अथ श्राद्धपितृयज्ञनिश्चयप्रकरणम् ॥
धरण्युवाच ॥
देवमानुषतिर्यक्षु प्रेतेषु नरकेषु च ॥
आयान्ति जन्तवः केचिद्भूत्वा गच्छन्ति चापरे ॥ १ ॥
स्वप्नोपममिमं लोकं ह्यात्मकर्म शुभाशुभम् ॥
वर्त्तते तिष्ठते देव तव मायाबलैर्जगत् ॥ २ ॥
क एते पितरो देव श्राद्धं भोक्ष्यन्ति योगतः ॥
आत्मकर्मवशाल्लोके गतिः पञ्चसु वर्त्तते ॥ ३ ॥
कथं तं पिण्डसङ्कल्पं मासे मासे नियोजयेत् ॥
के भवन्ति च भोक्तारः श्राद्धे पिण्डान्पितृक्रियाः ॥ ४ ॥
निश्चयं श्रोतुमिच्छामि परं कौतूहलं हि मे ॥
पृथिव्या एवमुक्तस्तु देवो नारायणो हरिः ॥५।
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम्॥
श्रीवराह उवाच ॥
साधु भूमे वरारोहे सर्वधर्मव्यवस्थिते ॥ ६ ॥
कथयिष्यामि ते देवि यन्मां त्वं परिपृच्छसि ॥
ये ते भवन्ति भोक्तारः पितृयज्ञेषु माधवि ॥७॥
पिता पितामहश्चैव तथैव प्रपितामहः ॥
क्रियते पिण्डसङ्कल्पो मासे ह्येकदिने तथा॥८॥
ज्ञात्वा नक्षत्रसंयोगं पितृपक्षे ह्युपागते ॥
तिथिं पर्वं विजानीयाद्येषु दत्तं महत्फलम् ॥ ९ ॥
करिष्यन्ति च ये श्राद्धं श्रद्धया ज्ञानिनो जनाः ॥
तत्सर्वं कथयिष्यामि श्रूयतां शुभ लोचने ॥ १९०.१० ॥
केचिद्यजन्ति यज्ञं वै ब्रह्मयज्ञं द्विजातयः ॥
केचिद्यजन्ति सुभगे देवयज्ञं हुताशने ॥ ११॥
केचिच्च भूतयज्ञेन वर्त्तयन्ति सुमध्यमे ॥
केचिन्मनुष्ययज्ञेन पूजयन्ति गृहाश्रमे ॥ १२ ॥
पितृयज्ञं च भो देवि शृणु वक्ष्यामि निश्चयम् ॥
ये यजन्ति वरारोहे क्रतूनेकशतैरपि ॥ १३ ॥
सर्वे ते मयि वर्त्तन्ते सत्यमेतद्ब्रवीमि ते ॥
अग्निर्मुखं च देवानां हव्यकव्येषु माधवि ॥ १४ ॥
उत्तरोऽग्निरहं चैव दक्षिणाग्निरहं तथा॥
अहमाहवनीयोऽग्निः सर्वयज्ञेषु सुन्दरि ॥ १५ ॥
पावनः पावकश्चैव अहमेव व्यवस्थितः ॥
सर्वेष्वेव तु कार्येषु देवसत्रेषु माधवि॥१६॥
वैश्वदेवे नियुञ्जीत ब्रह्मचारी शुचिः सदा ॥
भिक्षुको देवतीर्थेषु वानप्रस्थो यतिस्तथा ॥ १७ ॥
एतान्न भोजयेच्छ्राद्धे देवतीर्थेषु पूजयेत् ॥
व्रतस्थान्सम्प्रवक्ष्यामि श्राद्धमर्हन्ति ये द्विजाः ॥ १८ ॥
उत्तमो गृहसन्तुष्टः क्षान्तो दान्तो जितेन्द्रियः ॥
उदासीनः सत्यसन्धः श्रोत्रियो धर्म पाठकः ॥ १९ ॥
वेदविद्याव्रतस्नातो सुविमृष्टान्नभोजकः ॥
