१९१

अथ मधुपर्कोत्पत्तिदानसङ्करणप्रकरणम् ॥
सूत उवाच ॥
एवं श्रुत्वा बहून्धर्मान् धर्मशास्त्रविनिश्चयात्॥
वराहरूपिणं देवं पुनः पप्रच्छ मेदिनी ॥ १ ॥
धरण्युवाच॥
एवं शास्त्रं मया देव तव वक्त्राद्विनिःसृतम् ॥
श्रुतं सुबहुशश्चैव तृप्तिर्मम न विद्यते॥२॥
ममैवानुग्रहार्थाय रहस्यं वक्तुमर्हसि ॥
कीदृशो मधुपर्क्कश्च किं पुण्यं का च देवता ॥३॥
कानि द्रव्याणि कस्मै च देयानीति वदस्व मे ॥
इति भूम्या वचः श्रुत्वा देवदेवो जनार्दनः ॥४॥
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ॥५॥
श्रीवराह उवाच ॥
शृणु भूमे प्रयत्नेन मधुपर्को यथा कृतः ॥
उत्पत्तिश्चैव दानं च सर्वो यस्य च हीयते ॥६॥
अहं ब्रह्मा च रुद्रश्च कृत्वा लोकस्य सङ्क्षयम् ॥
अव्यक्तानि च भूतानि यानि कानि च सर्वथा ॥७॥
ततो भूमे दक्षिणाङ्गात्पुरुषो मे विनिःसृतः ॥
रूपवान्द्युतिमांश्चैव श्रीमान्ह्रीकीर्तिमान्नरः ॥ ८ ॥
तत्र पप्रच्छ मां ब्रह्मा मम गात्राद्विनिःसृतः ॥
य एव तिष्ठते विष्णो त्रयाणां च चतुर्थकः ॥ ९ ॥
सरहश्च लघुर्देव एतत्तव न युज्यते ॥
ब्रह्मणो वचनं श्रुत्वा मयाप्येवं प्रभाषितम् ॥ 191.१० ॥
एवं च मे समुत्पन्नः सर्वकर्मसु निष्ठितः ॥
मधुपर्क्केति विख्यातो भक्तानां भवमोक्षणः ॥ ११ ॥
मयात्र संशितं ब्रह्मन् रुद्रे चापि समासतः ॥
साधु विष्णो भागतस्ते एष चापि विनिःसृतः ॥ १२ ॥
उद्भवं मधुपर्क्कस्य आत्मसम्भवनिश्चयम् ॥
ततस्तु माऽब्रवीद्ब्रह्मा कारणं मधुरं वचः ॥ १३ ॥
मधुपर्केण किं कार्यमेतदाचक्ष्व निष्कलम् ॥
पितामहवचः श्रुत्वा मयाऽसौ प्रतिभाषितः ॥ १४ ॥
कारणं मधुपर्कस्य दानं सङ्करणं तथा ॥
ममार्चनविधिं कृत्वा मधुपर्कं प्रयच्छति ॥१५॥
ब्रह्मन् यात्युत्तरं स्थानं यत्र गत्वा न शोचति॥
तस्य क्रियां प्रवक्ष्यामि मम दानप्रतिग्रहात् ॥ १६ ॥
यस्य दानविधिं प्राप्य यान्ति दिव्यां गतिं मम ॥
वृत्तेष्वेवोपचारेषु ये च ब्रह्मन्मम प्रियाः ॥ १७ ॥
सङ्गृह्य मधुपर्कं वै इमं मन्त्रमुदाहरेत् ॥ १८ ॥
मन्त्रः—
ॐ एष हि देव भगवंस्तव गात्रसूतिः संसारमोक्षणकरो मधुपर्कनामा ॥
भक्त्या मयाऽयं प्रतिपादितोऽद्य गृहाण देवेश नमो नमस्ते ॥ १९ ॥
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
यादृशो मधुपर्क्को वै या च तस्य महान् क्रिया ॥191.२०॥
मध्वेवं दधि सर्पिश्च कुर्याच्चैव समं तथा ॥
विधिना मन्त्रपूतेन यदीच्छेत्सिद्धिमुत्तमाम् ॥ २१ ॥
सामासाद्य ततः कृत्वा मम कर्मपरायणः ॥
उचितेनोपचारेण यत्त्वया परिपृच्छितम् ॥ २२ ॥
इति श्रीवराहपुराणे मधुपर्क्कोत्पत्तिदानसङ्करणं नामैकनवत्यधिकशततमोऽध्यायः ॥ १९१ ॥