अथ पिण्डकल्पोत्पत्तिप्रकरणम् ॥
धरण्युवाच ॥
श्रुतं श्राद्धं यथावृत्तं शौचाशौचांश्च सर्वशः ॥
चतुर्णामपि वर्णानां प्रेतभोज्यं यथाविधि ॥ १ ॥
उत्पन्नं संशयं मेऽद्य भगवन्वक्तुमर्हसि ॥
चातुर्वर्ण्येषु सर्वेषु दद्याद्दानं द्विजोत्तमे ॥ २ ॥
प्रतिगृह्णन्ति ये तत्र प्रेतभागं विशेषतः ॥
अनिष्टं गर्हितं तत्र प्रेतेन सह भोजनम् ॥ ३ ॥
भुक्त्वा तेषां द्विजो देव मुच्यते केन कर्मणा ॥
कथं ते तारयिष्यन्ति दातारं पुरुषोतम ॥ ४ ॥
प्रणयात्स्त्रीस्वभावेन पृच्छामि त्वां जनार्दन ॥
एवमुक्तोऽपि भूम्या ऽसौ शङ्खदुन्दुभिनिःस्वनः ॥ ५ ॥
वराहरूपी भगवान्प्रत्युवाच वसुन्धराम् ॥
श्रीवराह उवाच ॥
साधु भूमे वरारोहे यन्मां त्वं परिपृच्छसि ॥६॥
कथयिष्यामि ते देवि तारयन्ति यथा द्विजाः॥
भुक्त्वा तु प्रेतभोज्यानि ब्राह्मणो ज्ञानदुर्बलः ॥ ७ ॥
विशोधनार्थं देहस्य उपवासं तु कारयेत् ॥
अहोरात्रोषितो भूत्वा विप्रो ज्ञानेन संयुतः ॥ ८ ॥
पूर्वसन्ध्यां विनिर्वर्त्य कृत्वा चैवाग्नितर्पणम् ॥
तिलहोमं प्रकुर्वीत शान्तिमङ्गलपाठकः॥९॥
प्राक्स्रोतसं नदीं गत्वा स्नानं कृत्वा विधानतः ॥
पञ्चगव्यं ततः पीत्वा मधुपर्केण संयुतम् ॥ 189.१० ॥
औदुम्बरे च पात्रे च कृत्वा शान्त्युदकानि च॥
प्रोक्षयेच्च गृहं सर्वं यत्रातिष्ठत्स्वयं द्विजः ॥ ११ ॥
देवाश्चाग्निमुखाः सर्वे तर्पयित्वा विभागशः ॥
भूतानां च बलिं दद्याद्ब्राह्मणेभ्यश्च भोजनम् ॥ १२ ॥
एका गौस्तु प्रदातव्या पापक्षयकरी तदा ॥
एवं तु कुरुते यश्च स याति परमां गतिम् ॥ १३ ॥
प्रेतान्ने चोदरस्थे तु कालधर्ममुपागतः ॥
आकल्पं नरके घोरं वसमानः सुदुःखितः ॥ १४ ॥
प्राप्नोति राक्षसत्वं वै ततो मुच्येत किल्बिषात् ॥
प्रायश्चित्तं तु कर्त्तव्यं दातृभोक्तृसुखावहम् ॥ १५ ॥
गोहस्त्यश्वधनादीनि सागरान्तानि माधवि ॥
प्रतिगृह्णन्ति ये विप्रा मन्त्रेण विधिपूवर्कम् ॥ १६ ॥
प्रायश्चित्तं चरेद्यस्तु स तारयति निश्चितम् ।
द्विजो ज्ञानेन सम्पन्नो वेदाभ्यासरतः सदा ॥ १७ ॥
स तारयति चात्मानं दातारं नैव संशयः ॥
ब्राह्मणो नावमन्तव्यस्त्रिभिर्वर्णैर्धराधरे ॥ १८ ॥
दैवे च जन्मनक्षत्रे श्राद्धकाले च पर्वसु ॥
प्रेतकार्येषु सर्वेषु परीक्ष्य निपुणं द्विजम् ॥ १९ ॥
वेदविद्याव्रतस्नातं बहुधर्मनिरन्तरम् ॥
शीलयुक्तं सुसन्तुष्टं धर्मज्ञं सत्यवादिनम् ॥ 189.२० ॥
क्षमायुक्तं च शास्त्रज्ञमहिंसायां रतं तथा ॥