ईदृशान्भोजयेच्छ्राद्धे पितृयज्ञेषु माधवि ॥ १९०.२० ॥
दत्त्वा हुताशनायादौ देवतीर्थेषु सुन्दरि ॥
मुखेषु पश्चाद्ब्राह्मणस्य पित्रे दद्याद्यथाविधि ॥ २१ ॥
चतुर्णामेव वर्णानां यद्यथा श्राद्धमर्हति ॥
तथा विधिः प्रयोक्तव्यः पितृयज्ञेषु सुन्दरि ॥ २२ ॥
यन्न पश्यन्ति ते भोज्यं श्वानः कुक्कुटसूकराः ॥
ब्राह्मणाश्चाप्यपाङ्क्तेया नराः संस्कारवर्जिताः ॥२३ ॥
सर्वकर्मकरा ये च सर्वभक्षाश्च ये नराः ॥
एताञ्श्राद्धे न पश्येत्तु पितृयज्ञेषु सुन्दरि ॥ २४ ॥
एते पश्यन्ति यच्छ्राद्धं तच्छ्राद्धं राक्षसं विदुः ॥
मया प्रकल्पितो भागो बलये पूर्वमेव तु ॥ २५॥
हृतं यदा तु त्रैलोक्यं शक्रस्यार्थे त्रिविक्रमे ॥
एवं श्राद्धं प्रतीक्षन्ति मन्त्रहीनमविक्रियम् ॥ २६ ॥
वर्जनीया बुधैरेते पितृयज्ञेषु सुन्दरि ॥
प्रच्छन्नं भोजयेच्छ्राद्धे तर्पयित्वा द्विजं शुचिः ॥ २७ ॥
पितॄंस्तत्राह्वयेद्भूमे मन्त्रेण विधिपूर्वकम् ॥
पिण्डास्त्रयः प्रदातव्याः सह व्यञ्जनसंयुताः ॥ २८ ॥
पिता पितामहश्चैव तथैव प्रपितामहः ॥
अपसव्येन दातव्यं मासिमासि तिलोदकम् ॥ २९ ॥
प्रणम्य शिरसा देवीर्निर्वापस्य च धारिणीः ॥
वैष्णवी काश्यपी चेति अजया चेति नामतः ॥ १९०.३० ॥
एवं दत्तेन प्रीयन्ते पितरश्च न संशयः ॥
परमात्मा शरीरस्थो देवतानां मया कृतः ॥ ३१ ॥
त्रयस्तत्र वरारोहे देवगात्राद्विनिस्सृताः ॥
पितृदेवा भविष्यन्ति भोक्तारः पितृपिण्डकान् ॥ ३२ ॥
देवतासुरगन्धर्वा यक्षराक्षसपन्नगाः ॥
छिद्रं श्राद्धेऽस्य पश्यन्ति वायुभूता न संशयः ॥ ३३ ॥
पितृयज्ञं विशालाक्षि ये कुर्वन्ति विदो जनाः ॥
आयुः कीर्तिं बलं तेजो धनपुत्रपशुस्त्रियः ॥ ३४ ॥
ददन्ते पितरस्तस्य आरोग्यं नात्र संशयः ॥
आत्मकर्मवशाल्लोकान् प्राप्नुवन्तीह शोभनान् ॥३५॥
तिर्यग्भ्यश्च विमुच्यन्ते प्रेतभावेन मानवाः ॥
नरके पच्यमानानां त्राता भवति मानवः॥३६॥
पूजकः पितृदेवानां सर्वकालं गृहाश्रमे ॥
द्विजातींस्तर्पयित्वा तु पूर्णेन विधिना नरः ॥ ३७॥
अक्षय्यं तस्य मन्यन्ते पितरः श्राद्धतर्पिताः ॥
नरा ये पितृभक्तास्ते प्राप्नुवन्ति परां गतिम् ॥ ३८ ॥
सात्विकं शुक्लपन्थानमेते यान्ति विदो जनाः ॥
पुनरन्यत्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ॥३९॥
