१९३

अथ नचिकेतः प्रयाणवर्णनम् ॥
लोमहर्षण उवाच ॥
व्यासशिष्यं महाप्राज्ञं वेदवेदाङ्गपारगम् ॥
द्वारदेशे समासीनं कृतपूर्वाह्णिकक्रियम् ॥ १ ॥
अश्वमेधे तथा वृत्ते राजा वै जनमेजयः ॥
ब्रह्मवध्याभिभूतस्य दीक्षां द्वादशवार्षिकीम् ॥ २ ॥
प्रायश्चित्तं चरित्वैवमागतो गजसाह्वयम् ॥
उपगम्य महात्मानं जाह्नवीतीरसंश्रयम् ॥ ३ ॥
ऋषिं परमसम्पन्नं वैशम्पायनमञ्जसा ॥
कर्मणा प्रेरितस्तेन चिन्ताव्याकुललोचनः ॥ ४ ॥
कुरूणां पश्चिमो राजा पश्चात्तापेन पीडितः ॥
व्यासशिष्यमुपागम्य प्रश्नमेनमपृच्छत ॥ ५ ॥
जनमेजय उवाच ॥
भगवञ्जायते तीव्रं चिन्तयानस्य सुव्रत ॥
कर्मपाकफलं यस्मिन्मानुषैरुप भुज्यते॥६॥
एतदिच्छाम्यहं श्रोतुं कीदृशं तु यमालयम्॥
किं प्रमाणं च किं रूपं कथं गत्वा स पश्यति ॥७॥
न गच्छेयं कथं विप्र प्रेतराज्ञो निवेशनम् ॥
धर्मराजस्य धीरस्य सर्वलोकानुशासिनः ॥ ८ ॥
सूत उवाच ॥
एवं पृष्टो महातेजास्तेन राज्ञा द्विजोत्तमः ॥
उवाच मधुरं वाक्यं राजानं जनमेजयम् ॥ ९ ॥
वैशम्पायन उवाच ॥
शृणु राजन्पुरावृत्तां कथां परमशोभनाम् ।
धर्मवृद्धिकरीं नित्यां यशस्यां कीर्तिवर्द्धिनीम् ॥ 193.१० ॥
पावनीं सर्वपापानां प्रवृत्तौ शुभकारिणीम् ॥
इतिहासपुराणानां कथां वै विदुषां प्रियाम् ॥ ११ ॥
कश्चिदासीत्पुरा राजनृषिः परमधार्मिकः ॥
उद्दालक इति ख्यातः सर्ववेदाङ्गतत्त्ववित् ॥ १२ ॥
तस्य पुत्रो महातेजा योगमास्थाय बुद्धिमान् ॥
नाचिकेत इति ख्यातः सर्ववेदाङ्गतत्त्ववित् ॥ १३ ॥
तेन रुष्टेन शप्तोऽभूत्पुत्रः परमधार्मिकः ॥
गच्छ शीघ्रं यमं पश्य मम क्रोधेन दुर्मते ॥ १४ ॥
तथेत्युक्त्वा महातेजाः पुत्रः परमधार्मिकः ॥
चिन्तयित्वा मुहुर्तं तु योगमास्थाय बुद्धिमान् ॥ १९ ॥
क्षणेनान्तर्हितो जातः पितरं प्रत्युवाच ह ॥
विनयात्पृष्ठतो वाक्यं भावेन च समन्वितम् ॥ १६ ॥
मा भूद्वाक्यं च ते मिथ्या धार्मिकस्य कदाचन ॥
गमिष्यामि पुरं रम्यं धर्मराजस्य धीमतः ॥ १७ ॥
इह चैव पुनस्तावदागमिष्ये न संशयः ॥ १८ ॥
पितोवाच ॥
एकस्त्वमसि वत्सश्च नान्यो बन्धुर्विधीयते ॥
अधर्मं चानृतं चास्तु त्वकीर्त्तिर्वापि पुत्रक ॥ १९ ॥
मिथ्याभिशंसिनं तात यथेष्टं तारयिष्यति ॥
रोषेण हि मृषावादी निर्दयः कुलपांसनः ॥ 193.२०॥
अप्रवृत्तस्त्वसम्भाष्यो योऽहं मिथ्या प्रयुक्तवान् ॥
त्वां वै धर्मसमाचारमभिधानेन शप्तवान् ॥ २१ ॥
अहं पुत्र न सद्वादी न क्षमे धर्मदूषितम् ॥
मम त्वं हि महाभाग नित्यं चित्तानुपालकः॥२२॥
धर्मज्ञश्च यशस्वी च नित्यं क्षान्तो जितेन्द्रियः॥
शु्श्रूषुरनहंवादी शक्तस्तारयितुं मम ॥२३॥
याचितस्त्वं मया पुत्र गन्तुं वै तत्र नार्हसि ॥२४॥
यदि वैवस्वतो राजा तत्र प्राप्तं यदृच्छया ॥
रोषेण त्वां महातेजा विसृजेन्न कदाचन ॥ २५ ॥
विनश्येयमहं पश्य कुलसेतुविनाशनः॥
धिक्कृतः सर्वलोकेन पापकर्त्ता नराधमः ॥ २६॥
नरकस्य पुदित्याख्या दुःखेन नरकं विदुः॥
