अथ सृष्टिपितृयज्ञौ ॥
सूत उवाच ॥
एवं नारायणाच्छ्रुत्वा सा मही संशितव्रता ॥
कराभ्यामञ्जलिं कृत्वा माधवं पुनरब्रवीत् ॥ १ ॥
धरण्युवाच ॥
श्रुतमेतन्मयाख्यानं क्षेत्रस्य च महत्फलम् ॥
एकं मे परमं गुह्यं तद्भवान्वक्तुमर्हति ॥ २ ॥
पितृयज्ञस्य माहात्म्यं सोमदत्तो नराधिपः ॥
मृगयां समुपागम्य यत्त्वया पूर्वभाषितम् ॥३ ॥
को गुणः पितृयज्ञस्य कथमेव प्रयुज्यते ॥
केन चोत्पादितं श्राद्धं कस्मिन्नर्थे किमात्मकम् ॥ ४ ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण वदस्व मे॥
श्रीवराह उवाच ॥
साधु भूमे महाभागे यन्मां त्वं परिपृच्छसि ॥ ५ ॥
मोहितासि वरारोहे भाराक्रान्ता वसुन्धरे ॥
दिव्यां ददामि ते बुद्धिं शृणु सुन्दरि तत्त्वतः ॥६॥
कथयिष्यामि ते ह्येवं श्राद्धोत्पत्तिविनिश्चयम् ॥
आदौ स्वर्गस्य चोत्पत्तिं देवानां च वरानने ॥७ ॥
निष्प्रभेऽस्मिन्निरालोके सर्वतस्तमसावृते ॥
स्रष्टुं वै बुद्धिरुत्पन्ना त्रैलोक्यं सचराचरम् ॥८॥
सोऽहं च शेषपर्यङ्के एकश्चैव पराङ्मुखः ॥
स्वपामि च वरारोहे अनन्तशयने ह्यहम् ॥ ९ ॥
निद्रां मायामयीं कृत्वा जागर्मि च स्वपामि वा ॥
विष्णुमायामयं कृत्वा जानासि त्वं न धारिणि ॥187.१०॥
युगं युगसहस्राणि यास्यन्ति च गतानि च ॥
न त्वं मम विजानासि ज्ञातुं मायां यशस्विनि ॥ ११ ॥
धारितं मम सुश्रोणि दिवा पञ्चशतानि च ॥
वाराहं रूपमादाय न जानासि हि भामिनि ॥ १२ ॥
यन्मां पृच्छसि वै ज्ञातुमात्मानं च यशस्विनि ॥
एकमूर्त्तिस्त्रिधा जातो ब्रह्मविष्णु हरात्मकः ॥ १३ ॥
क्रोधहेतोर्मया सृष्ट ईश्वरोऽसुरनाशनः ॥
मम नाभ्यामभूत्पद्मं पद्मगर्भः पितामहः ॥ १४॥
एवं त्रयो वयं देवाः कृत्वा ह्येकार्णवां महीम् ॥
तिष्ठाम परमप्रीत्या मायां कृत्वा तु वैष्णवीम् ॥ १५ ॥
सर्वं तज्जलपूर्णं तु न चाज्ञायत किञ्चन ॥
वटमेकं वर्जयित्वा विष्णुमूलं यशोद्रुमम् ॥ १६ ॥
तिष्ठाम वटवृक्षेऽहं मायया बालरूपधृक् ॥
पश्यामि च जगत्सर्वं त्रैलोक्यं यन्मया कृतम् ॥ १७ ॥
वारयामि वरारोहे जानासि त्वं धरे शुभे ॥
कालेन तु तदा देवि कृत्वा वै वडवामुखम् ॥ १८ ॥
विनिस्सृतं जलं तत्र मायया तदनन्तरम् ॥
प्रलये च विनिर्वृत्ते ब्रह्मा लोकपितामहः ॥ १९ ॥
मुहूर्त्तं ध्यानमास्थाय भाषितो वचनं मया ॥
शीघ्रमुत्पादय ब्रह्मन्देवतासुरमानुषान् ॥ 187.२० ॥
एवमुक्तो मया देवि गृह्य तत्र कमण्डलुम् ॥