अज्ञानतमसारूढा निकृतिज्ञाः शठास्तथा ॥
स्नेहपाशशतेनैव पच्यन्ते नरके नराः ॥ १९०.४० ॥
कल्पान्तं पच्यमानापि त्रायन्ते येन मानवाः ॥
तेषां पुत्राश्च पौत्राश्च कदाचिदपि सुन्दरि॥४१ ॥
मुञ्चन्ति जलबिन्दूंश्च अमां प्राप्य जलाशये ॥
तेनैव भविता तृप्तिस्तेषां निरयगामिनाम् ॥४२॥
ये वै श्राद्धं प्रकुर्वन्ति तर्पयित्वा द्विजातयः ॥
दत्त्वा तिलोदकं पिण्डान् पितृभ्यो भक्तिभावतः ॥ ४३ ॥
निरयात्तेऽपि मुच्यन्ते तृप्तिर्भवति चाक्षया ॥
गृह्य चौदुम्बरं पात्रं कृत्वा तत्र तिलोदकम् ॥४४॥
विप्राणां वचनं कृत्वा यथाशक्त्या च दक्षिणा ॥
देया तेषां तु विप्राणां पितॄणां मोक्षणाय च ॥ ४५ ॥
देयो नीलो वृषस्तत्र नरकार्त्तिविनाशनः ॥
नीलषण्डस्य लाङ्गूले तोयमप्युद्धरेद्यदि ॥ ४६ ॥
षष्टिवर्षसहस्राणि पितरस्तेन तर्पिताः ॥
मुक्तमात्रेण शृङ्गेण नीलषण्डेन सुन्दरि ॥ ४७ ॥
उद्धृतो यदि सुश्रोणि पङ्कः शृङ्गेण तेन च ॥
बान्धवाः पितरस्तस्य निरये पतितास्तु ये ॥ ४८ ॥
तानुद्धृत्य वरारोहे सोमलोकं स गच्छति ॥
मुक्तेन नीलषण्डेन यत्पुण्यं जायते भुवि ॥ ४९ ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च ॥
सोमलोकेषु मोदन्ते क्षुत्तृड्भ्यां च विवर्जिताः ॥ १९०.५० ॥
एष धर्मो गृहस्थानां पुत्र पौत्रसमन्विताः ॥
त्रातारश्च भविष्यन्ति वर्तयन्तो यथासुखम् ॥ ५१ ॥
पिपीलिकादिभूतानि जङ्गमाश्च विहङ्गमाः ॥
उपजीवन्ति सुश्रोणि गृहस्थेषु न संशयः ॥ ५२ ॥
एवं गृहाश्रमो मूलं धर्मस्तत्र प्रतिष्ठितः ॥
मासिमासि तु ये श्राद्धं प्रकुर्वन्ति गृहाश्रमे ॥ ५३ ॥
तिथौ पर्वणि ये चैव स्वपितॄंस्तारयन्ति वै ॥ ५४ ॥
न यज्ञदानाध्ययनोपवासैस्तीर्थाभिषेकैरपि चाग्निहोत्रैः ॥
दानैरनेकैर्विधिसम्प्रदत्तैर्न तत्फलं श्राद्धगृहस्य धर्मे ॥ ५५ ॥
पितरो निर्गतास्तत्र ब्रह्मविष्णुशरीरगाः ॥
पिता पितामहश्चैव तथैव प्रपितामहः ॥ ५६ ॥
एवं क्रमेण वै तत्र पितृदेवा वसुन्धरे ॥
देवताः कश्यपोत्पन्ना श्राद्धेषु विनियोजिताः ॥ ५७ ॥
तत एते न जानन्ति देवाः शक्रपुरोगमाः ॥
ईश्वरश्च न जानाति आत्मदेहविनिःसृताः ॥ ५८ ॥
न च ब्रह्मा विजानाति निःसृतो मम मायया ॥
एवं मायामयौ भूमौ ब्रह्मरुद्रौ बहिष्कृतौ ॥५९॥
पुनश्चान्यत्प्रवक्ष्यामि पितृयज्ञेषु सुन्दरि ॥