एभिर्गुणैस्तु संयुक्तं ब्राह्मणं प्राप्य सत्वरः ॥ २१ ॥
दद्याद्दानानि विप्राय स वै तारयितुं क्षमः ॥
कुण्डगोलेषु यद्दत्तं निष्फलं तत्तु जायते ॥ २२ ॥
कुण्डगोलं प्रतिग्राहि दातारं चाप्यधो नयेत् ॥
पित्र्ये कर्मणि चैकं तु कुण्डं वा गोलकं तथा ॥ २३ ॥
दृष्ट्वा तं पितरो यान्ति निराशा निरयं द्रुतम् ॥
दैवे कर्मणि चैवं तु तेषां दत्तं सुनिष्फलम् ॥ २४ ॥
तस्माद्दानं न दातव्यमपात्राय यशस्विनि ॥
अत्रार्थे यत्पुरा वृत्तं तच्छृणुष्व वसुन्धरे ॥२५॥
अवन्तीविषये कश्चिद्राजा ह्यत्यन्तधार्मिकः ॥
नाम्ना मेधातिथिश्चैव मनुवंशविवर्द्धनः ॥ २६ ॥
राज्ञः पुरोहितश्चासीच्चन्द्रशर्म्मा द्विजोत्तमः ॥
आत्रेयगोत्रे चोत्पन्नो वेदवादरतः सदा ॥ २७ ॥
स राजा ब्राह्मणेभ्यश्च गा ददाति दिने दिने ॥
शतं दत्त्वा विधानेन पृश्चाद्भुङ्क्ते नराधिपः ॥ २८ ॥
गते बहुतिथे काले राज्ञो मेधातिथेः पितुः ॥
श्राद्धस्य दिवसः प्राप्तो वैशाखे वरवर्णिनि ॥
विप्रानाह्वापयामास पितुर्वै श्राद्धकारणात् ॥ २९ ॥
आगतान्ब्राह्मणान्दृष्ट्वा मेधातिथिरकल्मषः ॥
विप्रान्नत्वा गुरुं चैव श्राद्धारम्भमथाकरोत् ॥ 189.३० ॥
श्राद्धं कृत्वा तु विधिवत्पिण्डान्निर्वाप्य यत्नतः ॥
श्राद्धसङ्कल्पितं चान्नं विप्रेभ्यः प्रददौ बहु ॥ ३१ ॥
तन्मध्ये ब्राह्मणः कश्चिद्गोलकोऽवस्थितस्तदा ॥
श्राद्धे सङ्कल्पितं चान्नं तस्मै दत्तं विधानतः ॥ ३२ ॥
तेनैव श्राद्धदोषेण राज्ञस्तु पितरस्तदा ॥
स्वर्गाद्भ्रष्टावलम्बन्ते वने कण्टकसंयुते ॥३३॥
क्षुत्पिपासार्दिता नित्यं क्रन्दन्ते च पुनः पुनः ॥
कदाचिद्दैवयोगेन राजा मेधातिथिः स्वयम्॥३४॥
मृगयार्थं गतस्तत्र द्वित्रैः परिजनैर्वृतः ॥
तत्रावलम्बतो दृष्ट्वा तानपृच्छद्द्विजप्रियः ॥ ३५ ॥
के भवन्तोऽत्र सम्प्राप्ता दशामेतां सुदुःखिताः ॥
केन कर्मविपाकेन भवन्तः कथयन्तु मे ॥ ३६ ॥
पितर ऊचुः ॥
अस्मद्वंशकरो नित्यं नाम्ना मेधातिथिः प्रभुः ॥
वयं तस्यैव पितरो नरकं गन्तुमुद्यताः ॥३७॥
तेषां तु वचनं श्रुत्वा राजा दुःखसमन्वितः ॥
उवाच तान्पितॄन्सर्वान्सान्त्वपूर्वमिदं वचः ॥३८ ॥
मेधातिथिरुवाच॥
मेधातिथिरहं नाम्ना भवन्तः पितरो मम ॥
केन वै कर्मदोषेण निरयं गन्तुमुद्यताः ॥ ३९ ॥
पितर ऊचुः ॥
श्राद्धं सङ्कल्पितं चान्नं दत्तं तद्गोलकाय वै ॥
तेनैव कर्मदोषेण नरकं गन्तुमुद्यताः ॥ 189.४० ॥
तत्र दुःखं महद्भुक्त्वा पुनर्गच्छामहे दिवम् ॥