उपस्पृश्य शुचिर्भूत्वा ब्रह्मा चोत्पादयन्सुरान् ॥ २१ ॥
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ॥
तारणार्थं च सर्वेषां ब्राह्मणान्भुवि दैवतान् ॥ २२ ॥
बाहुभ्यां क्षत्रमुत्पन्नं वैश्या ऊरुविनिःस्सृताः ॥
पद्भ्यां विनिःसृताः शूद्राः सर्ववर्णोपचारकाः ॥ २३ ॥
देवताश्चासुरा देवि जातास्ते ब्रह्मणस्तथा ॥
देवता ह्यसुराः सर्वे तपोवीर्यबलान्विताः ॥ २४ ॥
आदित्या वसवो रुद्रा अश्विनौ च मरुद्गणाः ॥
देवतास्तु त्रयस्त्रिंशददित्यां जनयन्पुरा ॥ २९ ॥
दित्यां च जनिताः पुत्रा असुराः सुरशत्रवः ॥
प्रजापतिश्चाजनयदृषींश्चैव तपोधनान् ॥ २६ ॥
तेजसा भास्कराकाराः सर्वे शास्त्रविदो द्विजाः ॥
तेषां पुत्राश्च पौत्राश्च जनिता ब्रह्मसूनुना ॥ २७ ॥
निमेस्तु वंशसम्भूतो आत्रेय इति विश्रुतः ॥
जातमात्रो महात्मा स श्रीमांश्चापि तपोनिधिः ॥ २८ ॥
एकचित्तं समाधाय तपश्चरति निश्चलः ॥
पञ्चाग्निर्वायुभक्षश्च एकपादोर्द्ध्वबाहुकः ॥ २९ ॥
शीर्णपर्णाम्बुभक्षश्च शिशिरे च जलेशयः ॥
स कृच्छ्रे फलभक्षश्च पुनश्चान्द्रायणं चरन् ॥ 187.३० ॥
वर्षाणां च सहस्राणि तपस्तप्त्वा वसुन्धरे ॥
मृत्युकालमनुप्राप्तस्ततः पञ्चत्वमागतः ॥ ३१ ॥
नष्टं च तं सुतं दृष्ट्वा निमेः शोक उपाविशत् ॥
पुत्रशोकाभिसंयुक्तो दिवा रात्रौ च चिन्तयन् ॥ ३२ ॥
निमिः कृत्वा ततः शोकं विधानात्तत्र माधवि ॥
तं मनोगतसङ्कल्पं त्रिरात्रे प्रत्यपद्यत ॥ ३३ ॥
तस्य प्रतिविशुद्धस्य माघमासे तु द्वादशीम् ॥
मानसं सृज्य विषयं बुद्धिर्विस्तारगामिनी ॥३४ ॥
स निमिश्चिन्तयामास श्राद्धकल्पं समाहितः ॥
यानि तस्यैव भोज्यानि मूलानि च फलानि च ॥ ३५ ॥
यानि कानि च भक्ष्याणि नवश्च रससम्भवः ॥
यानि तस्यैव चेष्टानि सर्वमेतदुदाहरेत् ॥ ३६ ॥
आमन्त्र्य ब्राह्मणं पूर्वं शुचिर्भूत्वा समाहितः ॥
दक्षिणावर्ततः सर्वमकरोदृषिसत्तमः ॥ ३७ ॥
सप्तकृत्वस्ततस्तत्र युगपत्समुपाविशत् ॥
दत्त्वा तु मांसशाकानि मूलानि च फलानि च ॥३८॥
पूजयित्वा तु विप्रान्स सप्तकृत्वश्च सुन्दरि ॥
कृत्वा तु दक्षिणाग्रांश्च कुशांश्च प्रयतः शुचिः ॥ ३९ ॥
प्रददौ श्रीमते पिण्डं नामगोत्रमुदाहरन् ॥
तत्कृत्वा स मुनिश्रेष्ठो धर्मसङ्कल्पमात्मनः ॥ 187.४०॥
एवं दिने गते भद्रे ह्यस्तं प्राप्ते दिवाकरे ॥
ब्रह्म कर्मोत्तमं दिव्यं भावसाध्यमुपासत ॥ ४१ ॥
एकाकी यतचित्तात्मा निराशी निष्परिग्रहः ॥
