अथ सर्वशान्तिवर्णनम् ॥
सूत उवाच ॥
श्रुत्वा तु मधुपर्क्कस्य ह्युत्पत्तिं दानमेव च ॥
पुण्यं चैव फलं चैव कारणं ग्रहणं तथा ॥ १ ॥
विस्मयं परमं गत्वा सा मही संशितव्रता ॥
पादौ गृह्य यथान्यायं प्रत्युवाच जनार्दनम् ॥ २ ॥
देव वृत्तोपचारेण तव यन्मनसि प्रियम् ॥
किं च तत्रैव दातव्यं तव कर्मपरायणैः ॥ ३ ॥
एतदाचक्ष्व तत्त्वेन तत्र यत्परमं महत् ॥
श्रीवराह उवाच ॥
साधु भूमे महाभागे यन्मां त्वं परिपृच्छसि ॥ ४ ॥
कथयिष्यामि तत्सर्वं दुःखसंसारमोक्षणम् ॥
कृत्वा तु मम कर्माणि यत्त्वया पूर्वभाषितम् ॥ ५ ॥
पश्चाच्छान्तिं च मे कुर्याद्भूमे राष्ट्रसुखावहम् ॥
सर्वकर्म ततः कृत्वा भूम्यां जानु निपात्य च ॥ ६ ॥
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ॥
मन्त्रः-
ॐ नमो नमो वासुदेव त्वं गतिस्त्वं परायणम् ॥ ७ ॥
शरणं त्वां गतो नाथ संसारार्णवतारक ॥
आगतस्त्वं च सुमुख पुनः समुचितेन वै ॥ ८ ॥
दिशः पश्य अधः पश्य व्याधिभ्यो रक्ष नित्यशः ॥
प्रसीद स्वस्य राष्ट्रस्य राज्ञः सर्वबलस्य च ॥९ ॥
गर्भिणीनां च वृद्धानां व्रीहीणां च गवां तथा ॥
ब्राह्मणानां च सततं शान्तिं कुरु शुभं कुरु ॥ 192.१० ॥
अन्नं कुरु सुवृष्टिं च सुभिक्षमभयं तथा ॥
राष्ट्रं प्रवर्द्धतु विभो शान्तिर्भवतु नित्यशः ॥ ११ ॥
देवानां ब्राह्मणानां च भक्तानां कन्यकासु च ॥
पशूनां सर्वभूतानां शान्तिर्भवतु नित्यशः ॥ १२ ॥
एवं शान्तिं पठित्वा तु मम कर्मपरायणः॥
पुनर्जलाञ्जलिं दत्त्वा त्विमं मन्त्रमुदाहरेत्॥१३॥
मन्त्रः-
योऽसौ भवान्सर्वजगत्प्रसूतो यज्ञेषु देवेषु च कर्मसाक्षी ॥
शान्तिं कुरु त्वं मम वासुदेव संसारमोक्षं च कुरुष्व देव ॥१४॥
एषा सिद्धिश्च कीर्तिश्च ओजसा तु महौजसम् ॥
लाभानां परमो लाभो गतीनां परमा गतिः ॥ १५ ॥
एवं पठति तत्त्वेन मम शान्तिं सुखावहाम् ॥
ते तु मल्लयतां यान्ति पुनरावृत्तिवर्जिताः ॥ १६ ॥
एवं शान्तिं पठित्वा तु मधुपर्कं प्रयोजयेत् ॥
नमो नारायणायेति चोक्त्वा मन्त्रमुदाहरेत् ॥१७॥
मन्त्रः-
योऽसौ भवान्देववरप्रसूतो यो वै समर्च्यो मधुपर्क्कनामा ॥
आगच्छ सन्तिष्ठ इमे च पात्रे ममापि संसारविमोक्षणाय॥१८॥
सर्पिर्दधिमधून्येव समं पात्रे ह्युदुम्बरे ॥
अलाभे मधुनश्चापि गुडेन सह मिश्रयेत् ॥१९ ॥
घृतालाभे तु सुश्रोणि लाजैः सह विमिश्रयेत् ॥
अलाभे वापि दध्नश्च क्षीरेण सह मिश्रयेत्॥192.२०॥
