अथ कांस्यार्चास्थापनम् ॥
श्रीवराह उवाच ॥
कांस्येन प्रतिमां कृत्वा सुरूपां सुप्रतिष्ठिताम् ॥
सर्वाङ्गावयवैर्युक्तां विमलां कर्मनिर्मिताम् ॥ १ ॥
ज्येष्ठायां चैव नक्षत्रे मम वेश्मन्युपानयेत् ॥
गीतवादित्रशब्देन बहुभिर्मङ्गलैस्तथा ॥ २ ॥
अर्घ्यं गृह्य यथान्यायमिमं मन्त्रमुदाहरेत् ॥ ३ ॥
योऽसौ भवान्सर्वयज्ञेषु पूज्यो ध्येयो गोप्ता विश्वकामो महात्मा ॥
प्रसन्नात्मा भगवान्मे प्रसन्नः सुपूजितस्तिष्ठ हि लोकनाथ ॥ ४ ॥
अर्घ्यं दत्त्वा यथान्यायं स्थापयेत्तदुदङ्मुखः ॥
यथान्यायेन संस्थाप्य कुर्याच्चैवाधिवासनम् ॥ ५ ॥
चतुरः कलशांश्चैव पञ्चगव्यसमन्वितान् ॥
सर्वगन्धैश्च लाजैश्च मधुना च विशेषतः ॥ ६ ॥
चतुरः कलशान्पूर्य स्नानार्थं मे समन्त्रकम् ॥
ततश्चास्तङ्गते सूर्ये शुद्धैर्भागवतैः सह ॥ ७ ॥
कुर्यात्संस्थापनं तत्र ममार्च्चायास्तु पूजकः ॥
गृहीत्वा कलशांस्तत्र शुद्धान्भागवतांस्तथा ॥ ८ ॥
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ॥ ९ ॥
मन्त्रः-
आदिर्भवान्ब्रह्मयुगान्तकल्पः सर्वेषु कालेष्वपि कल्पभूतः ॥
एको भवान्नास्ति कश्चिद्द्वितीय उपागतस्तिष्ठ हि लोकनाथ ॥ 185.१० ॥
विकार अविकार अकार सकार शकार षकार स्वच्छन्दरूपः क्षरमक्षरं धृतिरूपः अरूपमिति नमः पुरुषोत्तमायेति ॥
व्यतीतायां तु शर्वर्यामुदिते च दिवाकरे ॥
अश्वेन च मुहूर्तेन प्राप्ते मूलेषु चोत्तरे ॥ ११ ॥
पूर्वोक्तेषु विधानेन मम शास्त्रानुदर्शिनाम् ॥
स्थापयेद्द्वारमूले तु मम वेश्मनि सुन्दरि ॥ १२ ॥
सर्वशान्त्युदकं गृह्य सर्वगन्धफलानि च ॥
नमो नारायणायेति उक्त्वा मन्त्रमुदाहरेत् ॥१३॥
मन्त्रः-
ॐ इन्द्रो भवांस्त्वं च यमः कुबेरो जलेश्वरः सोमबृहस्पती च॥
शुक्रः शनैश्चरबुधौ सह सैंहिकेयकेतू रविश्चैव धरात्मजस्त्वम् ॥१४॥
तथैव सर्वौषधयो जलानि वायुश्च पृथ्वी च स वायुसारथिः ॥
नागाः सयक्षाश्च दिशश्च सर्वास्तस्मै नमस्ते पुरुषोत्तमाय इति ॥१५॥
अनेनैव तु मन्त्रेण कृत्वा कर्म सुपुष्कलम् ॥
मम तां प्रतिमां गृह्य ततो वेश्मन्युपानयेत् ॥१६॥
एकान्ते स्नापयेन्मां च जलैः पूर्वाभिमन्त्रितैः ॥
प्रगृह्य कलशेभ्यश्च जलं गन्धसमन्वितम् ॥ १७ ॥
गात्रसंशोधनार्थाय इमं मन्त्रमुदाहरेत् ॥१८॥
मन्त्रः –