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः ॥ ४२ ॥
नात्युच्चं नातिनीचं च चेलाजिनकुशोत्तरम् ॥
तत्रैकाग्रं मनः कृत्वा यतचित्तो जितेन्द्रियः ॥ ४३ ॥
उपविश्यासनेऽयुञ्जद्योगमात्मविशुद्धये ॥
समं कायशिरोग्रीवं धारयन्नचलं स्थितः ॥ ४४ ॥
सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ॥
प्रकाशात्मा विगतभीर्ब्रह्मचारी व्रते स्थितः ॥ ४५ ॥
संयम्य मयि चित्तं यो युक्त आसीत मत्परः ॥
प्रयुञ्जीत तदात्मानं मद्भक्तो नान्यमानसः ॥ ४६ ॥
एवं निवृत्तसन्ध्यायां ततो रात्रिरुपागता ॥
पुनश्चिन्तितुमारब्धः शोकसंविग्नमानसः ॥ ४७ ॥
कृत्वा तु पिण्ड सङ्कल्पं पश्चात्तापं चकार ह ॥
अकृतं मुनिभिः सर्वं किं मया तदनुष्ठितम् ॥ ४८ ॥
निवापकर्म ह्यशुचि पुत्रार्थे विनियोजितम् ॥
अहो स्नेहप्रभावेण मया चाकृतबुद्धिना ॥४९॥
कथं ते मुनयः शापात्प्रदहेयुर्न मामिति ॥
सदेवासुरगन्धर्वपिशाचोरगराक्षसाः ॥ 187.५०॥
किं वक्ष्यन्ति च मां सर्वे ये वै पितृपदे स्थिताः ॥
एवं विचिन्त्यमानस्य गता रात्रिर्वसुन्धरे ॥ ५१ ॥
पूर्वसन्ध्यानु सम्प्राप्ता उदिते च दिवाकरे ॥
सन्ध्याविधिं विनिर्वर्त्त्य हुत्वाग्नीन्द्विजसत्तमः॥ ५२ ॥
पुनश्चिन्तां प्रपन्नः स आत्रेयो ह्यतिदुःखितः ॥
एकाकी भाषते तत्र शोकपीडितमानसः ॥ ५३ ॥
धिग्वयो धिक्च मे कर्म धिग्बलं धिक्च जीवितम् ॥
पुत्रं सर्वसुखैर्युक्तं जीवितं हि न दृश्यते ॥ ५४ ॥
नरकं पूतिकाख्यातं हृदि दुःखं विदुर्बुधाः ॥
परित्राणं ततः पुत्रादिच्छन्तीह परत्र च ॥ ५५ ॥
पूजयित्वा तु देवांश्च दत्त्वा दानं त्वनेकशः ॥
हुत्वाग्निं विधिवच्चैव स्वर्गं तु लभते नरः ॥ ५६ ॥
पुत्रेण लभते येन पौत्रेण च पितामहाः ॥
अथ पुत्रस्य पौत्रेण मोदन्ते प्रपितामहाः ॥ ५७ ॥
पुत्रेण श्रीमता हीनं नाहं जीवितुमुत्सहे ॥
एतस्मिन्नन्तरे देवि नारदो द्विजसत्तमः ॥ ५८ ॥
जगाम तापसारण्यमृष्याश्रमविभूषितम् ॥
सर्वकामयुतं रम्यं बहुपुष्पफलोदकम् ॥ ५९ ॥
तत्प्रविश्याश्रमपदं भ्राजमानं स्वतेजसा ॥
तं दृष्ट्वा पूजयामास स्वागतेनाथ धर्मवित् ॥ 187.६० ॥
तस्मै दत्त्वा पाद्यमर्घ्यं आसने चोपवेश्य च ॥
उपविश्यासने देवि नारदो वाक्यमब्रवीत ॥ ६१ ॥
नारद उवाच ॥
निमे शृणु महाप्राज्ञ शोकमुत्सृज्य दूरतः ॥
अशोच्यानन्वशोचस्त्वं प्रज्ञावान्नावबुध्यसे ॥ ६२ ॥
गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥
मृतं वा यदि वा नष्टं यो यान्तमनुशोचति ॥ ६३ ॥
अमित्रास्तस्य हृष्यन्ति स चापि न निवर्त्तते ॥
अमरत्वं न पश्यामि त्रैलोक्ये सचराचरे ॥ ६४ ॥
देवतासुरगन्धर्वा मानुषा मृगपक्षिणः ॥
सर्वे कालवशं यान्ति सर्वे कालमुदीक्षते ॥ ६५ ॥
जातस्य सर्वभूतस्य कालो मृत्युरुपस्थितः ॥
अवश्यं चैव गन्तव्यं कृतान्तविहितेन च ॥ ६६ ॥
तव पुत्रो महात्मा वै श्रीमान्नाम श्रियो निधिः ॥
पूर्णं वर्षसहस्रं तु तपः कृत्वा सुदुश्चरम् ॥ ६७ ॥
मृत्युकालमनुप्राप्य गतो दिव्यां परां गतिम् ॥
एतत्सर्वं विदित्वा तु नानुशोचितुमर्हति ॥ ६८ ॥
नारदेनैवमुक्ते तु श्रुत्वा स द्विजसत्तमः ॥
प्रणम्य शिरसा पादौ निमिरुद्विग्नमानसः ॥ ६९ ॥
भीतो गद्गदया वाचा निःश्वसंश्च मुहुर्मुहुः ॥
सव्रीडो भाषते विप्रः कारुण्येन समन्वितः ॥ 187.७० ॥
अहो मुनिवरश्रेष्ठ अहो धर्मविदां वर ॥
सान्त्वितोऽस्मि त्वया विप्र वचनैर्मधुराक्षरैः ॥ ७१ ॥
प्रणयात्सौहृदाद्वापि स्नेहाद्वक्ष्यामि तच्छृणु ॥
शोको निरन्तरं चित्ते ममैतद्धृदि वर्त्तते ॥ ७२ ॥
कृतस्नेहस्य पुत्रार्थे मया सङ्कल्प्य यत्कृतम् ॥
तर्पयित्वा द्विजान्सप्त अन्नाद्येन फलेन च ॥ ७३ ॥
पश्चाद्विसर्जितं पिण्डं दर्भानास्तीर्य भूतले ॥
उदकानयनं चैव ह्यपसव्येन वासितम् ॥ ७४ ॥
शोकस्य तु प्रभावेण एतत्कर्म मया कृतम् ॥
अनार्यजुष्टमस्वर्ग्यमकीर्त्तिकरणं द्विज ॥ ७५ ॥
नष्टबुद्धिस्मृतिसत्त्वो ह्यज्ञानेन विमोहितः ॥
न च श्रुतं मया पूर्वं न देवैर्ऋषिभिः कृतम् ॥ ७६ ॥
भयं तीव्रं प्रपश्यामि मुनिशापात्सुदारुणात् ॥
नारद उवाच ॥
न भेतव्यं द्विजश्रेष्ठ पितरं शरणं व्रज ॥ ७७ ॥
अधर्मं न च पश्यामि धर्मो नैवात्र संशयः ॥
नारदेनैवमुक्तस्तु निमिर्ध्यानमुपाविशत् ॥ ७८ ॥
कर्मणा मनसा वाचा पितरं शरणं गतः ॥
ततोऽतिचिन्तयामास वंशकर्त्तारमात्मनः ॥ ७९ ॥
ध्यायमानस्ततोऽप्याशु आजगाम तपोधनम् ॥
पुत्रशोकेन सन्तप्तं पुत्रं दृष्ट्वा तपोधनम् ॥ 187.८० ॥
पुत्रमाश्वासयामास वाग्भिरिष्टाभिरव्ययैः ॥
निमे सङ्कल्पितस्तेऽयं पितृयज्ञस्तपोधन ॥ ८१ ॥
पितृयज्ञेति निर्दिष्टा धर्मोऽयं ब्रह्मणा स्वयम् ॥
ततो ह्यतितरो धर्मः क्रतुरेकः प्रतिष्ठितः ॥ ८२ ॥
कृतः स्वयम्भुवा पूर्वं श्राद्धं यो वित्त्वित्तमः ॥
शृण्वतो नारदस्यापि विधिं विधिविदां वरः ॥ ८३ ॥
