१८६

श्रीवराह उवाच॥
राजतीं प्रतिमां कृत्वा सुरूपां निर्मलां शुचिम् ॥
अश्लिष्टां चैव निर्दोषां सर्वतः परिनिष्ठिताम् ॥ १ ॥
चन्द्रपाण्डुरसङ्काशां सुश्लक्ष्णां निर्व्रणां शुभाम् ॥
श्रियायुक्तां मनोज्ञां च दीप्यमानां दिशो दश ॥२॥
ईदृशीं प्रतिमां कृत्वा मम कर्मपरायणः ॥
गीतवादित्रशब्देन शङ्खदुन्दुभिनिःस्वनैः ॥ ३ ॥
स्तुतिभिर्मङ्गलैश्चैव मम वेश्मन्युपानयेत् ॥
अर्घ्यपाद्यादिकं गृह्य इमं मन्त्रमुदाहरेत् ॥४॥
मन्त्रः-
ॐ यः सर्वलोकेष्वपि सर्वमर्घ्यं पूज्यश्च मान्यश्च दिवौकसामपि॥
उपागतो गृह्य इदं ममार्घ्यं प्रसीद मां तिष्ठतु लोकनाथ ॥
यो राजते यज्ञपतिश्च यज्ञे सूर्योदये मम कर्माग्निहोत्रम् ॥५॥
मन्दश्चेति आदिमध्यस्वरूपायेति ॥
तत एतेन मन्त्रेण अर्घ्यं दत्त्वा यथाविधि ॥
सुस्नातोऽलङ्कृतश्चैव स्थापयेत्तामुदड्मुखः ॥ ६ ॥
आश्लेषासु च नक्षत्रे राशौ कर्कटके स्थिते ॥
अस्तङ्गते दिनकरे स्वजने यजति स्थिरे ॥ ७ ॥
तत्राधिवासनं कुर्याद्विधिवन्मन्त्रपूर्वकम् ॥
चत्वारः कलशास्तत्र चन्दनोदकमिश्रिताः ॥ ८ ॥
सर्वौषधीसमायुक्ताः सहकारविभूषिताः ॥
ततस्ते कर्मिणः सर्वे मम शास्त्रानुसारिणः ॥ ९ ॥
गुरोस्तु वचनाद्देवि मनोज्ञान्सुखशीतलान् ॥
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ॥ 186.१० ॥
मन्त्रः -
योऽसौ भवान् सर्वलोकैककर्त्ता सर्वाध्यक्षः सर्वरूपैकरूपः ॥
आयातु मूर्त्तौ सहितो मया च ध्रुवादिभिर्लोकपालैस्तु पूज्यः ॥ ११ ॥
नमोऽनन्तायेति ॥
व्यतीतायां तु शर्वर्यामुदिते सूर्यमण्डले ॥
दिशासु च प्रसन्नासु द्वारमूलमुपानयेत् ॥ १२ ॥
एवं संस्थापनं कृत्वा मम कर्मानुसारिणः ॥
घटैः पूर्णैर्यथान्यायं कुर्यात्तत्राभिषेचनम् ॥ १३ ॥
अभिषिच्य ततः पश्चात्स्थापयेत विधानतः॥
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ॥१४॥
मन्त्रः -
गङ्गादिभ्यो नदीभ्यश्च सागरेभ्यो मया हृतम् ॥
स्नानाय ते सुरश्रेष्ठ कर्पूरावासितं जलम् ॥ १५ ॥
एवं स्नाप्य विधानेन गृहस्याभ्यन्तरं नयेत् ॥
स्थापना तत्र मे कार्या मन्त्रेणानेन सुन्दरि॥ १६ ॥ ।
मन्त्रः –
वेदैर्वेद्यो वेदविद्भिश्च पूज्यो यज्ञात्मको यज्ञफलप्रदाता ॥
यज्ञार्थं त्वामाह्वये देवदेव मूर्त्तावस्यां तिष्ठ सुलोकनाथ ॥ १७ ॥
धनजन रूप्यस्वर्ण अनन्ताय नम इति ॥
एवं संस्थापनं कृत्वा प्रहृष्टेनान्तरात्मना ॥
