कूट शाल्मलिः ॥
कर्षन्ति तत्र चैवैनं यावदस्थ्यवशेषितः ॥२२॥
यद्दुःखं तस्य दुर्बुद्धेः प्रतिकूलं च तस्य यत् ॥
तत्तदोत्पद्यते शीघ्रं यातनार्थाय यत्नतः ॥ २३ ॥
शीतकामस्य वै चोष्णमुष्णकामस्य शीतलम् ॥
सुखकामस्य वै दुःखं सुखं नैवात्र विद्यते ॥ २४ ॥
छिन्नाश्च शतधाप्येवं ह्यनिशं तैः सहस्रशः ॥
छिन्नाङ्गाः सर्वगात्रेषु सर्वमेव स विन्दति॥२५॥
सलिलं च नदीं घोरां व्यालाकीर्णां भयानकाम् ॥
उत्तार्यन्ते च तां प्रेतां यां दृष्ट्वैव भयं भवेत् ॥ २६ ॥
करम्भवालुका नाम शतयोजनमायता ॥
अग्निज्वालासमा घोरा यथा येन स गच्छति ॥ २७ ॥
ततो वैतरणी नाम क्षारोदा तु महानदी ॥
योजनानि तु पञ्चाशदधस्थात्पञ्चयोजनम् ॥ २८ ॥
अगाधपङ्का वै तत्र चर्ममांसास्थिभेदना ॥
तत्र कर्कटका घोरा वज्रदंष्ट्रा विशन्ति ताम् ॥ २९ ॥
उलूकाश्च धनुर्मात्रा वज्रजिह्वास्थिभेदनाः ॥
महाविषा महाक्रोधा दुर्विषह्याः सुदारुणाः ॥ 200.३० ॥
समुत्तीर्य तु कृच्छ्रेण तस्माद्योजनकर्दमात् ॥
वसन्त्यत्र धरे केचिच्छून्यागारे निराश्रये ॥ ३१ ॥
यत्र वै मूषिकगणा भक्षयन्ति ह्यनेकशः ॥
मूषकैर्जग्ध गात्रस्तु ह्यस्थिमात्रावशेषितः ॥ ३२ ॥
प्रभाते वायुना स्पृष्टः पुनर्मांसं स विन्दति ॥
शून्यागारप्रवेशात्तु गव्यूतेर्नातिदूरतः ॥३३॥
सहकारवनं नाम रौद्रा यत्र च पक्षिणः ॥
निस्त्वगस्थिस्तैः क्रियते निर्मांसश्चैव मानवः ॥३४॥
निःशिराजालकश्चैव निरक्षिश्रवणस्तथा ॥
वटवृक्षो नातिदूरे दक्षिणे तु त्रियोजनम् ॥ ३९ ॥
सन्ध्याभ्र इव चाभाति प्रदीप्तो नित्यमेव तु ॥
दशयोजनविस्तार्णा अधः शतसमायता ॥ ३६ ॥
यमचुल्लीति विख्याता गम्भीरा सा त्रियोजनम् ॥
नित्यं प्रज्वलिता सा तु नित्यं धूमान्धकारिता ॥ ३७ ॥
तत्र प्रेतसहस्राणि प्रयुतान्यर्बुदानि च ॥
प्रक्षिप्यन्ते त्वहोरात्रं राक्षसैर्यमकिङ्करैः ॥ ३८ ॥
मासमेकं वसत्यन्यो तस्यां चुल्ल्यां परिभ्रमन् ॥
ततः शकुनिका नाम वसामेदोवहा नदी ॥ ३९ ॥
चुल्लीकुक्षौ तु विश्रान्ता वेगिनी वहते तु सा ॥
तां समुत्तीर्य कृच्छ्रेण यातनाः सप्तकाः पुनः ॥200.४० ॥
एकैकं दुस्तरं घोरं यथापूर्वं यथाक्रमात् ॥
अनुभुङ्क्ते स कृच्छ्रेण दुष्कृती तीव्रवेदनाः ॥ ४१ ॥
दश तत्र लताः शूलाः कुम्भीपाकास्त्रयोदश ॥
याति पापमहोरात्रं तस्मिन्नियमितेन तु ॥ ४२ ॥
राक्षसैर्निरनुक्रोशैर्दुर्निरीक्ष्यैस्ततस्ततः ॥
अङ्गारेषु विधूमेषु शूलप्रोतस्तु पच्यते ॥ ४३ ॥
शुष्कोदपाने धूमे च अधःशीर्षोऽवलम्बते ॥
ज्वाल्यते तीक्ष्णतैले तु कटाहे स तु पच्यते ॥ ४४ ॥
करीषगर्त्ते स पुनः पच्यते मेदवह्निना ॥
एकैकस्मिन्दशाहं च शूलादिषु स पच्यते ॥ ४५ ॥
यातनाः सप्तकास्तस्य निष्क्रान्तस्य त्रियोजने ॥
यतो यमनदी नाम तप्तत्रपुजलोर्मिणी ॥ ४६ ॥
समुत्तीर्य तु कृच्छ्रेण दह्यमानस्त्वचेतनः ॥
ततो मुहूर्त्तं विश्रान्तः किञ्चिदन्तरमागतः ॥ ४७ ॥
दीर्घिकां मोक्षते कान्तां शीतोदां शीतकाननाम् ॥
सर्वकामान्स लभते भगिनी सा यमस्य तु ॥ ४८ ॥
भक्ष्यं भोज्यं च सर्वैस्तु पापिभिस्तत्र लभ्यते ॥
स सर्वं विस्मरत्यत्र त्रिरात्रमुषितोऽपि सन् ॥ ४९॥