श्राद्धकर्मविधिं चैव प्रेतकर्म च या क्रिया॥
शृषु सुन्दरि तत्त्वेन यथा दाता सपुत्रकः ॥८४॥
मम चैव प्रसादेन तस्य बुद्धिं ददाम्यहम् ॥
जातस्य सर्वभूतस्य कालमृत्युरुपस्थितः ॥ ८५ ॥
अवश्यमेव गन्तव्यं धर्मराजस्य शासनात् ॥
अमरत्वं न पश्यामि पिपीलादीनि जन्तवः ॥ ८६ ॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ॥
मोक्षः कर्मविशेषेण प्रायश्चित्तेन च ध्रुवम् ॥ ८७ ॥
सत्त्वं रजस्तमश्चैव त्रयः शारीरजाः स्मृताः ॥
अल्पायुषो नराः पश्चाद्भविष्यन्ति युगक्षये ॥ ८८ ॥
सात्त्विकं नावबुद्ध्यन्ति कर्मदोषेण तामसः ॥
तामसं नरकं विन्द्यात्तिर्यग्योनिं च राक्षसीम्॥८९॥
सात्त्विकं मुक्तियानाय यान्ति वेदविदो जनाः॥
धर्मज्ञानं तथैश्वर्यं वैराग्यमिति सात्विकम् ॥187.९०॥
क्रूरो भीरुर्विषादि च हिंसको निरपत्रपः॥
अज्ञानान्धश्च पैशाचमेतेषां तामसा गुणाः॥९१॥
तामसं तद्विजानीयादुच्यमानो न बुद्ध्यति ॥
दुर्मदोऽश्रद्धधानश्च विज्ञेयास्तामसा नराः ॥ ९२ ॥।
प्रबलो वाचि युक्तश्चाचलबुद्धिः सदायतः ॥
शूरः सर्वेषु व्यक्तात्मा विज्ञेया राजसा नराः॥९३॥
क्षान्तो दान्तो विशुद्धात्मा विज्ञेयः श्रद्धयान्वितः॥
तपःस्वाध्याशीलश्च एतेषां सात्विका गुणाः॥९४॥
एवं सञ्चिन्तयानस्तु न शोकं कर्तुमर्हसि ॥
त्यज शोकं महाभाग शोकः सर्वविनाशनः ॥ ९५ ।॥
शोको दहति गात्राणि बुद्धिः शोकेन नश्यति ॥
लज्जा धृतिश्च धर्मश्च श्रीः कीर्तिश्च स्मृतिर्नयः ॥९६॥
त्यजन्ति सर्वधर्मश्च शोकेनोपहतं नरम्॥
एवं शोकं त्यजित्वा तु निःशोको भव पुत्रक ॥९७॥
मूढः स्नेहप्रभावेण कृत्वा हिंसानृते तथा ॥
पच्यते नरके घोरे ह्यात्मदोषैर्वसुन्धरे॥ ९८ ॥
स्नेहं सर्वेषु संयम्य बुद्धिं धर्मे नियोजयेत् ॥
धर्मलोक हितार्थाय शृणु सत्यं ब्रवीम्यहम् ॥९९॥
चातुर्वर्णस्य वक्ष्यामि यश्च स्वायम्भुवोऽब्रवीत् ॥
नेमिप्रभृतिनामेवं येन श्राद्धं प्रवर्त्तते॥187.१००॥
कण्ठस्थानं गते जीवे भीतिविभ्रान्तमानसः ॥
ज्ञात्वा च विह्वलं तत्र शीघ्रं निःसारयेद्गृहात् ॥ १० १ ॥
कुशास्तरणशायी च दिशः सर्वा न पश्यति॥
लब्धस्मृतिर्मुहूर्तं तु यावज्जीवो न पश्यति ॥१०२॥
वाचयेत्स्नेहभावेन भूमिदेवा द्विजातयः ॥
सुवर्णं च हिरण्यं च यथोत्पन्नेन माधवि ॥१०३॥
परलोकहितार्थाय गोप्रदानं विशिष्यते ॥
सर्वदेवमया गाव ईश्वरेणावतारिताः ॥ १०४ ।॥
अमृतं क्षरयन्त्यश्च प्रचरन्ति महीतले ॥