पुत्र त्वं चैव दाता च सर्वलोकहिते रतः ॥ ४१ ॥
असङ्ख्यातास्त्वया दत्ता गावः सुबहुदक्षिणा॥
तेन पुण्येन गच्छामः स्वर्गं ह्यतिसुखप्रदम्॥४२॥
तत्र चान्नं न विद्येत येन तृप्तिर्भविष्यति ॥
पुनः श्राद्धं त्वया कार्यं पितॄणां तृप्तिदायकम् ॥ ४३॥
तेषां तु वचनं श्रुत्वा मेधातिथिरगाद्गृहम् ॥
आहूय चन्द्रशर्मार्णं गुरुं वचनमब्रवीत् ॥ ४४ ॥
मेधातिथिरुवाच ॥
चन्द्रशर्मन्पुनः श्राद्धं करिष्ये पितुरद्य वै ॥
आहूयन्तां द्विजाः सर्वे कुण्डगोलकवर्जिताः ॥ ४९ ॥
इत्युक्तमात्रे वचने चन्द्रशर्मा पुरोहितः ॥
आहूतवान्द्विजान्सर्वान्वेदपाठकृतश्रमान् ॥ ४६॥
साधून्क्षान्तान्कुलीनांश्च सुशीलान्मानवर्जितान् ॥
राज्ञा तु कारयामास श्राद्धं विधिविदां वरः ॥ ४७ ॥
कृते श्राद्धे ततः पश्चात्पिण्डान्निर्वाप्य यत्नतः ॥
ब्राह्मणान्भोजयामास दक्षिणाभिः प्रपूज्य च ॥ ४८ ॥
पश्चाद्विसर्जयामास स्वयं तु बुभुजे नृपः ॥
भुक्त्वा पुनर्वनं गत्वा दृष्टवांश्च स्वकान्पितॄन् ॥४९॥
हृष्टान्पुष्टान्बलैर्युक्तान्राजा तु मुमुदे भृशम् ॥
दृष्ट्वा तु पितरश्चैव राजानं पितृवत्सलम् ॥ 189.५० ॥
ऊचुर्विनयसम्पन्नाः प्रीतिपूर्वमिदं वचः॥
स्वस्ति तेऽस्तु गमिष्यामः स्वर्गलोकं प्रति प्रभो ॥ ५१ ॥
इदानीं च त्वया कार्यमस्मद्धितमनुऽत्तमम् ॥
गोलकाय न दातव्यं दैवं पित्र्यमथापि वा ॥ ९२ ॥
तयोर्दत्तं तु यच्छ्राद्धं निष्फलं तत्स्मृतं बुधैः ॥
दैवे कर्मणि दिव्ये च ब्राह्मणो नैव लभ्यते ॥ ५३॥
सङ्कल्पयित्वा चान्नं तु गोभ्यो देयं यथाविधि ॥
गवामभावे नद्यां वा क्षिपेदन्नं प्रयत्नतः ॥ ५४ ॥
अपात्राय न दातव्यं नास्तिकाय गुरुद्रुहे ॥
गोलकाय न दातव्यं कुण्डाय च विशेषतः ॥५५॥
इत्युक्त्वा पितरः सर्वे गताः स्वर्गाय भामिनि॥
मेधातिथिरपि प्रायात्स्वपुरं ब्राह्मणैर्वृतः॥५६।
यदुक्तं पितृभिः सर्वं तच्चकार मुदायुतः ॥
तस्मात्ते कथितं देवि एकोऽपि ब्राह्मणोत्तमः ॥५७॥
सन्तारयति दुर्गेभ्यो विषमेभ्यो न संशयः ॥
एकोऽपि तारितुं शक्तो यथा नावा महज्जलम् ॥५८ ॥
तस्माद्दानं प्रदातव्यं ब्राह्मणाय वसुन्धरे ॥
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ॥ ५९ ॥
सर्वे श्राद्धं करिष्यन्ति निमिप्रभृतयो धरे ॥
मासे मासे च वै पश्चात्पितृपक्षे तपोधनाः ॥ 189.६० ॥
इति श्रीवराहपुराणे भगवच्छास्त्रे पिण्डकल्पोत्पत्तिर्नामेकोननवत्यधिकशततमोऽध्यायः ॥ १८९ ॥