१८२

अथ शैलार्च्चास्थापनम् ॥
श्रीवराह उवाच ॥
पुनरन्यत्प्रवक्ष्यामि तच्छृणुष्व वसुन्धरे ॥
यथा तिष्ठामि शैलेषु प्रतिमायामितस्ततः ॥ १ ॥
सुरूपां च शिलां दृष्ट्वा निःशल्यां सुपरीक्षिताम् ॥
तत्र दक्षं रूपकारं शीघ्रं च विनियोजयेत् ॥ २ ॥
शीघ्रमालिख्य तं तत्र श्वेतवर्तिकया नरः ॥
प्रदक्षिणां ततः कृत्वा पूजयेदक्षतादिभिः ॥ ३ ॥
दीपकं च ततो दद्याद्बलिं दध्योदनेन च ॥
नमो नारायणायेति उक्त्वा मन्त्रमुदीरयेत् ॥ ४ ॥
मन्त्रः-
योऽसौ भवान्सर्वजनप्रवीरः सोमाग्नितेजाः सुमतिप्रधानः ॥
एतेन मन्त्रेण तु वासुदेव प्रतिष्ठितो वर्द्धय कीर्त्तिराशिम् ॥ ५ ॥
प्रवर अयुतवराह जय जय वर्द्धस्व ॥
अनेनैव तु मन्त्रेण कर्त्तव्यं यस्य यादृशम् ॥
एवंरूपं ततः कृत्वा देवं नारायणं प्रभुम् ॥ ६ ॥
ततो वै स्थापयेत्तत्र पूर्वाभिमुखमेव तु ॥
अहोरात्रमुषित्वैवं शुक्लवस्त्रेण भूषितः ॥ ७ ॥
शुक्लयज्ञोपवीती च कृत्वा वै दन्तधावनम् ॥
सर्वगन्धोदकं गृह्य इमं मन्त्रमुदाहरेत्॥८॥
मन्त्रः –
योऽसौ भवांस्तिष्ठति सर्वरूपं मायाबलं सर्वजगत्स्वरूपम् ॥
एतेन मन्त्रेण जगत्स्वरूप सम्पूजितस्तिष्ठसि लोकनाथ॥९॥
करणधारणप्रवध्यमुदाहरणमपराजितमजरामर ॥
सम्पूज्य स्नापयात्मानमनेन मन्त्रेण ॐ नमो वासुदेवाय ॥
एवं तु स्थापनं कृत्वा शिलायां मम सुन्दरि ॥
ततो ऽधिवासनं कार्यं पूर्वप्रोष्ठपदासु च ॥ 182.१० ॥
यो मां संस्थापयेद्भूमे मम कर्मपरायणः ॥
स याति वैष्णवं लोकं नात्र कार्या विचारणा ॥ ११ ॥
यावकं पायसं भुक्त्वा अहोरात्रं समापयेत् ॥
ततः पश्चिमसन्ध्यायां दद्याच्चत्वारि दीपकान्॥१२॥
पञ्चगव्यं च गन्धं च वारिणा सह मिश्रयेत् ॥
चतुरः कलशांश्चैव स्थापयेत्पादमूलतः ॥ १३ ॥
गीतवादित्रघोषेण उत्सवं तत्र कारयेत् ॥
ब्राह्मणैः सामगैस्तत्र वेदघोषं तु कारयेत् ॥ १४ ॥
ब्रह्माक्षरसहस्राणि पठतां ब्रह्मवादिनाम् ॥
येषां पठितशब्देन शुभगीतस्वरेण च ॥ १५ ॥
आगमिष्याम्यहं देवि मन्त्रपाठो मम प्रियः ॥
निःशब्दं च ततः कृत्वा स्थाप्यो भागवतैः सह ॥३५॥
पुनरावाहनं कुर्यान्मन्त्रेणानेन सुव्रतः ॥
आगच्छ हे देव सुमन्त्रयुक्तः पञ्चेन्द्रियैः षट्सु तथा प्रधानः ॥१७॥
एतेषु भूतेषु च संविधाता आवासितस्तिष्ठति लोकनाथ ॥ १८ ॥
अनेनैव तु मन्त्रेण समित्तिलघृतेन च ॥
मधुना चैव होतव्यमष्टोत्तरशताहुतीः ॥ १९ ॥
एवं कृते विधाने भवामि सन्निहितः स्वयम् ॥
व्यतीतायां तु शर्वर्यां प्रभाते विमले ततः॥182.२० ॥
पञ्चगव्यं तत प्राश्य मन्त्रेण विधिपूर्वकम् ॥
सर्वगन्धैश्च लाजैश्च पञ्चगव्यजलं तथा ॥ २१ ॥