अर्चयित्वा यथान्यायं पूर्वोक्तविधिना नरः ॥१८ ॥
नील वस्त्राणि मे दद्यात्प्रियाणि मम भूषणम्॥
ततो वस्त्राण्युपादाय जानुभ्यां पतितो भुवि॥१९॥
नमो नारायणायेति उक्त्वा काममुदाहरेत् ॥186.२० ॥
मन्त्रः -
योऽसौ भवांश्चन्द्ररश्मिप्रकाशः शङ्खेन कुन्देन समानवर्णः ॥
क्षीरोज्ज्वलः कौमुदवर्ण देव वस्त्राणि गृह्णीष्व मम प्रियाय ॥ २१ ॥
वेषः सुवेषः अनन्तः अमरः मारणः कारणः सुलभः दुर्ल्लभः श्रेष्ठः सुवर्चा इति ॥
अनैनेव तु मन्त्रेण दत्त्वा वस्त्राणि मे शुचिः ॥
ततो मे प्रापणं दद्याद्भक्तियुक्तेन चेतसा ॥ २२ ॥
नमो नारायणायेति इमं मन्त्रमुदाहरेत् ॥
शाल्यन्नं पायसैर्युक्तं सितया च घृतेन च ॥ २३ ॥
प्रापणं गृह्यतां देव अनन्त पुरुषोत्तम ॥
दत्त्वा तु मम नैवेद्यं दद्यादाचमनं बुधः ॥ २४ ॥
सर्वलोकहितार्थाय शान्तिपाठमुदाहरेत् ॥
ॐ शान्तिं करोति ब्रह्मा च रुद्रो विष्णुर्हि भास्करः॥२५॥
रात्रिश्चैव तु सन्ध्ये द्वे नक्षत्राणि ग्रहा दिशः॥२६॥
अचल चञ्चल सचल खेचल प्रचल अरविन्दप्रभ उद्भव चेति नमः संस्थापितानां वासुदेव इति ॥
कृत्वा वै शान्तिकं तत्र सर्वपापप्रणाशनम् ॥
पूज्य भागवतांस्तत्र यथाविभवशक्तितः ॥ २७ ॥
ब्राह्मणान्भोजयेत्तत्र गुरुं मन्त्रेण पूजयेत् ॥
तेभ्यः शान्त्युदकं गृह्य कुर्यादभ्युक्षणं ततः ॥ २८ ॥
ब्राह्मणान्स्वजनं चैव अभिवाद्य कृताञ्जलिः ॥
शीघ्रं विसर्जयेत्तांश्च ये तत्र समुपागताः॥२९॥
ततो गुरुं च सम्पूज्य दानमानादिभिर्विभुम् ॥
गुरौ सम्पूजिते तत्र मम पूजा कृता भवेत् ॥186.३० ॥
जलस्य बिन्दवो येऽन्नभोजनान्ते पतन्ति हि ॥
तावद्वर्षसहस्राणि विष्णुलोके स मोदते ॥३१ ॥
य एतेन विधानेन पूजयेन्मतिमान्नरः ॥
उद्धृतं च कुलं तेन पितृजं मातृजं तथा ॥ ३२ ॥
अनेन विधिना देवि रौप्यार्च्चास्थापनं मम ॥
सुवर्णस्य प्रवक्ष्यामि स्थापनं मम सुप्रियम् ॥ ३३ ॥
यथैव राजती कुर्यात्तथैव च सुवर्णिकाम् ॥
तेनैव विधिना सर्वं कुर्यादावाहनादिकम् ॥३४॥
यत्फलं दारुशैलादिनाम्ना कांस्यादिराजते ॥
तत्फलं कोटिगुणितं सौवर्णस्य प्रपूजने ॥ ३५ ॥
कुलानि तारयेत्सुभ्रु अयुतान्येकविंशतिम् ॥
याति मल्लयतां भूमे पुनरावृत्तिवर्जितः ॥ ३६ ॥
एतत्ते कथितं भूमे यत्त्वया परिपृच्छितम् ॥
रहस्यं विपुलश्रोणि किमन्यत्कथयामि ते ॥ ३७ ॥
भूमिरुवाच ॥
उक्ता याः प्रतिमाः सर्वाः सुवर्णादि विनिर्मिताः ॥