एतासां चैव दानेन शीघ्रं मुच्येत किल्बिषात् ॥१०५॥
पश्चाछ्रुतिपथं दिव्यमुत्कर्णेन च श्रावयेत् ॥
यावत्प्राणान्प्रमुञ्चेत कृत्वा कर्म सुदुष्करम् ॥१०६॥
दृष्ट्वा सुविह्वलं ह्येनं मम मार्गानुसारिणम्॥
प्रयाणकाले तु नरो मन्त्रेण विधिपूर्वकम् ॥१०७॥
मन्त्रेणानेन कर्तव्यं सर्वसंसारमोक्षणम् ॥
मधुपर्कं त्वरन् गृह्य चेमं मन्त्रमुदाहरेत् ॥ १०८॥
मन्त्रः-
ॐ गृह्णीष्व मे सुविमलं मधुपर्कमाद्यं संसारनाशनकरं त्वमृतेन तुल्यम् ॥
नारायणेन रचितं भगवत्प्रियाणां दाहे च शान्तिकरणं सुरलोकपूज्यम् ॥ १०९ ॥
तत एतेन मन्त्रेण दद्याद्वै मधुपर्ककम् ॥
मृत्युकाले तु पुरुषो परलोकसुखावहम् ॥ 187.११० ॥
एवं विनिस्सृते प्राणे संसारं च न गच्छति ॥
नष्टसञ्ज्ञं समुद्दिश्य ज्ञात्वा मृत्युवशङ्गतम् ॥१११॥
महावनस्पतिं गत्वा गन्धांश्च विविधानपि ॥
घृततैलसमायुक्तं कृत्वा वै देहशोधनम् ॥११२॥।
तेजोऽव्ययकरं चास्य तत्सर्वं परिकल्प्य च ॥
दक्षिणायां शिरः कृत्वा सलिले सन्निधाप्य च ॥११३॥
तीर्थाद्यावाह्नं कृत्वा स्नापनं तस्य कारयेत् ॥
गयादीनि च तीर्थानि ये च पुण्याः शिलोच्चयाः॥११४॥
कुरुक्षेत्रं च गङ्गा च यमुना च सरिद्वरा॥
कौशिकी च पयोष्णी च सर्वपापप्रणाशिनी ॥११५॥
गण्डकी भद्रनामा च सरयूर्बलदा तथा ॥
वनानि नव वाराहे तीर्थे पिण्डारके तथा ॥ ११६ ॥|
पृथिव्यां यानि तीर्थानि चत्वारः सागरास्तथा ॥
सर्वाणि मनसा ध्यात्वा स्नानमेवं तु कारयेत् ॥ ११७ ।॥
प्राणैर्हृतं तु तं ज्ञात्वा चितां कृत्वा विधानतः ॥
तस्या उपरि संस्थाप्य दक्षिणाग्रं शिरस्तथा ॥११८॥
दिव्यानग्निमुखान्ध्यात्वा गृह्य हस्ते हुताशनम् ॥
प्रज्वाल्य विधिवत्तत्र मन्त्रमेतमुदाहरेत्॥११९॥।
कृत्वा सुदुष्करं कर्म जानता वाप्यजानता॥
मृत्युकालवशं प्राप्य नरः पञ्चत्वमागतः ॥187.१२०॥
धर्माधर्मसमायुक्तो लोभमोहसमावृतः ॥
दह चैतस्य गात्राणि देवलोकं स गच्छतु ॥ १२१ ।॥
एवमुक्त्वा ततः शीघ्रं कृत्वा चैव प्रदक्षिणाम् ॥
ज्वलमानं तदा वह्निं शिरःस्थाने प्रदापयेत् ॥ १२२ ॥।
चातुर्वर्ण्येषु संस्कारमेवं भवति पुत्रक ॥
गात्राणि वाससी चैव प्रक्षाल्य विनिवर्तयेत्॥१२३॥
मृतं नाम तथोद्दिश्य दद्यात्पिण्डं महीतले॥
तदाप्रभृति चाशेोचं देवकर्म न कारयेत्॥१२४॥
इति श्रीवराहपुराणे भगवच्छास्त्रे श्राद्धोत्पतिनिरूपणं नाम सप्ताशीत्यधिकशततमोऽध्यायः ॥ १८७ ॥