दद्याद्वै ब्राह्मणमुखे नाग्नौ तु जुहुयात्क्वचित् ॥१९०.६० ॥
कृत्वा वै पिण्डसङ्कल्पं दर्भानास्तीर्य भूतले ॥
तेन ते पितृपिण्डेन पितृदेवा वसुन्धरे ॥६१॥
अजीर्णेनाभिपीड्यन्ते भुज्यन्ते न च सुन्दरि ॥
ततो दुःखेन सन्तप्ता पद्यन्ते सोममेव च ॥ ६२ ॥
दृष्टाः सोमेन सुश्रोणि देवताजीर्णपीडिताः ॥
स्वागतेनाथ वाक्येन पूजितास्तदनन्तरम् ॥ ६३ ॥
सोम उवाच ॥
देवताः कस्य चोत्पन्ना दुखिःताः केन हेतुना ॥
एवं तु भाषमाणस्य सोमस्य तदनन्तरम् ॥ ६४ ॥
ऊचुस्ते सोममेवापि वाक्यं नः श्रूयतामिति ॥
त्रयस्तु पितरो देवा ब्रह्मविष्णुहरोद्भवाः ॥ ६९ ॥
श्राद्धे नियोजितास्तैस्तु पितृपिण्डेन तर्पिताः ॥
अजीर्णं जायते सोम तेन वै दुःखिता वयम् ॥ ६६ ॥
सोम उवाच ॥
सखा चाहं भविष्यामि त्रयाणां च चतुर्थकः ॥
सहितास्तत्र गच्छामो यथा श्रेयो भविष्यति॥६७॥
एवमुक्तास्तु सोमेन पितृदेवास्तदन्तरे ॥
सोमं सोमेन गच्छन्ति श्रेयस्कामा वसुन्धरे ॥ ६८ ॥
शरण्यं शरणं देवं ब्रह्माणं पद्मसम्भवम् ॥
मेरुशृङ्गे सुखासीनं ब्रह्मर्षिगणसेवितम् ॥ ६९ ॥
दृष्ट्वा पितामहं देवं प्रणम्य सहसा क्षितौ ॥
अत्रिपुत्रेण सोमेन भाषितो वै पितामहः ॥ १९०.७० ॥
य एते पितरो देव दुःखिताजीर्णपीडिताः ॥
आगताः शरणं चात्र सोमं सोमेन सत्तम ॥७१ ॥
यथा नश्यन्ति जीर्णानि तथा कुरु पितामह॥
मुहूर्तं ध्यानमास्थाय ईश्वरं च ददर्श ह ॥ ७२ ॥
उवाच वचनं तत्र ब्रह्मा योगीश्वरं प्रति ॥
एते ते पितरो देव दुःखिताजीर्णपीडिताः ॥ ७३ ॥
आगताः शरणं चात्र सोमेन सहिता मम ॥
आचक्ष्व निर्मिता येन यथा श्रेयो भवेत्तव ॥७४॥
ब्रह्मणा चैवमुक्तस्तु ईश्वरः परमेश्वरः॥
मुहूर्तं ध्यानमास्थाय दिव्यं योगं च माधवि॥७५॥
पश्यते ईश्वरं तत्र योगवेदाङ्गनिर्मितम् ॥
विस्मयं परमं गत्वा ब्रह्माणं वाक्यमब्रवीत् ॥७६॥
निर्मिता विष्णुना ब्रह्मन् वैष्णव्या मायया च ते ॥
प्रथमं पितरौ देवा ये च श्रेष्ठा भवन्ति ते ॥ ७७ ॥
पिता तु ब्रह्मदैवत्यो मम गात्राद्विनिर्मितः ॥
पितामहो विष्णुदेवो विष्णुगात्राद्विनिर्मितः ॥ ७८ ॥
प्रपितामहो रुद्रदेवो मम गात्राद्विनिर्मितः ॥
श्राद्धे नियोजितास्तेऽत्र मर्त्त्येषु पितृदेवताः ॥ ७९ ॥
ब्राह्मणानां हितार्थाय निर्मिता विष्णुमायया ॥