ततः प्रासादे स्थाप्योऽहं गीतवादित्रमङ्गलैः ॥
सर्वगन्धांस्ततो गृह्य इमं मन्त्रमुदाहरेत् ॥ २२ ॥
मन्त्रश्च -
योऽसौ भवाल्ँलक्षणलक्षितश्च लक्ष्म्या च युक्तः सततं पुराणः ॥
अत्र प्रासादे सुसमिद्धतेजाः प्रवेशमायाहि नमो नमस्ते ॥२३॥
तत एतेन मन्त्रेण प्रासादं सम्प्रवेशयेत् ॥
प्रतिमा स्थापितव्या मे मध्ये न तु विपार्श्वतः ॥ २४ ॥
एवं संस्थापनं कृत्वा दद्यादुद्वर्त्तनं विभोः ॥
चन्दनं कुङ्कुमं चैव मिश्रं कालेयकेन च ॥२५॥
एवं चोद्वर्त्तनं कृत्वा इमं मन्त्रमुदाहरेत् ॥
योऽसौ भवान्सर्वजगत्प्रधानः सम्पूजितो ब्रह्मबृहस्पतिभ्याम् ॥
प्रवन्दितः कारणं मन्त्रयुक्तः सुस्वागतं तिष्ठ सुलोकनाथ ॥ २६ ॥
एवं संस्थापनं कृत्वा गन्धमाल्यैश्च पूजयेत् ॥
शुक्लवस्त्राणि मे दद्यादिमं मन्त्रमुदाहरेत् ॥ २७ ॥
मन्त्रः-
वस्त्राणि देवेश गृहाण तानि मया सुभक्त्या रचितानि यानि ॥
इमानि सन्धारय विश्वमूर्त्ते प्रसीद मह्यं च नमो नमस्ते ॥२८॥
एवं वस्त्राणि मे दद्याद्विधिदृष्टेन कर्मणा ॥
धूपनं मे ततो दद्यात्कुङ्कुमागुरुमिश्रितम् ॥
एवं च धूपनं दद्यादिमं मन्त्रमुदीरयेत् ॥ २९ ॥
मन्त्रः –
असावनादिः पुरुषः पुराणो नारायणः सर्वजगत् प्रधानः ॥
गन्धं च माल्यानि च धूप दीपौ गृहाण देवेश नमो नमस्ते ॥ 182.३० ॥
एवं पूजां ततः कृत्वा प्रापणं च निवेदयेत् ॥
पूर्वोक्तेन विधानेन प्रापणं चोपकल्प्य च ॥ ३१ ॥
पूर्वोक्तेनैव मन्त्रेण दद्यात्प्रापणकं बुधः ॥
प्रापणान्ते चाचमनं दद्याद्देहविशुद्धये ॥ ३२॥
शान्तिजापस्ततः कार्यः सर्वकार्यार्थसिद्धिदः ॥
मन्त्रः-
त्वं वै सुशान्तिं कुरु लोकनाथ राज्ञः सराष्ट्रस्य च ब्राह्मणानाम् ॥
बालेषु वृद्धेषु गवाङ्गणेषु कन्यासु शान्तिं च पतिव्रतासु ॥ ३३ ॥
रोगा विनश्यन्तु च सर्वतश्च कृषीवलानां च कृषिः सदा स्यात्॥
सुभिक्षयुक्ताश्च सदा हि लोकाः काले सुवृष्टिर्भविता च शान्तिः ॥३४॥
एवं विधिं ततः कृत्वा विधिदृष्टेन कर्मणा ॥
सम्पूज्य तत्र देवेशं ब्राह्मणान्भोजयेद्व्रती ॥ ३५ ॥
दीनानाथान्प्रतर्प्याथ यथाविभवशक्तितः ॥
य एतेन विधानेन कुर्यात्संस्थापनं मम ॥ ३६ ॥
यावन्तो मम गात्रेषु जायन्ते जलबिन्दवः ॥
तावद्वर्षसहस्राणि मम लोकेषु तिष्ठति ॥ ३७ ॥
यो मां संस्थापयेद्भूमे सर्वाहङ्कारवर्जितः ॥
तारितं च कुलं तेन सप्त सप्त च सप्ततिः ॥ ३८ ॥
एतत्ते कथितं भद्रे शैलिकास्थापनं मम ॥
धर्मसन्धारणार्थाय मम भक्त सुखाय च ॥ ३९ ॥
इति श्रीवराहपुराणे शैलार्चास्थापनं नाम द्व्यशीत्यधिकशततमोऽध्यायः ॥ १८२ ॥