ततः शूलवहो नाम पर्वतः शतयोजनः ॥
निराश्रयः स सत्वानामेकपाषाण एव च ॥ 200.५० ॥
तत्र वर्षति पर्जन्यस्तत्र तप्तजलं सदा ॥
तत्र कृच्छ्रेण तरति अहोरात्रेण मानवः ॥ ५१ ॥
शृङ्गारकवनं नाम तत्र पश्यन्ति शाद्वलम् ॥
नीलमक्षिकदंशैश्च सुव्याप्तं तद्वनं महत् ॥ ५२ ॥
यैस्तु स्पृष्टश्च दष्टश्च कृमिरूपश्च जायते ॥
प्रेतो वर्षति मांसासृगस्मात्कृच्छ्रात्तु निर्गतः ॥ ५३ ॥
ततोऽन्यल्लभते चैव यातनार्थं प्रयत्नतः ॥
ततः पश्यति पुत्रांस्तु महद्दुःखं सुदारुणम् ॥५४॥
मातरं पितरं चैव पुत्रान्दारांस्तथा प्रियान्॥
पुरस्ताद्बध्यमानं स क्रन्दमानमचेतनम्॥५५॥
हा त्राहि त्राहि पुत्रेति क्रन्दमानस्ततस्ततः ॥
लगुडैर्मुद्गरैर्दण्डैर्जानुभिर्वेणुभिस्तथा ॥ ५६ ॥
मुष्टिभिश्च कशाभिश्च व्यालैरङ्कगतैरपि ॥
तद्दृष्ट्वा तादृशं दुःखं ततो मोहं स गच्छति ॥ ५७ ॥
एवमेवात्मकर्माणि पर्यायेण पुनः पुनः ॥
प्राप्नुवन्तीह तेऽत्रैव नरा दुष्कृतकारिणः ॥ ५८ ॥
पातकानि च चत्वारि समाचारेण पञ्चमम् ॥
कृत्वा तानि नरा यान्ति तं देशं पापकारिणः ॥५९॥
तदादिषु च सर्वेषु गुणान्तरपथं गतः ॥
यदा भवति स प्रेतस्तदा स्थावरतां व्रजेत् ॥ 200.६० ॥
तदा वा स्थावरे तेषु जातस्य हि भवेन्नरः ॥
क्रमशः स भवेत्प्रेतस्तदा पशुगणेष्वपि ॥ ६१ ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥
गतः स वसति प्रेतो नरके तु पुनःपुनः ॥ ६२ ॥
ततो निवृत्तकर्मा तु स्वेदजः सम्भवेत्पुनः ॥
स्वेदजानां ततो नित्यं सर्वसंसारचङ्क्रमात् ॥ ६३ ॥
ततश्च पक्षिणां योनिं सर्वां सन्तरते पुनः ॥
गोयोनौ तु ततो गत्वा पुनर्मानुषतां व्रजेत् ॥ ६४ ॥
मानुषे शूद्रतां याति लब्ध्वा यदि तु तुष्यति ॥
ततो वैश्यत्वमागच्छेत्कमर्णाऽनेन वेष्टितः ॥ ६५ ॥
वैश्यात्क्षत्रियतां याति तस्माच्च ब्राह्मणो भवेत् ॥
ब्राह्मणत्वमपि प्राप्तः पापकर्मा दुरात्मवान् ॥ ६६ ॥
दुःशिक्षितेन मनसा ह्यात्मद्रोग्धा भवेत्तदा ॥
शरीरं मानसं घोरं व्यसनैरुपपादितम् ॥ ६७ ॥
उपयुक्तो नरो जातः पूर्वकर्मभिरन्वितः ॥
ज्ञेयश्च ब्रह्महा कुष्ठी काकाक्षः काकतालुकः ॥ ६८ ॥
सुरापः श्यावदन्तश्च पूतिगन्धश्च पापकृत् ॥
राजहा पितृहा चैव सुरापश्चापि यो भवेत् ॥ ६९ ॥
सुवर्णहर्ता च नरो ब्रह्मघ्नेन समो हि सः ॥
क्वचिच्चात्र विरूपाणां नराणां पापकर्मिणाम् ॥ ७० ॥
यावद्भिः कर्मभिस्तैस्तैस्तेषु निर्याणवेश्मसु ॥
छिन्नभिन्नविशस्तानां रुधिरेण समन्ततः ॥ ७१ ॥
व्याप्तं महीतलं सर्वमापगाश्चापि निर्गताः ॥
अजस्रं क्लिश्यमानानां क्रन्दतां च सुदारुणम् ॥ ७२ ॥
समुत्तस्थौ महानादो हाहाकारसमाकुलः ॥
बध्नतो विविधैर्बन्धैर्घातयन्तश्च दारुणम् ॥ ७३ ॥
लौहयष्टिप्रहारैश्च आयुधैश्च सुदारुणैः ॥
छेदनैर्भेदनैश्चोग्रैः पीडनाभिश्च सर्वशः ॥ ७४ ॥
श्रान्ताः कर्मकरा दूता मोहेनायत्तचेतसः ॥
यदा श्रान्ताश्च खिन्नाश्च हन्तारः पापकर्मिणाम् ॥ ७५ ॥
विज्ञापयेत्तदा दूताश्चित्रगुप्तं महौजसम् ॥ ७६ ॥
इति श्रीवराहपुराणे संसारचक्रे नरकयातनास्वरूपवर्णनं नाम द्विशततमोऽध्यायः ॥ २०० ॥