तर्पिताः पितृयज्ञेषु पितरोऽजीर्णपीडिताः ॥ १९०.८० ॥
आगताः शरणं ब्रह्मन्सोमेन सहिता यदि ॥
येन नश्यत्यजीर्णं च पितॄणां च सुखं भवेत् ॥८१॥
शृणु तत्ते प्रवक्ष्यामि ब्रह्मन्लोकपितामह ॥
शाण्डिल्यपुत्रस्तेजस्वी धूम्रकेतुर्विभावसुः ॥८२॥
श्राद्धे तु प्रथमं तस्य दातव्यं मानुषेषु वा ॥
सह तेनैव भोक्तव्यं पितृपिण्डविसर्जितम् ॥ ८३ ॥
ईश्वरेणेवमुक्तस्तु ब्रह्मा कमलसम्भवः ॥
आहूय मनसा चैव ह्यागतो हव्यवाहनः ॥ ८४ ॥
प्रदीप्तस्तेजसा वह्निः सर्वभक्षो हुताशनः ॥
योजितः पञ्चयज्ञेषु ब्रह्मणा मम मायया ॥८५॥
ब्रह्माग्निं भाषते तत्र शृणुष्व च हुताशन ॥
भोक्तव्यं प्रथमं ब्रह्मन्पितृपिण्डविसर्जितम् ॥८६॥
त्वया भुक्तेति भोक्ष्यन्ति देवताः समरुद्गणाः ॥
भोक्तव्यं मध्यमं श्राद्धं पथ्यमन्नं च वै सह ॥८७॥
पश्चाद्दत्तं तु तं पिण्डं सह सोमेन भुञ्जते ॥
ब्रह्मणा ह्येवमुक्तास्तु पितृदेवहुताशनाः॥८८॥
प्रस्थिताः सह सोमेन देवतास्ता वसुन्धरे॥
पितृयज्ञं वरारोहे भोक्ष्यन्ति सहिताः सदा॥ ८९ ॥
एवं तु प्रथमं श्राद्धं दद्यादग्नेर्वसुन्धरे॥
उद्दिश्य च पितॄन्देवि तर्पयित्वा द्विजातयः॥१९०.९०॥
पश्चात्पिण्डान्प्रदद्याच्च दर्भानास्तीर्य भूतले ॥
प्रथमं ब्रह्मणोंशाय दद्यात्पिण्डं विधानतः॥९१॥
पितामहाय रुद्रांशसम्भूताय तु मध्यमम् ॥
प्रपितामहाय विष्णोस्तु दद्यात्पिण्डं महीतले ॥ ९२ ॥
विधिना मन्त्रपूर्वेण श्राद्धं कुर्वन्ति ये नराः ॥
तेषां वरं प्रयच्छन्ति पितरः श्राद्धतर्पिताः ॥ ९३ ॥
मम मायाबलेनैव कृतं श्राद्धं द्विजातिभिः ॥
अपाङ्क्तेयांस्तथा विप्रान्प्रवक्ष्यामि वसुन्धरे ॥ ९४ ॥
नपुंसकाश्चित्रकारा वसुपालविनिन्दकाः ॥
कुनखाः श्यावदन्ताश्च काणाश्च विकटोदराः ॥ ९५ ॥
नर्त्तका गायनाश्चैव तथा रङ्गोपजीविनः ॥
वेदविक्रयिणश्चैव सर्वे याजकयाजकाः ॥ ९६॥
राजोपसेवकाश्चैव वाणिज्यक्रयविक्रयाः ॥
ब्रह्मयोन्यां समुत्पन्नाः सङ्कीर्णा पतिताश्च ये ॥ ९७ ॥
असंस्कारप्रवृत्ताश्च शूद्रकर्मोपजीविनः ॥
शूद्रकर्मकरा ये च गणका ग्रामयाजकाः ॥ ९८ ॥
दीक्षितः क्रोडपृष्ठश्च यश्च वार्धुषिको द्विजः ॥
विक्रेतारो रसानां च ये च वैश्योपजीविनः ॥ ९९ ॥
तस्करा लेखकाराश्च याजका रङ्गकारकाः ॥
शौलिका गिरिका ये च दाम्भिका ये च माधवि ॥ १९०.१०० ॥
