१८४

अथ ताम्रार्चास्थापनम् ॥
श्रीवराह उवाच ॥
ताम्रेण प्रतिमां कृत्वा सुरूपां चैव भास्वराम् ॥
उचितेनोपचारेण वेश्ममध्यमुपानयेत् ॥ १ ॥
ततो वेश्मन्युपागम्य स्थापयित्वा उदङ्मुखः ॥
चित्रायां चैव नक्षत्रे कुर्याच्चैवाधिवासनम् ॥२॥
जलं च सर्वगन्धेन पञ्चगव्येन मिश्रितम् ॥
स्नापयेच्च ततो मां वै इमं मन्त्रमुदाहरेत् ॥ ३ ॥
मन्त्रः-
योऽसौ भवांस्तिष्ठति सारभूतः त्वं ताम्रके तिष्ठसि नेत्रभूतः ॥
आगच्छ मूर्त्तौ सह पञ्चभूतैर्मया च पात्रैः सह विश्वधामन् ॥ ४ ॥
अनेनैव तु मन्त्रेण स्थापयित्वा यशस्विनि ॥
पूर्वन्यायेन कर्त्तव्यमधिवासनपूजनम् ॥ ५ ॥
व्यतीतायां च शर्वर्यामुदिते च दिवाकरे ॥
ऋचा शुद्धिं विधायाऽथ स्नापयेन्मन्त्रपूर्वकम् ॥ ६ ॥
ब्राह्मणा वेदपाठांश्च कुर्युस्तत्र समागताः ॥
बहुनि मङ्गलान्यत्र मण्डपे स्थापयेत्ततः ॥७॥
सुगन्धद्रव्यसंयुक्तं जलं चादाय पूजकः॥
ततो मे स्नपनं कार्यमिमं मन्त्रमुदाहरेत्॥८॥
मन्त्रः –
ॐ योऽसौ भवान्सर्ववरः प्रभुश्च माया बलो योगबलप्रधानः ॥
आगच्छ शीघ्रं च मम प्रियाय सन्तिष्ठ ताम्रेष्वपि लोकनाथ ॥ ९ ॥
ज्वलन पवनतुल्यावन भावन तपन श्वासन स्वयं तिष्ठ भगवन् पुरुषोत्तम ओम् ॥ इति ॥
ततो द्वारमुपागम्य वेश्म शीघ्रं प्रवेशयेत् ॥
आसने चापि मां स्थाप्य पूजयेद्भक्तिपूर्वकम् ॥184.१०॥
मन्त्रेणानेन मां स्थाप्य गन्धपुष्पादिदीपकैः ॥ ११ ॥
स्थापनामन्त्रः –
ॐ प्रकाशप्रकाश जगत्प्रकाश विज्ञानमयानन्दमय त्रैलोक्यनाथात्रागच्छ इह
सन्तिष्ठतां भवान्पुरुषोत्तम मामव इति ॥
अनेन स्थापनां कृत्वा मम शास्त्रानुसारतः ॥
शुक्लवस्त्रं समादाय इमं मन्त्रमुदाहरेत् ॥ १२ ॥
मन्त्रः-
ॐ शुद्धस्त्वमात्मा पुरुषः पुराणो जगत्सु तत्त्वं सुरलोकनाथ ॥
वस्त्राणि गृह्णीष्व मम प्रियाणि नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ १३ ॥
वस्त्रैर्विभूषितं कृत्वा मम कर्मपरायणः॥
यथान्यायेन मे शीघ्रमर्च्चनं तत्र कारयेत् ॥१४ ॥
अर्च्चनालङ्कृतं कृत्वा गन्धधूपादिभिः प्रभुम् ॥
सम्पूज्य विधिवन्मां तु नैवेद्यं परिकल्पयेत् ॥१५॥
दत्त्वा स्वादु च नैवेद्यं शान्तिपाठं तु कारयेत् ॥
मन्त्रः –
शान्तिर्भवतु देवानां विप्राणां शान्तिरुत्तमा॥१६॥
शान्तिर्भवतु राज्ञां च सराष्ट्राणां तथा विशाम् ॥
बालानां व्रीहिपण्यानां गर्भिणीनां च देहिनाम् ॥ १७ ॥
शान्तिर्भवतु देवेश त्वत्प्रसादान्ममाखिला॥
एवं शान्तिं पठित्वा तु ब्राह्मणांस्तत्र पूजयेत् ॥१८॥
गुरुं भागवतं चैवमर्चयेच्च यथाविधि॥
ब्राह्मणान्भोजयेत्तत्र यथोत्पन्नेन माधवि ॥ १९॥
विशेषेण गुरुं पूज्य वस्त्रालङ्कारभोजनैः ॥
तेनाहं पूजितो भूमे सत्यमेतद्ब्रवीमि ते ॥ 184.२० ॥
गुरुर्यस्य न तुष्टो वै तस्माद्दूरतरो ह्ययम् ॥
य एतेन विधानेन कुर्यात्संस्थापनं मम ॥ २१ ॥
तारितं च कुलं तेन नवभिः सप्तविंशतिः ॥
एतत्ते कथितं भद्रे ताम्रार्च्चास्थापनं मम ॥ २२ ॥
कथयिष्यामि ते ह्येवं कार्त्स्न्येन प्रतिमार्च्चनम् ॥
जलस्य बिन्दवो यावन्मम स्नाने च सुन्दरि ॥
तावद्वर्षसहस्राणि मम लोके महीयते ॥ २३ ॥
इति श्रीवराहपुराणे ताम्रार्चास्थापनं नाम चतुरशीत्यधिकशततमोऽध्यायः ॥ १८४ ॥