सरांसि ये ते च समस्तसागरा नद्यश्च तीर्थानि च पुष्कराणि ॥
आयान्तु तान्येव तव प्रसादाच्छुद्धयै च मे स्युः पुरुषोत्तमाय इति ॥ १९ ॥
एवं मां स्नाप्य विधिना मम कर्मानुसारिणः ॥
एवं न्यायेन मां तत्र अर्चयित्वा यथोचितम् ॥185.२० ॥
गन्धधूपादिभिश्चैव यथाविभवशक्तितः॥
पश्चाद्वस्त्राणि मे दद्यान्मम गात्रसुखानि च ॥ २१ ॥
तान्यानयित्वा वस्त्राणि ममाग्रे स्थापयेन्नरः ॥
उभौ तौ चरणौ नत्वा इमं मन्त्रमुदाहरेत् ॥ २२ ॥
मन्त्रः-
वस्त्राणि देवेन्द्र मया हृतानि सूक्ष्माणि सौम्यानि सुखावहानि ॥
गात्रस्य सन्तुष्टिकराणि तुभ्यं गृह्णीष्व देवेश सुलोकनाथ ॥२३॥
वेदोपवेद ऋग्वेद यजुर्वेद सामवेद अथर्वणवेद संस्तुत इति नमः परम्परायेति ॥
अर्चितालङ्कृतं कृत्वा पूर्वन्यायेन सुन्दरि ॥
पश्चान्मे प्रापणं दद्यान्मन्त्रवद्विधिपूर्वकम् ॥ २४ ॥
दत्त्वा प्रापणकं तत्र दद्यादाचमनं ततः ॥
शान्तिपाठश्च वै कार्यो मन्त्रेणानेन सुन्दरि ॥ २५ ॥
विद्याः सर्वे ब्रह्म च ब्राह्मणाश्च ग्रहाः सर्वे सरितः सागराश्च ॥
इन्द्राद्यष्टौ लोकपालाश्च सर्वे पूर्वोक्ता ये सर्वशान्तिं च कुर्युः ॥ २६ ॥
आयाम यम कामदम वाम ॐ नमः पुरुषोत्तमायेति सूत्रम् ॥
वृत्तेष्वेवोपचारेषु मम कुर्यात्प्रदक्षिणम् ॥
अभिवादनं स्तुतिं चापि कृत्वा भागवतांश्छुचीन् ॥ २७ ॥
सम्पूज्य ब्राह्मणान्पश्चाद्भोजयेत् पायसादिभिः ॥
तेभ्यः शान्त्युदकं गृह्य द्विजेभ्यः कमलेक्षणे ॥ २८ ॥
दद्यादभ्युक्षणं मह्यं तेनाहं पूजितोऽभवम् ॥
सर्वान्विसर्जयित्वा तु कुर्याद्वै गुरुपूजनम् ॥ २९ ॥
अङ्गुलीयकवासोभिर्दानसम्माननादिभिः ॥
यो गुरुं पूजयेद्भूमे भक्तियुक्तेन चेतसा ॥ 185.३० ॥
तेनाहं पूजितो देवि एवमेतन्न संशयः॥
ब्राह्मणान्मम भक्तांश्च गुरूंश्चैव हि निन्दति ॥ ३१ ॥
नाशयिष्यामि तं देवि सत्यमतेद्ब्रवीमि ते ॥
जलस्य बिन्दवो यावन्मम गात्रेषु तिष्ठति॥३२॥
तावद्वर्षसहस्राणि मम लोकेषु तिष्ठति ॥
य एतेन विधानेन स्थापयिष्यति मां नरः ॥३३॥
तारितं च कुलं तेन पितृजं मातृजं तथा ॥
एतत्ते कथितं भद्रे कांस्येन स्थापनं मम ॥ ३४ ॥
कथयिष्यामि ते ह्येवं रौप्येण स्थापनं मम ॥ ३५ ॥
इति श्रीवराहपुराणे कांस्यप्रतिमास्थापनविधिर्नाम पञ्चाशीत्यधिकशततमोऽध्यायः ॥ १८५ ॥