सर्वकर्मकरा ये च सर्वविक्रयिणस्तथा ॥
एतान्न भोजयेच्छ्राद्धे पित्रर्थे च वसुन्धरे ॥ १०१ ॥
दूराध्वानं गता ये च तत्र कर्मोपजीविनः ॥
रस विक्रयिणश्चैव शैलूषस्तिलविक्रयी ॥ १०२ ॥
श्राद्धकालमनुप्राप्तं राजसं तं विदुर्बुधाः ॥
अन्ये ये दूषिता देवि द्विजरूपेण राक्षसाः ॥१०३॥
एतान्न पश्येच्छ्राद्धेषु पितृपिण्डेषु माधवि ॥
अपाङ्क्तेयांस्तथा विप्रान्भुञ्जतः पश्यतो द्विजान् ॥ १०४ ॥
पितरस्तस्य षण्मासं दुःखमृच्छन्ति दारुणम् ॥
न्यस्तपात्रं द्रुतं कुर्यात्प्रायश्चित्तमुभौ धरे ॥ १०५॥
धृतं तु जुहुयादग्नावादित्यं चावलोकयेत् ॥
पुनरावपनं कृत्वा पितरं च पितामहान् ॥१०६॥
गन्धपुष्पं च धूपं च दद्यादर्घ्यं तिलोदकम् ॥
यथाविधिं च विप्राय भोजयेच्च पुनः शुचिः ॥ १०७॥
पुनश्चान्यत्प्रवक्ष्यामि शृणु तत्त्वेन सुन्दरि ॥
ज्ञानशुद्धेन विप्रेण मन्त्रशुद्धिं यथाविधि ॥१०८॥
मृतान्नं ये न भुञ्जन्ति कदाचिदपि माधवि ॥
वैश्वदेवेषु दातव्यं श्राद्धेषु च न योजयेत् ॥ १०९ ॥
प्रेतान्नं भुञ्जमानास्तु श्राद्धमर्हन्ति ये द्विजाः ॥
तेषां दोषं प्रवक्ष्यामि भुक्तं भोजयते तु सः ॥ १९०.११० ॥
दम्भकार कृतोच्छिष्टं कृत्वा तु नरकं व्रजेत् ॥
प्रायश्चित्तं प्रवक्ष्यामि यथा शुध्यन्ति ते नराः ॥१११॥
माघमासे तु द्वादश्यां सर्पिर्युक्तं तु पायसम् ॥
स लिहेन्मधुमांसेन तर्पयित्वा द्विजातयः ॥ ११२ ॥
सवत्सां कपिलां दद्यादात्मनः शुद्धिकामुकः ॥
पुनः श्राद्धं प्रकुर्वीत चात्मनः शुभ कामुकः ॥ ११३॥
स्नानोपलेपनं भूमे कृत्वा विप्रान्प्रमन्त्रयेत् ॥
दन्तकाष्ठं विसृज्यैव ब्रह्मचारी शुचिर्भवेत् ॥११४॥
यत्नेन मिथुनं श्राद्धे भोजयित्वा विसर्ज्जयेत् ॥
अमायां च विशालाक्षि दन्तकाष्ठं न खादयेत् ॥ ११५ ॥
अमायां तु च यो मूर्खो दन्तकाष्ठं हि खादति ॥
हिंसितो हि भवेत्सोमो देवताः पितरस्तथा ॥ ११६ ॥
प्रभातायां तु शर्वर्यामुदिते च दिवाकरे ॥
दिवाकृत्यं ततो गृह्य विप्रस्य विधिपूर्वङ्कम् ॥ ११७ ॥
श्मश्रुकर्म च कर्त्तव्यं नखानां छेदनानि च ॥
स्नापनाऽभ्यञ्जने दद्यात्पितृभक्तेन सुन्दरि ॥ ११८ ॥
पक्वान्नं तत्र वै कार्यं सुविमृष्टं च शुद्धितः ॥
वृत्ते तु तत्र मध्याह्ने श्राद्धारम्भं तु कारयेत् ॥ ११९ ॥
