१९४

अथ नचिकेतसो आगमनवर्णनम् ॥
वैशम्पायन उवाच ॥
गतश्च परमं स्थानं यत्र राजा दुरासदः ॥
अर्चितस्तु यथान्यायं दृष्ट्वैव तु विसर्जितः ॥ १ ॥
ततो हृष्टमना राजन्पुत्रं दृष्ट्वा तपोनिधिः ॥
परिष्वज्य च बाहुभ्यां मूर्द्धन्याघ्राय यत्नतः ॥ २ ॥
दिवं च पृथिवीं चैव नादयामास हृष्टवत् ॥
स संहृष्टमनाः प्रीतस्तानुवाच तपोधनान् ॥ ३ ॥
पश्यन्तु मम पुत्रस्य प्रभावं दिव्यतेजसः ॥
यमस्य भवनं गत्वा पुनः शीघ्रमिहागतः ॥ ४ ॥
पितृस्नेहानुभावेन गुरुशुश्रूषयापि च ॥
दैवेन हेतुना चायं जीवन्दृष्टो मया सुतः ॥ ५ ॥
लोके मत्सदृशो नास्ति पुमान्भाग्यसमन्वितः ॥
एष मृत्युमुखं गत्वा मम पुत्र इहागतः ॥ ६ ॥
कच्चित्त्वं न हतो वत्स नैव बद्धो यमालये ॥
कच्चित्ते स शिवः पन्था गच्छतस्तव पुत्रक ॥७ ॥
कच्चित्ते व्याधयो घोरा नान्वगच्छन्यमालये ॥
किमपूर्वं त्वया दृष्टं कच्चित्तुष्टो महातपाः ॥ ८ ॥
कच्चिद्राजा त्वया दृष्टः प्रेतानामधिपो बली ॥
परुषेण न कच्चित्त्वां यमः पश्यति चक्षुषा ॥ ९ ॥
कच्चिन्न तुष्टो भगवांस्त्वां दृष्ट्वा स्वयमागतम् ॥
कच्चिच्छीघ्रं विसृष्टोऽसि धर्मराजेन पुत्रक ॥ 194.१० ॥
कच्चिद्दौवारिकास्तत्र न रौद्रास्त्वां यमालये ॥
कच्चिद्राज्ञा विसृष्टं तु ना बाधन्तेतरे जनाः ॥ ११ ॥
कच्चित्पन्थास्त्वया लब्धो निर्गमो वा यमालये ॥
अयं मम सुतः प्राप्तः प्रसन्ना मम देवताः ॥ १२ ॥
ऋषयश्च महाभागा द्विजाश्च सुमहाव्रताः ॥
यन्मे वत्स पुनः प्राप्तो यमलोकाद्दुरासदात् ॥ १३ ॥
एवमाभाषमाणं तु श्रुत्वा सर्वे वनौकसः ॥
त्यक्त्वा व्रतानि सर्वाणि नियमांश्च तथैव च ॥ १४ ॥
जपन्तश्चैव जाप्यानि पूजयन्तश्च देवताः ॥
उदूर्द्ध्वबाहवः केचित्तिष्ठन्तोऽन्ये सुदारुणम् ॥ १५॥
एकपादेन तिष्ठन्तः पश्यन्तोऽन्ये दिवाकरम् ॥
एवमेव परित्यज्य नियमान्पूर्वसञ्चितान् ॥ १६ ॥
वैश्वानरा महाभागास्तपसा संशितव्रताः ॥
आगतास्त्वरितं द्रष्टुं नाचिकेतं सुतं तदा ॥ १७ ॥
दिग्वाससश्च ऋषयो दन्तोलूखलिनस्तथा ॥
अश्मकूटाश्च मौनाश्च शीर्णपर्णाम्बुभोजनाः॥१८॥
धूमदाश्च तथा चान्ये तप्यमानाश्च पावके ॥
परिवार्य तथा दृष्ट्वा तस्य पुत्रं तपोनिधिम्॥ १९ ॥
उपविष्टास्तथा चान्ये स्थिताश्चान्ये सुयन्त्रिताः ॥
ते सर्वे तं तु पृच्छन्ति ऋषयो वेदपारगाः ॥ 194.२० ॥
तं नाचिकेतसं दृष्ट्वा यमलोकादिहागतम् ॥
भीतास्तत्र स्थिता हृष्टा केचित्कौतूहलान्विताः ॥२१ ॥
केचिद्विमनसश्चैव केचित्संशयवादिनः ॥
तमूचुः सहिताः सर्वे ऋषिपुत्रं तपोधनम् ॥ २२ ॥
ऋषय ऊचुः ॥
भो भो सत्यव्रताचार गुरुशुश्रूषणे रत ॥
नाचिकेतः सुत प्राज्ञ स्वधर्मपरिपालक ॥ २३ ॥
ब्रूहि सत्यं त्वया दृष्टं श्रुतं च सविशेषकम् ॥
ऋषीणां श्रोतुकामानां पितुश्चैव विशेषतः॥२४॥
अपि गुह्यं च वक्तव्यं पृष्टे सति विशेषतः ॥
सर्वस्यापि भयं तीव्रं यद्द्वारा प्रतिदृश्यते॥२५॥
मृतं नैव परं तात दृश्यते कालमायया ॥
स्वकर्म भुज्यते तात प्रयत्नेन च मानवैः॥२६॥
इह चैव कृतं यत्तु तत्परत्रोपभुज्यते॥
करोति यदि तत्कर्म शुभं वा यदि वाऽशुभम् ॥२७॥
तथाऽत्र दृश्यते काले कालस्यैव तु मायया ॥
म्रियते च यथा जन्तुर्यथा गर्भे च तिष्ठति॥२८॥
तस्य पारं न गच्छन्ति बहवः पारचिन्तकाः ॥
तत्र स्थिते जगत्सर्वं लोभमोहतमोवृतम्॥२९।
चिन्तयेत न चिन्ताऽत्र मृगयन्ति च यद्धितम् ॥
करोति चित्रगुप्तः किं किं च जल्पत्यसौ पुनः॥194.३०॥
धर्मराजस्य किं रूपं कालो वा कीदृशो मुने॥
किंरूपा व्याधयश्चैव विपाको वापि कीदृशः॥३१॥
किञ्च कुर्वन्प्रमुच्येत किं वा कर्म समाचरेत्॥
आस्पदं सर्वलोकस्य तत्कर्म दुरतिक्रमम्॥३२॥
क्रोधबन्धनजं क्लेशं कर्षणं छेदनं तथा ॥
येन गच्छन्ति विप्रेन्द्र लोके कर्मविदो जनाः॥३३॥
जितात्मानः कथं यान्ति कथं गच्छति पापकृत् ॥
यथाश्रुतं यथादृष्टं यथा चैवावधारितम् ॥३४॥ प्
रणयात्सौहृदात्स्नेहादस्माभिरभिपृच्छितम् ॥
वद सर्वं महाभाग याथातथ्येन विस्तरम्॥३९॥
वैशम्पायन उवाच॥
ऋषिभिस्त्वेवमुक्तस्तु नाचिकेतो महामनाः ॥
यदुवाच महाराज शृणु तज्जनमेजय ॥३६ ॥
इति श्रीवराहपुराणे संसारचक्रे नचिकेतागमनं नाम चतुर्नवत्यधिकशततमोऽध्यायः ॥१९४॥