दधि क्षौद्रं घृतं चैव कारयेत समं तथा ॥
समर्पयामि देवेश रुद्र सर्पिर्घृतं मधु ॥२१॥
सर्वेषामप्यलाभे तु मम कर्मपरायणाः ॥
अप एव ततो गृह्य इमं मन्त्रमुदाहारेत् ॥ २२ ॥
मन्त्रः—
योऽसौ भवान्नाभिमात्रप्रसूतो यज्ञैश्च मन्त्रैः सरहस्यजप्यैः ॥
सोऽयं मया ते परिकल्पितश्च गृहाण दिव्यो मधुपर्क्कनामा ॥ २३ ॥
यो ददाति महाभागे मयोक्तं विधिपूर्वकम् ॥
सर्वयज्ञफलं प्राप्य मम लोकं प्रपद्यते ॥ २४ ॥
अन्यच्च ते प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
यो वै प्राणान्प्रमुञ्चेत मम कर्मपरायणः ॥ २५ ॥
तस्य चैवेह दातव्यं मन्त्रेण विधिपूर्वकम् ॥
यावत्प्राणान्प्रमुञ्चेत कृत्वा कर्म सुपुष्कलम् ॥२६॥
मद्भक्तेन तु दातव्यं सर्वसंसारमोक्षणम् ॥
दृष्ट्वा तु विह्वलं ह्येनं मम कर्मपरायणः ॥२७॥
मधुपर्क्कं परं गृह्य चेमं मन्त्रमुदाहरेत् ॥२८ ॥
मन्त्रः-
योऽसौ भवांस्तिष्ठति सर्वदेहे नारायणः सर्वजगत्प्रधानः ॥
गृहाण चैवं सुरलोकनाथ भक्तोपनीतं मधुपर्क्कसञ्ज्ञम् ॥ २९ ॥
अनेनैव तु मन्त्रेण दद्याच्च मधुपर्क्ककम् ॥
नरस्य मृत्युकाले तु दद्यात्संसार मोक्षणम् ॥ 192.३० ॥
एषा गतिर्महाभागे मधुपर्क्कस्य कीर्त्तिता ॥
एवं कश्चिन्न जानाति मधुपर्कं वसुन्धरे॥३१ ॥
एवं हि मधुपर्क्कश्च देयः सिद्धिमभीप्सुभिः ॥
अर्चित्वा देवदेवेशं सर्वसंसारनाशनम् ॥ ३२ ॥
ददाति मधुपर्कं यः स याति परमां गतिम् ॥
अयं पवित्रो विमलः सर्वकाम विशोधनः ॥ ३३ ॥
दीक्षिताय च दातव्यो यश्च शिष्यो गुरुप्रियः ॥
न मूर्खाय प्रदातव्यमविनीताय कर्हिचित् ॥३४॥
शृणोति मधुपर्क्कस्य चाख्यानं पापनाशनम् ॥
याति दिव्यां परां सिद्धिं मधुपर्क्कस्य कारणात् ॥ ३५ ॥
एतत्ते कथितं भद्रे मधुपर्क्कविभावनम् ॥
सर्वसंसारमोक्षार्थं यदीच्छेत्सिद्धिमुत्तमाम् ॥ ३६ ॥
राजद्वारे श्मशाने वा भये च व्यसने तथा ॥
ये पठन्ति त्विमां शान्तिं शीघ्रं कार्यं भविष्यति ॥ ३७ ॥
अपुत्रो लभते पुत्रमभार्यश्च प्रियां लभेत् ॥
अपतिर्लभते कान्तं बद्धो मुच्येत बन्धनात् ॥३८ ॥
एतत्ते कथितं भूमे महाशान्तिं सुखावहाम् ॥
सर्वसंसारमोक्षार्थं रहस्यं परमं महत्॥३९॥
यस्त्वनेन विधानेन कुर्याच्छान्तिमनुत्तमाम्॥
सर्वसङ्गान्परित्यज्य मम लोकं च गच्छति ॥ 192.४० ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे सर्वशान्तिकरणं नाम द्विनवत्यधिकशततमोऽध्यायः ॥ १९२ ॥