पुतित्राणं भवेत्पुत्रादिहेष्यति परत्र च ॥२७॥।
हुतं दत्तं तपस्तप्तं पितरश्चापि पोषिताः ॥
अपुत्रस्य हि तत्सर्वं मोघं भवति निश्चयः ॥ २८ ॥
शुश्रूषावान्भवेच्छूद्रो वैश्यो वा कृषिजीवनः ॥।
सस्यगोप्ता तु राजन्यो ब्राह्मणो वा स्वकर्मकृत् ॥ २९ ॥
तपो वा विपुलं तप्त्वा दत्त्वा दानमनुत्तमम् ॥
अपुत्रो नाप्नुयात्स्वर्गं यथा तात मया श्रुतम् ॥ 193.३० ॥
पुत्रेण लभते जन्म पौत्रेण तु पितामहः ॥
पुत्रस्य च प्रपौत्रेण मोदते प्रपितामहः ॥ ३१ ॥
न हास्यामीति वत्स त्वां मम वंशविवर्द्धनम् ॥
याच्यमानः प्रयत्नेन तत्र गन्तुं न चार्हति ॥ ३२ ॥
वैशम्पायन उवाच ॥
एवं विलपमानं तं पितरं प्रत्युवाच ह ॥
हृष्टपुष्ट वपुर्भूत्वा पुत्रः परमधार्मिकः ॥ ३३ ॥
पुत्र उवाच ॥
न विषादस्त्वया कार्यो द्रक्ष्यसे मामिहागतम् ॥
दृष्ट्वा च तमहं देवं सर्वलोकनमस्कृतम् ॥ ३४ ॥
आगच्छामि पुनश्चात्र न भयं मेऽस्ति मृत्युतः ॥
पूजयिष्यति मां तात राजा त्वदनुकम्पया ॥ ३५ ॥
सत्ये तिष्ठ महाभाग सत्यं च परिपालय ॥
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ३६॥
सूर्यस्तपति सत्येन वातः सत्येन वाति च ॥
अग्निर्दहति सत्येन सत्येन पृथिवी स्थिता ॥३७॥
उदधिर्ल्लङ्घयेन्नैव मर्यादां सत्यपालितः ॥
मन्त्रः प्रयुक्तः सत्येन सर्वलोकहितायते ॥३८॥
सत्येन यज्ञा वर्त्तन्ते मन्त्रपूताः सुपूजिताः ॥
सत्येन वेदा गायन्ति सत्ये लोकाः प्रतिष्ठिताः ॥ ३९ ॥
सत्यं गाति तथा साम सर्वं सत्ये प्रतिष्ठितम् ॥
सत्यं स्वर्गश्च धर्मश्च सत्यादन्यन्न विद्यते ॥ 193.४० ॥
सत्येन सर्वं लभते यथा तात मया श्रुतम् ॥
न हि सत्यमतिक्रम्य विद्यते किञ्चिदुत्तमम् ॥४१॥
देवदेवेन रुद्रेण वेदगर्भः पुरा किल ॥
सत्यस्थितेन देवानां परित्यक्तो महात्मना ॥ ४२ ॥
दीक्षां धारयते ब्रह्मा स तेनैव सुयन्त्रितः ॥
और्वेणाग्निस्तथा क्षिप्तः सत्येन वडवामुखे ॥ ४३ ॥
संवर्तेन पुरा तात सर्वे लोकाः सदैवताः ॥
देवानामनुकम्पार्थं धृता वीर्यवता तदा ॥४४॥
पाताले पालयन् सत्यं बद्धो वैरोचनो वसन् ॥
वर्द्धमानो महाशृङ्गैः शतशृङ्गो महागिरिः ॥ ४५ ॥
स्थितः सत्ये महाविन्ध्यो वर्द्धमानो न वर्द्धते ॥
सर्वं चराचरमिदं सत्येन श्रीयते जगत् ॥ ४६ ॥
गृहधर्माश्च ये दृष्टा वानप्रस्थाश्च शोभिताः ॥
यतीनां च गतिः शुद्धा ये चान्ये व्रतसंस्थिताः ॥४७॥
अश्वमेधसहस्रं च सत्यं च तुलया धृतम् ॥
अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ॥ ४८ ॥
सत्येन पाल्यते धर्मो धर्मो रक्षति रक्षितः ॥
तस्मात् सत्यं कुरुष्वाद्य रक्ष आत्मानमात्मना ॥ ४९ ॥
एवमुक्त्वा हृष्टपुष्टः स्वेन देहेन सुव्रत ॥
तपसा प्राप्तयोगस्तु जितात्मा कृतसंयमः ॥193.५०॥
ऋषिपुत्रो महातेजा सत्यवागनसूयकः ॥
प्राप्तश्च परमं स्थानं यत्र राज्ञो यमस्य तु ॥ ५१ ॥
इति श्रीवराहपुराणे प्रागितिहासे संसारचक्रे नचिकेतप्रयाणं नाम त्रिनवत्यधिकशततमोऽध्यायः ॥ १९३ ॥