स्वागतं च तथा कृत्वा पाद्यार्थं सलिलं शुचि ॥
पाद्यं दत्त्वा तु विप्राय गृहस्याभ्यन्तरं नयेत् ॥ १९०.१२०॥
आसनं कल्पयित्वा तु आवाह्य तदनन्तरम्॥
अर्घ्यं दत्त्वा विधानेन गन्धमाल्यैः प्रपूज्य च ॥ १२१ ॥
धूपं दीपं तथा वस्त्रं तिलोदकमथापि वा ॥
पात्रं च भोजनस्यार्थे विप्राग्रे धारयेत्तथा ॥१२२ ॥
भस्मना मण्डलं कार्यं पङ्क्ति दोषनिवारकम् ॥
अग्निकार्यं ततः कृत्वा अन्नं च परिवेषयेत् ॥ १२३ ॥
तत्र कार्यो न सङ्कल्पः पितॄनुद्दिश्य सुन्दरि ॥
यथासुखेन भोक्तव्यमिति ब्रूयाद्द्विजं प्रति ॥ १२४ ॥
रक्षोघ्नमन्त्रपाठांश्च श्रावयीत विचक्षणः ॥
तृप्तं तु ब्राह्मणं दत्त्वा दद्याद्वै विकिरं ततः ॥१२५ ॥
उत्तरीयासनं दत्त्वा पिण्डप्रश्नं तु कारयेत् ॥
दक्षिणाभिमुखो भूत्वा दर्भानास्तीर्य भूतले ॥ १२६ ॥
पिण्डदानं प्रकुर्वीत पित्रादित्रितये तथा ॥
पिण्डानां पूजनं कार्यं तन्तुवृद्ध्यै यथाविधि ॥ १२७ ॥
ब्राह्मणस्य च हस्ते तु दद्यादक्षय्यमात्मवान् ॥
दक्षिणाभिः प्रतोष्यापि स्वस्ति वाच्यं विसर्जयेत् ॥ १२८ ॥
पिण्डास्त्रयस्तु वसुधे यावत्तिष्ठन्ति भूतले ॥
अप्यायमानाः पितरस्तावत्तिष्ठन्ति वै गृहे ॥ १२९ ॥
उपस्पृश्य शुचिर्भूत्वा दद्याच्छान्त्युदकानि च ॥
प्रणम्य शिरसा भूमौ निवापस्य च धारिणीः ॥१९०.१३० ॥
वैष्णवी काश्यपी चेति अक्षया चेति नामतः ॥
भक्षयेत्प्रथमं पिण्डं पत्न्यै देयं तु मध्यमम् ॥१३१ ॥
तृतीयमुदके दद्याच्छ्राद्धे एवं विधिः स्मृतः ॥
पितृदेवांश्च विसृजेत्ततश्च प्रणमेत्तु तान् ॥ १३२ ॥
एवं दत्तेन तुष्यन्ति पितृदेवा न संशयः॥
दीर्घायुष्यं प्रयच्छन्ति पुत्रपौत्रधनानि च ॥१३३॥
ज्ञानोत्तमेषु विप्रेषु दद्याच्छ्राद्धं विधानतः॥
अन्यथा तत्तु वै श्राद्धं निष्फलं नास्ति संशयः ॥१३४॥
मन्त्रहीनं क्रियाहीनं यः श्राद्धं कुरुते द्विजः ॥
मद्भक्तस्यासुरेन्द्रस्य फलं भवति भागतः ॥१३५ ॥
उद्धरेद्यदि पात्रं तु ब्राह्मणो ज्ञानवर्जितः॥
राक्षसैर्ह्रियते तच्च भुञ्जतस्तस्य सुन्दरि ॥ १३६ ॥
एतत्ते कथितं भद्रे पितृकार्यमनुत्तमम् ॥
उत्पतिश्चैव दानं च यत्पुण्यं कथितं तव ॥१३७॥
अपरं चापि वसुधे किमन्यच्छ्रोतुमिच्छसि ॥१३८॥
इति श्रीवराहपुराणे श्राद्धपितृयज्ञनिश्चयो नाम नवत्यधिकशततमोऽध्यायः ॥१९०॥