तासु तिष्ठसि सर्वासु शालग्रामे च सर्वदा ॥ ३८ ॥
कति पूज्या गृहादौ च अविशेषस्तु पूजने ॥
विशेषो वा भवेत्तन्मे रहस्यं वद माधव ॥ ३९ ॥
शिवादिपूजने के वा सङ्ख्यातास्तच्च मे वद ॥
श्रीवराह उवाच ॥
गृहे लिङ्गद्वयं नार्च्यं शालग्रामत्रयं तथा ॥ 186.४० ॥
द्वे चक्रे द्वारकायास्तु नार्च्यं सूर्यद्वयं तथा ॥
गणेशत्रितयं नार्च्यं शक्तित्रितयमेव च ॥ ४१ ॥
शालग्रामयुगं पूज्यं युग्मेषु द्वितयं न हि ॥
विषमा नैव पूज्याः स्युर्विषमे एक एव हि ॥ ४२ ॥
गृहेऽग्निदग्धा भग्ना वा नैव पूज्या वसुन्धरे ॥
आसां तु पूजनाद्गेहे उद्वेगं प्राप्नुयाद्गृही ॥ ४३ ॥
शालग्राम शिला भग्ना पूजनीया सचक्रका ।ऽ।
खण्डिता स्फुटिता वापि शालग्रामशिला शुभा ॥ ४४ ॥
शिला द्वादश वै देवि शालग्रामसमुद्भवाः ॥
विधिवत्पूजिता येन तस्य पुण्यं वदामि ते ॥४५॥
कोटिद्वादशलिङ्गैस्तु पूजितैः स्वर्णपङ्कजैः ॥
यत्स्याद्द्वादशकल्पैस्तु दिनेनैकेन तद्भवेत् ॥४६ ॥
यः पुनः पूजयेद्भक्त्या शालग्रामशिलाशतम् ॥
तत्फलं नैव शक्तोऽहं वक्तुं वर्षशतैरपि ॥ ४७ ॥
सर्वैर्वर्णैस्तु सम्पूज्याः प्रतिमाः सर्वदेवताः ॥
लिङ्गान्यपि तु पूज्यानि मणिभिः कल्पितास्तथा ॥ ४८ ॥
शालग्रामो न स्पृष्टव्यो हीनवर्णैर्वसुन्धरे ॥
स्त्रीशूद्रकरसंस्पर्शो वज्रस्पर्शाधिको मतः ॥ ४९ ॥
मोहाद्यः संस्पृशेच्छूद्रो योषिद्वापि कदाचन ॥
पच्यते नरके घोरे यावदाभूतसम्प्लवम् ॥186.५० ॥
यदि भक्तिर्भवेत्तस्य स्त्रीणां वापि वसुन्धरे ॥
दूरादेवास्पृशन्पूजां कारयेत्सुसमाहितः ॥ ५१ ॥
चरणामृतपानेन सर्वपापक्षयो भवेत् ॥
अभक्ष्यं शिवनिर्माल्यं पत्रं पुष्पं फलं जलम् ॥ ५२ ॥
शालग्रामशिलायोगात्पावनं तद्भवेत्सदा ॥
दद्याद्भक्ताय यो देवि शालग्रामशिलां नरः ॥ ५३ ॥
सुवर्णसहितां तस्य यत्पुण्यं तच्छृणुष्व मे ॥
सुवर्णसहिता भूमिः सपर्वतवनाकरा ॥ ५४ ॥
ससमुद्रा भवेद्दत्ता सत्पात्राय वसुन्धरे ॥
शालग्रामशिलायास्तु मूल्यमुद्घाटयेत्क्वचित् ॥ ॥
विक्रेता क्रयकर्त्ता च नरके नीयते ध्रुवम् ॥
पूजाफलं न शक्नोति वक्तुं वर्षशतैरपि ॥ ५६ ॥
एतत्ते कथितं गुह्यं प्रतिमा स्थापनं प्रति ॥
शालग्रामे विशेषश्च लिङ्गादीनां च यो भवेत् ॥५७॥
पूजनादौ विधिश्चापि किमन्यच्छ्रोतुमिच्छसि ॥५८।
इति श्रीवराहपुराणे प्रागितिहासे भगवच्छास्त्रे रौप्यसौवर्णार्चालिङ्गादिस्थापनसङ्ख्यादिकं नाम षडशीत्यधिकशततमोऽध्यायः ॥ १८६ ॥