धरण्युवाच ॥
तवापराधाद्देवेश वर्ज्योऽयं वैष्णवेन च ॥
विनापराधो मनुजः सापराधश्च जायते ॥ १ ॥
कर्मणाचरणेनैव करणेन जुगुप्सितः ॥
तच्च पूजाफलं सर्वं ज्ञायते तद्वदस्व मे ॥ २ ॥
श्रीवराह उवाच ॥
कर्मणा मनसा वाचा ये पापरुचयो जनाः ॥
भक्षणं दन्तकाष्ठस्य राजान्नस्य तु भोजनम् ॥ ३ ॥
मैथुनं शवसंस्पर्शं पुरीषोत्सर्गमेव च ॥
सूतक्युदक्याप्रेक्षा च स्पर्शनं मेहनं तथा ॥ ४ ॥
अभाष्य भाषणं चैव पिण्याकस्य च भक्षणम् ॥
रक्तपारक्यमलिनवस्त्रधारित्वनीलिजम् ॥ ५ ॥
गुरोश्चालीकनिर्बन्धः पतितान्नस्य भक्षणम् ॥
अभक्ष्य भक्षणं चैव तण्डुलीयविभीतकम् ॥ ६ ॥
अदानं तुवरान्नस्य जालपादवराकयोः ॥
भक्षणं देवतागारे सोपानत्कोपसर्पणम् ॥ ७ ॥
तथैव देव पूजायां निषिद्धकुसुमार्च्चनम् ॥
अनुत्तार्य च निर्माल्यं पूजा क्षीणान्धकारयोः ॥ ८ ॥
पानं सुराया देवस्य अन्धकारे प्रबोधनम् ॥
तावत्कर्मार्च्चने विष्णोरनमस्करणं तथा ॥ ९॥
अपराधास्त्रयस्त्रिंशत्समाख्याता मया धरे ॥
एभिर्युक्तस्तु पुरुषो विष्णुं नैव प्रपश्यति ॥ 179.१० ॥
दूरस्थो न नमस्कारं कुर्यात्पूजा तु राक्षसी॥
एकरात्रं द्विरात्रं वा त्रिरात्रं स्नानमेव च ॥
सवासाः पञ्चगव्याशी मलसंवस्त्रकं क्रमात् ॥॥॥
नीलीरक्षापनोदार्थं गोमयेन प्रघर्षणम् ॥
प्राजापत्येन शुद्धिः स्यान्नीलीवस्त्रस्य धारणात् ॥ १२ ॥
चान्द्रायणद्वयं कुर्याद्गुरोः क्षयितमुत्तमम् ॥
चान्द्रायणं पराकं च पतितान्नस्य भक्षणात् ॥ १३ ॥
चान्द्रायणं पराकं च प्राजापत्यं तथैव च ॥
गोप्रदानं च भोज्यं च अभक्षस्य च भक्षणे ॥ १४ ॥
उपवासस्तु पञ्चाहं पञ्चगव्येन शुद्ध्यति॥
सोपानत्कश्चरेत्पाद कृच्छ्रस्य द्विरभोजनम् ॥१५॥
पुष्पाभावेऽर्च्चनं स्नानं देवस्पर्शं च कारयन् ॥
अनिर्माल्यनमस्कारं स्नानं पञ्चामृतेन तु ॥ १६ ।
सुरापाने द्विजातीनां चान्द्रायणचतुष्टयम् ॥
तथैव द्वादशाब्दं तु प्राजापत्यत्रयं चरेत् ॥ १७ ॥
ब्रह्मकूर्च्चेन शुद्धिः स्याद्गोप्रदानत्रयेण च ॥
त्रयाणामेकरात्रेण पञ्चामृतनिषेवणात् ॥ १८ ॥
मुच्यते त्वपराधैस्तु तथा विष्णोः स्तवं पठन् ॥
एतत्ते कथितं गुह्यं किमन्यच्छ्रोतुमिच्छसि ॥ १९ ॥
पुनः पुनरुवाचेदं देवदेवो जनार्दनः ॥
मोहङ्गता तु शृणुते नष्टसञ्ज्ञेव लक्ष्यते ॥ 179.२० ॥
मुहुर्त्तमात्रे सा देवी सञ्ज्ञां प्राप्येदमब्रवीत् ॥
अपराधे कृते देव सूतकी हि प्रजायते ॥ २१ ॥
प्रायश्चित्तानि भूरीणि कृतानि तु नरैः सदा ॥
तेन मे मनसो मोहः दुःखदो यः समभ्ययात् ॥ २२ ॥
अस्ति कश्चिदुपायोऽत्र येन त्वं नृषु तुष्यसि ॥
पूजितः सफलश्चासि अपराधविशोधनम् ॥ २३ ॥
श्रीवराह उवाच ॥
संवत्सरस्य मध्ये तु तीर्थे सौकरवे मम ॥
कृतोपवासः स्नानेन गङ्गायां शुद्धिमाप्नुयात् ॥ २४ ॥
मथुरायां तथाप्येवं सापराधः शुचिर्भवेत् ॥
अनयोस्तीर्थयोरेवं यः सेवेत सकृन्नरः ॥ २५ ॥
सहस्रजन्मसु कृतानपराधाञ्जहाति सः ॥
स्नानात्पानात्तथा ध्यानात्कीर्त्तनाद्धारणात्तथा ॥२६।
श्रवणान्मननाच्चैव दर्शनाद्याति पातकम् ॥
पृथिव्युवाच ॥
मथुरा सूकरं चैव द्वावेतौ तव वल्लभौ ॥ २७ ॥
विशिष्टमनयोः किं च सत्यं ब्रूहि सुरेश्वर ॥
श्रीवराह उवाच ॥
पृथिव्यां यानि तीर्थानि आसमुद्रसरांसि च ॥ २८ ॥
कुब्जाम्रकं प्रशंसन्ति सदा मद्भावभाविताः ॥
तस्मात्कोटिगुणं गुह्यं सौकरतीर्थमुत्तमम् ॥२९॥
एकाहं मार्गशीर्ष्यां च द्वादश्यां सितवैष्णवम् ॥
गङ्गासागरिकं नाम पुराणेषु च पठ्यते ॥179.३० ॥
गुह्याद्गुह्यतरं पुण्यं माथुरं मम मण्डलम् ॥
फलं परार्द्धगुणितं सिततीर्थान्न संशयः ॥ ३१ ॥
अटित्वा सर्वतीर्थानि कुब्जाम्रादीनि नित्यशः ॥
अघं विनश्यते क्षिप्रं मथुरामागतस्य च ॥ ३२ ॥
विश्रमणाच्च विश्रान्तिस्तेन सञ्ज्ञा वरा मम ॥
सारात्सारतरं स्नानं गुह्यानां गुह्यमुत्तमम् ॥ ३३ ॥
गतिरन्वेषणीयानां मथुरा परमा गतिः ॥
कुब्जाम्रके सौकरे च मथुरायां विशेषतः ॥ ३४ ॥
विना साङ्ख्येन योगेन मुच्यते नात्र संशयः ॥
या गतिर्योगयुक्तस्य ब्राह्मणस्य मनीषिणः ॥ ३५ ॥
सा गतिस्त्यजतः प्राणान्मथुरायां न संशयः ॥
एतत्ते कथितं सारं मया सत्येन सुव्रते ॥
न तीर्थं मथुराया हि न देवः केशवात्परः ॥ ३६ ॥
इति श्रीवराहपुराणे मथुरामाहात्म्ये अपराधप्रायश्चित्तमाहात्म्यं नाम ऊनाशीत्यधिकशततमोऽध्यायः॥१७९॥